Gita Govindam Sarga-6 Ashtapadi-12 Anvaya

Refer https://nivedita2015.wordpress.com/sri-jayadevas-gita-govindam/ for the notes.

Advertisements

Garuda Gamana Tava Charana – Swami Bharati Tirtha

Verse 1

गरुडगमन तव चरणकमलमिह

मनसि लसतु मम नित्यम् | मनसि लसतु मम नित्यम् ॥

मम तापमपाकुरु देव |  मम पापमपाकुरु देव ॥

garuḍagamana tava caraṇakamalamiha

manasi lasatu mama nityam | manasi lasatu mama nityam ॥

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

Meaning :

  • garuḍa-gamana = Oh (God), who travels on Garuda;
  • tava = your; caraṇa-kamalam = lotus feet; lasatu = let (it) shine; nityam = always; iha = here; mama manasi = in my mind;
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

हे गरुडगमन | तव चरणकमलम् इह मम मनसि नित्यं लसतु | मम मनसि नित्यम् लसतु | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

Verse 2

  1. जलजनयन विधिनमुचिहरणमुख-

विबुधविनुतपदपद्म | विबुधविनुतपदपद्म

मम तापमपाकुरु देव | मम पापमपाकुरु देव ॥

  1. jalajanayana vidhinamuciharaṇamukha

vibudhavinutapadapadma | vibudhavinutapadapadma

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

Meaning:

  • jalaja-nayana = O (God), whose eyes are like lotus
  • pada-padma = O (God), who has lotus feet; vinuta = that is worshipped by; vibudha = numerous learned ones ; mukha = starting with; vidhi = Brahma (and); namuci-haraṇa = Indra, the killer of Namuci
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

हे जलजनयन | हे विधिनमुचिहरणमुखविबुधविनुतपदपद्म | हे विबुधविनुतपदपद्म | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

Verse 3

  1. भुजगशयन भव मदनजनक मम

जननमरण-भयहारी | जननमरण-भयहारी

मम तापमपाकुरु देव | मम पापमपाकुरु देव ॥

  1. bhujagaśayana bhava madanajanaka mama

jananamaraṇa-bhayahārī | jananamaraṇa-bhayahārī

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

English Meaning

  • bhujaga-śayana = O (God), whose bed is the serpent;
  • madana-janaka = O (God), the father of Kaama;
  • bhava = Become; mama = my; bhaya-hārī = dispeller of the fear; janana-maraṇa = of life and death;
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

हे भुजगशयन | हे मदनजनक | मम जननमरणभयहारी भव | जननमरणभयहारी (भव) | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

Verse 4

  1. शङ्खचक्रधर दुष्टदैत्यहर

सर्वलोक-शरण | सर्वलोक-शरण |

मम तापमपाकुरु देव | मम पापमपाकुरु देव ॥

  1. śaṅkhacakradhara duṣṭadaityahara

sarvaloka-śaraṇa | sarvaloka-śaraṇa

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

English Meaning:

  • śaṅkha-cakra-dhara = O (God), who adorns the conch and the disc;
  • duṣṭa-daitya-hara = O (God), the destroyer of the wicked Asuras;
  • sarva-loka-śaraṇa = O (God), the sole refuge for the entire world;
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

हे शङ्खचक्रधर |  हे दुष्टदैत्यहर | हे सर्वलोकशरण | हे सर्वलोकशरण | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

Verse 5

  1. अगणित-गुणगण अशरणशरणद

विदलित-सुररिपुजाल | विदलित-सुररिपुजाल

मम तापमपाकुरु देव | मम पापमपाकुरु देव ॥

  1. agaṇita-guṇagaṇa aśaraṇaśaraṇada

vidalita-suraripujāla | vidalita-suraripujāla

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

English Meaning:

  • agaṇita-guṇa-gaṇa = O (God), who possesses a collection of innumerable good qualities
  • aśaraṇa-śaraṇada = O (God), who is the giver of protection, to those without any refuge
  • vidalita-sura-ripu-jāla = O (God), who destroyed the collection of Asuras, the enemies of the Devas
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

