(Video) ChampuRamayanam – Sundarakandam – Smt. Vidhya #19

भोजचम्पूरामायणम् – सुन्दरकाण्डम् – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै (King Bhoja’s Champu-Ramayanam – Sundarakandam– Weekly online classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai). https://nivedita2015.wordpress.com/sanskrit-kavyas/video-bhojas-champuramayanam-sundarakandam-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions.

Advertisements

(Video) ChampuRamayanam – Sundarakandam – Smt. Vidhya #18

भोजचम्पूरामायणम् – सुन्दरकाण्डम् – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै (King Bhoja’s Champu-Ramayanam – Sundarakandam– Weekly online classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai). https://nivedita2015.wordpress.com/sanskrit-kavyas/video-bhojas-champuramayanam-sundarakandam-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions.

(Video) ChampuRamayanam – Sundarakandam – Smt. Vidhya #17

The draft notes is placed here. Refer the page mentioned below for the updated notes.

भोजचम्पूरामायणम् – सुन्दरकाण्डम् – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै (King Bhoja’s Champu-Ramayanam – Sundarakandam– Weekly online classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai). https://nivedita2015.wordpress.com/sanskrit-kavyas/video-bhojas-champuramayanam-sundarakandam-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions.

19/4/18 पुनःस्मारणम्

तदनु सरभसमारक्षिकरक्षोगणनिवेदितप्रमदावनकदनकुपितदशवदनप्रेषितान्पितृपति-किङ्कर-भयङ्करा४न्किङ्करान्प्रहस्तपुत्रेण जम्बुमालिना सह निहत्य चैत्यतोरणमुपगतवति हनूमति ।

पदच्छेदः

तदनु, सरभसम्, आरक्षिक-रक्षोगण-निवेदित-प्रमदावन-कदन-कुपित-दशवदन-प्रेषितान्, पितृपति-किङ्कर-भयङ्करान्, किङ्करान्, प्रहस्तपुत्रेण, जम्बुमालिना सह, निहत्य,चैत्यतोरणम्, उपगतवति, हनूमति ।

सरभसम्  = त्वरया / सत्वरम्

प्रमदः = अशोकः, हर्षः

कदनम् = नाशनम् (कद् वैक्लव्ये (कदते) + ल्युट्)

पितृपति-किङ्कर-भयङ्करान् =  यम-दूत-क्रूरान्

चैत्यतोरणम् = प्रासादद्वार्स्य उपरितनभागः

प्रहस्तः कः ?  सेनाध्यक्षः

पितृपतिकिङ्करभयङ्करान् –

“तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम्

निर्ययुर्भवनात् तस्मात् कूटमुद्गरपाणयः ।”

पुनरपि निशमितामितनिशिचरगणमारणो रावणः सचिवान्पञ्च पञ्चाननपराक्रमान्प्रहसन-प्रमुखान्वलीमुखं जीवग्राहं गृह्णीध्वमिति प्राहिणोत् ।

पदच्छेदः

पुनरपि, निशमित-अमित-निशिचर-गणमारणः, रावणः, सचिवान्, पञ्च, पञ्चानन-पराक्रमान्, प्रहसन-प्रमुखान्, वलीमुखम्, जीवग्राहम्, गृह्णीध्वम्, इति, प्राहिणोत् ।

निशमितम् = श्रुतम्

अमितनिशिचरगणमारणम् = असङ्ख्याक-राक्षस-समूह-वधः

निशमितम् अमितनिशिचरगणमारणं येन सः (रावणः)

सचिवान् पञ्च

पञ्चाननपराक्रमान् प्रहसनप्रमुखान् = सिंहसदृशशूरान् प्रहसनादीन् / प्रहस्तादीन्

वलीमुखः = वानरः (वल्यः (रेखाः) मुखे यस्य सः)

जीवग्राहम् (अव्ययम्) = जीवन्तम्

गृह्णीध्वम् = गृह्णन्तु ।

प्राहिणोत् = प्रेषितवान् । ‘हि’ गति वृद्धौ हिनोति

निशमितामितनिशिचरगणमारणः…..

न कश्चिदुदेशो यस्तेन न विनाशितः ।

यत्र सा जानकी देवी स तेन न विनाशितः ॥

सचिवान् पञ्च प्राहिणोत् –

स विरूपाक्ष-यूपाक्षौ दुर्धरं चैव राक्षसम् ।

प्रघसं भासकर्णं च पञ्च सेनाग्रनायकान् ॥ २/४६

सन्दिदेश दशग्रीवो वीरान् नयविशारदान् । ३/४६

तत्र तानपि तोरणपरिघेण पञ्च पञ्चतां नीत्वा मुहुर्मुहुर्दाशरथिदूतोऽहमित्यात्मानमुद्घोषयन्तं हनूमन्तं नियन्तुं नियन्ता निखिलरक्षसामध्यक्षमक्षकुमारमध्यक्षिपत् ।

