(Video) Bhoja’s ChampuRamayanam – Sundarakandam – Vidhya Ramesh2

This is Part 2. For Part 1, refer https://nivedita2015.wordpress.com/sanskrit-kavyas/video-bhojas-champuramayanam-sundarakandam-vidhya-ramesh/

भोजचम्पूरामायणम् – सुन्दरकाण्डम् – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै |
King Bhoja’s Champu-Ramayanam – Sundarakandam– Weekly online classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai. This post https://nivedita2015.wordpress.com/sanskrit-kavyas/video-bhojas-champuramayanam-sundarakandam-vidhya-ramesh/ and https://nivedita2015.wordpress.com/sanskrit-kavyas/video-bhojas-champuramayanam-sundarakandam-vidhya-ramesh2  contain the detailed notes of the shlokas covered in the sessions. Here is the material in a word document that you can download for offline reading.

—–

Downloads

Part 1 –

PDF – Bhoja Raja_s Champu Ramayanam – Balakanda – Anvaya Part 1

Document – Bhoja Raja_s Champu Ramayanam – Balakanda – Anvaya Part 1

Part 2 –

PDF  – Bhoja Raja_s Champu Ramayanam – Sundarakanda – Anvaya Part 2

Document- Bhoja Raja_s Champu Ramayanam – Sundarakanda – Anvaya Part 2

————

Given below is the notes for Part 2 from shloka 59. Refer https://nivedita2015.wordpress.com/sanskrit-kavyas/video-bhojas-champuramayanam-sundarakandam-vidhya-ramesh  for Part 1.

भोजचम्पूरामायणम् श्रीः अथ सुन्दरकाण्डम्

9-Aug-2018

  1. श्लोकः

मूलपाठः

आदौ नीलांशुकश्रीस्तदनु मरकताबद्धनीवीविभूतिः

कस्तूरीपङ्कभङ्गी क्षणमपि विकचेन्दीवरस्रक्सपत्नी ।

पश्चात्स्निग्धाञ्जनाभा जघनकुचकटीकण्ठनेत्रेषु जाता

दिक्कान्तानां तदानीं दशमुखनगरीदाहसंभूतधूम्या ॥ ५९ ॥

पदच्छेदः

आदौ, नीलांशुकश्रीः, तदनु, मरकताबद्ध-नीवी-विभूतिः, कस्तूरी-पङ्क-भङ्गी, क्षणमपि, विकचेन्दीवर-स्रक्सपत्नी ,पश्चात्, स्निग्धाञ्जनाभा, जघन-कुच-कटी-कण्ठ-नेत्रेषु,जाता, दिक्कान्तानाम्, तदानीम्, दशमुख-नगरी-दाहसंभूत-धूम्या ।

प्रतिपदार्थः

  • आदौ = प्रथमम्
  • नीलांशुकश्रीः = नीलवस्त्रस्य शोभामापन्ना
  • तदनु = पश्चात्
  • मरकताबद्धनीवीविभूतिः = मरकतमणिभिः खचितमेखलायाः कान्तियुता
  • कस्तूरी-पङ्क-भङ्गी = मृगद्रव्यलेपस्य परिपाटी
  • क्षणमपि = क्षणमात्रम्
  • विकचेन्दीवर-स्रक्सपत्नी = विकसित-नीलकमल-माला सदृशी
  • पश्चात् = ततः
  • स्निग्धाञ्जनाभा = मसृणकज्जलकान्तेः सदृशी कान्तिमती
  • जघन-कुच-कटी-कण्ठ-नेत्रेषु जाता = तत्तदवयवेषु सञ्जाता
  • दिक्कान्तानाम् = दिगङ्गनानाम्
  • तदानीम् = तस्मिन् समये
  • दशमुख-नगरी-दाहसंभूत-धूम्या = लङ्कादहनात् उत्पन्नधूम्या

आकाङ्क्षा

  • जाता (आसीत्)
    • का जाता ? दशमुख-नगरी-दाहसंभूत-धूम्या
      • केषु (अवयवेषु) ? जघन-कुच-कटी-कण्ठ-नेत्रेषु
        • कासाम् जघन-कुच-कटी-कण्ठ-नेत्रेषु ? दिक्कान्तानाम्
      • कदा जाता ? तदानीम्
      • कथम्भूता जाता ? आदौ नीलांशुकश्रीः
      • पुनः कथम्भूता जाता ? तदनु मरकताबद्धनीवीविभूतिः
      • पुनः कथम्भूता जाता ? (पश्चात्) मृगद्रव्यलेपस्य परिपाटी
      • पुनः कथम्भूता जाता ? क्षणमपि विकचेन्दीवर-स्रक्सपत्नी
      • पुनः कथम्भूता जाता ? पश्चात् मृगद्रव्यलेपस्य परिपाटी

अन्वयः

तदानीं दशमुखनगरीदाहसंभूतधूम्या दिक्कान्तानां जघन-कुच-कटी-कण्ठ-नेत्रेषु आदौ नीलांशुकश्रीः तदनु मरकताबद्धनीवीविभूतिः पश्चात् कस्तूरीपङ्कभङ्गी क्षणमपिविकचेन्दीवर-स्रक्सपत्नी पश्चात् स्निग्धाञ्जनाभा जाता ।

भावार्थः

हनूमता दह्यमानायाः लङ्कायाः उत्थिता धूमसंहतिः ऊर्ध्वमुखी सती दिशि दिशि प्रसरति । एवं उपरि उत्थीयमानया अनया धूम्यया दिगङ्गनानां जघन-कटि-कुच-कण्ठ-नयनयुगले क्रमशः नीलवसनस्य मरकतखचितमेखलायाः कस्तूरीलेपस्य विकसितेन्दीवरमालायाः तथा कज्जलस्य इव शोभा विधीयते ।

व्याकरणम्

  • जाता = जन् “जनीँ प्रादुर्भावे” + क्त, स्त्री., प्र.वि., ए.व.
  • विकचेन्दीवर-स्रक्सपत्नी = सपत्नीपदम् अत्र सादृश्यवाचकम् । ‘ज्ञातिसोदरबन्ध्वादिशब्दाः सादृश्यवाचकाः’ ।
  • दशमुखनगरीदाहसंभूतधूम्या
    • सम्भूता धूम्या = सम्भूतधूम्या
    • दश मुखानि यस्य सः = दशमुखः
    • दशमुखनगरी = दशमुखस्य नगरी ।
    • दशमुखनगरीदाहः = दशमुखनगर्याः दाहः ।
    • दशमुखनगरीदाहात् सम्भूतधूम्या
  • दिक्कान्तानाम् = दिशः एव कान्ताः दिक्कान्ताः, तासाम्
  • जघन-कुच-कटी-कण्ठ-नेत्रेषु = जघनश्च कुचौ च कटिः च कण्ठः च नेत्रे च जघनकुचकटीकण्ठनेत्राणि, तेषु
  • नीलांशुकश्रीः
    • नीलम् अंशुकम् = नीलांशुकम् ।
    • नीलांशुकश्रीः = नीलांशुकस्य श्रीरिव श्रीः यस्याः सा तथोक्ता
  • मरकताबद्धनीवीविभूतिः
    • मरकतैः आबद्धा = मरकताबद्धा
    • मरकताबद्धा नीवी = मरकताबद्धनीवी
    • मरकताबद्धनीवीविभूतिः = मरकताबद्धनीव्याः विभूतिः इव विभूतिर्यस्याः सा तथोक्ता
  • कस्तूरीपङ्कभङ्गी
    • कस्तूरी एव पङ्कः = कस्तूरीपङ्कः
    • कस्तूरीपङ्कभङ्गी = कस्तूरीपङ्कस्य भङ्गी इव भङ्गी यस्याः साः
  • विकचेन्दीवर-स्रक्सपत्नी
    • विकचाः इन्दीवराः = विकचेन्दीवराः
    • विकचेन्दीवरणां स्रक् = विकचेन्दीवरस्रक्
    • विकचेन्दीवर-स्रक्सपत्नी = विकचेन्दीवरस्रजा सपत्नी (सदृशी)
  • स्निग्धाञ्जनाभा
    • स्निग्धम् अञ्जनम् = स्निग्धाञ्जनम्
    • स्निग्धाञ्जनाभा = स्निग्धाञ्जनस्य आभा इव आभा यस्याः सा

रामायणप्रसङ्गः

  • तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः ।

निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरेऽभ्राः ॥ ३५/५४

Word-Meaning

  • तदानीम् = At that moment
  • दशमुख-नगरी-दाह-संभूत-धूम्या = the thick smoke (धूम्या) that arose (संभूत) out of the fire that was burning (दाह) the city (नगरी) of Ravana (दशमुख)
  • जाता = became or created
    • आदौ = firstly
      • नीलांशुकश्रीः = the splendor (श्री) of a black (नील) cloth (अंशुक)
    • तदनु = after that
      • मरकताबद्धनीवीविभूतिः = the grandeur (विभूति) of the waist-band (नीवी) that is engraved (आबद्ध) with the sapphire gems (मरकत)
    • कस्तूरी-पङ्क-भङ्गी = the manner (भङ्गी) of the muddy (पङ्क) musk (कस्तूरी)
    • क्षणमपि = even just for a minute
      • विकचेन्दीवर-स्रक्सपत्नी = similar (सपत्नी) to the garland (स्रक्) of the blossomed (विकच) Neelotpala or Indeevara flower (इन्दीवर)
    • पश्चात् = then
      • स्निग्धाञ्जनाभा = the glamour (आभा) of the viscous and soft (स्निग्ध) eye-lotion (अञ्जन)
    • जघन-कुच-कटी-कण्ठ-नेत्रेषु = in the hip (जघन), waist (कुच), breast (कटी), neck (कण्ठ) and eyes (नेत्र)
      • दिक्कान्तानाम् = of the maidens (कान्ता) associated with the directions (दिक्)
  1. श्लोकः

मूलपाठः

हा तात हा जननि हा सुत हा सहाय

हा पौत्र हा प्रियसखि क्व नु हा हतोस्मि ।

इत्यादि पौरपरिदेवनभारवाग्भि –

रापूरि रावणपुरी शिखिना परीता ॥६०॥

पदच्छेदः

हा, तात, हा, जननि, हा, सुत, हा, सहाय, हा, पौत्र, हा, प्रियसखि, क्व, नु, हा, हतः अस्मि, इत्यादि, पौर-परिदेवन-भारवाग्भिः आपूरि, रावणपुरी, शिखिना, परीता ।

प्रतिपदार्थः

  • हा तात = हा पितः
  • हा जननि = हा मातः
  • हा सुत = हा पुत्र
  • हा सयाय = हा सखे
  • हा पौत्र = हा पौत्र
  • हा प्रियसखि = हा भार्ये
  • क्व नु = कुत्र असि
  • हा हतोऽस्मि = हा नष्टोऽस्मि
  • इत्यादि-पौर-परिदेवन-भारवाग्भिः = इतियादिभिः पुरजनानां विलपनभरितवचनैः
  • आपूरि = पूरिता
  • रावणपुरी = लङ्का
  • शिखिना = अग्निना
  • परीता = व्याप्ता

आकाङ्क्षा

  • आपूरि (आपूर्यते स्म)
    • काभिः आपूरि ? इत्यादिपौरपरिदेवनभारवाग्भिः
      • काभिः वाग्भिः ? हा तात, हा जननि, हा सुत, हा सहाय, हा पौत्र, हा प्रियसखि, क्व नु, हा हतोऽस्मि (इति)
    • का आपूरि ? रावणपुरी
      • कीदृशी रावणपुरी ? परीता
        • केन परीता रावणपुरी ? शिखिना

अन्वयः

शिखिना परीता रावणपुरी हा तात, हा जननि, हा सुत, हा सहाय, हा पौत्र, हा प्रियसखि, क्व नु, हा हतोऽस्मि, इत्यादि-पौर-परिदेवन-भारवाग्भिः आपूरि ।

भावार्थः

वेगेन प्रस्रियमाणेन वह्निना व्याप्ता लङ्का पुरजनानां ‘हा तात, हा जननि, हा सुत, हा सहाय, हा पौत्र, हा प्रियसखि, क्व नु, हा हतोऽस्मि’ इति शोकक्रन्दनेन पूरिता अभवत् ।

व्याकरणम्

  • आपूरि = आ + पृ “पृ पालनपूरणयोः” / पृ “पृ पूरणे” कर्मणि लुङ्. प्र.पु., ए.व.
  • परीता = परि + इ “इण् गतौ” + क्त, स्त्री., प्र.वि., ए.व.
  • पौरपरिदेवनभारवाग्भिः
    • भारयुक्ताः वाचः = भारवाचः
    • पुरस्य इमे = पौराः
    • परिदेवनभारवाचः = परिदेवनेन भारवाचः
    • पौरपरिदेवनभारवाग्भिः = पौराणां परिदेवनभारवाचः, पौरपरिदेवनभारवाचः ताभिः

रामायणप्रसङ्गः

  • हा तात ह पुत्रक कान्तमित्र ।

हा जीवितेशाङ्ग हतं सुपुण्यम् ।

रक्षोभिरेवं बहुधा ब्रुवद्भिः

शब्दः कृतो घोरतरः सुभीमः ॥ ४०/५४

  • वर्जयित्वा महातेजा विभीषणगृहं प्रति ।

क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ॥ १६/५४

  • नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा । २८/५४
  • हनूमान् राक्षसेन्द्राणां वधे किञ्चिन्न तृप्यति ।

न हनूमद्विशस्तानां राक्षसानां वसुन्धरा ॥ २९/५४

Word-Meaning

  • रावणपुरी = Lanka, Ravana’s city
    • परीता = that which is surrounded
      • शिखिना = by the fire
    • आपूरि = was filled
    • इत्यादि-पौर-परिदेवन-भार-वाग्भिः = with the words (वाक्) weighing down with (भार) the lamentations (परिदेवना) of the citizens (पौर), like these (इत्यादि)
      • हा तात = Oh! My father!
      • हा जननि = Oh! My mother!
      • हा सुत = Oh! My son!
      • हा सयाय = Oh! My friend!
      • हा पौत्र = Oh! My grandson!
      • हा प्रियसखि = Oh! My beloved friend / wife!
      • क्व नु = where are you?
      • हा हतोऽस्मि = Oh! I am (अस्मद्) lost (हत)
  1. श्लोकः

मूलपाठः

यैर्वृन्दारकसुन्दरीजनमुखे नीराजनं निर्मितं

निर्मेघे गगनेऽपि यैर्विरचिता सौदामिनीसंहतिः ।

ते द्वित्राण्यपि वासराणि न गता निर्वाणमौर्वानल –

ज्वालाडम्बरमम्बुधौ विदधिरे वालानलोद्यत्कणाः ॥ ६१ ॥

पदच्छेदः

यैः, वृन्दारक-सुन्दरी-जनमुखे, नीराजनम्, निर्मितम्, निर्मेघे, गगने, अपि, यैः, विरचिता, सौदामिनी-संहतिः, ते, द्वित्राणि, अपि, वासराणि, न, गताः, निर्वाणम्, और्वानल-ज्वालाडम्बरम्, अम्बुधौ विदधिरे, वालानलोद्यत्कणाः।

