Bhagavad Gita – Chapter 18 – Part 3

श्रीमद्भगवद्गीता – अष्टादशोऽध्यायः – मोक्षसंन्यासयोगः

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।

भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥

पदच्छेदः

ईश्वरः सर्वभूतानां हृद्देशे अर्जुन तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥

अन्वयः

अर्जुन ! ईश्वरः सर्वभूतानि यन्त्रारूढानि मायया भ्रामयन् सर्वभूतानां हृद्देशे तिष्ठति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • सम्बोधनपदम् = अर्जुन!
    • प्रथमवाक्यम्
      • क्रियापदम् = तिष्ठति
      • वाक्यांश:
        • अधिकरणपदम् = हृद्देशे
        • सम्बन्ध-पदम् = सर्वभूतानाम्
      • वाक्यांश:
        • कर्तृविशेषणम् = भ्रामयन्
        • करणवाचकपदम् = मायया
      • वाक्यांश:
        • कर्मपदम् = सर्वभूतानि
        • कर्मविशेषणम् = यन्त्रारूढानि
      • कर्तृपदम् = ईश्वरः

तमेव शरणं गच्छ सर्वभावेन भारत ।

तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ ६२ ॥

पदच्छेदः

तम् एव शरणं गच्छ सर्वभावेन भारत तत् प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥

अन्वयः

भारत ! सर्वभावेन तम् एव शरणं गच्छ । तत्प्रसादात् परां शान्तिं शाश्वतं स्थानं प्राप्स्यसि ।

पदपरिचयः

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • क्रियापदम् = गच्छ
    • कर्मपदम् = शरणम्
    • कर्मविशेषणम् = तम्
    • अवधारणम् = एव
    • करणवाचकपदम् = सर्वभावेन
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = प्राप्स्यसि
    • कर्मपदम् = स्थानम्
    • कर्मविशेषणम् = पराम्
    • कर्मविशेषणम् = शान्तिम्
    • कर्मविशेषणम् = शाश्वतम्
    • कारणवाचकपदम् = तत्प्रसादात्
    • कर्तृपदम् = (त्वम्)

इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया ।

विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥

पदच्छेदः

इति ते ज्ञानम् आख्यातं गुह्यात् गुह्यतरं मया विमृश्य एतत् अशेषेण यथा इछसि तथा कुरु ॥

अन्वयः

इति मया गुह्यात् गुह्यतरम् एतत् ज्ञानम् ते आख्यातम् । एतत् अशेषेण विमृश्य यथा इच्छसि तथा कुरु।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= आख्यातम्
      • सम्प्रदानपदम् = ते
      • (कर्मणि) कर्मपदम् = ज्ञानम्
      • (कर्मणि) कर्मविशेषणम् = इति
      • वाक्यांश:
        • (कर्मणि) कर्मविशेषणम् = गुह्यतरम्
        • अपादानपदम् = गुह्यात्
      • (कर्मणि) कर्मविशेषणम् = एतत्
      • (कर्मणि) कर्तृपदम् = मया
    • द्वितीयवाक्यम्
      • “यथा” वाक्यांश:
        • ल्यबन्त-वाक्यांश:
          • ल्यबन्तपदम् = विमृश्य
          • करणवाचकपदम् = अशेषेण
          • कर्मपदम् = एतत्
        • क्रियापदम् = इच्छसि
        • संयोजकपदम् = यथा
        • कर्तृपदम् = (त्वम्)
      • “तथा” वाक्यांश:
        • क्रियापदम् = कुरु
        • संयोजकपदम् = तथा
        • कर्तृपदम् = (त्वम्)

सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।

इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ ६४ ॥

पदच्छेदः

सर्वगुह्यतमं भूयः शृणु मे परमं वचः इष्ट असि मे दृढम् इति ततः वक्ष्यामि ते हितम् ॥