हे अगणितगुणगण | हे अशरणशरणद |  हे विदलितसुररिपुजाल | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

Verse 6

  1. भक्तवर्यमिह भूरिकरुणया

पाहि भारतीतीर्थम् | पाहि भारतीतीर्थम् |

मम तापमपाकुरु देव | मम पापमपाकुरु देव ॥

  1. bhaktavaryamiha bhūrikaruṇayā

pāhi bhāratītīrtham | pāhi bhāratītīrtham

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

English Meaning:

  • pāhi = You protect; iha = here; bhūri-karuṇayā = with overwhelming compassion; bhāratītīrtham = Sri Bharati Tirtha Swami; bhakta-varyam = who is a principal devotee;
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

(त्वम्) इह भूरिकरुणया भक्तवर्यं भारतीतीर्थं पाहि | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

References:

 

  1. Dance Video – https://www.youtube.com/watch?v=TVxB1xde5lg
  2. Sanskrit Text –   https://meerasubbarao.wordpress.com/2017/04/26/%E0%A4%97%E0%A4%B0%E0%A5%81%E0%A4%A1%E0%A4%97%E0%A4%AE%E0%A4%A8-%E0%A4%A4%E0%A4%B5-%E0%A4%9A%E0%A4%B0%E0%A4%A3%E0%A4%95%E0%A4%AE%E0%A4%B2%E0%A4%AE%E0%A4%BF%E0%A4%B9-garudagamana-tava-charanakamalami/
  3. English Meaning – http://www.speakingtree.in/blog/maha-vishnu-stotra

Mahabharatam – PUC First Year – Lesson 4

Mahabharata – Karnataka PUC First Year – Lesson 4 – सत्त्वपरीक्षा

Note: The PUC book has the original text with the anvaya. Here, additionally padachcheda and the English meaning are provided.

श्लोकः – वनपर्व १४७.१०

हनूमानुवाच –

क एष हनूमान्नाम सागरो येन लङ्घितः |
पृच्छामि त्वां नरश्रेष्ठ कथ्यतां यदि शक्यते ||१||

पदच्छेदः

कः एषः हनूमान् नाम सागरः येन लङ्घितः पृच्छामि त्वाम् नरश्रेष्ठ कथ्यताम् यदि शक्यते

अन्वयः

नरश्रेष्ठ | त्वां पृच्छामि | यदि शक्यते कथ्यताम् | हनूमान् नाम कः एषः येन सागरः लङ्घितः |

English Meaning

नरश्रेष्ठ O best of men! त्वां पृच्छामि I ask thee. यदि शक्यते कथ्यताम् Tell if possible. हनूमान् नाम कः एषः Who is that Hanuman, येन सागरः लङ्घितः who had bounded over the ocean?

श्लोकः – वनपर्व १४७.११

भीम उवाच –

भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः |
रामायणेऽतिविख्यातः शूरो वानरपुङ्गवः ||२||

पदच्छेदः

भ्राता मम गुणश्लाघ्यः बुद्धिसत्त्वबलान्वितः रामायणे अतिविख्यातः शूरः वानरपुङ्गवः

अन्वयः

रामायणे अतिविख्यातः गुणश्लाघ्यः बुद्धिसत्त्वबलान्वितः शूरः वानरपुङ्गवः मम भ्राता (हनूमान्) |

English Meaning

He is रामायणे अतिविख्यातः renowned in the Ramayana, गुणश्लाघ्यः well praised for his good qualities, and बुद्धिसत्त्वबलान्वितः endued with intelligence, goodness and strength, वानरपुङ्गवः the illustrious chief of monkeys, मम भ्राता my brother, हनूमान् Hanuman.