प्रतिपदार्थः

  • यैः = यैः (अग्निकणैः)
  • वृन्दारक-सुन्दरी-जनमुखे = सुरलोककन्यावृन्दस्य पुरतः
  • नीराजनं निर्मितम् = आरात्रिकं कृतम्
  • निर्मेघे गगने अपि = मेघरहिते नभसि अपि
  • यैः = यैः (अग्निकणैः)
  • विरचिता सौदामिनी-संहतिः = कृता विद्युल्लेखाश्रेणिः
  • ते = ते अग्निकणाः
  • द्वित्राणि अपि वासराणि = द्वित्रदिनानि यावत् अपि
  • न गताः निर्वाणम् = न प्राप्ताः उपशमनदशाम्
  • और्वानल-ज्वालाडम्बरम् = वाडवाग्नेः प्रभापुञ्जशोभाम्
  • अम्बुधौ = समुद्रे
  • विदधिरे = चक्रिरे
  • वालानलोद्यत्कणाः = हनूमत्पुच्छाग्नितः उत्थिताः स्फुलिङ्गाः

आकाङ्क्षा

  • विदधिरे
    • कुत्र विदधिरे ? अम्बुधौ
    • किं विदधिरे ? और्वानल-ज्वालाडम्बरम्
    • के विदधिरे ? ते वालानलोद्यत्कणाः
      • कथं सन्तः ते ? न गताः (सन्तः)
        • किं अवस्थां न गताः ? निर्वाणम्
        • कियत् कालं न गताः? वासराणि
          • कति वासराणि ? द्वित्राणि अपि
        • पुनः कीदृशे ते ? यैः निर्मितम् (अभवत्)
          • किं निर्मितम् ? नीराजनम्
          • कुत्र निर्मितम् ? वृन्दारकसुन्दरीजनमुखे
        • पुनः कीदृशे ते ? यैः विरचिता (आसीत्)
          • का विरचिता ? सौदामिनी-संहतिः
          • कुत्र विरचिता ? गगने अपि
            • कीदृशे गगने अपि ? निर्मेघे

अन्वयः

यैः वृन्दारकसुन्दरीजनमुखे नीराजनं निर्मितम् (अभवत्), यैः निर्मेघे गगने अपि सौदामिनी-संहतिः विरचिता, ते वालानलोद्यत्कणाः द्वित्राणि अपि वासराणि निर्वाणं न गताः (सन्तः) और्वानल-ज्वालाडम्बरं अम्बुधौ विदधिरे ।

भावार्थः

ये हनूमत्पुच्छानलोत्थितस्फुलिङ्गाः सुराङ्गनानां मुखाग्रे शुभकालसूचकतया नीराजनस्य रूपं धृतवन्तः, ये पुनः मेघविहीने वियति सान्द्रां विद्युत्प्रभां रचितवन्तः ते द्वित्राणि दिनान्यावदपि उपशमनदशां न गताः। ते अग्निस्फुलिङ्गाः समुद्रे वडवाग्निशोभां प्राप्नुवन् ।

व्याकरणम्

  • वृन्दारक-सुन्दरी-जनमुखे
    • प्रशस्तं वृन्दं येषां ते = वृन्दारकाः (पुं) – देवताः
    • वृन्दारकाणां सुन्दर्यः = वृन्दारकसुन्दर्यः
    • वृन्दारकसुन्दर्यः इति जनाः = वृन्दारकसुन्दरीजनाः
    • वृन्दारक-सुन्दरी-जनमुखे = वृन्दारकसुन्दरीजनानां मुखम्, वृन्दारकसुन्दरीजनमुखम्, तस्मिन्
  • निर्मेघे = निर्गताः मेघाः यस्मात् तत् निर्मेघम्, तस्मिन्
  • सौदामिनी-संहतिः = सौदामिन्याः संहतिः
  • और्वानलज्वालाडम्बरम्
    • उर्व्याः अयम् = और्वः
    • और्वः अनलः = और्वानलः
    • और्वानलस्य ज्वालाः = और्वानलज्वालाः
    • और्वानलज्वालाडम्बरम् = और्वानलज्वालानां डम्बरः, और्वानलज्वालाडम्बरः, तम्
  • अम्बुधौ = अम्बूनि धीयन्तेऽस्मिन् इति अम्बुधिः, तस्मिन्
  • वालानलोद्यत्कणाः
    • वालस्य अनलः = वालानलः
    • उद्यतः कणाः = उद्यत्कणाः
    • वालानलोद्यत्कणाः = वालानलात् उद्यत्कणाः
  • विदधिरे = वि + धा “डुधाञ् धारणपोषणयोः”, उ.प., अत्र आत्मनेपदम्, लिट्, प्र.पु, ब.व. | दधे दधाते दधिरे

रामायणप्रसङ्गः

  • वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद् यमो वा वरुणोऽनिलो वा ।

रौद्रोऽग्निरर्को धनदश्च सोमो न वानरोऽयं स्वयमेव कालः ॥

  • किं ब्रह्मणः सर्वपितामहस्य लोकस्य धातुश्चतुराननस्य ।

इहागतो वानररूपधारी रक्षोपसंहारकरः प्रकोपः ॥

  • किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः ।

अचिन्त्यमव्यक्तमनन्तमेकं स्वमायया साम्प्रतमागतं वा ॥

  • इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे ।

सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ॥ ३८/५४

Word-Meaning

  • यैः = by whom, i.e., by the sparks of fire
    • नीराजनं निर्मितम् = Aarthi (नीराजन) (i.e., waving of the camphor flame) was done (निर्मित)
      • वृन्दारक-सुन्दरी-जनमुखे = in front of the beautiful ladies (सुन्दरी-जन) of the Devas (वृन्दारक)
    • यैः = by whom, i.e., by the sparks of fire
      • विरचिता सौदामिनी-संहतिः = was created (विरचित) a series (संहति) of lightening (सौदामिनी)
        • निर्मेघे गगने अपि = even (अपि) in the sky that was devoid of clouds
      • ते = those, i.e., those sparks of fire
        • वालानलोद्यत्कणाः = the fire sparks (कण) that arose (उद्यत्) from the fire (अनल) in the tail (वाल) of Hanuman
        • न गताः निर्वाणम् = which had not (न) reached (गत) the state of being extinguished (निर्वाण)
          • द्वित्राणि अपि वासराणि = even (अपि) after two or three (द्वित्र) days (वासर)
        • विदधिरे = created
          • और्वानल-ज्वालाडम्बरम् = the immensity (आडम्बर) of the flames (ज्वाल) of the fire (अनल) of the submarine fire (और्व)
            • अम्बुधौ = in the ocean

23-Aug-2018

  1. श्लोकः

मूलपाठः

आदीप्यमानपवनात्मजवालसङ्गा –
दङ्गारशेषविभवामवलोक्य लङ्काम् ।

व्योम्नि स्थिता निशिचराः स्वगृहाणि नूनं
निर्वापयन्त इव नेत्रभवैः पयोभिः ॥ ६२ ॥

पदच्छेदः

आदीप्यमान-पवनात्मज-वाल-सङ्गात्, अङ्गार-शेष-विभवाम्, अवलोक्य, लङ्काम्, व्योम्नि, स्थिताः, निशिचराः, स्वगृहाणि, नूनम्, निर्वापयन्तः, इव, नेत्रभवैः, पयोभिः।

प्रतिपदार्थः

  • आदीप्यमान-पवनात्मज-वाल-सङ्गात् = दीपायितस्य हनूमत्पुच्छस्य सम्पर्कात्
  • अङ्गार-शेष-विभवाम् = यस्याः (लङ्कायाः) सकलविभवः दग्धः अतः या भस्मशेषा जाता, तादृशीं
  • अवलोक्य = वीक्ष्य
  • लङ्काम् = लङ्कापुरीम्
  • व्योम्नि = आकाशे
  • स्थिताः = वर्तमानाः
  • निशिचराः = राक्षसाः
  • स्वगृहाणि = स्वभवनानि
  • नूनं निर्वापयन्तः इव = प्रशमयन्तः इव किल
  • नेत्रभवैः पयोभिः = नेत्रे जातैः अश्रुजलैः

आकाङ्क्षा

  • (अलक्ष्यन्त) – अध्याहृतम्
    • के अलक्ष्यन्त ? निशिचराः
    • किं कुर्वन्तः इव अलक्ष्यन्त ? निर्वापयन्त इव
      • कानि निर्वापयन्तः ? स्वगृहाणि
      • कैः निर्वापयन्तः ? पयोभिः
        • कीदृशैः पयोभिः ? नेत्रभवैः
      • कीदृशाः निशिचराः ? स्थिताः
      • कुत्र स्थिताः ? व्योम्नि
      • किं कृत्वा व्योम्नि स्थिताः ? आलोक्य
      • काम् आलोक्य ? लङ्काम्
      • कीदृशीं लङ्काम् ? अङ्गारशेषविभवाम्
      • कस्मात् हेतोः ? आदीप्यमानपवनात्मजवालसङ्गात्

अन्वयः

आदीप्यमानपवनात्मजवालसङ्गात् अङ्गारशेषविभवां लङ्काम् आलोक्य निशिचराः नूनं व्योम्नि स्थिताः नेत्रभवैः पयोभिः (दह्यमानानि) स्वगृहाणि निर्वापयन्तः इव (अलक्ष्यन्त) ।

भावार्थः

यथा कश्चन अग्निना प्रदीप्तं स्वगृहं दूरस्थात् उच्चदेशात् जलपातनेन शमयति तथा हनूमता लङ्कायां दह्यमानायां राक्षसाः आकाशस्थाः एव (अग्नितापभयात्) अश्रुपातद्वारा स्व-स्वगृहतः उत्थिताः वह्निज्वालाः शमयन्तः इव प्रतीयन्ते स्म ।

व्याकरणम्

  • आदीप्यमानपवनात्मजवालसङ्गात्
    • पवनात्मजः = पवनस्य आत्मजः
    • पवनात्मजवालः = पवनात्मजस्य वालः
    • आदीप्यमानपवनात्मजवालः = आदीप्यमानः पवनात्मजवालः
    • आदीप्यमानपवनात्मजवालसङ्गात् = आदीप्यमानपवनात्मजवालस्य सङ्गः आदीप्यमानपवनात्मजवालसङ्गः, तस्मात्
  • अङ्गारशेषविभवाम्
    • अङ्गारशेषः = अङ्गारः एव शेषः यस्य (तादृशः विभवः)
    • अङ्गारशेषविभवाम् = अङ्गारशेषः विभवः यस्याः सा अङ्गारशेषविभवा, ताम्

अलङ्कारः

  • उत्प्रेक्षालङ्कारः

Word-Meaning

  • आदीप्यमान-पवनात्मज-वाल-सङ्गात् = due to the association with the burning (आदीप्यमान) tail of Hanuman (पवनात्मज), the son (आत्मज) of Vayu (पवन)
  • अङ्गार-शेष-विभवाम् = become one whose prosperity (विभव) has been reduced (शेष) to just ashes (अङ्गार)
  • अवलोक्य = upon seeing
  • लङ्काम् = the city of Lanka (लङ्का)
  • निशिचराः = the Rakshasaas
    • स्थिताः = those that were standing
      • व्योम्नि = in the sky (व्योमन्)
    • (अभावन्) = became
      • स्वगृहाणि नूनं निर्वापयन्तः इव = as though (इव) they were immediately (नून) putting the fire off (निर्वाप) their (स्व) houses (गृह)
        • नेत्रभवैः पयोभिः = with the water (पयस्) that were present (भव) in their eyes (नेत्र)
  1. श्लोकः

मूलपाठः

चक्रे शक्रजिदाज्ञया रणमुखे यत्कर्म रक्षोगण-
स्तत्कर्तुं क्षणदाचरक्षितिभुजा युक्तोऽप्यशक्तो भवेत् ।
सप्तार्चिश्च हनूमता परिचितो लङ्कामधाक्षीद्यथा
तत्पित्रा मरुता युतोऽपि न तथा दाहक्रियायां पटुः ॥
६३

पदच्छेदः

चक्रे शक्रजिदाज्ञया, रणमुखे, यत्, कर्म, रक्षोगणः, तत्, कर्तुम्, क्षणदाचरक्षितिभुजा, युक्तः, अपि, अशक्तः, भवेत्, सप्तार्चिः च, हनूमता, परिचितः, लङ्काम्, अधाक्षीत्, यथा, तत्पित्रा, मरुता, युतः, अपि, न, तथा, दाह-क्रियायाम्, पटुः ।

प्रतिपदार्थः

  • चक्रे = अकरोत्
  • शक्रजिदाज्ञया = रावणसुतस्य इन्द्रजितः आदेशेन
  • रणमुखे = सङ्ग्रामे
  • यत् कर्म = यादृशं कार्यम्
  • रक्षोगणः = राक्षससमूहः
  • तत् कर्तुम् = तादृशं (भीषणं कार्यं) कर्तुम्
  • क्षणदाचरक्षितिभुजा युक्तः अपि = राक्षेन्द्रेण रावणेन सहितः अपि
  • अशक्तः भवेत् = असमर्थः स्यात् ।
  • सप्तार्चिः च = अग्निः च
  • हनूमता परिचितः = वायुपुत्रेण प्रवर्तितः
  • लङ्काम् अधाक्षीत् यथा = यथा लङ्काम् अदहत्
  • तत्पित्रा मरुता युतः अपि = तत्पित्रा वायुना सह वर्तमानः अपि
  • तथा दाह-क्रियायाम् न पटुः = (अग्निः) तथा दहनकर्मणि समर्थः न भवेत् ।

आकाङ्क्षा

  • अशक्तः भवेत्
    • किं कर्तुम् अशक्तः भवेत् ? तत् कर्तुम्
      • किं तत् ? यत् कर्म चक्रे
      • केन एव चक्रे ? शक्रजिदाज्ञया (एव)
      • कुत्र चक्रे ? रणमुखे
    • के अशक्तः भवेत् ? रक्षोगणः
    • कीदृशः सन् अपि ते ? युक्तः अपि
      • केन युक्तः अपि ? क्षणदाचरक्षितिभुजा
    • न (भवेत्)
      • कीदृशः न (भवेत्) ? पटुः
      • कस्मिन् विषये न (भवेत्) ? दाहक्रियायाम्
      • कः न (भवेत्) ? सप्तार्चिः
      • कथं भूतः सन् अपि न (भवेत्) ? युतः अपि
        • केन युतः अपि ? तत्पित्रा
          • कीदृशेन तत्पित्रा ? मरुता
        • कथं न (भवेत्) ? यथा अधाक्षीत् तथा
          • काम् अधाक्षीत् ? लङ्काम्
          • कः अधाक्षीत् ? सप्तार्चिः
          • कथंभूतः सन् सप्तार्चिः ? परिचितः
            • केन परिचितः ? हनूमता

अन्वयः

रक्षोगणः शक्रजिदाज्ञया (एव) रणमुखे यत् कर्म चक्रे क्षणदाचरक्षितिभुजा युक्तः अपि तत् कर्तुम् अशक्तः भवेत् । यथा हनूमता परिचितः सप्तार्चिः लङ्काम् अधाक्षीत् तथा तत्पित्रा मरुता युतः अपि दाहक्रियायां (सः) पटुः न (भवेत्) ।