अन्वयः

मे सर्वगुह्यतमं परमं वचः भूयः शृणु । मे दृढं इष्टः असि इति ततः ते हितं वक्ष्यामि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = शृणु
    • कर्मपदम् = वचः
    • कर्मविशेषणम् = परमम्
    • कर्मविशेषणम् = सर्वगुह्यतमम्
    • सम्बन्ध-पदम् = मे
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • वाक्यांश:
      • क्रियापदम् = असि
      • कर्तृपदम् = (त्वम्)
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = इष्टः
        • क्रियाविशेषणम् = दृढम्
        • सम्बन्ध-पदम् = मे
      • संयोजकपदम् = इति
    • वाक्यांश:
      • क्रियापदम् = वक्ष्यामि
      • कर्तृपदम् = (अहम्)
      • कर्मपदम् = हितम्
      • सम्प्रदानपदम् = ते
      • संयोजकपदम् = ततः

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।

मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥

पदच्छेदः

मन्मना भव मद्भक्तः मद्याजी मां नमस्कुरु माम् एव एष्यसि सत्यं ते प्रतिजाने प्रियः असि मे ॥

अन्वयः

मन्मना भव । मद्भक्तः मद्याजी मां नमस्कुरु । माम् एव एष्यसि । ते सत्यं प्रतिजाने । मे प्रियः असि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = भव
    • कर्तृ-विशेषण-सूचक-पदम् = मन्मना
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = नमस्कुरु
    • कर्मपदम् = माम्
    • कर्तृपदम् = (त्वम्)
    • कर्तृविशेषणम् = मद्भक्तः
    • कर्तृविशेषणम् = मद्याजी
  • तृतीयवाक्यम्
    • क्रियापदम् = एष्यसि
    • कर्मपदम् = माम्
    • अवधारणम् = एव
    • कर्तृपदम् = (त्वम्)
  • चतुर्थवाक्यम्
    • क्रियापदम् = प्रतिजाने
    • कर्तृपदम् = (अहम्)
    • कर्मपदम् = सत्यम्
    • सम्प्रदानपदम् = ते
  • पञ्चमवाक्यम्
    • क्रियापदम् = असि
    • कर्तृपदम् = (त्वम्)
    • कर्तृ-विशेषण-सूचक-पदम् = प्रियः
    • सम्बन्ध-पदम् = मे

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ६६ ॥

पदच्छेदः

सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः ॥१८.६६॥

अन्वयः

सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = व्रज
    • कर्तृपदम् = (त्वम्)
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = परित्यज्य
      • कर्मपदम् = सर्वधर्मान्
    • कर्मपदम् = माम्
    • कर्मविशेषणम् = एकम्
    • कर्मविशेषणम् = शरणम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = मोक्षयिष्यामि
    • अपादानपदम् = सर्वपापेभ्यः
    • कर्मपदम् = त्वा
    • कर्तृपदम् = अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् = (भव)
    • प्रतिषेधपदम् = मा
    • कर्तृ-विशेषण-सूचक-पदम् = शुचः
    • कर्तृपदम् = (त्वम्)

इदं ते नातपस्काय नाभक्ताय कदाचन ।

न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ ६७ ॥

पदच्छेदः

इदं ते न अतपस्काय न अभक्ताय कदाचन न च अशुश्रूषवे वाच्यं न च मां यः अभ्यसूयति ॥

अन्वयः

इदं ते (उक्तं) कदाचन अतपस्काय न वाच्यम् । न अभक्ताय, न च अशुश्रूषवे, मां यः अभ्यसूयति तस्मै न ।

पदपरिचयः

  • प्रथमवाक्यम
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = वाच्यम्
    • प्रतिषेधपदम् = न
    • सम्प्रदानपदम् = अतपस्काय
    • कालवाचकपदम् = कदाचन
    • कर्तृपदम् = इदम्
    • वाक्यांश:
      • कर्तृविशेषणम् = (उक्तम्)
      • सम्प्रदानपदम् = ते
    • समुच्चय-वाक्यम्
      • सम्प्रदानपदम् = अभक्ताय
      • प्रतिषेधपदम् = न
    • समुच्चय-वाक्यम्
      • सम्प्रदानपदम् = अशुश्रूषवे
      • प्रतिषेधपदम् = न
      • संयोजकपदम् = च
    • समुच्चय-वाक्यम्
      • “यः” वाक्यांश:
        • क्रियापदम् = अभ्यसूयति
        • कर्तृपदम् = यः
        • कर्मपदम् = माम्
      • “तस्मै” वाक्यांश:
        • सम्प्रदानपदम् = तस्मै
        • प्रतिषेधपदम् = न