श्लोकः – वनपर्व १४७.१३

स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा |
बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे ||३||

पदच्छेदः

सः मे भ्राता महावीर्यः तुल्यः अहम् तस्य तेजसा बले पराक्रमे युद्धे शक्तः अहम् तव निग्रहे |

अन्वयः

सः महावीर्यः मे भ्राता | बले पराक्रमे युद्धे अहं तेजसा तस्य तुल्यः | अहम् तव निग्रहे शक्तः |

English Meaning

सः महावीर्यः That mighty one is मे भ्राता my brother. तेजसा By my splendor अहम् I am तस्य तुल्यः equal to him बले पराक्रमे युद्धे with respect to strength, prowess and fight. And अहम् शक्तः able am I तव निग्रहे to punish thee.

श्लोकः – वनपर्व १४७.१४

उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम् |
मच्छासनमकुर्वाणं त्वां वा नेष्ये यमक्षयम् ||४||

पदच्छेदः

उत्तिष्ठ देहि मे मार्गम् पश्य वा मे अद्य पौरुषम् मत्+शासनम् अकुर्वाणम् त्वाम् वा नेष्ये यमक्षयम्

अन्वयः

उत्तिष्ठ | मे मार्गं देहि | अद्य मे पौरुषम् वा पश्य | मच्छासनम् अकुर्वाणं त्वां यमक्षयम् नेष्ये वा ?

English Meaning

उत्तिष्ठ So arise.  Either मे मार्गं देहि give me passage मे पौरुषम् वा पश्य or witness my prowess अद्य today. नेष्ये वा shall I send thee अकुर्वाणं त्वाम् who does not listen to मच्छासनम् my bidding, यमक्षयम् to the abode of Yama.

श्लोकः – वनपर्व १४७.१५

वैशम्पायन उवाच

विज्ञाय तं बलोन्मत्तं बाहुवीर्येण दर्पितम् |
हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् ||५||

पदच्छेदः

विज्ञाय तम् बलोन्मत्तम् बाहुवीर्येण दर्पितम् हृदयेन अवहस्य एनम् हनूमान् वाक्यम् अब्रवीत् |

अन्वयः

तं बलोन्मत्तं बाहुवीर्येण दर्पितम् विज्ञाय हृदयेन अवहस्य हनूमान् एनं वाक्यम् अब्रवीत् |

English Meaning

Then विज्ञाय knowing तम् him (Bhima) to be बलोन्मत्तम् intoxicated with strength, and बाहुवीर्येण दर्पितम् proud of the might of his arms, हनूमान् Hanuman, अवहस्य slighting him at हृदयेन heart, अब्रवीत् said the वाक्यम् following words to एनं him.

श्लोकः – वनपर्व १४७.१६

हनूमानुवाच –

प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ |
ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् ||६||

पदच्छेदः

प्रसीद नास्ति मे शक्तिः उत्थातुम् जरया अनघ मम अनुकम्पया तु एतत् पुच्छम् उत्सार्य गम्यताम्

अन्वयः

अनघ | प्रसीद | जरया उत्थातुं मे शक्तिः न अस्ति | अनुकम्पया तु एतत् मम पुच्छम् उत्सार्य गम्यताम् |

English Meaning

‘अनघ O sinless one! प्रसीद Relent thou. जरया In consequence of age, मे शक्तिः न अस्ति I have no strength उत्थातुम् to get up. अनुकम्पया तु From pity for me, गम्यताम् do thou go, उत्सार्य moving aside एतत् मम पुच्छम् my tail.’

श्लोकः – वनपर्व १४७.१९

वैशम्पायन उवाच

सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना |
न चाशकच्चालयितुं भीमः पुच्छं महाकपेः ||७||

पदच्छेदः

सावज्ञम् अथ वामेन स्मयन् जग्राह पाणिना न च अशकत् चालयितुं भीमः पुच्छं महाकपेः

अन्वयः

अथ भीमः सावज्ञं स्मयन् वामेन पाणिना महाकपेः पुच्छं जग्राह | चालयितुं न अशकत् च |

English Meaning

अथ Thereat, भीमः Bhima, स्मयन् with a smile, सावज्ञम् (अनादरेण) slightingly, जग्राह took hold of महाकपेः पुच्छं the great monkey’s tail वामेन पाणिना with his left hand; but चालयितुं न अशकत् could not move that tail of the mighty monkey.