भावार्थः

राक्षसाः परोक्षतया स्थितस्य इन्द्रजितः आदेशमात्रेण यादृशं भयङ्करं युद्धम् अकुर्वन् तादृशं युद्धं रावणस्य प्रत्यक्षं रणभूम्याम् उपस्थित्या साहचर्येण चापि कर्तुं न शक्नुयुः । एवम् एव मारुतिना उद्दीपितायाः लङकायाः दहने वह्निः यथा समर्थः अभवत् तत्पित्रा मरुता समिद्धोऽपि स वह्निः लङ्कां तथा न अधक्ष्यत् । उभयत्रापि पित्रोः अपेक्षया पुत्रौ बलीयांसौ इति भावः ।

व्याकरणम्

  • चक्रे = कृ “कृञ् करणे”, लिट्., आत्मनेपदम्, प्र.पु., ए.व.
  • शक्रजिदाज्ञया
    • शक्रं जितवान् इति = शक्रजित् ।
    • शक्रजिदाज्ञया = शक्रजितः आज्ञा शक्रजिदाज्ञा, तया
  • शक्रजिदाज्ञया = रक्षोगणः – रक्षसां गणः
  • क्षणदाचरक्षितिभुजा
    • क्षणदायां चरन्ति इति = क्षणदाचराः
    • क्षितिं भुनक्ति इति = क्षितिभुक्
    • क्षणदाचरक्षितिभुजा = क्षणदाचराणां क्षितिभुक्, तेन
  • परिचितः = परि + चि “चिञ् चयने” + क्त, कर्मणि, वृद्ध्यर्थे भवति ।

अलङ्कारः

सम्बन्धेऽपु असम्बन्धरूपातिशयोक्तिः

Word-Meaning

  • यत् कर्म = That work which
    • रक्षोगणः = the gathering (गण) of Rakshasas (रक्षस्)
    • चक्रे = did
    • शक्रजिदाज्ञया = by the command (आज्ञा) of Indrajit, the conqueror (जित्) of Indra (शक्र)
    • रणमुखे = in the battlefield
  • अशक्तः भवेत् = they would be not (न) capable (शक्त)
    • तत् कर्तुम् = to do that work
      • क्षणदाचरक्षितिभुजा युक्तः अपि = even if they are endowed by Ravana, the king of the Rakshasas, [ Rakshasaas = those who move around (चर) in the night (क्षणदा), King = one who possesses or enjoys (भुक्) the land (क्षिति) ]
    • च = also
    • यथा = in the way
      • सप्तार्चिः = Agni, the god of fire
        • हनूमता परिचितः = being one who is roused (परिचित) by Hanuman (हनुमत्)
      • लङ्काम् अधाक्षीत् = burnt down Lanka (लङ्का)
    • तत्पित्रा मरुता युतः अपि = even (अपि) when accompanied (युत) by his (तत्) father (पितृ), Vayu (मरुत्)
      • तथा दाह-क्रियायां न पटुः = Agni is not (न) an expert (पटु) in the work (क्रिया) of burning down (दाह) in that way (तथा)
  1. श्लोकः

मूलपाठः

तस्मिन्हनूमदरणिप्रभवे हुताशे
शुद्धिं विधाय पतिमेव समेतुमैच्छत् ।

लङ्केश्वरेण रणकेलिकुतूहलेन
बाहोर्बलादपहृता सुरराजलक्ष्मीः ॥ ६४

पदच्छेदः

तस्मिन् हनूमदरणि-प्रभवे, हुताशे, शुद्धिम्, विधाय, पतिम्,एव, समेतुम्, ऐच्छत्, लङ्केश्वरेण, रण-केलि-कुतूहलेन, बाहोः, बलात्, अपहृता, सुरराजलक्ष्मीः।

प्रतिपदार्थः

  • तस्मिन् हनूमदरणि-प्रभवे हुताशे
    • अरणिः = अग्निमन्थनकाष्ठम्
    • हुताशः = अग्निः
    • आञ्जनेयरूपे अरणौ समुत्पन्ने वह्नौ तस्मिन्
  • शुद्धिं विधाय = आत्मानं विशोध्य
  • पतिम् एव = स्वस्वामिनम् इन्द्रम् एव
  • समेतुम् ऐच्छत् = उपयातुम् इष्टवती
  • लङ्केश्वरेण रण-केलि-कुतूहलेन = युद्धक्रीडासमुत्सुकेन रावणेन
  • बाहोः बलात् = भुजपराक्रमात्
  • अपहृता = अपनीता
  • सुरराजलक्ष्मीः = देवलोकस्य राज्यलक्ष्मीः

आकाङ्क्षा

  • ऐच्छत् ।
    • का ऐच्छत् ? सुरराजलक्ष्मीः
      • कीदृशी सुरराजलक्ष्मीः ? अपहृता
        • केन अपहृता ? लङ्केश्वरण
          • कीदृशेन लङ्केश्वरण ? रणकेलिकुतूहलेन
        • कथम् अपहृता ? बाहोः बलात्
      • किं कर्तुम् ऐच्छत् ? समेतुम्
      • कं समेतुम् ऐच्छत् ? पतिम् एव
      • किं कृत्वा ऐच्छत् ? शुद्धिं विधाय
        • कुत्र शुद्धिं विधाय ? हुताशे
          • कीदृशे हुताशे ? तस्मिन् हनूमदरणिप्रभवे

अन्वयः

रणकेलिकुतूहलेन लङ्केश्वरेण बाहोः बलात् अपहृता सुरराजलक्ष्मीः हनूमदरणिप्रभवे हुताशे शुद्धिं विधाय पतिम् एव समेतुम् ऐच्छत् ।

भावार्थः

पूर्वं युद्धे दुर्जेयेन रावणेन पराजितस्य इन्द्रस्य सकाशात् अपहृता लङ्कायां स्थापिता आसीत् सुरराजलक्ष्मीः ।

हनूमता कृतं लङ्कादहनं यद्यपि भीषणं तथापि तदधर्मनाशननिमित्तकम् । यथा यागाग्निः अरणितः उत्पाद्यते तथा अयम् अग्निरपि हनूमद्रूपारणितः जातः । तादृशे पावके आत्मानं विशोध्य संस्कृता सती स्वस्वामिनम् इन्द्रम् उपगन्तुम् ऐच्छत् सा सुरलोकलक्ष्मीः । अत्र रावणस्य पराजयः निश्चितः इति व्यङ्ग्यार्थः ।

व्याकरणम्

  • हनूमदरणिप्रभवे
    • हनूमदरणिः = हनूमान् एव अरणिः
    • प्रकर्षेण भवः = प्रभवः
    • हनूमदरणिप्रभवे = हनूमदरणौ प्रभवः, तस्मिन्
  • लङ्केश्वरेण = लङ्कायाः ईश्वरः लङ्केश्वरः, तेन
  • रण-केलि-कुतूहलेन
    • रणः एव केलिः = रणकेलिः
    • रणकेल्यां कुतूहलः यस्य सः रणकेलिकुतूहलः, तेन
  • ऐच्छत् = इष् “इषँ इच्छायाम्” लङ्., प्र.पु., ए.व.

Word-Meaning

  • सुरराजलक्ष्मीः = The Rajalakshmi (राजलक्ष्मी) of the Devas (सुर)
    • अपहृता = one who was seized (अप+हृ)
      • बाहोः बलात् = by the strength (बल) of the arms (बाहु)
      • रण-केलि-कुतूहलेन लङ्केश्वरेण = by Ravana (लङ्केश्वरे), the lord (ईश्वर) of Lanka (लङ्का), who has eagerness (कुतूहल) for the sport (केलि) in the form of battle (रण)
    • शुद्धिं विधाय = upon making (विधा) oneself pure (शुद्धि)
      • तस्मिन् हनूमदरणि-प्रभवे हुताशे = in that (तत्) fire (हुताश) which was created (प्रभव) by the fire-inducing-wood (अरणि) in the form of Hanuman (हनूमत्)
    • ऐच्छत् = wished
      • समेतुम् = to approach
        • पतिम् एव = her husband, Indra, himself
  1. श्लोकः

मूलपाठः

वाचामिदानीं किमु विस्तरेण लङ्कापुरीं रावणबाहुगुप्ताम् ।

काकुत्स्थदूतोऽयमुपेत्य चक्रे कृतान्तदूतस्य सुखप्रवेशाम् ॥६५॥

पदच्छेदः

वाचाम्, इदानीम्, किमु, विस्तरेण, लङ्कापुरीम्, रावण-बाहु-गुप्ताम्, काकुत्स्थदूतः, अयम्, उपेत्य, चक्रे, कृतान्त-दूतस्य, सुख-प्रवेशाम् ।

प्रतिपदार्थः

  • वाचाम् = वचसाम्
  • इदानीम् = अधुना
  • किमु विस्तरेण= प्रपञ्चनेन नास्ति प्रयोजनम्
  • लङ्कापुरीम् रावण-बाहु-गुप्ताम् = लङ्कानगरीं रावणभुजसुरक्षिताम्
  • काकुत्स्थदूतः अयम् = रामदूतः असौ
  • उपेत्य चक्रे = आगत्य अकरोत्
  • कृतान्त-दूतस्य = यमकिङ्करस्य
  • सुख-प्रवेशाम् = सुकरः प्रवेशः यत्र तथोक्ताम् ।

आकाङ्क्षा

  • चक्रे
    • कः चक्रे ? अयम्
      • कीदृशः अयम् ? काकुत्स्थदूतः अयम्
    • किं कृत्वा चक्रे ? उपेत्य
      • काम् उपेत्य ? लङ्कापुरीम्
        • कीदृशीं लङ्कापुरीम् ? रावणबाहुगुप्ताम्
      • कथम्भूतां चक्रे ? सुखप्रवेशाम्
        • कस्य सुखप्रवेशाम् ? कृतान्तदूतस्य

अन्वयः

इदानीं किमु वाचां विस्तरेण ! काकुस्थदूतोऽयं रावणगुप्तां लङ्कापुरीम् उपेत्य कृतान्तदूतस्य सुखप्रवेशां चक्रे ।

भावार्थः

रावणस्य पुरी लङ्का परिरक्षिता स्थिता । तत्र यमदूतानामपि प्रवेशः दुर्लभः आसीत् किमु अन्येषाम् । किन्त्विदानीं हनूमान् तस्याम् एव लङ्कायां तादृशं विध्वंसनं विततवान् यत् ततः परं यमकिङ्कराः निःसङ्कोचं तत्र प्रवेक्ष्यन्ति । भावियुद्धे रावणस्य पराजयः जातप्रायः तस्य विनाशः च सन्निहितः इत्यर्थः ।

व्याकरणम्

  • चक्रे = कृ “कृञ् करणे”, लिट्., आत्मनेपदम्, प्र.पु., ए.व.
  • रावणबाहुगुप्ताम्
    • रावणस्य बाहू – रावणबाहू
    • रावणबाहुभ्यां गुप्ता – रावणबाहुगुता, ताम्

Word-Meaning

  • इदानीम् = now
    • किमु विस्तरेण = what is the use of elaboration
      • वाचाम् = of the words
    • काकुत्स्थदूतः अयम् = this (अयम्) messenger (काकुत्स्थ) of Rama (दूत), a descendent of Kakustha (ककुत्स्थ)
    • उपेत्य = upon coming
    • चक्रे = made
    • लङ्कापुरीम् रावण-बाहु-गुप्ताम् = That city (पुरी) of Lanka (लङ्का) which was shielded (गुप्त) by Ravana’s (रावण) arms (बाहु)
    • सुख-प्रवेशाम् = become one that has an easy (सुख) entry (प्रवेश)
      • कृतान्त-दूतस्य = for the messengers (दूत) of Yama (कृतान्त)

30-Aug-2018

  1. श्लोकः

मूलपाठः

पौलस्त्यपातकिसमागमजायमान –

मेनः पुनान इव वानरयायजूकः ।

निर्वर्तिताक्षविजयो निजवालवह्नौ

हुत्वा पलाशसमिधः सुगतिर्बभूव ॥ ६६ ॥

पदच्छेदः

पौलस्त्य-पातकि-समागम-जायमानम्, एनः, पुनानः, इव, वानर-यायजूकः, निर्वर्तिताक्षविजयः, निजवाल-वह्नौ, हुत्वा, पलाश-समिधः, सुगतिः, बभूव ।

प्रतिपदार्थः

  • पौलस्त्य-पातकि-समागम-जायमानम् = पापकर्मनिरतस्य-रावणस्य संसर्गेण भवत्
  • एनः = पापम्
  • पुनानः इव = क्षालयन्निव
  • वानर-यायजूकः = कपिरूपः यज्ञकर्ता
  • निर्वर्तिताक्षविजयः = कृताक्षकुमारसंहारः सन् / विहितेन्द्रिविजयः च सन्
  • निजवाल-वह्नौ = स्वलाङ्गूलोत्थिताग्नौ
  • हुत्वा = हव्यद्रव्यरूपेण अर्पयित्वा / वालसम्भूताग्नौ क्षिप्त्वा
  • पलाशसमिधः = पलाशाः (राक्षसाः) एव पलाशतरुसमिधः, ताः
  • सुगतिः = निर्विघ्‍नसञ्चारः / प्राप्तोत्तमलोकः वा
  • बभूव = अभवत् ।

आकाङ्क्षा

  • बभूव
    • कः बभूव ? वानयायजूकः
    • कथम्भूतः बभूव ? सुगतिः
    • किं कुर्वाणः सुगतिः बभूवः ? पुनानः
      • किं पुनानः इव ? एनः (कर्मपदम्)
        • कीदृशम् एनः ? पौलस्त्यपातकिसमागमजायमानम्
      • किं कृत्वा सुगतिः बभूव ? हुत्वा
        • काः हुत्वा ? पलाशसमिधः
        • कीदृशः सन् हुत्वा ? निर्वर्तिताक्षविजयः सन्
        • कुत्र हुत्वा ? निजवालवह्नौ

अन्वयः

पौलस्त्यपातकिसमागमजायमानम् एनः पुनानः इव वानरयायजूकः निर्वर्तिताक्षविजयः सन् निजवालवह्नौ पलाशसमिधः हुत्वा सुगतिः बभूव ।

भावार्थः

यथा यज्ञकर्ता दुष्कर्मभ्यः निवृत्त्यर्थं जितेन्द्रियः सन् अग्नौ पलाशसमिधः जुहोति, ततः पापमुक्तोः भूत्वा स्वर्गाद्युत्तमां गतिं प्राप्नोति तथा हनूमान् पातकिनः रावणस्य दर्शनसम्भाषणादिरूपसंसर्गेण सम्भूतं दुरितं क्षालयिन्निव विहिताक्षकुमारसंहारः सन् राक्षससमिधः वालाग्नौ क्षिप्त्वा लङ्कायाम् अप्रतिहतसञ्चारः सञ्जातः ।

व्याकरणम्

  • पौलस्त्यपातकिसमागमजायमानम्
    • पुलस्त्यस्य गोत्रापत्यं पुमान् = पौलस्त्यः
    • पौलस्त्यः एव पातकी = पुलस्त्यपातकी
    • पुलस्त्यपातकिसमागमः = पुलस्त्यपातकिनः समागमः
    • पौलस्त्यपातकिसमागमजायमानम् = पुलस्त्यपातकिसमागमेन जायमानम्
  • वानर-यायजूकः = वानरः एव यायजूकः (इज्याशीलो यायजूकः इत्यमरः)
  • निर्वर्तिताक्षविजयः
    • अक्षविजयः = अक्षस्य विजयः
    • निर्वर्तिताक्षविजयः = निर्वर्तितः अक्षविजयः येन सः
  • निजवाल-वह्नौ
    • निजः वालः = निजवालः
    • निजवाल-वह्नौ = निजवालस्य वह्निः निजवालवह्निः, तस्मिन्
  • पलाशसमिधः
    • पलम् अश्नन्ति इति पलाशाः
    • पलाशसमिधः = पलाशाः एव समिधः, ताः
    • पलाशसमिधः = पलाशस्य (पलाशः = वृक्षविशेषः) समिधः, ताः
  • सुगतिः = शोभना गतिः यस्य सः
  • पुनानः = पू “पूञ् पवने” + शानच्, (उभयपदी, आत्मनेपदे लट् लकारे पुनीते) प्र.वि. ए.व.
  • हुत्वा = हु “हुदानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम्” + क्त्वा, लट् लकारे जुहोति
  • एनः = एनस् सकारान्तः शब्दः, न.लि., द्वि.वि., ए.व. | प्रथमे द्वितीये च – एनः, एनसी, एनांसि |
  • जायमानम् = जन् “जनीँ प्रादुर्भावे” + शानज् | न.लि., द्वि.वि., ए.व. | आ.पदि, लट्लकारे, जायते, जायेते, जायन्ते |
  • बभूव = भू “भू सत्तायाम्”, लिट्., प्र.पु., ए.व.