पदच्छेदः

तत्र, तान्, अपि, तोरण-परिघेण, पञ्च, पञ्चताम्, नीत्वा, मुहु-र्मुहुः, दाशरथिदूतः, अहम्, इति, आत्मानम्, उद्घोषयन्तम्, हनूमन्तम्, नियन्तुम्, नियन्ता, निखिल-रक्षसाम्,अध्यक्षम्, अक्षकुमारम्, अध्यक्षिपत् ।

तोरणपरिघेण – तोरणे स्थितेन अर्गलेन

पञ्च – पञ्च सचिवान्

पञ्चतां नीत्वा = हत्वा

नियन्तुम् – निग्रहीतुम्

निखिलरक्षसां नियन्ता – सकलराक्षसानाम् अधिपतिः

अध्यक्षः – अक्ष्णोः पुरः अवस्थितः  (सेनाध्यक्षः)

अध्यक्षिपत् – निन्दितवान्

वक्षःसंघट्टचूर्णीकृतकनकमहाभित्तिचैत्योत्थधूल्या                                                                             नक्षत्राणामकाले सरणिमरुणयन्वीरलक्ष्म्या समेतः ।                                                                                   रक्षःशूराख्यशारां क्षितितलफलके क्षेपणीयां हनूमान्                                                          अक्षक्रीडां विधातुं दशमुखनगरीचत्वरे तत्वरेऽसौ  ॥३८॥

पदच्छेदः                           

वक्षःसंघट्ट-चूर्णीकृत-कनकमहाभित्ति-चैत्योत्थधूल्या, नक्षत्राणाम्, अकाले, सरणिम्, अरुणयन्, वीरलक्ष्म्या, समेतः, रक्षःशूराख्यशाराम्, क्षितितलफलके, क्षेपणीयाम्,हनूमान्, अक्षक्रीडाम्, विधातुम्, दशमुख-नगरी-चत्वरे, तत्वरे, असौ ।

प्रतिपदार्थः

वक्षःसंघट्ट-चूर्णीकृत-कनकमहाभित्ति-चैत्योत्थधूल्या = वक्षःस्थलस्य सङ्घर्षणेन                                                प्रासादस्य उन्नतस्वर्णभित्तयः चूर्णतां प्रापिताः                                                अभवन् । तस्मात् उद्गतेन स्वर्णमयेन रजसा,

नक्षत्राणाम् अकाले सरणिम् अरुणयन् =  निशावेलायाम् अनासन्नायाम् अपि                                                           तारकानां पदवीम् (आकाशम्) संरञ्जयन्

वीरलक्ष्म्या समेतः = महावीरः हनूमान्

रक्षःशूराख्यशाराम् = राक्षसयोधाः एव अक्षगुटिकाः यस्यां (अक्षकीडायाम्), तादृशीं

क्षितितलफलके = भूतलम् एव अक्षपटम्, तस्मिन्

क्षेपणीयाम् = निपातनीयाम्

हनूमान् = मारुतिः

अक्षक्रीडाम्  = अक्षकुमारसंहाररूपां क्रीडाम्

विधातुम् = रचयितुम्

दशमुख-नगरी-चत्वरे = लङ्कापुरस्य प्राङ्गणे

तत्वरे  = त्वरां कृतवान्

असौ = अयम् हनूमान् ।

आकाङ्क्षा

तत्वरे ।

कः तत्वरे ?

कीदृशः असौ ?

कुत्र तत्वरे ?

किं कर्तुं तत्वरे ?

कां विधातुम् ?

कुत्र विधातुम् ?

कीदृशीम् अक्षक्रीडाम् ?

पुनः कीदृशीम् अक्षक्रीडाम् ?

कीदृशः असौ तत्वरे ?

कया समेतः ?

पुनः कीदृशः असौ तत्वरे ?

काम् अरुणयन् ?

केषां सरणिम् ?

कदा अरुणयन् ?

कया अरुणयन् ?

विशेषः

================================

19/4/18 वर्गः

तत्क्षणं क्षणदाचराणां मिषतामेव निष्पादित-रङ्ग-निष्पेष-कृत्यश्चैत्य-प्रासादमुत्पाटित-स्तम्भ-जात-जातवेदसा दग्ध्वा भूयोप्युपाश्रिततोरणः समीरणसुतो बभूव । एनमपि वृत्तान्तं श्रुत्वा कुपितस्य निशाचरपतेर्युगपदेव निपेतुः पुत्रे सुत्रामजिति समितिहेतोर्विंशतिदृष्टयः ।

पदच्छेदः

तत्क्षणम्, क्षणदाचराणाम्, मिषताम्, एव, निष्पादित-रङ्ग-निष्पेष-कृत्यः, चैत्यप्रासादम्, उत्पाटित-स्तम्भ-जात-जातवेदसा, दग्ध्वा, भूयः, अपि, उपाश्रित-तोरणः समीरणसुतः,बभूव । एनम्, अपि, वृत्तान्तम्, श्रुत्वा, कुपितस्य, निशाचरपतेः, युगपत्, एव, निपेतुः, पुत्रे, सुत्रामजिति, समितिहेतोः, विंशतिदृष्टयः ।