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।

भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ ६८ ॥

पदच्छेदः

य इदं परमं गुह्यं मद्भक्तेषु अभिधास्यति भक्तिं मयि परां कृत्वा माम् एव एष्यति असंशयः ॥ ६८ ॥

अन्वयः

यः परमं गुह्यम् इदं मद्भक्तेषु अभिधास्यति सः मयि परां भक्तिं कृत्वा माम् एव एष्यति । असंशयः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = अभिधास्यति
      • अधिकरणपदम् = मद्भक्तेषु
      • कर्मपदम् = इदम्
      • कर्मविशेषणम् = परमम्
      • कर्मविशेषणम् = गुह्यम्
      • कर्तृपदम् = यः
    • “सः” वाक्यांश:
      • क्रियापदम् = एष्यति
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = कृत्वा
        • कर्मपदम् = भक्तिम्
        • कर्मविशेषणम् = पराम्
      • कर्तृपदम् = सः
      • कर्मपदम् = माम्
      • अवधारणम् = एव
    • द्वितीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = असंशयः
      • कर्तृपदम् = (एतद्)

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।

भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ६९ ॥

पदच्छेदः

न च तस्मात् मनुष्येषु कश्चित् मे प्रियकृत्तमः भविता न च मे तस्मात् अन्यः प्रियतरः भुवि ॥

अन्वयः

मनुष्येषु च तस्मात् कश्चित् मे न प्रियकृत्तमः । तस्मात् अन्यः प्रियतरः भुवि न च भविता ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • प्रतिषेधपदम् = न
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = प्रियकृत्तमः
      • अपादानपदम् = तस्मात्
      • अधिकरणपदम् = मनुष्येषु
      • अवधारणम् = च
      • सम्बन्ध-पदम् = मे
    • कर्तृपदम् = कश्चित्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = भविता
    • प्रतिषेधपदम् = न
    • संयोजकपदम् = च
    • अधिकरणपदम् = भुवि
    • कर्तृपदम् = अन्यः
    • कर्तृविशेषणम् = प्रियतरः
    • अपादानपदम् = तस्मात्

अध्येष्यते च ये इमं धर्म्यं संवादमावयोः ।

ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ७० ॥

पदच्छेदः

अध्येष्यते च ये इमं धर्म्यं संवादम् आवयोः ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः ॥

अन्वयः

यः च आवयोः इमं धर्म्यं संवादम् अध्येष्यते तेन ज्ञानयज्ञेन अहम् इष्टः स्याम् इति मे मतिः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = मतिः
    • सम्बन्ध-पदम् = मे
    • वाक्यांश:
      • “यः” वाक्यांश:
        • क्रियापदम् = अध्येष्यते
        • कर्मपदम् = संवादम्
        • कर्मविशेषणम् = धर्म्यम्
        • कर्मविशेषणम् = इमम्
        • सम्बन्ध-पदम् = आवयोः
        • कर्तृपदम् = यः
        • संयोजकपदम् = च
      • “तेन” वाक्यांश:
        • क्रियापदम् = स्याम्
        • कर्तृपदम् = अहम्
        • करणवाचकपदम् = ज्ञानयज्ञेन
        • करणविशेषणम् = तेन
        • कर्तृ-विशेषण-सूचक-पदम् = इष्टः
      • संयोजकपदम् = इति

श्रद्धावाननसूयश्च शृणुयादपि यो नरः ।

सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्॥ ७१ ॥

पदच्छेदः

श्रद्धावान् अनसूयः च शृणुयात् अपि यः नरः सः अपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥

अन्वयः

श्रद्धावान् अनसूयः च यः नरः शृणुयात् अपि सः अपि मुक्तः पुण्यकर्मणां शुभान् लोकान् प्राप्नुयात् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = शृणुयात्
      • अवधारणम् = अपि
      • कर्तृपदम् = नरः
      • कर्तृविशेषणम् = यः
      • कर्तृविशेषणम् = श्रद्धावान्
      • कर्तृविशेषणम् = अनसूयः
      • अवधारणम् = च
    • “सः” वाक्यांश:
      • क्रियापदम् = प्राप्नुयात्
      • कर्मपदम् = लोकान्
      • कर्मविशेषणम् = शुभान्
      • सम्बन्ध-पदम् = पुण्यकर्मणाम्
      • कर्तृपदम् = सः
      • अवधारणम् = अपि
      • कर्तृविशेषणम् = मुक्तः