श्लोकः – वनपर्व १४७.२०

उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम् |
नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः ||८||

पदच्छेदः

उच्चिक्षेप  पुनः दोर्भ्याम् ईन्द्रायुधम् इव उच्छ्रितम् न उद्धर्तुम् अशकत् भीमः दोर्भ्याम् अपि महाबलः

अन्वयः

महाबलः भीमः पुनः दोर्भ्याम् उच्छ्रितम् ईन्द्रायुधम् इव उच्चिक्षेप  | दोर्भ्याम् अपि उद्धर्तुं न अशकत् |

English Meaning

पुनः Again दोर्भ्याम् with both arms उच्चिक्षेप  he pulled it, उच्छ्रितम् ईन्द्रायुधम् इव resembling the pole reared in honour of Indra. महाबलः भीमः Still the mighty Bhima उद्धर्तुं न अशकत् could not raise the tail दोर्भ्याम् अपि even with both his arms.

श्लोकः – वनपर्व १४७.२१ – २२

उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः |
खिन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक तम् ||९||

यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणोद्धुरः |
कपेः पार्श्वगतो भीमस्तस्थौ व्रीडानताननः ||१०||

पदच्छेदः

उत्क्षिप्तभ्रूः विवृत्ताक्षः संहतभ्रुकुटीमुखः खिन्नगात्रः अभवत् भीमः न च उद्धर्तुम् शशाक तम् |

यत्नवान् अपि तु श्रीमान् लाङ्गूलोद्धरणोद्धुरः कपेः पार्श्वगतः भीमः तस्थौ व्रीडानताननः |

अन्वयः

भीमः उत्क्षिप्तभ्रूः विवृत्ताक्षः संहतभ्रुकुटीमुखः खिन्नगात्रः अभवत् | श्रीमान् लाङ्गूलोद्धरणोद्धुरः यत्नवान् अपि तु तम् उद्धर्तुं न शशाक च | व्रीडानताननः भीमः कपेः पार्श्वगतः तस्थौ |

English Meaning

And उत्क्षिप्तभ्रूः his eye-brows were contracted up, and विवृत्ताक्षः his eyes rolled, and संहतभ्रुकुटीमुखः his face was contracted into wrinkles and खिन्नगात्रः his body was covered with sweat. यत्नवान् अपि तु And when after having striven, the श्रीमान् illustrious Bhima, लाङ्गूलोद्धरणोद्धुरः who is capable of lifting the tail, तम् उद्धर्तुं न शशाक च failed in raising the tail. भीमः He कपेः पार्श्वगतः approached the side of the monkey, and तस्थौ stood व्रीडानताननः with a bashful countenance.

श्लोकः – वनपर्व १४७.२३

प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत् |
प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम ||११||

पदच्छेदः

प्रणिपत्य च कौन्तेयः प्राञ्जलिः वाक्यम् अब्रवीत् प्रसीद कपिशार्दूल दुरुक्तम् क्षम्यताम् मम

अन्वयः

प्रणिपत्य च कौन्तेयः प्राञ्जलिः वाक्यम् अब्रवीत् | प्रसीद कपिशार्दूल | मम दुरुक्तं क्षम्यताम् |

English Meaning

प्रणिपत्य च And bowing down, कौन्तेयः Kunti’s son, प्राञ्जलिः with joined hands, वाक्यम् अब्रवीत् spoke these words, ‘प्रसीद Relent thou, कपिशार्दूल O foremost of monkeys; and क्षम्यताम् forgive me for मम दुरुक्तम् my harsh words.’

श्लोकः – वनपर्व १४७.२४

सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः |
पृष्टस्सन्काम्यया ब्रूहि कस्त्वं वानररूपधृक् ||१२||

पदच्छेदः

सिद्धः वा यदि वा देवः गन्धर्वः वा अथ गुह्यकः पुष्टःसन् काम्यया ब्रूहि कः त्वम् वानररूपधृक्

अन्वयः

वानररूपधृक् त्वं कः ? काम्यया पृष्टःसन् ब्रूहि | सिद्धः वा यदि देवः वा गन्धर्वः वा अथ गुह्यकः वा ?