अन्वयः प्रतिपदार्थः च

निष्पादितरङ्गनिष्पेषकृत्यः = रणभूमौ अक्षसंहारः येन कृतः, तादृशः (हनूमान्)

तत्क्षणम् = सपदि एव

क्षणदाचराणां मिषताम् एव = राक्षसानां पश्यताम् (षष्ठी चानादरे), पश्यतः                                                    राक्षसान् अनादृत्य इति भावः

उत्पाटित-स्तम्भ-जात-जातवेदसा = स्तम्भस्य समुन्मूलनेन उत्पन्नाग्निना

चैत्यप्रासादम् दग्ध्वा = चैत्यगोपुरं भस्मीकृत्य

भूयः अपि = पुनरपि

उपाश्रित-तोरणः = तोरणान्तरम् आरूढः

समीरणसुतः = पवनपुत्रः

बभूव  = अभवत् ।

एनम् अपि वृत्तान्तं श्रुत्वा = अक्षकुमारवधं तोरणदहनं च आकर्ण्य

कुपितस्य निशाचरपतेः = रुष्टस्य राक्षसराजस्य

विंशतिदृष्टयः = विंशतिसङ्ख्याकानि नेत्राणि

युगपत् एव  = तस्मिन् क्षणे एव

समितिहेतोः = युद्धाय (युद्धस्य कृते)

पुत्रे सुत्रामजिति = सुते इन्द्रजिति

निपेतुः = अपतन् ।

भावार्थः

अनिमिषभुवने वा व्योम्नि वा भूतले वा

       समरमुपगतं त्वां वीक्षितुं कः समर्थः ।      

इति नुतिवचनेन श्लाघयन्मेघनादं

       प्लवगमिह नयेति प्राहिणोद्राक्षसेन्द्रः  ॥३९॥

पदच्छेदः

अनिमिष-भुवने, वा, व्योम्नि, वा, भूतले, वा, समरम्, उपगतम्, त्वाम्, वीक्षितुम्, कः, समर्थः, इति, नुति-वचनेन, श्लाघयन्, मेघनादम्, प्लवगम्, इह, नय, इति, प्राहिणोत्,राक्षसेन्द्रः ।

प्रतिपदार्थः

अनिमिषभुवने वा = देवलोके वा

व्योम्नि वा = आकाशे वा

भूतले वा = पृथिव्यां वा

समरम् उपगतं त्वाम् = युद्धभूमिं प्राप्तं त्वां

वीक्षितुम् = द्रष्टुम् (अपि)

कः समर्थः इति = कः शक्तः इति

नुति-वचनेन श्लाघयन् = प्रेरणावचसा प्रशंसन्

मेघनादम्  = पुत्रम् इन्द्रजितम्

प्लवगम् इह नय इति = वानरम् अत्र आनय इति

प्राहिणोत्  = प्रेषितवान्

राक्षसेन्द्रः  = निशाचरपतिः

अन्वयः

अनिमिष-भुवने वा व्योम्नि वा भूतले वा समरम् उपगतम् त्वाम् वीक्षितुम् कः समर्थः, (कोऽपि न समर्थः), इति नुति-वचनेन श्लाघयन् राक्षसेन्द्रः प्लवगम् इह नय इतिमेघनादं प्राहिणोत् ।

श्रीमद्वाल्मीकिरामायणे

त्वमस्त्रविच्छस्त्रभृतां वरिष्ठः

सुरासुराणामपि शोकदाता ।

सुरेषु सेन्द्रेषु च दृष्टकर्मा

पितामहाराधनसञ्चितास्त्रः ॥ ४८/२

नेतुं शोकरसं निशाचरपतेर्हन्तुं चमूं रक्षसां

                     तस्यान्तःपुरयोषितां रचयितुं मानं विना रोदनम् ।  

सूर्याचन्द्रमसोः प्रवेशविकलां लङ्कापुरीमग्निना  

                      शुद्धां कर्तुममुष्य वासवजिता जातो रणस्तोरणे  ॥४०॥

पदच्छेदः

नेतुम्, शोकरसम्, निशाचरपतेः, हन्तुम् ,चमूम्, रक्षसाम्, तस्य, अन्तःपुरयोषिताम्, रचयितुम्, मानम्, विना, रोदनम्, सूर्याचन्द्रमसोः, प्रवेशविकलाम्, लङ्कापुरीम्, अग्निना ,शुद्धाम्, कर्तुम्, अमुष्य, वासवजिता, जातः, रणः, तोरणे ।