Word-Meaning

  • वानर-यायजूकः = the performer of the fire sacrifice in the form of a monkey (वानर) [यायजूकः = the performer of the fire sacrifice]
  • निर्वर्तिताक्षविजयः = Becoming one who has obtained (निर्वर्तित) victory (विजय) over rakshasaas like Akshakumaara (अक्ष) in the context of Hanuman (or) Having obtained (निर्वर्तित) victory (विजय) over the senses (अक्ष) like sight in the context of the Yagna performer
  • हुत्वा = Having thrown in the context of Hanuman (or) Having offered in the context of Yagna performer
    • निजवाल-वह्नौ = in the fire (वह्नि) that arose from one’s own (निज) tail (वाल)
    • पलाशसमिधः = The wood pieces (समिध्) in the form of Rakshasas (पलाश) in the context of Hanuman (or) The wood pieces (समिध्) of Jack Fruit tree (पलाश) in the context of Yagna performer
  • पुनानः इव = as though washing
    • एनः = the sin
      • पौलस्त्य-पातकि-समागम-जायमानम् = that one which being generated (जन्) due to the association (समागम) with the sinner (पातकि) in the form of Ravana [पौलस्त्य = One in the lineage of Pulastya पुलस्त्य, Ravana’s grandfather]
    • बभूव = became
      • सुगतिः = The one with hinderless path in the context of Hanuman (or) The one who attained salvation in the context of Yagna performer
  1. श्लोकः

मूलपाठः

लङ्कादाहेऽप्यनार्तां रघुपतिदयितां चारणोक्त्या विदित्वा

सानन्दस्तां प्रणम्य प्रतिगमनविधौ प्राप्य तस्या नियोगम् ।

आरुह्यारिष्टशैलं निधिमपि पयसां स्वैरमुत्तीर्य वेगा –
च्चक्रे गत्वा महेन्द्रं प्लवगकुलपतीन्पूर्णकामान्हनूमान् ॥ ६७ ॥

पदच्छेदः

लङ्कादाहे, अपि, अनार्ताम्, रघुपति-दयिताम्, चारणोक्त्या, विदित्वा, सानन्दः, ताम्, प्रणम्य, प्रतिगमनविधौ, प्राप्य, तस्याः, नियोगम्, आरुह्य, अरिष्टशैलम्, निधिम्, अपि,पयसाम्, स्वैरम्, उत्तीर्य, वेगात्, चक्रे, गत्वा, महेन्द्रम्, प्लवग-कुल-पतीन्, पूर्णकामान्, हनूमान् ।

प्रतिपदार्थः

  • लङ्कादाहे अपि = लङ्कायां भस्मीभूतायामपि
  • अनार्तां रघुपति-दयिताम् = दहनात् अपीडितां रामभार्याम्
  • चारणोक्त्या विदित्वा = चारणानां वचनेन ज्ञात्वा
  • सानन्दः = प्रमुदितः
  • तां प्रणम्य = तां सीतादेवीं नत्वा
  • प्रतिगमनविधौ = प्रतिनिवृत्तिविधाने
  • प्राप्य तस्याः नियोगम् = लब्ध्वा तस्याः आज्ञाम्
  • आरुह्य अरिष्टशैलम् = समुद्रस्य दक्षिणतटवर्तिनं अरिष्टनामकं पर्वतम् अधिरुह्य
  • निधिम् अपि पयसाम् = तोयनिधिम्
  • स्वैरम् उत्तीर्य = स्वच्छन्दतया उल्लङ्घ्य
  • चक्रे = अकरोत्
  • महेन्द्रं वेगात् गत्वा = समुद्रस्य उत्तरतटवर्तिनं महेन्द्रनामकं पर्वतं वेगेन प्राप्य
  • प्लवग-कुल-पतीन् पूर्णकामान् = अङ्गदादीन् वानरकुलमुख्यान् पूर्णमनोरथान्
  • हनूमान् = आञ्जनेयः

आकाङ्क्षा

  • चक्रे
    • कः चक्रे ? हनूमान्
    • कान् चक्रे ? प्लवगकुलपतीन्
    • कथम्भूतान् चक्रे ? पूर्णकामान्
    • किं कृत्वा चक्रे ? विदित्वा
      • कया विदित्वा ? चारणोक्त्या
      • किं विदित्वा ? रघुपति-दयिताम्
        • कीदृशां रघुपति-दयिताम् ? अनार्ताम्
          • कस्मिन् समये अपि अनार्ताम् ? लङ्कादाहे अपि
        • पुनः किं कृत्वा चक्रे ? प्रणम्य
          • काम् प्रणम्य ? ताम्
          • कीदृशः सन् प्रणम्य ? सानन्दः
        • पुनः किं कृत्वा चक्रे ? प्राप्य
          • कं प्राप्य ? नियोगम्
            • कस्याः नियोगम् ? तस्याः
          • कस्मिन् (विषये) प्राप्य ? प्रतिगमनविधौ
        • पुनः किं कृत्वा चक्रे ? आरुह्य
          • कम् आरुह्य ? अरिष्टशैलम्
        • पुनः किं कृत्वा चक्रे ? उत्तीर्य
          • कम् उत्तीर्य ? निधिम्
            • केषां निधिम् ? पयसाम्
          • कथम् उत्तीर्य ? स्वैरम्
        • पुनः किं कृत्वा चक्रे ? गत्वा
          • कुत्र गत्वा ? महेन्द्रम्
          • कथं गत्वा ? वेगात्

अन्वयः

हनूमान् लङ्कादाहे अपि चारणोक्त्या रघुपति-दयिताम् अनार्तां विदित्वा सानन्दः (सन्) तां प्रणम्य प्रतिगमनविधौ तस्याः नियोगं प्राप्य अरिष्टशैलम् आरुह्य स्वैरं पयसां निधिम् उत्तीर्य वेगात् महेन्द्रं गत्वा प्लवगकुलपतीन् पूर्णकामान् चक्रे ।

भावार्थः

[‘दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा । जानकी न च दग्धेति विस्मयोऽद्भुत एव नः ॥’ (श्रीवाल्मीकिरामयणे)] जानकी न च दग्धेति नभस्चरैः चारणैः परस्परम् उक्तं वचनं निशम्य प्रहृष्टः आञ्जनेयः अशोकवनिकां गतः यत्र सीता स्थिता आसीत् । तां देवीं नत्वा तस्याः अनुमतिं प्राप्य लङ्कासमुद्रतटस्थं अरिष्टपर्वतम् आरूढवान् । ततः लीलया एव समुद्रम् उल्लङ्घ्य महेन्द्रगिरिं प्राप्य तत्र स्थितान् अङ्गदादीन् कपिप्रमुखान् स्वदौत्यवृत्तान्तं विज्ञाप्य सः तान् पूर्णमनोरथान् अकरोत् ।

व्याकरणम्

  • चक्रे = कृ “कृञ् करणे”, लिट्., आत्मनेपदम्, प्र.पु., ए.व.
  • लङ्कादाहे = लङ्ग्कायाः दाहः, तस्मिन्
  • रघुपतिदयिताम् = रघूणां पतिः, रघुपतेः दयिता, ताम्
  • चारणोक्त्या
    • प्रचारयति नृत्यगीतादिविद्याम् इति चारणः
    • चारणोक्त्या = चाराणानाम् उक्तिः, तया
  • सानन्दः = आनन्देन सह वर्तमानः
  • प्रतिगमनविधौ = प्रतिगमनस्य विधिः, तस्मिन्
  • अरिष्टशैलम् = अरिष्टः इति शैलः, तम्
  • प्लवगकुलपतीन्
    • प्लवेन (प्लुतगत्या) गच्छन्ति इति प्लवगाः
    • प्लवगकुलम् = प्लवगानां कुलम्
    • प्लवगकुलपतीन् = प्लवगकुलस्य पतयः, तान्
  • पूर्णकामान् = पूर्णः कामः येषां ते, पूर्णकामाः, तान्
  • विदित्वा = विद् “विदँ ज्ञाने” + क्त्वा, उभयपदि, लट्लकारे वेत्ति, वित्तः, विदन्ति / वेद, विदतुः, विदुः
  • उत्तीर्य = उत् + तॄ “तॄ प्लवनतरणयोः” + ल्यप्, लट्लकारे तरति

रामायणप्रसङ्गः

  • स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् ।

शुश्राव हनुमांस्तत्र चारणानां महात्मनाम् ॥ २९/५६

  • दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा ।

जानकी न च दग्धेति विस्मयोऽद्भुत एव नः ॥ ३०/५६

  • समाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ।

क्षिप्रं द्रक्ष्यसि रामेण निहतं रावणं रणे ॥ १९/५६

  • एवमाश्वास्य वैदेहीं हनूमान् मारुतात्मजः ।

गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥ २२/५६

  • प्रतिगन्तुं मनश्चक्रे पुनर्मध्येन सागरम् ।

ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः ॥ २५/५६

  • आरुरोह गिरिश्रेष्ठम् अरिष्टमरिमर्दनः । २६/५६
  • स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः ॥ ३९/५६
  • प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् । ४२/५६
  • आप्लुत्य च महावेगः पक्षवानिव पर्वतः । १/५७
  • ये तु तत्रोत्तरे कूले समुद्रस्य महाबलाः । १८/५७
  • शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः ॥ २०/५७

Word-Meaning

  • हनूमान् = Hanuman
    • सानन्दः = one who was happy (स+आनन्द)
      • चारणोक्त्या विदित्वा = upon knowing (विद्) by the words (उक्ति) of the celestial beings (चारण)
      • अनार्तां रघुपति-दयिताम् = that the wife (दयिता) of Rama (रघुपति), who was not (न) experiencing any discomfort (आर्त)
        • लङ्कादाहे अपि = even when Lanka was burningतां प्रणम्य = prostrating at her
      • तस्याः नियोगं प्राप्य = having obtained (प्राप्) her (सा) permission (नियोग)
        • प्रतिगमनविधौ = in the act (विधि) of returning (प्रतिगमन)
      • आरुह्य अरिष्टशैलम् = having climbed the mountain called Arishta
      • स्वैरम् उत्तीर्य = having crossed (उत्तीर्य) effortlessly (स्वैरम्)
        • पयसां निधिम् अपि = even the ocean
      • वेगात् गत्वा महेन्द्रम् = having reached (गम्) quickly (वेगात्) the Mahendra (महेन्द्र) mountain
      • चक्रे = made
      • प्लवग-कुल-पतीन् = the leaders (पति) of the race (कुल) of the monkeys (प्लवग)
        • पूर्णकामान् = become those whose desires (काम) are fulfilled (पूर्ण)

गद्यम्

मूलपाठः

अथ यथार्हं सैन्याधिपान्संमान्य मारुतिस्तैरनुयुक्तः स्ववृत्तान्तमखिलमाख्यातवान् ।

पदच्छेदः

अथ, यथार्हम्, सैन्याधिपान्, सम्मान्य, मारुतिः, तैः, अनुयुक्तः, स्व-वृत्तान्तम्, अखिलम्, आख्यातवान् ।

आकाङ्क्षा

  • आख्यातवान् (आसीत्)
    • कियत् आख्यातवान् ? अखिलम्
    • किम् आख्यातवान् ? स्व-वृत्तान्तम्
    • कः आख्यातवान् ? मारुतिः
      • कथंभूतः मारुतिः ? अनुयुक्तः
        • कैः अनुयुक्तः ? तैः
      • किं कृत्वा आख्यातवान् ? सम्मान्य
        • कान् सम्मान्य ? सैन्याधिपान्
        • कथं सम्मान्य ? यथार्हम्
      • कदा आख्यातवान् ? अथ

अन्वयः

अथ, यथार्हम्, सैन्याधिपान्, सम्मान्य, मारुतिः, तैः, अनुयुक्तः, स्व-वृत्तान्तम्, अखिलम्, आख्यातवान् ।

भावार्थः

महेन्द्रपर्वतप्राप्त्यानन्तरं यथोचितं जाम्बन्तम् अङ्गदम् इतरसेनापतीन् च सम्पूज्य हनूमान् तैः सेनापतिभिः पृष्टः सन् लङ्कागमनतः लङ्कादहनपर्यन्तं समग्रं स्ववृत्तान्तं तेभ्यः कथितवान् ।

रामायणप्रसङ्गः

  • पूर्वं संविष्ठितं शूरा वायुपुत्रदिदृक्षवः । १९/५७
  • जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः ।

उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत् ॥ २२/५७

  • सर्वथा कृतकार्योऽसौ हनूमान् नात्र संशयः ।

न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ॥ २३/५७

  • स ताभ्यां पूजितः पूज्यः कपिभिः प्रसादितः ।

दृष्टा देवीति विक्रान्तः संक्षेपेन न्यवेदयत् ॥ ३६/५७

  • ततो दृष्टेति वचनं महार्थममृतोपपम् । ४०/५७
  • निशम्य मारुतेः सर्वे मुदिता वानरा अभवन् । ४१/५७
  • श्रीमद्वाल्मीकिरामायणे हनूमता कथितं स्वलङ्कायात्रावृत्तान्तः – ५८, ५९सर्गयोः वर्णितः ।

Word-Meaning

  • अथ = then
  • यथार्हम् = in the deserved (अर्ह) way (यथा)
  • सैन्याधिपान् = to the commanders (अधिप) of the army (सैन्य) of monkeys
  • सम्मान्य = having shown respect
  • मारुतिः = Maruti
    • अनुयुक्तः = requested
    • तैः = by them
  • स्व-वृत्तान्तम् = his story
    • अखिलम् = completely
    • आख्यातवान् = described

गद्यम्

मूलपाठः

तदनु पवनतनयवचनमुदिता वानरवरूथिनी यूथनाथानुयाता तद्दर्शनजनितमानन्दमानन्दशरधौ दाशरथौ सुग्रीवे च संविभज्येव विवक्षितुमहमहमिकया धावन्ती मध्येसरणिदधिमुखकृतावनं मधुवनं हनूमदनुमत्याभिभूय मधुपानसुखमनुबभूव ।