English Meaning

सिद्धः वा Art thou a Siddha, यदि देवः वा or a god, गन्धर्वः वा or a Gandharva, अथ गुह्यकः वा or a Guhyaka? काम्यया पृष्टःसन् I ask thee out of curiosity. ब्रूहि  Tell me वानररूपधृक् त्वं कः  who thou art that hast assumed the shape of monkey.

श्लोकः – वनपर्व १४७.१०

हनूमानुवाच –

अहं केसरिणः क्षेत्रे वायुना जगदायुषा |
जातः कमलपत्राक्ष हनूमान्नाम वानरः ||१३||

पदच्छेदः

अहम् केसरिणः क्षेत्रे वायुना जगदायुषा जातः कमलपत्राक्ष हनूमान् नाम वानरः

अन्वयः

कमलपत्राक्ष | अहम् केसरिणः क्षेत्रे जगदायुषा वायुना जातः | हनूमान् नाम वानरः |

English Meaning

कमलपत्राक्ष O lotus-eyed one, अहम् जातः I was begotten by वायुना the wind-god जगदायुषा who is life of the world, केसरिणः क्षेत्रे upon the wife of Kesari. I am वानरः a monkey, हनूमान् नाम by name Hanuman.

श्लोकः – वनपर्व १४९.२

वैशम्पायन उवाच –

उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् |
मया धन्यतरो नास्ति यदार्यं दृष्टवानहम् ||१४||

पदच्छेदः

उवाच श्लक्ष्णया वाचा हनूमन्तम् कपीश्वरम् मया धन्यतरः न अस्ति यत् आर्यम् दृष्टवान् अहम्

अन्वयः

श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् उवाच – ‘मया धन्यतरः न अस्ति यत् आर्यम् दृष्टवान् अहम्’

English Meaning

Bhima उवाच said श्लक्ष्णया वाचा in mild words to हनूमन्तं Hanuman, कपीश्वरम् the monkey-chief, “मया धन्यतरः न अस्ति None is more fortunate than I am; यत् आर्यम् दृष्टवान् अहम् now have I seen my elder brother.”

श्लोकः – वनपर्व १४९.३

भीम उवाच –

अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् |
एवं तु कृतमिच्छामि त्वयाद्य प्रियमात्मनः ||१५||

पदच्छेदः

अनुग्रहः मे सुमहान् तृप्तिः च तव दर्शनात् एवम् तु कृतम् इच्छामि त्वया अद्य प्रियम् आत्मनः

अन्वयः

तव दर्शनात् मे सुमहान् अनुग्रहः तृप्तिः च (जायते) | अद्य तु त्वया प्रियम् एवम् आत्मनः कृतम् इच्छामि |

English Meaning

तव दर्शनात् Your sight has been मे सुमहान् अनुग्रहः a great favour for me and तृप्तिः च (जायते) I have been well pleased with thee. अद्य तु Now इच्छामि I wish that त्वया प्रियम् एवम् आत्मनः कृतम् thou may fulfil this desire of mine.

श्लोकः – वनपर्व १४९.४

यत्ते तदासीत्प्लवतः सागरं मकरालयम् |
रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम् ||१६||

पदच्छेदः

यत्  ते तदा आसीत् प्लवतः सागरम् मकरालयम् रूपम् अप्रतिमम् वीर तत् इच्छामि निरीक्षितुम्

अन्वयः

वीर | यत्  ते अप्रतिमं रूपं मकरालयं सागरं प्लवतः तदा आसीत् तत् निरीक्षितुम् इच्छामि |

English Meaning

वीर O hero, तत् निरीक्षितुम् इच्छामि I desire to behold यत्  ते अप्रतिमं रूपम् that incomparable form of thine, which thou at that time had, प्लवतः in bounding over सागरम् the main, मकरालयम् that abode of sharks and crocodiles.