प्रतिपदार्थः

नेतुम् शोकरसं निशाचरपतेः = प्रापयितुं विषादं रावणस्य

हन्तुम् चमूं रक्षसाम् = नाशयितुं सेनां राक्षसानाम्

तस्य अन्तःपुरयोषिताम् रचयितुम् = रावणस्य अवरोधस्‍त्रीणां कर्तुम्

मानं विना रोदनम् = सीमां विना क्रन्दनम्

सूर्याचन्द्रमसोः = दिवाकरनिशाकरयोः

प्रवेशविकलां लङ्कापुरीम् = प्रवेशदुर्लभां लङ्कानगरीम्

अग्निना शुद्धां कर्तुम् = वह्निना पावयितुम्

अमुष्य = अस्य (हनूमतः)

वासवजिता = मेघनादेन (सह)

जातः रणः = अभवद् युद्धम्

तोरणे = बहिर्द्वारे

आकाङ्क्षा

जातः (अभवत्) – मुख्यक्रिया

नेतुं, हन्तुं, रचयितुं, कर्तुम् – सहायकक्रियाः

कः जातः ? रणः

रणः कुत्र जातः ? तोरणे

कस्य ? अमुष्य (हनूमतः)

केन (सह) ? वासवजिता

किं कर्तुम् ? नेतुम्

कं (प्रति) नेतुम् ? शोकरसम्

कस्य ? निशाचरपतेः

पुनः किं कर्तुम् ? हन्तुम्

कां हन्तुम् ? चमूम्

केषां चमूम् ? रक्षसाम्

पुनः किं कर्तुम् ? रचयितुम्

किं रचयितुम् ? मानं विना रोदनम्

कासाम् ? अन्तःपुरयोषिताम्

कस्य अन्तःपुरयोषिताम् ? तस्य (रावणस्य)

पुनः किं कर्तुम् ? शुद्धां कर्तुम्

कां शुद्धां कर्तुम् ? लङ्कापुरीम्

कीदृशीं लङ्काम् ? प्रवेशविकलाम्

कयोः प्रवेशविकलाम् ? सूर्यचन्द्रमसोः

केन शुद्धां कर्तुम् ? अग्निना

अन्वयः

निशाचरपतेः शोकरसं नेतुं, रक्षसां चमूं हन्तुं, तस्य अन्तःपुरयोषितां मानं विना रोदनं रचयितुं, सूर्याचन्द्रमसोः प्रवेशविकलां लङ्कापुरीम् अग्निना शुद्धां कर्तुम्, अमुष्यवासवजिता तोरणे रणः जातः ।

संग्रामदुर्दिने तस्मिञ्जहर्ष शरवर्षिणि ।

बर्हीव मेघनादेन मेघनादेन मारुतिः ॥ ४१॥

पदच्छेदः

संग्राम-दुर्दिने, तस्मिन्, जहर्ष, शर-वर्षिणि, बर्ही, इव, मेघनादेन,                                         मेघनादेन, मारुतिः ।

प्रतिपदार्थः

संग्राम-दुर्दिने तस्मिन् = युद्धरूपमेघाच्छन्नदिवसे तस्मिन् (दुर्दिनम् – मेघाच्छन्नं                                                                                  दिनम)

जहर्ष =  हृष्टवान्

शर-वर्षिणि = शरान् वर्षति इति / शराणि वर्षति इति, तथोक्ते (शरवर्शिणि दुर्दिने)

(शरः = बाणः, शरम् = नीरम्)

बर्ही इव मेघनादेन  = मयूरः इव घनगर्जितेन

मेघनादेन मारुतिः = इन्द्रजिता हनूमान् ।

आकाङ्क्षा

जहर्ष

कः जहर्ष ? मारुतिः

केन जहर्ष ? मेघनादेन

कदा जहर्ष ? तस्मिन् सङ्ग्रामदुर्दिने

कीदृशे सङ्ग्रामदुर्दिने ? शरवर्षिणि

कः इव जर्ष ? बर्ही मेघनादेन इव

अन्वयः

तस्मिन् शरवर्षिणि सङ्ग्रामदुर्दिने बर्ही मेघनादेन इव मारुतिः मेघनादेन जहर्ष ।

श्रीमद्वाल्मीकिरामयणे

इन्द्रजित् स रथं दिव्यं तूर्णं=मिन्द्रध्वजं कपिः ।

ननाद च महानादं व्यवर्धत च वेगवान् ॥ ४८ /२४

तदनु यातुधानबलप्रधाननिधनक्रुद्धो विविधायुधवैतथ्यं विमृश्य विजयश्रीसंगतगन्धं गन्धवहनन्दनं सतानन्दास्त्रेण बबन्ध दशकन्धरात्मजः ।

पदच्छेदः

तदनु, यातुधान-बल-प्रधान-निधन-क्रुद्धः, विविधायुध-वैतथ्यम्, विमृश्य, विजयश्रीसंगत-गन्धम्, गन्धवह-नन्दनम्, सतानन्दास्‍त्रेण, बबन्ध, दशकन्धरात्मजः ।