पदच्छेदः

तदनु, पवनतनय-वचनमुदिता, वानर-वरूथिनी, यूथनाथानुयाता, तद्दर्शन-जनितम्, आनन्दम्, आनन्दशरधौ, दाशरथौ, सुग्रीवे, च, संविभज्य, इव, विवक्षितुम्, अहमहमिकया, धावन्ती, मध्येसरणि, दधिमुखकृतावनम्, मधुवनम्, हनूमदनुमत्या, अभिभूय, मधुपान-सुखम्, अनुबभूव ।

प्रतिपदार्थः

  • वरूथिनी = सेना
  • यूथनाथानुयाता = वानरप्रमुखान् अनुगता
  • आनन्दशरधौ = आनन्दाश्रये
  • मध्येसरणि = मार्गस्य मध्ये
  • दधिमुखकृतावनम् = दधिमुखकृतरक्षणम्
  • अभिभूय = आक्रम्य

आकाङ्क्षा

  • अनुबभूव
    • का अनुबभूव ? वानर-वरूथिनी
      • कथंभूता वानर-वरूथिनी ? पवनतनय-वचनमुदिता
      • पुनः कथंभूता वानर-वरूथिनी ? यूथनाथानुयाता
      • किं कुर्वन्ती सन्ती वानर-वरूथिनी ? धावन्ती
        • कथं धावन्ती ? अहमहमिकया
        • कदा धावन्ती ? तदनु
        • किं कर्तुम् धावन्ती ? विवक्षितुम्
          • केभ्यां विवक्षितुम् ? दाशरथौ
          • पुनः कस्मै च विवक्षितुम् ? सुग्रीवे च
          • कथमिव विवक्षितुम् ? संविभज्य इव
            • किं संविभज्य ? आनन्दम्
              • कीदृशम् आनन्दम् ? तद्दर्शन-जनितम्
            • किं कृत्वा अनुबभूव ? अभिभूय
              • कुत्र अभिभूय ? मध्येसरणि
              • किम् अभिभूय ? मधुवनम्
                • कीदृशं मधुवनम् ? दधिमुखकृतावनम्
              • किं अनुबभूव ? मधुपान-सुखम्
              • कया अनुबभूव ? हनूमदनुमत्या

अन्वयः

तदनु पवनतनय-वचनमुदिता यूथनाथानुयाता वानर-वरूथिनी तद्दर्शन-जनितम् आनन्दं दाशरथौ सुग्रीवे च संविभज्य इव विवक्षितुम् अहमहमिकया धावन्ती (सन्ती), मध्येसरणि, दधिमुखकृतावनं मधुवनं अभिभूय, हनूमदनुमत्या मधुपान-सुखम् अनुबभूव ।

भावार्थः

हनूमतः वृत्तान्तकथनं निशम्य वानरसेना अत्यन्तं प्रहृष्टा सती हनूमत्कृतसीतादर्शनेन जातम् आनन्दम् आनन्दनिधौ श्रीरामे कपिराजे सुग्रीवे च संविभक्तुमैच्छत् । अतः इमां शुभवार्तां वक्तुकामाः जाम्बवदङ्गदादिपुरस्सराः ते वानराः अहं पूर्वम् अहं पूर्वम् इति प्रतिस्पर्धया धाविताः । गमनमार्गे सुग्रीवमातुलेन दधिमुखेन रक्षितं मधुवनं हर्षातिरेकेण हनूमतः अनुज्ञया विध्वंस्य ते तत्र यथेच्छं मधुपानजनितं सुखम् अन्वभवन् ।

व्याकरणम्

  • अनुबभूव = अनु + भू “भू सत्तायाम्”, लिट्., प्र.पु., ए.व.

Word-Meaning

  • तदनु = after that
  • वानर-वरूथिनी = the army (वरूथिनी) of monkeys (वानर)
    • पवनतनय-वचनमुदिता = that which became ecstatic (मुदित) due to the words (वचन) of Hanuman, the son (तनय) of Vayu (पवन)
    • यूथनाथानुयाता = that which was following (अनुयात) the commanders (नाथ) of the army (यूथ)
    • धावन्ती = becoming one that was running
      • अहमहमिकया = in manner of competing with each other saying “me”, “me” (अहम्)
      • विवक्षितुम् = to tell this
        • दाशरथौ सुग्रीवे च = to the sons of Dasaratha and to Sugreeva
        • संविभज्य इव = as though to partake
          • तद्दर्शन-जनितम् आनन्दम् = the happiness (आनन्द) caused (जनित) by that (तत्) sight (दर्शन), i.e., on seeing Sita Devi
        • मध्येसरणि = in the middle (मध्ये) of the way (सरणि)
          • अभिभूय = conquering or forcefully entering
            • दधिमुखकृतावनं मधुवनम् = Madhuvana (मधुवन), the garden whose protection (अवन) was being done (कृत) by Dadhimukha (दधिमुख), Sugriva’s maternal uncle
          • अनुबभूव = experienced (अनु+भू)
            • मधुपान-सुखम् = the delight (सुख) of the honey (मधु) drink (पान)
            • हनूमदनुमत्या = with the permission (अनुमति) of Hanuman (हनुमत्)

13-09-2018

  1. श्लोकः

मूलपाठः

अथाब्रवीद्गिरिवरतुङ्गमङ्गदं
कृताञ्जलिर्दधिमुख एष रोषवान् ।

बलीमुखान्मधुभजने शिलीमुखा –
न्भवानिमान्झटिति निवारयेदिति ॥ ६८ ॥

पदच्छेदः

अथ, अब्रवीत्, गिरि-वर-तुङ्गम्, अङ्गदम्, कृताञ्जलिः, दधिमुखः, एषः, रोषवान्, बलीमुखान्, मधुभजने, शिलीमुखान्, भवान्, इमान्, झटिति, निवारयेत्, इति ।

प्रतिपदार्थः

  • अथ = वानरसेनया मधुवने आक्रान्ते सति
  • अब्रवीत् = अवदत्
  • गिरिवरतुङ्गम् अङ्गदम् = पर्वतसदृशोन्नतगात्रम् अङ्गदम्
  • कृताञ्जलिः = बद्धकरयुगलः
  • दधिमुखः = दधिमुखनामकः सुग्रीवमातुलः
  • एषः रोषवान् = अयं कुपितः
  • वलीमुखान् = वानरान् (वल्यः (रेखाः) मुखे यस्य)
  • मधुभजने = मधुसेवने
  • शिलीमुखान् = भ्रमरभावं गतान् (शिली इव मुखं यस्य)
  • भवान् इमान् = भवान् (अङ्गदः) एतान् (वानरान्)
  • झटिति निवारयेत् इति = आशु उपरुन्ध्यात् इति

आकाङ्क्षा

  • अब्रवीत्
    • कः अब्रवीत् ? दधिमुखः
      • कीदृशः दधिमुखः ? रोषवान्
      • कीदृशः सन् दधिमुखः ? कृताञ्जलिः सन्
    • कम् अब्रवीत् ? अङ्गदम्
      • कीदृशम् अङ्गदम् ? गिरिवरतुङ्गम्
    • किम् इति अब्रवीत् ? निवारयेत् इति अब्रवीत् ।
      • कः निवारयेत् ? भवान्
      • कान् निवारयेत् ? वलीमुखान्
        • कीदृशान् वलीमुखान् ? एतान्
        • पुनः कीदृशान् वलीमुखान् ? शिलीमुखान्
      • कस्मिन् निवारयेत् ? मधुभाजने (कर्मणि)
      • कथं निवारयेत् ? झटिति

अन्वयः

अथ ‘मधुभाजने शिलीमुखान् (शिलीमुखभावं गतान्) इमान् वलीमुखान् भवान् झटिति निवारयेत्’ इति गिरिवरतुङ्गम् अङ्गदं रोषवान् एषः दधिमुखः कृताञ्जलिः (सन्) अब्रवीत् ।

भावार्थः

स्वेन रक्षितं मधुवनं हर्षोद्धतैः वानरैः आक्राम्यमाणं दृष्ट्वा रोषं गतः तद्रक्षकः सुग्रीवमातुलः दधिमुखः सेनानायकम् अङ्गदम् करौ बद्ध्वा ‘युवराज ! मधुसेवने अतिमात्रेण आसक्ताः भ्रमरभावं गताः एते वानराः मधुवनमिदं प्रध्वंसयितुमारब्धवन्तः । भवता निवारणीयाः एते’ इति प्रार्थयत ।

व्याकरणम्

  • अब्रवीत् = ब्रू “ब्रूञ् व्यक्तायां वाचि”, लङ्., प्र.पु., ए.व. | लिट् परस्मैपदे उवाच

Word-Meaning

  • अथ = after that, when the monkey army was plundering the Madhuvana
  • एषः रोषवान् दधिमुखः = This angried Dadhimukha
  • कृताञ्जलिः = with folded hands, i.e., having done (कृत) Anjali (अञ्जलि)
  • अब्रवीत् = told
  • गिरिवरतुङ्गम् अङ्गदम् = Angada (अङ्गद), who was tall (तुङ्ग) like a superior (वर) mountain (गिरि)
  • इति = that
  • भवान् झटिति निवारयेत् = you should immediately prevent
    • इमान् वलीमुखान् = these monkeys, i.e., those that have wrinkles (वली) on their face (मुख)
      • शिलीमुखान् = those that have become like bees (शिलीमुख)
        • मधुभजने = in consuming (भजन) the honey-drink (मधु)
  1. श्लोकः

मूलपाठः

अयमप्येनमवोचत् 

दशमुखपुरमध्ये वीक्षिता मैथिलीति श्रवणमधु वितीर्णं येन वीरेण मह्यम् ।

दधिमुख यदि सोऽयं भाषते को निरुन्ध्यान्मधु पिबतु यथेच्छम् वाहिनी वानराणाम् ॥६९॥

पदच्छेदः

अयम्, अपि, एनम्, अवोचत् ।

दशमुख-पुर-मध्ये, वीक्षिता, मैथिली, इति श्रवण-मधु, वितीर्णम्, येन, वीरेण, मह्यम्, दधिमुख! यदि, सः, अयम्, भाषते, कः निरुन्ध्यात्, मधु, पिबतु, यथेच्छम्, वाहिनी, वानराणाम्।

प्रतिपदार्थः

  • दशमुखपुरमध्ये= लङ्कायाम्
  • वीक्षितामैथिली इति = दृष्टा सीता इति
  • श्रवण-मधुवितीर्णम् = कर्णामृतं वचनं दत्तं
  • येनवीरेण = येन हनूमता
  • मह्यम् = मे (अङ्गदाय)
  • दधिमुख! = हे मधुवनरक्षक दधिमुख
  • यदिसः अयम् = यदि सः वीरः हनूमान्
  • भाषते = ‘अत्र मधुपानाय अनुमतिः अस्ति’ इति आदिशति(तर्हि)
  • कः निरुन्ध्यात् = कः (तद्वचनं) उल्लङ्घेत
  • मधुपिबतु यथेच्छम् = यथाकामं मधु सेवताम्
  • वाहिनीवानराणाम् = सेना कपीनाम्

आकाङ्क्षा

  • अवोचत् ।
    • कः अवोचत् ? अयम् अपि
    • कं प्रति अवोचत् ? एनम्
  • हे दधिमुख !
  • कः निरुन्ध्यात् ?
    • कदा निरुन्ध्यात् ? यदि भाषते (तर्हि)
      • कः भाषते ? अयम्
        • कीदृशः अयम् ? सः
        • कीदृशः सः ? येन वितीर्णम्
          • कीदृशेन येन ? वीरेण
          • कस्मै वितीर्णम् ? मह्यम्
          • किं वितीर्णम् ? कर्णमधु
            • किमिति कर्णमधु ? वीक्षिता इति
              • का वीक्षिता ? मैथिली
              • कुत्र वीक्षिता ? दशमुखपुरमध्ये
            • पिबतु
              • का पिबतु ? वाहिनी
                • केषां वाहिनी ? वानराणाम्
              • किं पिबतु ? मधु
              • कथम् पिबतु ? यथेच्छम्

अन्वयः

यम् अपि एनम् अवोचत् ।

दधिमुख ! वीक्षिता मैथिली दशमुखपुरमध्ये इति श्रवणमधु येन वीरेण मह्यं वेतीर्णं, यदि सः अयं भाषते (तर्हि) कः निरुन्ध्यात् । वानराणां वाहिनी यथेच्छं मधु पिबतु ।

भावार्थः

अयम् अङ्गदः अपि एनम् मधुवनरक्षकं दधिमुखम् वक्ष्यमाणप्रकारेण अवदत् ।

रावणराजधान्यां दृष्टा सीता इति अस्मभ्यम् कर्णामृतं श्रावितवता वीरहनूमता एव यदि एते वानराः मधुपानाय अनुमताः सन्ति तर्हि ताम् अनुज्ञां कथमुल् ङ्घितुम् अर्हाम्यहम् । दधिमुख ! ‘स्वच्छन्दतः मधुपानं कुर्वन्त्वेत” ! तच्छ्रवणामृतस्य अपेक्षया एतद्रसनामृतं निकृष्टतरं ननु । अतः तन्निरोधनम् अयुक्तम् इति भावः ।

व्याकरणम्

  • अवोचत् = ब्रू “ब्रूञ् व्यक्तायां वाचि”, लुङ् लकारः, उभयपादि, अत्र परस्मैपदे प्र.पु., ए.व. | लिट् परस्मैपदे उवाच, ऊचतुः, ऊचुः |
  • पिबतु = पा “पा पाने” कर्तरि लोट्., परस्मैपदी, प्र.पु., ए.व. | लट्लकारे पिबति |

Word-Meaning

  • अयम् अपि = He also (Angada)
    • एनम् = to him (Dadhimukha)
    • अवोचत् = spoke
  • दधिमुख = O Dadhimukha
  • यदि = If
    • सः अयम् = this person, he, (Hanuman)
    • येन = by whom
      • वीरेण = by that warrior
      • श्रवण-मधु = the news that is sweet (मधु) to the ears (श्रवण)
        • इति = that
          • मैथिली = Mythili or Sitaa
          • वीक्षिता = was seen
          • दशमुख-पुर-मध्ये = in the center (मध्य) of the city (पुर) of the ten-headed (दशमुख) Ravana
        • वितीर्णम् = was delivered
          • मह्यम् = to me
        • भाषते = says (that the army of monkey can relish the honey)
        • कः निरुन्ध्यात् = who can restrain ?
      • वानराणां वाहिनी पिबतु = = Let the army (वाहिनी) of the monkey (वानर) drink (पा)
        • मधु = the honey
        • यथेच्छम् = as much as they wish

गद्यम्

मूलपाठः

तदनु भयवशसमुपगतदधिमुखवचनविदितमधुवनकदनपरिगणितजनकदुहितृदर्शनजनितप्रमदभरभरितस्तपनतनयस्तत्र तनुविकृतिमतनुतदधिमुखागमननिमित्तसंपत्तिम् ।

पदच्छेदः

तदनु, भयवश-समुपगत-दधिमुख-वचन-विदित-मधुवन-कदन-परिगणित-जनक-दुहितृ-दर्शन-जनित-प्रमदभर-भरितः, तपनतनयः, तत्र, तनुविकृतिम्, अतनुत, दधिमुख-आगमन-निमित्त-संपत्तिम् ।