श्लोकः – वनपर्व १५०.३

एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवङ्गमः |
तद्रूपं दर्शयामास यद्वै सागरलङ्घने ||१७||

पदच्छेदः

एवम् उक्तः तु भीमेन स्मितम् कृत्वा प्लवङ्गमः तत् रूपम् दर्शयामास यत् वै सागरलङ्घने |

अन्वयः

भीमेन एवम् उक्तः तु प्लवङ्गमः स्मितम् कृत्वा यत् वै सागरलङ्घने तत् रूपं दर्शयामास |

English Meaning

भीमेन एवम् उक्तः तु Being thus addressed by Bhima, प्लवङ्गमः the monkey स्मितम् कृत्वा with a smile दर्शयामास showed him तत् रूपम् that form of his यत् वै सागरलङ्घने in which he had bounded over the ocean.

श्लोकः – वनपर्व १५०.३१

विसिष्मिये तदा भीमो जहृषे च पुनः पुनः |
तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम् ||१८||
पदच्छेदः

विसिष्मिये तदा भीमः जहृषे च पुनः पुनः तम् अर्कम् इव तेजोभिः सौवर्णम् इव पर्वतम् |
अन्वयः

तदा तम् अर्कम् इव सौवर्णं पर्वतम् इव (दृष्ट्वा) भीमः विसिष्मिये  पुनः पुनः जहृषे च |

English Meaning

भीमः Bhima, (दृष्ट्वा beholding that gigantic form of his brother), तेजोभिः blazing in splendour, like अर्कम् इव the sun and सौवर्णं पर्वतम् इव like a golden mountain, he विसिष्मिये  wondered, पुनः पुनः जहृषे च and repeatedly went into ruptures with the hairs of his body standing on end.

 

Text

हनूमानुवाच –

क एष हनुमान्नाम सागरो येन लङ्घितः |
पृच्छामि त्वां नरश्रेष्ठ कथ्यतां यदि शक्यते ||१||

भीम उवाच –

भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः |
रामायणेऽतिविख्यातः शूरो वानरपुङ्गवः ||२||

स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा |
बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे ||३||

उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम् |
मच्छासनमकुर्वाणं त्वां वा नेष्ये यमक्षयम् ||४||

वैशम्पायन उवाच

विज्ञाय तं बलोन्मत्तं बाहुवीर्येण दर्पितम् |
हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् ||५||

हनूमानुवाच –

प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ |
ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् ||६||

वैशम्पायन उवाच

सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना |
न चाशकच्चालयितुं भीमः पुच्छं महाकपेः ||७||

उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम् |
नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः ||८||

उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः |
खिन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक तम् ||९||

यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणोद्धुरः |
कपेः पार्श्वगतो भीमस्तस्थौ व्रीडानताननः ||१०||

प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत् |
प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम ||११||

सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः |
पृष्टस्सन्काम्यया ब्रूहि कस्त्वं वानररूपधृक् ||१२||

हनूमानुवाच –

अहं केसरिणः क्षेत्रे वायुना जगदायुषा |
जातः कमलपत्राक्ष हनूमान्नाम वानरः ||१३||

वैशम्पायन उवाच –

उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् |
मया धन्यतरो नास्ति यदार्यं दृष्टवानहम् ||१४||

भीम उवाच –

अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् |
एवं तु कृतमिच्छामि त्वयाद्य प्रियमात्मनः ||१५||

यत्ते तदासीत्प्लवतः सागरं मकरालयम् |
रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम् ||१६||

एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवङ्गमः |
तद्रूपं दर्शयामास यद्वै सागरलङ्घने ||१७||

विसिष्मिये तदा भीमो जहृषे च पुनः पुनः |
तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम् ||१८||

References:

  1. Sanskrit Text
    1. महाभारतम्-03-आरण्यकपर्व-149 https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-03-%E0%A4%86%E0%A4%B0%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-149
    2. https://sanskritdocuments.org/mirrors/mahabharata/unic/mbh03_sa.html
  2. English meanings
    1. http://www.sacred-texts.com/hin/m03/m03146.htm
    2. https://archive.org/stream/aproseenglishtr00duttgoog#page/n665/mode/2up
  1. http://www.kar.nic.in/pue/PUE/support_html/academic/sylb.htm
  2. PDF of the PUC text book – https://drive.google.com/file/d/0B5WLdFVMntmtLUU1UEY1S2d0NEE/view?usp=drive_web