अन्वयः

तदनु यातुधान-बल-प्रधान-निधन-क्रुद्धः दशकन्धरात्मजः विविधायुध-वैतथ्यं विमृश्य   विजयश्रीसंगतगन्धं गन्धवह-नन्दनं सतानन्दास्‍त्रेण बबन्ध ।

भावार्थः

ततः परं राक्षस-सेना-नायकानां संहारेण कुपितः दशग्रीवपुत्रः हनूमति नानाविधानाम् अस्‍त्राणाम् व्यर्थतां विगणय्य विजयलक्ष्म्याः सम्बन्धं प्राप्तवन्तं तं पवनपुत्रं ब्रह्मास्‍त्रेण निगृहीतवान् ।

(Video) ChampuRamayanam – Sundarakandam – Smt. Vidhya #16

The draft notes is placed here.

भोजचम्पूरामायणम् – सुन्दरकाण्डम् – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै (King Bhoja’s Champu-Ramayanam – Sundarakandam– Weekly online classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai). https://nivedita2015.wordpress.com/sanskrit-kavyas/video-bhojas-champuramayanam-sundarakandam-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions.

5/4/18 पुनःस्मारणम्

सैषा परिचितकथास्मरणाद्विगुणितदुर्दशा केशपिनद्धमपरमिदमभिज्ञानमुन्मुच्य …

पदच्छेदः

सा, एषा, परिचितकथास्मरणात्, द्विगुणितदुर्दशा, केशपिनद्धम्, अपरम्, इदम्, अभिज्ञानम्, उन्मुच्य ….

इत्थं काकासुरकुचेष्टितं च श्रीरामकृपां च स्मारयन्तीं घटनां श्रावितवती सीता पूर्वानुभूतस्य वृत्तान्तस्य भूयः स्मरणात् इतोऽपि शोकाकुला सती केशेषु संलग्‍नं अन्यत् अभिज्ञानं (श्रीरामाय दर्शयितुं परिचायकं वस्तु) अवकृष्य (ददौ इति वक्ष्माणेन श्लोकेन अन्वयः)

केशपिनद्धम्

पिनद्धम् = अपि + ‘नह्’ बन्धने नह्यति / नह्यते + क्त

चूडामणिं कपिवरस्य ददौ दशास्य-

संत्रासपुञ्जितरुषाग्निदशं कृशाङ्गी        

आदाय तम्प्रणतिपूर्वमसौ प्रतस्थे

माणिक्यगर्भवदनोरगतुल्यबाहुः ॥३६॥

पदच्छेदः

चूडामणिम्, कपिवरस्य, ददौ, दशास्य-संत्रास-पुञ्जित-रुषाग्नि-दशम्, कृशाङ्गी, आदाय, तम्, प्रणतिपूर्वम्, प्रतस्थे, असौ, माणिक्य-गर्भ-वदनोरगतुल्यबाहुः ।

प्रतिपदार्थः

चूडामणिम् = शिरोरत्नम्

कपिवरस्य = वानरश्रेष्ठस्य

ददौ = प्रायच्छत्

दशास्य-संत्रास-पुञ्जित-रुषाग्नि-दशम् = रावणात् यद् भयं तेन उपचितः कोपः एव अग्‍निः, तादृशस्य कोपाग्नेः दशा यस्य तम् (चूडामणिम्)

कृशाङ्गी = विरहवेदनया दुर्बलशरीरा

आदाय = गृहीत्वा

तम्  = मणिम्

प्रणतिपूर्वम् = नमस्कारपूर्वकम्

प्रतस्थे = प्रस्थितवान्

असौ =  हनूमान्

माणिक्य-गर्भ-वदनोरगतुल्यबाहुः = करतले चूडामणिं गृह्णतः हनूमतः बाहुः तादृशः सर्पः इव अशोभत यस्य मुखस्य अभ्यन्तरे (गर्भे) माणिक्यं विलसति ।

आकाङ्क्षा

ददौ –

का ददौ ?

कृशाङ्गी कं ददौ ?

कीदृशं चूडामणिं ददौ ?

कस्य ददौ ?

प्रतस्थे ।

कः प्रतस्थे ?

असौ किं कृत्वा प्रतस्थे ?

कम् आदाय ?

कथम् आदाय ?

कीदृशः सन् प्रतस्थे ?