प्रतिपदार्थः

  • तदनु = अङ्गदवचनानन्तरम्
  • भयवशसमुपगतदधिमुख-वचनविदित-मधुवनकदन-परिगणित-जनकदुहितृदर्शनजनित-प्रमदभरभरितः = मधुवनरक्षणे असमर्थततया सुग्रीवराजः दण्डयेत् इति भीत्या तम् उपगतस्य दधिमुखस्य वचनेन वानर- कृतमधुवनविमर्दनं ज्ञात्वैव सीतादर्शनं जातं इति अवगतवान् ततः हर्षपूरितः
  • तपनतनयः = सूर्यपुत्रः सुग्रीवः
  • तत्र = तस्मिन् समये
  • दधिमुखागमन-निमित्तसंपत्तिम् = दधिमुखस्य आगमनम् एव कारणसामग्री यस्याः (तथोक्तां)
  • तनुविकृतिम् = प्रसन्नताव्यञ्जिकां मुखविकासादिम्
  • अतनुत = अकरोत् ।

आकाङ्क्षा

  • अतनुत
    • किम् अतनुत ? तनुविकृतिम्
      • कीदृशं तनुविकृतिम् ? दधिमुखागमन-निमित्तसंपत्तिम्
    • कुत्र अतनुत ? तत्र
    • कः अतनुत ? तपनतनयः
      • कीदृशः तपनतनयः ? भयवशसमुपगतदधिमुख-वचनविदित-मधुवनकदन-परिगणित-जनकदुहितृदर्शनजनित-प्रमदभरभरितः
    • कदा अतनुत ? तदनु

अन्वयः

तदनु भयवशसमुपगतदधिमुख-वचनविदित-मधुवनकदन-परिगणित-जनकदुहितृदर्शनजनित-प्रमदभरभरितः तपनतनयः तत्र दधिमुखागमन-निमित्तसंपत्तिं तनुविकृतिम् अतनुत ।

भावार्थः

मधुपानचिकीर्षुः वानरसेना उच्छृङ्खलतया यत् मधुवनस्य विमर्दनं करोति तद्दृष्ट्वा मधुवनरक्षकः दधिमुखः – ‘नूनं मया प्रमादः कृतः । राज्ञा सुग्रीवेण दण्डितो भवेयम् । वृत्तान्तमिमं स्वयं राजानं निवेदयेयम्’ इति मत्वा तम् उपगतवान् । तस्य वचनं श्रुत्वा सुग्रीवः सीतान्वेषणकार्यम् अवश्यं सफलं जातम् अन्यथा वानरैः एवं न क्रियते इति निर्णीय परमं हर्षमवाप्‍नोत् । मुखविकसादिचेष्टया तस्य प्रसन्नता स्फुटम् अभिव्यज्यते स्म इति भावः ।

व्याकरणम्

  • अतनुत = तन् “तनुँ विस्तारे” लङ्., आत्मनेपदम्, प्र.पु., ए.व.

रामायणप्रसङ्गः

  • नैषामकृतकार्याणामीदृशः स्याद् व्यतिक्रमः ।

वनं यदभिपन्नास्ते साधितं कर्म तद् ध्रुवम् ॥ १७/६३

  • न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ ।

वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ॥ २७/६३

  • प्रीतिस्फीताक्षौ सम्प्रहृष्टौ दृष्ट्वा सिद्धार्तौ वानराणां च राजा ।

अङ्गै प्रहृष्टैः कार्यसिद्धिं विदित्वा बाह्वोरासन्नामतिमात्रं ननन्द ॥ ३३/६३

Word-Meaning

  • तदनु = After that, i.e., after Angada spoke,
  • तत्र = there, i.e., at that time
  • तपनतनयः = Sugriva, the son (तनय) of Surya (तपन)
    • भय-वश-समुपगत-दधिमुख-वचन-विदित-मधुवन-कदन-परिगणित-जनक-दुहितृ-दर्शन-जनित-प्रमद-भर-भरितः = he who was fully (भर) filled (भरित) with the happiness (प्रमद) that was produced (जनित) due to the sight (दर्शन) of Sita, the daughter (दुहितृ) of Janaka (जनक), which was guessed (परिगणित) from the destruction (कदन) of Madhuvana (मधुवन), which was known (विदित) from the words (वचन) of Dadhimukha (दधिमुख), who had approached (समुपगत), being directed (वश) by the fear (भय) of Sugriva’s punishment
    • अतनुत = underwent
      • तनुविकृतिम् = change (विकृति) in the body (तनु)
        • दधिमुखागमन-निमित्तसंपत्तिम् = that which was caused (संपत्ति) due to (निमित्त) the arrival (आगमन) of Dadhimukha (दधिमुख)
  1. श्लोकः

मूलपाठः

आरुह्याद्रिमथावरुह्य विपिनान्यासाद्य नानाफला-
न्यास्वाद्य प्लुतमारचय्य वदनैरापाद्य वाद्यक्रमान् ।
 

आलिङ्ग्य द्रुममक्रमं मदवशादाधूय पुच्छच्छटा-
मारादाविरभूदहंप्रथमिका पीना कपीनां चमूः ॥७०॥

पदच्छेदः

आरुह्य, अद्रिम्, अथ, अवरुह्य, विपिनानि, आसाद्य, नानाफलानि, आस्वाद्य, प्लुतम्, आरचय्य, वदनैः, आपाद्य, वाद्यक्रमान्, आलिङ्ग्य, द्रुमम्, अक्रमम्, मदवशात्, आधूय, पुच्छच्छटाम्, आरात्, आविरभूत्, अहम्प्रथमिकापीना, कपीनाम्, चमूः ।

प्रतिपदार्थः

  • अथ = मधुपानाय अनुमतिं प्राप्य
  • कपीनां चमूः = वानराणां सेना
  • अद्रिम् आरुह्य = पर्वतोपरि गत्वा
  • विपिनानि आसाद्य = (मार्गस्थानि) वनानि प्राप्य
  • नानाफलानि आस्वाद्य = विविधानि फलानि भक्षयित्वा
  • प्लुतम् आरचय्य = प्लवनगत्या सञ्चर्य
  • वदनैः वाद्यक्रमान् आपाद्य = मुखैः विविधान् वाद्यध्वनिप्रकारान् कृत्वा
  • मदवशात् = मधुपानजनितात् उन्मादात्
  • द्रुमम् अक्रमम् आलिङ्ग्य = वृक्षान् येन केनापि क्रमेण आश्लिष्य
  • पुच्छच्छटां (च) आधूय = लाङ्गूलजालं चालयित्वा
  • अहम्प्रथमिकापीना (सती) = अहं प्रथमः अहं प्रथमः इति या क्रिया भवति तया स्फीता (बृहती)
  • आरात् = सुग्रीवादिसमीपे
  • आविरभूत् = अलक्ष्यत

आकाङ्क्षा

  • अथ आविरभूत्
    • का आविरभूत् ? चमूः
      • केषां चमूः ? कपीनाम्
      • कीदृशी चमूः ? अहम्प्रथमिकापीना
    • कुत्र आविरभूत् ? आरात्
    • किं कृत्वा आविरभूत् ? आरुह्य
      • कम् आरुह्य ? अद्रिम्
    • पुनः किं कृत्वा आविरभूत् ? आसाद्य
      • किम् आसाद्य ? विपिनानि
    • पुनः किं कृत्वा आविरभूत् ? आस्वाद्य
      • कानि आस्वाद्य ? नानाफलानि
    • पुनः किं कृत्वा आविरभूत् ? आरचय्य
      • किम् आरचय्य ? प्लुतम्
    • पुनः किं कृत्वा आविरभूत् ? आपाद्य
      • कान् आपाद्य ? वाद्यक्रमान्
      • कैः आपाद्य ? वदनैः
    • पुनः किं कृत्वा आविरभूत् ? आलिङ्ग्य
      • कम् आलिङ्ग्य ? द्रुमम्
      • कथम् आलिङ्ग्य ? अक्रमम्
      • किमर्थं / कस्मात् कारणात् आलिङ्ग्य ? मदवशात्
    • पुनः किं कृत्वा आविरभूत् ? आधूय
      • काम् आधूय ? पुच्छच्छटाम्

अन्वयः

अथ कपीनां चमूः अद्रिम् आरुह्य विपिनानि आसाद्य नानाफलानि आस्वाद्य प्लुतम् आरचय्य वदनैः वाद्यक्रमान् आपाद्य मदवशात् द्रुमम् अक्रमम् आलिङ्ग्य पुच्छच्छटां (च) आधूय अहम्प्रथमिकापीना (सती) आरात् आविरभूत् ।

भावार्थः

ततः हर्षाकुला अतः मधुपानाय व्यग्रा वानरसेना मार्गस्थं गिरिम् आरुह्य तत्रत्यानि वनानि गत्वा फलानि भुक्त्वा उत्प्लवनं कृत्वा मुखैः वाद्यध्वनिसदृशं कमपि ध्वनिप्रकारम् उत्पाद्य मधुपानात् सम्भ्रान्ता सती वृक्षाणाम् उपरि अधः च गत्वा पुच्छजालं कम्पयित्वा आदावहम् आदावहम् इति त्वरायाः हेतोः पङ्क्तिशः अगच्छन्ती अतः पीवरा दृश्यमाना सती तत्र उपस्थिता यत्र सुग्रीवादयः आसन् ।

व्याकरणम्

  • ल्यबन्तपदानि = { आरुह्य, आसाद्य, आस्वाद्य, आरचय्य, आपाद्य, आलिङ्ग्य }
  • आरुह्य = रुह् “रुहँ बीजजन्मनि प्रादुर्भावे च” + ल्यप्, लट्. लकारे रोहति
  • आसाद्य = आङ् + सद् “षदॢँ विशरणगत्यवसादनेषु” (विशरण-गति-अवसादनेषु) + णिच् + ल्यप्, लट्. लकारे सीदति
  • आस्वाद्य = स्वाद् “स्वादँ आस्वादने” + ल्यप्, लट्. लकारे स्वादते
  • आपाद्य = आङ् + पत् “पतॢँ गतौ” + णिच् + ल्यप्, लट्. लकारे पतति
  • आलिङ्ग्य = आङ् + लिन्ग् “लिगिँ गत्यर्थाः” + ल्यप्, लट्. लकारे लिङ्गति
  • आविरभूत् = आङ् + विश् + भू “भू सत्तायाम्” कर्तरि, लुङ्., प्र.पु., ए.व., परस्मैपदी

रामायणप्रसङ्गः

  • गायन्ति केचित् प्रहसन्ति केचि-

न्नृत्यन्ति केचित् प्रणमन्ति केचित् ।

पतन्ति केचित् प्रचरन्ति केचित्

प्लवन्ति केचित् प्रलपन्ति केचित् ॥ १६/६२

  • परस्परं केचिदुपाश्रयन्ति

परस्परं केचिदतिब्रुवन्ति ।

द्रुमाद्द्रुमं केचिदभिद्रवन्ति

क्षितौ नगाग्रान्निपतन्ति केचित् ॥ १७/६२

  • महीतलात् केचिदुदीर्णवेगा

महाद्रुमाग्राण्यभिसम्पतन्ति ।

गायन्तमन्यः प्रहसन्नुपैति

हसन्तमन्यः प्ररुदन्नुपैति ॥ १८/६२

अलङ्कारः

  • स्वभावोक्तिरलङ्कारः – naturalistic utterances without any exaggeration

Word-Meaning

  • आरुह्य = upon climbing up
    • अथ = and then
    • अवरुह्य = upon climbing down
      • अद्रिम् = the mountain
    • आसाद्य = upon reaching
      • विपिनानि = the forests (on the way)
    • आस्वाद्य = relishing
      • नानाफलानि = different types (नाना) of fruits (फल)
    • आरचय्य = upon carrying out
      • प्लुतम् = the act of jumping
    • आपाद्य = upon making it happen
      • वाद्यक्रमान् = the systems (क्रम) of musical (वाद्य) instruments
      • वदनैः = by using the mouth (वदन) (orally)
    • आलिङ्ग्य = after embracing
      • द्रुमम् = the trees
    • आधूय = after hitting
      • पुच्छच्छटाम् = the tails
      • अक्रमम् = in an unorderly manner
      • मदवशात् = as they were under the control (वश) of arrogance (मद) or due to the influence (वश) of the intoxicating (मद) drink
    • चमूः = the army
      • कपीनाम् = of the monkeys
      • अहम्प्रथमिकापीना = that which was enlarged (पीन) competing with each other saying I (अहम्) will be first (प्रथमिक)
    • आविरभूत् = appeared
      • आरात् = in front of (Sugriva)
  1. श्लोकः

मूलपाठः

निद्राक्षयादरुणितेन समीरपुत्रः
सौमित्रिनेत्रयुगलेन निपीयमानः ।
चूडामणिं करतले कलयन्ववन्दे
पादारविन्दयुगलं भरताग्रजस्य ॥
७१

पदच्छेदः

निद्राक्षयात्, अरुणितेन, समीरपुत्रः, सौमित्रि-नेत्र-युगलेन, निपीयमानः, चूडामणिम्, करतले, कलयन्, ववन्दे, पादारविन्द-युगलम्, भरताग्रजस्य ।

प्रतिपदार्थः

  • निद्राक्षयात् = निद्रात्यागात्
  • अरुणितेन = रक्ताभेण
  • समीरपुत्रः = हनूमान्
  • सौमित्रि-नेत्र-युगलेन = लक्षमणनयनद्वयेन
  • निपीयमानः = सादरम् अवलोक्यमानः
  • चूडामणिम् = शिरोभूषणम्
  • करतले = हस्ते
  • कलयन् = धारयन्
  • ववन्दे = नमस्कृतवान्
  • पादारविन्द-युगलम् = चरणकमले
  • भरताग्रजस्य = श्रीरामस्य

आकाङ्क्षा

  • ववन्दे
    • कः ववन्दे ? समीरपुत्रः
      • कीदृशः समीरपुत्रः ? कलयन्
        • कं कलयन् ? चूडामणिम्
        • कुत्र कलयन् ? करतले
      • पुनः कीदृशः समीरपुत्रः ? निपीयमानः
        • केन निपीयमानः ? सौमित्रिनेत्रयुगलेन
          • कीदृशेन सौमित्रिनेत्रयुगलेन ? अरुणितेन
        • कस्मात् (हेतोः) अरुणितेन ? निद्राक्षयात्
      • किं ववन्दे ? पादारविन्दयुगलम्
        • कस्य पादारविन्दयुगलम् ? भरताग्रजस्य

अन्वयः

निद्राक्षयाद् अरुणितेन सौमित्रिनेत्रयुगलेन निपीयमानः चूडामणिं करतले कलयन् समीरपुत्रः भरताग्रजस्य पादारविन्दयुगलं ववन्दे ।

भावार्थः

दूतकार्ये नियुक्तः मारुतिः कृतकृत्यः सन् सीतादेव्या प्रदत्तम् अभिज्ञानभूतं चूडामणिं हस्ते गृह्णन् श्रीरामलक्ष्मणसुग्रीवान् उपासीदत् । वनवासकाले निद्राभावात् रक्ताक्षः सञ्जातः लक्ष्मणः तं स्नेहार्दमनसा निरीक्षते स्म । पवनपुत्रस्तु श्रीरास्मस्य चरणारविन्दे नमस्कृतवान् ।