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।

कच्चिदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय ॥ ७२ ॥

पदच्छेदः

कच्चिदेतत् शृतं पार्थ त्वया एकाग्रेण चेतसा कच्चित् अज्ञानसम्मोहः प्रणष्टः ते धनञ्जय ॥

अन्वयः

पार्थ ! त्वया एकाग्रेण चेतसा एतत् श्रुतं कच्चित् । धनञ्जय ! ते अज्ञानसम्मोहः प्रणष्टः कच्चित् ।

पदपरिचयः

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • प्रश्नवाचकपदम् = कच्चित्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= श्रुतम्
    • (कर्मणि) कर्मविशेषणम् = एतत्
    • करणवाचकपदम् = चेतसा
    • करणविशेषणम् = एकाग्रेण
    • (कर्मणि) कर्तृपदम् = त्वया
    • सम्बोधनपदम् = धनञ्जय!
  • द्वितीयवाक्यम्
    • प्रश्नवाचकपदम् = कच्चित्
    • कर्तृ-विशेषण-सूचक-पदम् = प्रणष्टः
    • कर्तृपदम् = अज्ञानसम्मोहः
    • सम्बन्ध-पदम् = ते

अर्जुन उवाच –

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादात्मयाच्युत ।

स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ ७३ ॥

पदच्छेदः

नष्टः मोहः स्मृतिः लब्धा त्वत्प्रसादात् मया अच्युत स्थितः अस्मि गतसन्देहः करिष्ये वचनं तव ॥

अन्वयः

अच्युत ! तव प्रसादात् मोहः नष्टः । स्मृतिः मया लब्धा । गतसन्देहः स्थितः अस्मि । तव वचनं करिष्ये ।

पदपरिचयः

  • सम्बोधनपदम् = अच्युत!
  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = नष्टः
    • कर्तृपदम् = मोहः
    • वाक्यांश:
      • कारणवाचकपदम् = प्रसादात्
      • सम्बन्ध-पदम् = तव
    • द्वितीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • वाक्यांश:
        • (कर्मणि) कर्मविशेषण-सूचक-पदम् = लब्धा
        • (कर्मणि) कर्तृपदम् = मया
      • (कर्मणि) कर्मपदम् = स्मृतिः
    • तृतीयवाक्यम्
      • क्रियापदम् = अस्मि
      • कर्तृ-विशेषण-सूचक-पदम् = स्थितः
      • कर्तृविशेषणम् = गतसन्देहः
      • कर्तृपदम् = (अहम्)
    • चतुर्थवाक्यम्
      • क्रियापदम् = करिष्ये
      • वाक्यांश:
        • कर्मपदम् = वचनम्
        • सम्बन्ध-पदम् = तव
      • कर्तृपदम् = (अहम्)

सञ्जय उवाच –

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।

संवादमिमश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥

पदच्छेदः

इति अहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥

अन्वयः

महात्मनः वासुदेवस्य पार्थस्य च रोमहर्षणम् अद्भुतम् इमं संवादम् इति अहम् अश्रौषम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = अश्रौषम्
    • कर्मपदम् = संवादम्
    • कर्मविशेषणम् = इमम्
    • कर्मविशेषणम् = अद्भुतम्
    • कर्मविशेषणम् = रोमहर्षणम्
    • संयोजकपदम् = इति
    • वाक्यांश:
      • सम्बन्ध-पदम् = वासुदेवस्य
      • सम्बन्ध-विशेषण-पदम् = महात्मनः
    • सम्बन्ध-पदम् = पार्थस्य
    • संयोजकपदम् = च
    • कर्तृपदम् = अहम्

व्यासप्रसादाच्छ्रुतवानेतद् गुह्यमहं परम् ।

योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ ७५ ॥

पदच्छेदः

व्यासप्रसादात् शृतवान् एतत् गुह्यम् अहं परम् योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥

अन्वयः

साक्षात् योगेश्वरात् कृष्णात् कथयतः स्वयं, गुह्यं परम् एतत् योगं व्यासप्रसादात् अहं श्रुतवान् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • कर्तृ-विशेषण-सूचक-पदम् = श्रुतवान्
    • कारणवाचकपदम् = व्यासप्रसादात्
    • कर्मपदम् = योगम्
    • कर्मविशेषणम् = एतत्
    • कर्मविशेषणम् = परम्
    • कर्मविशेषणम् = गुह्यम्
    • वाक्यांश:
      • अपादानपदम् = कृष्णात्
      • अवधारणम् = स्वयम्
    • वाक्यांश:
      • अपादानविशेषणम् = योगेश्वरात्
      • अपादानविशेषणम् = साक्षात्
    • अपादानविशेषणम् = कथयतः
    • कर्तृपदम् = अहम्

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।

केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ ७६ ॥

पदच्छेदः

राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुम् केशवार्जुनयोः पुण्यं हृष्यामि च मुहुः मुहुः ॥

अन्वयः

राजन् ! अद्भुतं पुण्यं केशवार्जुनयोः इमं संवादं संस्मृत्य संस्मृत्य मुहुः मुहुः च हृष्यामि ।

पदपरिचयः

  • सम्बोधनपदम् = राजन्!
  • प्रथमवाक्यम्
    • क्रियापदम् = हृष्यामि
    • क्रियाविशेषणम् = मुहुः
    • अवधारणम् = मुहुः
    • संयोजकपदम् = च
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = संस्मृत्य
      • अवधारणम् = संस्मृत्य
      • कर्मपदम् = संवादम्
      • कर्मविशेषणम् = इमम्
      • सम्बन्ध-पदम् = केशवार्जुनयोः
      • कर्मविशेषणम् = पुण्यम्
      • कर्मविशेषणम् = अद्भुतम्
    • कर्तृपदम् = (अहम्)

तच्च संस्मृत्य संस्मृत्य रूपमत्युतं हरेः ।

विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥ ७७ ॥

पदच्छेदः

तत् च संस्मृत्य संस्मृत्य रूपम् अति अद्भुतं हरेः विस्मयः मे महान् राजन् हृष्यामि च पुनः पुनः ॥

अन्वयः

राजन् ! हरेः अत्युतं च तत् रूपं संस्मृत्य संस्मृत्य (स्थितस्य) मे महान् विस्मयः । पुनः पुनः च हृष्यामि।

पदपरिचयः

  • सम्बोधनपदम् = राजन्!
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृपदम् = विस्मयः
    • कर्तृविशेषणम् = महान्
    • सम्बन्ध-पदम् = मे
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = संस्मृत्य
      • अवधारणम् = संस्मृत्य
      • कर्मपदम् = रूपम्
      • सम्बन्ध-पदम् = हरेः
      • कर्मविशेषणम् = तत्
      • कर्मविशेषणम् = अत्युतम्
      • संयोजकपदम् = च
    • द्वितीयवाक्यम्
      • क्रियापदम् = हृष्यामि
      • क्रियाविशेषणम् = पुनः
      • अवधारणम् = पुनः
      • संयोजकपदम् = च
      • कर्तृपदम् = (अहम्)

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥

पदच्छेदः

यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः मतिः मम ॥

अन्वयः

यत्र योगेश्वरः कृष्णः यत्र धनुर्धरः पार्थः तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः (इति) मम मतिः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृपदम् = मतिः
    • सम्बन्ध-पदम् = मम
    • वाक्यांश:
      • “यत्र” वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • कर्तृपदम् = कृष्णः
        • कर्तृविशेषणम् = योगेश्वरः
        • स्थानवाचकपदम् = यत्र
      • “यत्र” वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • कर्तृपदम् = पार्थः
        • कर्तृविशेषणम् = धनुर्धरः
        • स्थानवाचकपदम् = यत्र
      • “तत्र” वाक्यांश:
        • क्रियापदम् = (भवन्ति)
        • कर्तृपदम् = श्रीः
        • कर्तृपदम् = विजयः
        • कर्तृपदम् = भूतिः
        • कर्तृपदम् = ध्रुवा
        • कर्तृपदम् = नीतिः
        • स्थानवाचकपदम् = तत्र
      • संयोजकपदम् = (इति)

References –

  1. 5 Mar 2016 दिनाङ्कयोः नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे अन्तिम कक्षायां पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/7q4  मोक्षसंन्यासयोगः
  3. Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

One thought on “Bhagavad Gita – Chapter 18 – Part 3

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s