अन्वयः

कृशाङ्गी कपिवरस्य दशास्य-संत्रास-पुञ्जित-रुषाग्नि-दशं चूडामणिं ददौ । असौ तं (मणिं) प्रणतिपूर्वम् आदाय माणिक्यगर्भवदनोरगतुल्यबाहुः (सन्) प्रतस्थे ।

ततः कृतकृत्य एव निर्गत्य निजागमनं निशाचरपतेः प्रकाशयितुम् अशोकवनिकां बभञ्ज प्रभञ्जनात्मजः ।

पदच्छेदः

ततः, कृतकृत्यः, एव, निर्गत्य, निजागमनम्, निशाचरपतेः, प्रकाशयितुम्, अशोकवनिकाम्, बभञ्ज, प्रभञ्जनात्मजः ।

व्याकरणम्

कृतकृत्यः = कृतं कृत्यं येन सः

निशाचरपतेः = निशायां चरन्ति इति निशाचराः ।

निशाचराणां पतिः, निशाचरपतिः, तस्य

अवधेयम् –

‘पति’ शब्दः –

प्र.वि.         पतिः         पती           पतयः

ष.वि.         पत्युः          पत्योः         पतीनाम्

अस्य रूपं समासान्ते ‘हरि’ शब्दवत् भवति ।

प्र. वि.        निशाचरपतिः       निशाचरपती        निशाचरपतयः

ष. वि.        निशाचरपतेः        निशाचरपत्योः      निशाचरपतीनाम्

प्रभञ्जनात्मजः

प्रकर्षेण भनक्ति वृक्षादीन् इति प्रभञ्जनः । (प्र + भञ्ज)

प्रभञ्जनस्य आत्मजः ।

निजागमनं निशाचरपतेः प्रकाशयितुम् अशोकवनिकां बभञ्ज प्रभञ्जनात्मजः – तत्र भञ्जनस्य हेतुः उच्यते श्रीमद्वाल्मीकिरामायणे –

न साम रक्षःसु गुणाय कल्पते

न दानमर्थोपचितेषु युज्यते ।

न भेदसाध्या बलदर्पिता जनाः

पराक्रमस्त्वेष ममेह रोचते ॥ ३/४१

कः कार्यसाधकः ?

कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत् ।

पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥ ५/४१

स्वकृत्यैः शाखानामवनतिमतीव प्रकटय-

       न्नमार्गेण भ्राम्यन्परिकलितभङ्गः सुमनसाम्     

द्विजानां संत्रासं श्रुतिमधुरवाचां विरचय-

         न्नयं लङकोद्याने दशवदनलीलामतनुत ॥३७ ॥

पदच्छेदः

स्वकृत्यैः, शाखानाम्, अवनतिम्, अतीव, प्रकटयन्,  अमार्गेण, भ्राम्यन्, परिकलितभङ्गः, सुमनसाम्, द्विजानाम्, संत्रासम्, श्रुतिमधुरवाचाम्, विरचयन्, अयम्, लङकोद्याने,दशवदनलीलाम्, अतनुत ।

आकाङ्क्षा

अतनुत

कः ? अयम्

अयं काम् अतनुत ? दशवदनलीलाम्

कैः ? स्वकृत्यैः

कुत्र ? लङ्कोद्याने

किं कुर्वन् ? प्रकटयन्

कां प्रकटयन् ? शाखानाम् अतीव अवनतिम्

पुनः किं कुर्वन् ? अमार्गेण भ्राम्यन्

कथम्भूतः सन् ? सुमनसां परिकलितभङ्गः सन्

पुनः किं कुर्वन् ? द्विजानां सन्त्रासं विरचयन्

कीदृशानां द्विजानाम् ? श्रुतिमधुरवाचाम्

अन्वयः

अयं लङ्कोद्याने स्वकृत्यैः शाखानाम् अतीव अवनतिं प्रकटयन् अमार्गेण भ्राम्यन् सुमनसां परिकलितभङ्गः सन् श्रुतिमधुरवाचां द्विजानां सन्त्रसं विरचयन् दशवदनलीलाम् अतनुत ।

प्रतिपदार्थः

अयम् = हनूमान्

लङकोद्याने =  अशोकवाटिकायाम्

स्वकृत्यैः = मारुतेः पक्षे कूर्दनप्लवनादिव्यापारै / रावणपक्षे वेदविरुद्धाचरणेन

शाखानाम् अवनतिम् अतीव प्रकटयन् = तरुविटपानां भुग्नत्वम् अत्यन्तं कारयन् /

वेदशाखानाम् अत्यन्तं ह्रासं कारयन्

अमार्गेण भ्राम्यन् = अगम्यस्थलेषु सञ्चरन् / लोकविरुद्ध-वर्त्मनि स्थितः सन्

सुमनसाम् परिकलितभङ्गः = पुष्पाणां विमर्दकः सन् / देवानाम् उद्वेजकः सन्

श्रुतिमधुरवाचां द्विजानां संत्रासं कुर्वन् = श्रवणसुखं शब्दं कुर्वतां पक्षिणाम् भीतिं                        जनयन् / सुस्वरं वेदपाठं कुर्वतां विप्राणां भयं कारयन्