व्याकरणम्

  • ववन्दे = वन्द् “वदिँ अभिवादनस्तुत्योः”, लिट्, प्र.पु., ए.व., लट् लकारे वन्दते
  • निद्राक्षयात् = निद्रायाः क्षयः, निद्राक्षयः, तस्मात्
  • समीरपुत्रः
    • समीरः = सम्यक् ईर्ते गच्छति इति
    • समीरपुत्रः = समीरस्य पुत्रः
  • सौमित्रि-नेत्र-युगलेन
    • नेत्रयुगलम् = नेत्रयोः युगलम्
    • सुमित्रायाः अपत्यं पुमान् = सौमित्रिः
    • सौमित्रि-नेत्र-युगलेन = सौमित्रेः नेत्रयुगलम् – सौमित्रिनेत्रयुगलम्, तेन
  • पादारविन्द-युगलम्
    • पादौ अरविन्दे इव = पादारविन्दे
    • पादारविन्द-युगलम् = पादारविन्दयोः युगलम्, पादारविन्दयुगलम्, तत्
  • भरताग्रजस्य = भरतस्य अग्रजः, तस्य
  • कलयन् = कल “कल गतौ सङ्ख्याने च” + शतृ., पु., प्र.वि., ए.व., लट्लकारे कलयति,

Word-Meaning

  • समीरपुत्रः = Hanuman, the son (पुत्र) of Vayu (समीर)
  • निपीयमानः = Being one who is being drunk
    • सौमित्रि-नेत्र-युगलेन = by the pair (युगल) of eyes (नेत्र) of Lakshmana (सौमित्रि), the son of Sumitra
      • अरुणितेन = by that which was reddened
        • निद्राक्षयात् = due to lack (क्षय) of sleep (निद्रा)
      • कलयन् = bearing
        • चूडामणिम् = the Chudamani
        • करतले = in the hand
      • ववन्दे = saluted
        • भरताग्रजस्य = Sriram’s, the elder brother of Bharata
        • पादारविन्द-युगलम् = the pair of lotus-feet
  1. श्लोकः

मूलपाठः

अक्लेशसंभूतगतागताभ्यां
वितीर्णविस्तीर्णमहार्णवोऽपि ।
आनन्दसिन्धौ पृतनासमक्ष-
मक्षस्य हन्ता नितरां ममज्ज ॥ ७२ ॥

पदच्छेदः

अक्लेश-संभूत-गतागताभ्याम्, वितीर्ण-विस्तीर्ण-महार्णवः, अपि, आनन्दसिन्धौ, पृतनासमक्षम्, अक्षस्य, हन्ता, नितराम्, ममज्ज ।

प्रतिपदार्थः

  • अक्लेश-संभूत-गतागताभ्याम् = अनायासेन एव प्रवृत्ताभ्यां गमनागमनाभ्यां
  • वितीर्ण-विस्तीर्ण-महार्णवः अपि = उल्लङ्गितवान् दुस्तरं महासमुद्रं यः सोऽपि
  • आनन्दसिन्धौ = आनन्दसागरे
  • पृतनासमक्षम् = वानरसेनायाः पुरतः
  • अक्षस्य हन्ता = अक्षादिराक्षस-निषूदनः
  • नितराम् ममज्ज = भृशं न्यमज्जत् ।

आकाङ्क्षा

  • ममज्ज
    • कः ममज्ज ? हन्ता
      • कस्य हन्ता ? अक्षस्य
    • कुत्र ममज्ज ? आनन्दसिन्धौ
    • पुनः कुत्र ? पृतनासमक्षम्
    • कथं ममज्ज ? नितराम्
    • कथम्भूतः (सन्) अपि ममज्ज ? वितीर्णविस्तीर्णमहार्णवः सन्नपि
      • काभ्यां वितीर्ण-विस्तीर्ण-महार्णवः सन् ? अक्लेशसंभूतगतागताभ्याम्

अन्वयः

अक्षस्य हन्ता अक्लेशसम्भूतगतगताभ्यां वितीर्णविस्तीर्णमहार्णवः (सन्) अपि पृतनासमक्षम् आनन्दसिन्धौ नितरां ममज्ज ।

भावार्थः

रामकार्यार्थं लङ्कां प्रति गमनाय च तत्र सीतां दृष्ट्वा अक्षकुमारादीन् हत्वा लङ्कां दग्ध्वा च ततः श्रीरामसमीपं प्रत्यागमनाय च महोदधिम् अनायासेन उत्प्लुतवतः हनूमतः कपिसेनायाः पुरतः आनन्दसागरे आप्लवनमभूत् ।

व्याकरणम्

  • ममज्ज = मस्ज् “टुमस्जोँ शुद्धौ” कर्तरि लिट्., प्र.पु., ए.व., परस्मैपदी [ म.पु., ब.व. / उ.पु., ए.व. अपि ममज्ज ]
  • हन्ता = हन्तृ ऋकारान्तः, हन् “हनँ हिंसागत्योः” + तृच्., प्र.वि., ए.व., लट्लकारे हन्ति
  • अक्लेश-संभूत-गतागताभ्याम्
    • न क्लेशः = अक्लेशः
    • अक्लेशेन सम्भूते = अक्लेशसम्भूते
    • गतं च आगतं च = गतागते
    • अक्लेशसम्भूते गतागते = अक्लेशसम्भूतगतागते, ताभ्याम्
  • वितीर्ण-विस्तीर्ण-महार्णवः
    • महार्णवः = महान् अर्णवः
    • विस्तीर्णमहार्णवः = विस्तीर्णः च असौ महार्णवः
    • विशेषेण तीर्णः = वितीर्णः
    • वितीर्णः विस्तीर्णमहार्णवः येन सः
  • आनन्दसिन्धौ = आनन्दः एव सिन्धुः – आनन्दसिन्धुः, तस्मिन्

Word-Meaning

  • अक्षस्य हन्ता = Hanuman, the killer of Aksha (अक्ष)
    • वितीर्ण-विस्तीर्ण-महार्णवः (सन्) अपि = being one who had crossed (वितीर्ण) even the vast (विस्तीर्ण) ocean (महा+अर्णव)
      • अक्लेश-संभूत-गतागताभ्याम् = for going (गत) and coming (आगत) that happened (संभूत) without any difficulty (अक्लेश)
    • नितरां ममज्ज = got completely (नितराम्) drowned (मस्ज्)
      • आनन्दसिन्धौ = in the ocean (सिन्धु) of joy (आनन्द)
      • पृतनासमक्षम् = in front (सम् + अक्ष) of the army (पृतना)

14-09-2018

  1. श्लोकः

मूलपाठः

आनीतचूडामणिसंनिधानादाविःप्रमोदेन रघूद्वहेन ।
तत्रानुयुक्तः पवनात्मजन्मा विज्ञापयामास कृतप्रणामः ॥ ७३ ॥

पदच्छेदः

आनीत-चूडामणि-संनिधानात्, आविःप्रमोदेन, रघूद्वहेन,
तत्र, अनुयुक्तः, पवनात्म-जन्मा, विज्ञापयामास, कृतप्रणामः ।

प्रतिपदार्थः

  • आनीतचूडामणिसंनिधानात् = सीतासकाशात् आनीतस्य चूडामणेः दृष्टिगोचरत्वात्
  • आविःप्रमोदेन = जातहर्षेण
  • रघूद्वहेन = रघुकुलश्रेष्ठेण श्रीरामेण
  • तत्र अनुयुक्तः = तदा पृष्टः
  • पवनात्म-जन्मा = समीरपुत्र
  • विज्ञापयामास = न्यवेदयत्
  • कृतप्रणामः = विहितनमस्कारः

आकाङ्क्षा

  • विज्ञापयामास
    • कः विज्ञापयामास ? पवनात्मजन्मा
      • कीदृशः पवनात्मजन्मा ? अनुयुक्तः
        • केन अनुयुक्तः ? रघूद्वहेन
          • कीदृशेन रघूद्वहेन ? आविःप्रमोदेन
            • कस्मात् (हेतोः) आविःप्रमोदेन ? आनीतचूडामणिसंनिधानात्
          • कीदृशः (सन्) पवनात्मजन्मा ? कृतप्रणामः (सन्)
        • कस्मिन् समये विज्ञापयामास ? तत्र (तदा)

अन्वयः

आनीतचूडामणिसंनिधानात् आविःप्रमोदेन रघूद्वहेन तत्र अनुयुक्तः पवनात्मजन्मा कृतप्रणामः (सन्) विज्ञापयामास ।

भावार्थः

हनूमता आहृतस्य चूडामणेः दर्शनेन सञ्जातहर्षः श्रीरामः ‘क्व वर्तते ? कथं वर्तते?’ इति सीतां प्रति मारुतिम् अपृच्छत् । मारुतिः तदा श्रीरामं शिरसा प्रणम्य वक्ष्यमाणप्रकारेण वचनम् अब्रवीत्।

व्याकरणम्

  • विज्ञापयामास = वि + ज्ञा “ज्ञा अवबोधने” कर्तरि लिट्., प्र.पु., ए.व. परस्मैपदी

रामायणप्रसङ्गः

  • क्व सीता वर्तते देवी कथं च मयि वर्तते ।

एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ॥ ५/६५

  • रामस्य गदितं श्रुत्वा हरयो रामसंनिधौ ।

चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ॥ ६ / ६५

  • श्रुत्वा तु वचनं तेषां हनूमान् मारुतात्मजः ।

प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ॥ ७ / ६५

  • उचाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ।

तं मणिं काञ्चनं दिव्यं दीप्यमानं स्वतेजसा ॥ ८ / ६५

  • दत्त्वा रामाय हनुमांस्ततः प्राञ्जलिरब्रवीत् । ९ / ६५

Word-Meaning

  • तत्र = there
  • पवनात्म-जन्मा = Hanuman, the son (जन्मा) of Vayu (पवनात्म)
    • कृतप्रणामः = one by whom salutations (प्रणाम) were done (कृत)
    • अनुयुक्तः = one who was asked
      • रघूद्वहेन = by Srirama (रघूद्वह), the best among the Raghus
        • आविःप्रमोदेन = by him in whom happiness (प्रमोद) had arisen (आविः)
          • आनीतचूडामणिसंनिधानात् = due to the sight (संनिधान) of the Chudamani (चूडामणि) that was brought (आनीत)
        • विज्ञापयामास = put forth (the following words)

 

  1. श्लोकः

मूलपाठः

लङ्कापुरोपवनसीम्न्यथ राजपुत्री-
मालोकयं निशिचरीगणबाध्यमानाम् ।
केनापि पातकवशेन सुपर्णलोके
बन्दीकृतामिव भुजङ्गमराजकन्याम् ॥ ७४ ॥ 

पदच्छेदः

लङ्कापुरोपवनसीम्नि, अथ, राजपुत्रीम्, आलोकयम्, निशिचरी-गण-बाध्यमानाम्, केनापि, पातकवशेन, सुपर्णलोके, बन्दीकृताम्, इव, भुजङ्गमराज-कन्याम् ।

प्रतिपदार्थः

  • लङ्कापुरोपवनसीम्नि = रावणराजधान्याः अशोकवनिकाप्रदेशे
  • अथ = लङ्कां गत्वा सीतादेवीं विचिन्वन्
  • राजपुत्रीम् = जनकसुताम्
  • आलोकयम् = अपश्यम्
  • निशिचरीगणबाध्यमानाम् = राक्षस्यैः पीड्यमानाम्
  • केनापि पातकवशेन = केनचित् अज्ञातेन पूर्वकृतकर्मणः प्रभावेण
  • सुपर्णलोके = गरुडलोके
  • बन्दीकृताम् = कारागारे निक्षिप्ताम्
  • भुजङ्गमराजकन्याम् इव = नागराजकन्याम्

आकाङ्क्षा

  • अथ आलोकयम्
    • कः आलोकयम् ? (अहम्)
    • कुत्र आलिकयम् ? लङ्कापुरसीम्नि
    • काम् आलोकयम् ? राजपुत्रीम्
      • कीदृशीं राजपुत्रीम् ? निशिचरीगणबाध्यमानाम्
      • काम् इव राजपुत्रीम् ? भुजङ्गराजकन्याम् इव
        • कीदृशीं भुजङ्गराजकन्याम् ? बन्दीकृताम्
          • कुत्र बन्दीकृताम् ? सुपर्णलोके
          • केन (हेतुना) बन्दीकृताम् ? पातकवशेन
            • कीदृशेन पातवशेन ? केनापि

अन्वयः

अथ लङ्कापुरोपवनसीम्नि निशिचरीगणबाध्यमानां राजपुत्रीं सुपर्णलोके केनापि पातकवशेन बन्दीकृतां भुजङ्गमराजकन्याम् इव आलोकयम् ।

भावार्थः

ततः लङ्कानगरप्रान्ते स्थितायाम् अशोकवनिकायां रक्षस्स्त्रीभिः बहुधा क्रूरशब्दैः तुद्यमाना सा मया दृष्टा । यथा काचित् नागकन्या पूर्वजन्मार्जितस्य कस्यचित्पापस्य परिपाकवशात् त्रासकरे गरुडलोके बन्दीकृता सती विषीदति तथा शोकाकुलां सीतादेवीम् अपश्यम् ।

व्याकरणम्

  • आलोकयम् = आङ् + लोक् “लोकृँ भाषार्थः” कर्तरि लङ्., उ.पु., ए.व., उभयपदी, अत्र परस्मैपदी, लट्लकारे लोकयति / लोकयते
  • लङ्कापुरोपवनसीम्नि
    • लङ्कापुरम् = लङ्का इति पुरम्
    • लङ्कापुरोपवनम् = लङ्कापुरस्य उपवनम्
    • लङ्कापुरोपवनसीम्नि = लङ्कापुरोपवनस्य सीमा, लङ्कापुरोपवनसीमा, तस्मिन्
  • राजपुत्रीम् = राज्ञः पुत्री, ताम्
  • निशिचरी-गण-बाध्यमानाम्
    • निशिचर्यः = निशि चरन्ति इति
    • निशिचरीगणः = निशिचरीणां गणः
    • निशिचरी-गण-बाध्यमानाम् = निशिचरीगणेन बाध्यमाना, ताम्
  • पातकवशेन
    • पातयति दुष्कर्मकर्तारं इति = पातकम्
    • पातकवशेन = पातकस्य वशः, तेन
  • सुपर्णलोके
    • सुष्ठु पर्णं (पक्षः) यस्य = सुपर्णः
    • सुपर्णलोके = सुपर्णस्य लोकः, तस्मिन्
  • भुजङ्गमराजकन्याम्
    • भुजः (वक्रः) सन् गच्छति इति = भुजङ्गमः
    • भुजङ्गमराजः = भुजङ्गमानां राजा
    • भुजङ्गमराजकन्याम् = भुजङ्गमराजस्य कन्या, ताम्

Word-Meaning

  • अथ = then
  • आलोकयम् = I saw
    • लङ्कापुरोपवनसीम्नि = within the boundary (सीमा) of garden (उपवन) in the city (पुर) of Lanka (लङ्का)
    • राजपुत्रीम् = the princess
      • निशिचरीगणबाध्यमानाम् = she who was troubled (बाध्य) by the group (गण) of Rakshashis (निशिचरी)
    • भुजङ्गमराजकन्याम् इव = like the princess of the serpent
      • बन्दीकृताम् = she who is imprisoned
      • सुपर्णलोके = in the world (लोक) of Garuda (सुपर्ण), the eagle king
      • केन अपि पातकवशेन = due to the influence (वश) of some (किम्) sin (पातक)
  1. श्लोकः