 

Paripaalayamam Sri Padmanaabha – Swathi Tirunaal kriti

परिपालय माम् इति स्वातितिरुणाल्महाराजस्य एका संस्कृतकृतिः |

पल्लवि

परिपालय मां श्रीपद्मनाभ मुरारे

(हे) श्रीपद्मनाभ | (हे) मुरारे |  (त्वं) मां परिपालय |
त्वं मां रक्षतु इति अर्थः |

अनुपल्लवि

शरणागत-भरणोत्सुक शारद-सोम-समानन विरिञ्चि-सुरेश्वर-सेव्य

(हे) शरणागत-भरणोत्सुक | (हे) शारद-सोम-समानन | (हे) विरिञ्चि-सुरेश्वर-सेव्य | (मां परिपालय) |
  • शरणागत-भरणोत्सुकः
    • भरणं = रक्षणं , पालनपोषणे च ।
    • शरणागतभरणम् = शरणागतानां भरणम् |
    • शरणागत-भरणोत्सुकः = शरणागतभरणम्,  तस्मिन् वा तस्य वा उत्सुकः ।
  • शारदसोमसमाननः
    • शरत् = शरद् ऋतुः  |
    • शारदसोमः  = शरदृतौ सोमः |
    • शारदसोमसमाननः = शारदसोमेन समः आननः यस्य सः |
  • विरिञ्चि-सुरेश्वर-सेव्यः
    • विरिञ्चिः = ब्रह्मा
    • सुरेश्वरः = इन्द्रः
    • विरिञ्चिसुरेश्वरसेव्यः = विरिञ्चिना सुरेश्वरेण च सेव्यः ।

चरणम्

तामरसायतलोचन चारुतनो धरणीधरधर वनधामविराजितदारुणदनुभवघनविपिनदहन

(हे) तामरसायतलोचन | (हे) चारुतनो | (हे) धरणीधरधर | (हे) वनधामविराजित | (हे) दारुणदनुभव-घनविपिनदहन | (मां परिपालय) |
  • तामरसायतलोचनः
    • तामरसम् = कमलम् |
    • आयत = दीर्घ (विशेषणपदम्) |
    • तामरसायतलोचनः = तामरसे इव आयतलोचने यस्य सः |
  • चारुतनुः
    • चारुतनुः = चारु तनुः यस्य सः |
  • धरणीधरधरः
    • धरणीधरः = धरणीं धरति = पर्वतः |
    • धरणीधरधरः  = धरणीधरं धरति  |
  • वनधामविराजितः
    • वनं चासौ धाम च = वनधाम |
    • वनधामविराजितः = वनधाम्नि विराजितः |
  • दारुणदनुभव-घनविपिनदहनः
    • दारुणदनुभवाः = दारुणाः दनुभवाः  = क्रूराः असुराः |
    • घनविपिनम् = घनं चासौ विपिनं च |
    • घनविपिनदहनः  = घनविपिनस्य दहनः |
    • दारुणदनुभव-घनविपिनदहनः = दारुणदनुभवानां घनविपिनदहनः नाशकः |

दानमतङ्गजचारुविलासगते तपनीयवसन मुनिमानसतामरसालय मणिमयमकुटपरिलसित

(हे) दानमतङ्गज-चारु-विलास-गते | (हे) तपनीय-वसन | (हे) मुनि-मानस-तामरसालय | (हे) मणिमय-मकुट-परिलसित |(मां परिपालय) |