अयम् = हनूमान्

दशवदनलीलाम् = रावणकृत्यम् इव कृत्यम्

अतनुत = अकरोत्  ।

श्लेषानुप्राणित-निदर्शनालङ्कारः

शाखाः = कठकौथुमादिशाखाः

सुमनाः = सुमनाः पुष्पमालत्योः स्‍त्री., देवबुधयोः पुमान्

श्रुतिः श्रोत्रे तथा आम्नाये

दन्त-विप्राण्डजाः द्विजाः

भावार्थः

यथा रावणः वेदविरुद्धाचारैः कठकौथुमादिवेद-शाखानाम् अवनतिम् अकरोत् तथा हनूमान् कूर्दनप्लवनादिकृत्यैः अशोकवनस्थवृक्षशाखानां भुग्नत्वम् अकल्पयत् । यथा रावणः लोकविरुद्धकृत्यैः सुमनसः (देवान्) अभिवावयति स्म तथा मारुतिः इतस्ततः सञ्चरन् सुमनसः (पुष्पाणि) व्यमर्दयत् । यथा रावणः श्रुतिमधुरान् (वेदमधुरान्) मन्त्रान् पठतः द्विजान् (विप्रान्) उद्वेजयति स्म तथा मारुतिः तत्रत्यान् श्रुतिमधुरं (कर्णमधुरं) रवं कुर्वतः  द्विजान् (पक्षिणः) अभाययत् । इत्थं रावणः लङ्कायाः अशोकवाटिकायां रावणकृत्यानि एव अन्वकरोत् ।

===========================================

5/4/18 वर्गः

तदनु सरभसमारक्षिकरक्षोगणनिवेदितप्रमदावनकदनकुपितदशवदनप्रेषितान्पितृपतिकिङ्करभयङ्करान्किङ्करान्प्रहस्तपुत्रेण जम्बुमालिना सह निहत्य चैत्यतोरणमुपगतवति हनूमति ।

पदच्छेदः

तदनु, सरभसम्, आरक्षिक-रक्षोगण-निवेदित-प्रमदावन-कदन-कुपित-दशवदन-प्रेषितान्, पितृपति-किङ्कर-भयङ्करान्, किङ्करान्, प्रहस्तपुत्रेण, जम्बुमालिना सह, निहत्य,चैत्यतोरणम्, उपगतवति, हनूमति ।

सरभसम्  = त्वरया / सत्वरम्

प्रमदः = अशोकः, हर्षः

कदनम् = नाशनम् (कद् वैक्लव्ये (कदते) + ल्युट्)

पितृपति-किङ्कर-भयङ्करान् =  यम-दूत-क्रूरान्

चैत्यतोरणम् = प्रासादद्वार्स्य उपरितनभागः

प्रहस्तः कः ?  सेनाध्यक्षः

पितृपतिकिङ्करभयङ्करान् –

“तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम्

निर्ययुर्भवनात् तस्मात् कूटमुद्गरपाणयः ।”

पुनरपि निशमितामितनिशिचरगणमारणो रावणः सचिवान्पञ्च पञ्चाननपराक्रमान्प्रहसन-प्रमुखान्वलीमुखं जीवग्राहं गृह्णीध्वमिति प्राहिणोत् ।

पदच्छेदः

पुनरपि, निशमित-अमित-निशिचर-गणमारणः, रावणः, सचिवान्, पञ्च, पञ्चानन-पराक्रमान्, प्रहसन-प्रमुखान्, वलीमुखम्, जीवग्राहम्, गृह्णीध्वम्, इति, प्राहिणोत् ।

निशमितम् = श्रुतम्

अमितनिशिचरगणमारणम् = असङ्ख्याक-राक्षस-समूह-वधः

निशमितम् अमितनिशिचरगणमारणं येन सः (रावणः)

सचिवान् पञ्च

पञ्चाननपराक्रमान् प्रहसनप्रमुखान् = सिंहसदृशशूरान् प्रहसनादीन् / प्रहस्तादीन्

वलीमुखः = वानरः (वल्यः (रेखाः) मुखे यस्य सः)

जीवग्राहम् (अव्ययम्) = जीवन्तम्

गृह्णीध्वम् = गृह्णन्तु ।

प्राहिणोत् = प्रेषितवान् । ‘हि’ गति वृद्धौ हिनोति

निशमितामितनिशिचरगणमारणः…..

न कश्चिदुदेशो यस्तेन न विनाशितः ।

यत्र सा जानकी देवी स तेन न विनाशितः ॥

सचिवान् पञ्च प्राहिणोत् –

स विरूपाक्ष-यूपाक्षौ दुर्धरं चैव राक्षसम् ।

प्रघसं भासकर्णं च पञ्च सेनाग्रनायकान् ॥ २/४६

सन्दिदेश दशग्रीवो वीरान् नयविशारदान् । ३/४६

तत्र तानपि तोरणपरिघेण पञ्च पञ्चतां नीत्वा मुहुर्मुहुर्दाशरथिदूतोऽहमित्यात्मानमुद्घोषयन्तं हनूमन्तं नियन्तुं नियन्ता निखिलरक्षसामध्यक्षमक्षकुमारमध्यक्षिपत् ।