मूलपाठः

देव्यास्त्वदीयान्वयकीर्तनेन त्वन्मुद्रया च व्यपनीय शोकम् ।
वार्तामभिज्ञानमयीमयाचं प्रस्थातुकामः परिपूर्णकामः ॥ ७५ ॥

पदच्छेदः

देव्याः, त्वदीयान्वय-कीर्तनेन, त्वन्मुद्रया, च, व्यपनीय, शोकम्
वार्ताम्, अभिज्ञानमयीम्, अयाचम्, प्रस्थातुकामः परिपूर्णकामः ।

प्रतिपदार्थः

  • देव्याः = सीतादेव्याः
  • त्वदीयान्वय-कीर्तनेन = भवतः वंशस्तुत्या
  • त्वन्मुद्रया च = भवता दत्तया अङ्गुलीयकमुद्रिकया च
  • व्यपनीय = दूरिकृत्य
  • शोकम् = विषादम्
  • वार्ताम् = वृत्तान्तम्
  • अभिज्ञानमयीम् = परिचयचिह्नभूताम्
  • अयाचम् = प्रार्थितवान्
  • प्रस्थातुकामः = गन्तुमनाः
  • परिपूर्णकामः = सफलमहोरथः (सन्)

आकाङ्क्षा

  • अयाचम्
    • काम् अयाचम् ? वार्ताम्
      • कीदृशीं वार्ताम् ? अभिज्ञानमयीम्
    • किं कृत्वा अयाचम् ? व्यपनीय
      • कं व्यपनीय ? शोकम्
        • कस्या शोकम् ? देव्याः
      • केन व्यपनीय ? त्वदीयान्वयकीर्तनेन
      • पुनः कया व्यपनीय ? त्वन्मुद्रया च
    • कः अयाचम् ? (अहम्)
      • कीदृशः (अहम्) ? परिपूर्णकामः
      • पुनः कीदृशः सन् (अहम्) ? प्रस्थातुकामः

अन्वयः

त्वदीयान्वयकीर्तनेन त्वन्मुद्रया च देव्याः शोकं व्यपनीय परिपूर्णकामः (सन्, ततः) प्रस्थातुकामः अभिज्ञानमयीं वार्ताम् अयाचम् ।

भावार्थः

सीतादेव्याः दुःखस्य अपनोदनाय अहं तत्राशोकवनिकायां भवदीयां वंशगाथां श्रावितवान् । ततः भवता प्रेषितम् अङ्गुलीयकं तस्यै अर्पितवान् । भवता दत्तेन मुद्रिकादर्शनेन च ममाश्वासप्रदवचनेन किञ्चिदिव देवी समाहिता । अनेन आत्मानं कृतकृत्यं मन्यमानः अहं ततः प्रतिष्ठासुः सन् ‘देवि ! इतरजनेन अज्ञातं कञ्चित् वृत्तान्तं संविभज्यतां यच्छ्रुत्वा श्रीरामः मया कृते त्वद्दर्शने वश्वसेत्’ इति तां प्रार्थितवान् ।

व्याकरणम्

  • अयाचम् = याच् “टुयाचृँ याच्ञायाम्”, कर्तरि लङ्., उ.पु., ए.व., अत्र परस्मैपदी, उभयपदी लट्लकारे याचति / याचते
  • त्वदीयान्वयकीर्तनेन
    • त्वदीयः अन्वयः = त्वदीयान्वयः
    • त्वदीयान्वयकीर्तनेन = त्वदीयान्वयस्य कीर्तनम्, तेन
  • त्वन्मुद्रया = तव मुद्रा – त्वन्मुद्रा (त्वद्-मुद्रा), तया
  • परिपूर्णकामः = परिपूर्णाः कामाः यस्य सः

Word-Meaning

  • परिपूर्णकामः = I, becoming one who wish (काम) has been fulfilled (परिपूर्ण)
    • प्रस्थातुकामः = becoming one who wishes (काम) to leave (प्रस्थातु)
    • व्यपनीय = upon eradicating
      • देव्याः = Sita Devi’s
        • शोकम् = the sadness
          • त्वदीयान्वय-कीर्तनेन = by singing (कीर्तन) the praise of your (त्वदीय) ancestors (अन्वय)
          • त्वन्मुद्रया च = and (च) by your (त्वत्) seal (मुद्र) in the form of the ring
        • अयाचम् = requested
          • वार्ताम् = a message
            • अभिज्ञानमयीम् = which is a token of remembrance
  1. श्लोकः

मूलपाठः

ब्रह्मास्त्रवित्रस्तजयन्तकृत्यां कथामभिज्ञाप्य वने प्रवृत्ताम् ।
चिरं रुदन्त्या जनकेन्द्रपुत्र्या चूडामणिः प्रेषित एष तुभ्यम् ॥ ७६ ॥

पदच्छेदः

ब्रह्मास्त्र-वित्रस्त-जयन्त-कृत्याम्, कथाम्, अभिज्ञाप्य, वने, प्रवृत्ताम्,
चिरम्, रुदन्त्या, जनकेन्द्र-पुत्र्या, चूडामणिः, प्रेषितः, एषः, तुभ्यम् ।

प्रतिपदार्थः

  • ब्रह्मास्त्र-वित्रस्त-जयन्त-कृत्याम् = रामेण प्रयुक्तात् ब्रह्मास्त्रात् भीतस्य काकरूपधरस्य जयन्तस्य सीतास्तनविदारणकृत्यं यस्यां तां
  • कथाम् अभिज्ञाप्य = वृत्तान्तम् अभिज्ञानत्वेन उक्त्वा
  • वने प्रवृत्ताम् = कानने सम्भूताम्
  • चिरम् = बहुकालपर्यन्तं (पूर्वानुभूतव्यथायाः स्मरणेन)
  • रुदन्त्या = अश्रूणि मुञ्चन्त्या
  • जनकेन्द्रपुत्र्या = सीतया
  • चूडामणिः प्रेषितः एषः = शिरोभूषणं प्रेषितम् इदम्
  • तुभ्यम् = भवते श्रीरामाय

आकाङ्क्षा

  • प्रेषितः (अस्ति) ।
    • कः प्रेषितः ? चूडामणिः (कर्मपदम्)
      • कीदृशः चूडामणिः ? एषः
    • कस्मै प्रेषितः ? तुभ्यम्
    • कया प्रेषितः ? जनकेन्द्रपुत्र्या
      • कीदृश्या जनकेन्द्रपुत्र्या ? रुदन्त्या
        • कथं रुदन्त्या ? चिरम्
        • किं कृत्वा रुदन्त्या ? अभिज्ञाप्य
          • काम् अभिज्ञाप्य ? कथाम्
            • कीदृशीं कथाम् ? ब्रह्मास्त्रवित्रस्तजयन्तकृत्याम्
            • पुनः कीदृशीं कथाम् ? प्रवृत्ताम्
              • कुत्र प्रवृत्ताम् ? वने

अन्वयः

वने प्रवृत्तां ब्रह्मास्त्र-वित्रस्त-जयन्त-कृत्यां कथाम् अभिज्ञाप्य चिरं रुदन्त्या जनकेन्द्रपुत्र्या तुभ्यम् एषः चूडामणिः प्रेषितः (अस्ति) ।

भावार्थः

अभिज्ञानार्थं कामपि वार्तां पृष्टा सा ऋते भवद्‍भ्याम् इतरजनाज्ञातां चित्रकूटवने सम्भूतां घटनां श्रावितवती । अस्यां घटनायां काकरूपधृता इन्द्रसुतजयन्तेन चञ्च्वा तदीयस्तनविदारणरूपं दौष्ट्याचरणं, तस्य दण्डनार्थं त्वत्कृतः दर्भमयब्रह्मास्त्रप्रयोगः, ततः क्वापि रक्षणमलभमानस्य तस्य त्वदाश्रयणं, तव दयया तस्य अक्षिमात्रहरणं तस्मै अभयदानं चेति वृत्तान्तः समाविष्टः । अपि च भृशं रुदन्त्या तया भवते दातुं शिरोभूषणमिदं प्रेषितम् अस्ति । स्वामिन् ! इत्थं सीतादेव्या प्रहितं अभिज्ञानद्वयं निवेदयामि ।

व्याकरणम्

  • प्रेषितः = प्र + इष् “ईषँ गतौ” + क्त., प्र.वि., ए.व., लट्लकारे इष्यति
  • ब्रह्मास्त्र-वित्रस्त-जयन्त-कृत्याम् = ब्रह्मास्त्रात् वित्रस्तस्य जयन्तस्य कृत्यं यस्यां ताम् (कथाम्)
  • जनकेन्द्र-पुत्र्या
    • जनकेन्द्रः = जनकानाम् इन्द्रः (जनकानां कुले श्रेष्ठः)
    • जनकेन्द्र-पुत्र्या = जनकेन्द्रस्य पुत्री, तया

Word-Meaning

  • ब्रह्मास्त्र-वित्रस्त-जयन्त-कृत्याम् = that rendition (कृति) about Jayanta (जयन्त) who was scared (वित्रस्त) of the Brahmastra (ब्रह्मास्त्र) directed towards him by Srirama
  • कथाम् अभिज्ञाप्य = making known the story (कथा)
  • वने प्रवृत्ताम् = that which happened (प्रवृत्त) in the forest (वन)
  • जनकेन्द्रपुत्र्या = by Sita, the daughter (पुत्री) of Janaka (जनकेन्द्र)
    • रुदन्त्या = by her, who was profusely crying
      • चिरम् = for a long time
    • चूडामणिः प्रेषितः एषः = this Chudamani (चूडामणि) that was sent (प्रेषित)
    • तुभ्यम् = to you, Srirama
  1. श्लोकः

मूलपाठः
किं बहुना

देव! तस्याः, प्रतिष्ठासूनसूनाशैकपालितान् ।

मुद्रयित्वा प्रपन्नोऽहं तवाभिज्ञानमुद्रया ॥ ७७ ॥

इति श्रीविदर्भराजविरचिते चम्पूरामायणे सुन्दरकाण्डः समाप्तः |

पदच्छेदः

किम्, बहुना ।

देव! तस्याः प्रतिष्ठासून्, असून्, आशैकपालितान्, मुद्रयित्वा, प्रपन्नः अहम्, तव, अभिज्ञान-मुद्रया।

प्रतिपदार्थः

  • किं बहुना = किमधिककथनेन
  • देव = स्वामिन्
  • तस्याः = सीतादेव्याः
  • प्रतिष्ठासून् असून् = प्रस्थातुमिच्छून् प्राणान्
  • आशैकपालितान् =भवदागमनापेक्षामात्रेण कथञ्चित् धृतान्
  • मुद्रयित्वा = (प्रभुमुद्रिकादानेन देव्याः शिथिलान् प्राणान्) दृढीकृत्य
  • प्रपन्नः अहम् = समागतः अयं जनः
  • तव अभिज्ञान-मुद्रया = त्वदीयेन अभिज्ञानरूपेण अङुलीयकेन

आकाङ्क्षा

  • देव !
  • प्रपन्नः (अस्मि)
    • कः प्रपन्नः (अस्मि) ? अहम्
    • किं कृत्वा प्रपन्नः अस्मि ? मुद्रयित्वा
      • कान् मुद्रयित्वा ? असून्
        • कस्याः असून् ? तस्याः
        • कीदृशान् असून् ? प्रतिष्ठासून्
        • पुनः कीदृशान् असून् ? आशैकपालितान्
      • कया मुद्रयित्वा ? अभिज्ञानमुद्रया
        • कस्य अभिज्ञानमुद्रया ? तव

अन्वयः

देव ! किं बहुना ! तस्याः प्रतिष्ठासून् (किन्तु) आशैकपालितान् असून् तव अभिज्ञानमुद्रया मुद्रयित्वा प्रपन्नः (अस्मि) अहम् ।

भावार्थः

स्वामिन् ! शोकमापन्नायाः देव्याः विषादस्य विशदवर्णनेन किम् । सन्तापाधिक्यात् प्राणान् त्यक्तुम् उद्यता किन्तु तव आगमनप्रतीक्षया कथमपि तान् धारयन्ती कालं नयति । शिथिलाशायां तस्यां त्वत्प्रेषिताङ्गुलीभूषाम् अर्पयित्वा तां समाश्वास्य च अत्र त्वत्पुरतः आगतोऽस्मि ।

व्याकरणम्

  • प्रपन्नः = प्र + पद् “पदँ गतौ” + क्त., पुल्लिङ्गः, लट्लकारे पद्यते
  • प्रतिष्ठासून् = प्र + स्था “ष्ठा गतिनिवृत्तौ” + सन् (इच्छार्थे सन् प्रत्ययः)
  • आशैकपालितान्
    • आशैका = आशा एका
    • आशैकया पालिताः = आशैकपालिताः, तान्
  • अभिज्ञानमुद्रया = अभिज्ञानाय मुद्रा, तया
  • असून् = असु उकारान्तः पु., द्वि.वि., ब.व. | प्रथमा असुः, असू, असवः | द्वितीया असुम्, असू, असून्

Word-Meaning

  • किं बहुना = What is the use of elaboration!
  • देव = Hey Deva!
  • प्रपन्नः अहम् = I who has arrived at your place
  • मुद्रयित्वा = upon strengthening
    • प्रतिष्ठासून् असून् = the life-breath (असु) that is wishing to leave
      • तस्याः = of her, Sita
    • आशैकपालितान् = those that were protected (पालित) by the only (एक) hope (आशा)
    • तव अभिज्ञान-मुद्रया = by your token seal in the form of the ring

 

इति श्रीविदर्भराजविरचिते चम्पूरामायणे सुन्दरकाण्डः समाप्तः = Thus ends the Book of Beauty (Sundarakanda) in the glorious Champu Ramayana written by the king of Vidarbha, King Bhoja.

References:

  1. Notes prepared by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai for the Weekly online classes that she conducted, which is available in YouTube for viewing.
    https://youtu.be/srOz9iBNEws?list=PLTWf5ZhGT3626J-nV5_kCc1f3i4fOyGkX
  2. Champu-ramayana, Chaukhamba Amarabharati Prakashan
    श्रीभोजराजसार्वभौमविरचितं चम्पूरामायणम्, कल्याणी संस्कृत-हिन्दिव्याख्याद्वयोपितम्, (सुन्दरकाण्डम्), व्याख्याकारः – पण्डित रामनाथत्रिपाठी शास्त्री,
    चौखम्बा अमरभारती प्रकाशन, वाराणसी, १९७९
    champu
  3. Original Text (is being updated in wikisource after each class) https://sa.wikisource.org/wiki/चम्पूरामायणम्/सुन्दरकाण्डः
  4. English translation
    http://samkshiptasahityam.blogspot.in/2013/08/bhojarajas-champuramayanam.html
  5. Champu-ramayana by Javaji Tukaram; Text and commentary – PDF https://archive.org/stream/in.ernet.dli.347687/2015.347687.Champu-ramayana#page/n41/mode/2up
  6. For any corrections, please contact nivedita(dot)yrsk@gmail(dot)com