  • दानमतङ्गज-चारु-विलास-गतिः
    • दानम् = rut-fluid which flows from an elephant’s temples
    • दानमतङ्गजः = a furious elephant (emitting rut-fluid)  दानसहितमतङ्गजः or दानयुतमतङ्गजः  (मध्यमपदलोपी-समासः)
    • दानमतङ्गजचारुविलासगतिः = दानमतङ्गजस्य इव चारुविलासः गतिः यस्य सः ।
  • तपनीय-वसनः
    • तपनीय-वसनः = तपनीयं वसनं यस्य सः |
  • मुनि-मानस-तामरसालयः
    • मानस-तामरसम् = हृदय-कमलम् |
    • मुनि-मानस-तामरसम् = मुनीनां मानसतामरसम्
    • मुनि-मानस-तामरसालयः = मुनीनां मानसतामरसमेव आलयः यस्य सः ।
  • मणिमय-मकुट-परिलसितः
    • परिलसितः = प्रकाशितः अथवा प्रकाशते इत्यर्थः |
    • मणिमयमकुटपरिलसितः = मणिमयेन मकुटेन परिलसितः |

नीलघनोपमसुन्दरदेहरुचे निखिलामरभयहर शैलसुताधवसन्नुत शमय मम सकलगदमिह

(हे) नीलघनोपमसुन्दरदेहरुचे | (हे) निखिलामरभयहर  | (हे) शैलसुताधवसन्नुत | मम सकल-गदम् इह (त्वं) शमय|
  • नीलघनोपमसुन्दरदेहरुचिः
    • नीलघनः  = नीलः च असौ घनः = नीलमेघः
    • सुन्दरदेहः = सुन्दरः च असौ देहः
    • सुन्दरदेहरुचिः = सुन्दरदेहस्य रुचिः = सुन्दरदेहकान्तिः
    • नीलघनोपमसुन्दरदेहरुचिः = नीलघनस्य उपमा सुन्दरदेहरुचिः यस्य सः ।
  • निखिलामरभयहरः
    • निखिलानाम् समस्तानां अमराणां भयं हरति इति निखिलामरभयहरः ।
  • शैलसुताधवसन्नुतः
    • शैलसुता = पार्वती |
    • शैलसुताधवः = शङ्करः (माधववत्) |
    • शैलसुताधवसन्नुतः  = शैलसुताधवेन सन्नुतः वन्दितः |
  • गदः = रोगः |
  • इह = अत्र |
  • शमय = शम् [शमुँ उपशमे] लोट्लकारः मद्यमपुरुषः, लट्लकारे शामयति | शान्तिं कुरु इति अर्थः |

Thanks to Sri V. Anand for the above explanation.The following transliteration of the lyrics of Swathi Tirunaal and the meaning in English by Sri Damodara Rao Dasu have been copied with thanks from http://www.sangeetasudha.org/othercomposers/swati5.html 

paripAlaya mAm – ritigowLa – rupaka

P pari pAlaya mAm Sri padmanAbha murArE || Oh Sri Padmanabha the enemy of demon Mura, please protect me.
AP SaraNAgata bharaNOtsuka Sarada sOma
samAna virinchi surEswara sEvya ||
You are always eager to save those who seek for protection. Your face is beautiful like autumn moon. Brahma and Indra worship you.
C 1 tAmarasayata lOchana chAru ta
nO dharaNeedhara dhara vana
dhAma virAjita dAruNa
danubhava ghana vipina dahana ||
Oh lord, your eyes are attractive like lotus petals.Your appearence is beautiful. You lifted Mandara mountain and the earth. You are treacherous to demons like the fire for thick forest.
C 2 danamatangaja chAru vilAsa ga
tE tapaneeya vasana muni
mAnasa tAmarasAlaya
maNimaya makuTa pari lasita ||
Your gait is majestic like the walk of king elephant. Your garments shine like gold. You dwell in the hearts of sages. You are magnificient with gem-studded crown.
C 3 neela ghanOpama sundara dEha ru
chE nikhilAmara bhaya hara
SailasutAdhava sannuta
Samaya mama sakala gadamiha ||
Your beautiful body is lustrous like blue clouds. You dispel fears of all celestials. Siva the consort of Parvati, the daughter of Himalayas, worships you. Please assuage me from all afflictions.