पदच्छेदः

तत्र, तान्, अपि, तोरण-परिघेण, पञ्च, पञ्चताम्, नीत्वा, मुहु-र्मुहुः, दाशरथिदूतः, अहम्, इति, आत्मानम्, उद्घोषयन्तम्, हनूमन्तम्, नियन्तुम्, नियन्ता, निखिल-रक्षसाम्,अध्यक्षम्, अक्षकुमारम्, अध्यक्षिपत् ।

तोरणपरिघेण – तोरणे स्थितेन अर्गलेन

पञ्च – पञ्च सचिवान्

पञ्चतां नीत्वा = हत्वा

नियन्तुम् – निग्रहीतुम्

निखिलरक्षसां नियन्ता – सकलराक्षसानाम् अधिपतिः

अध्यक्षः – अक्ष्णोः पुरः अवस्थितः  (सेनाध्यक्षः)

अध्यक्षिपत् – निन्दितवान्

वक्षःसंघट्टचूर्णीकृतकनकमहाभित्तिचैत्योत्थधूल्या                                                                             नक्षत्राणामकाले सरणिमरुणयन्वीरलक्ष्म्या समेतः ।                                                                                   रक्षःशूराख्यशारां क्षितितलफलके क्षेपणीयां हनूमान्                                                          अक्षक्रीडां विधातुं दशमुखनगरीचत्वरे तत्वरेऽसौ  ॥३८॥

पदच्छेदः                           

वक्षःसंघट्ट-चूर्णीकृत-कनकमहाभित्ति-चैत्योत्थधूल्या, नक्षत्राणाम्, अकाले, सरणिम्, अरुणयन्, वीरलक्ष्म्या, समेतः, रक्षःशूराख्यशाराम्, क्षितितलफलके, क्षेपणीयाम्,हनूमान्, अक्षक्रीडाम्, विधातुम्, दशमुख-नगरी-चत्वरे, तत्वरे, असौ ।

प्रतिपदार्थः

वक्षःसंघट्ट-चूर्णीकृत-कनकमहाभित्ति-चैत्योत्थधूल्या = वक्षःस्थलस्य सङ्घर्षणेन                                                प्रासादस्य उन्नतस्वर्णभित्तयः चूर्णतां प्रापिताः                                                अभवन् । तस्मात् उद्गतेन स्वर्णमयेन रजसा,

नक्षत्राणाम् अकाले सरणिम् अरुणयन् =  निशावेलायाम् अनासन्नायाम् अपि                                                           तारकानां पदवीम् (आकाशम्) संरञ्जयन्

वीरलक्ष्म्या समेतः = महावीरः हनूमान्

रक्षःशूराख्यशाराम् = राक्षसयोधाः एव अक्षगुटिकाः यस्यां (अक्षकीडायाम्), तादृशीं

क्षितितलफलके = भूतलम् एव अक्षपटम्, तस्मिन्

क्षेपणीयाम् = निपातनीयाम्

हनूमान् = मारुतिः

अक्षक्रीडाम्  = अक्षकुमारसंहाररूपां क्रीडाम्

विधातुम् = रचयितुम्

दशमुख-नगरी-चत्वरे = लङ्कापुरस्य प्राङ्गणे

तत्वरे  = त्वरां कृतवान्

असौ = अयम् हनूमान् ।

आकाङ्क्षा

तत्वरे ।

कः तत्वरे ?

कीदृशः असौ ?

कुत्र तत्वरे ?

किं कर्तुं तत्वरे ?

कां विधातुम् ?

कुत्र विधातुम् ?

कीदृशीम् अक्षक्रीडाम् ?

पुनः कीदृशीम् अक्षक्रीडाम् ?

कीदृशः असौ तत्वरे ?

कया समेतः ?

पुनः कीदृशः असौ तत्वरे ?

काम् अरुणयन् ?

केषां सरणिम् ?

कदा अरुणयन् ?

कया अरुणयन् ?

================================

(Video) ChampuRamayanam – Sundarakandam – Smt. Vidhya #15

भोजचम्पूरामायणम् – सुन्दरकाण्डम् – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै (King Bhoja’s Champu-Ramayanam – Sundarakandam– Weekly online classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai). https://nivedita2015.wordpress.com/sanskrit-kavyas/video-bhojas-champuramayanam-sundarakandam-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions.

(Video) ChampuRamayanam – Sundarakandam – Smt. Vidhya #14

भोजचम्पूरामायणम् – सुन्दरकाण्डम् – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै (King Bhoja’s Champu-Ramayanam – Sundarakandam– Weekly online classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai). https://nivedita2015.wordpress.com/sanskrit-kavyas/video-bhojas-champuramayanam-sundarakandam-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions.

(Video) ChampuRamayanam – Sundarakandam – Smt. Vidhya #13

TO BE CONDUCTED AGAIN