Bhagavad Gita – Chapter 18 – Part 2

श्रीमद्भगवद्गीता – अष्टादशोऽध्यायः – मोक्षसंन्यासयोगः

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।

प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥

पदच्छेदः

बुद्धेः भेदं धृतेः च एव गुणतः त्रिविधं शृणु प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥

अन्वयः

धनञ्जय ! गुणतः त्रिविधं बुद्धेः धृतेः च एव भेदं पृथक्त्वेन अशेषेण प्रोच्यमानं शृणु ।

पदपरिचयः

  • सम्बोधनपदम् = धनञ्जय!
  • प्रथमवाक्यम्
    • क्रियापदम् = शृणु
    • कर्तृपदम् = (त्वम्)
    • क्रिया-गर्भ-कर्मपदम्= प्रोच्यमानम्
    • क्रियाविशेषणम् = अशेषेण
    • क्रियाविशेषणम् = पृथक्त्वेन
    • वाक्यांश:
      • कर्मपदम् = भेदम्
      • सम्बन्ध-पदम् = बुद्धेः
      • सम्बन्ध-पदम् = धृतेः
      • संयोजकपदम् = च
      • अवधारणम् = एव
    • वाक्यांश:
    • कर्मविशेषणम् = त्रिविधम्
    • कारणवाचकपदम् = गुणतः

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।

बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ ३० ॥

पदच्छेदः

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥

अन्वयः

पार्थ ! प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मोक्षं च या वेत्ति सा बुद्धिः सात्त्विकी ।

पदपरिचयः

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • “सा” वाक्यांश:
      • क्रियापदम् = वेत्ति
      • कर्तृपदम् = या
      • वाक्यांश:
        • कर्मपदम् = प्रवृत्तिम्
        • कर्मपदम् = निवृत्तिम्
        • संयोजकपदम् = च
        • कर्मपदम् = कार्याकार्ये
        • कर्मपदम् = भयाभये
      • वाक्यांश:
        • कर्मपदम् = बन्धम्
        • कर्मपदम् = मोक्षम्
        • संयोजकपदम् = च
      • “सा” वाक्यांश:
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = सात्त्विकी
        • कर्तृपदम् = बुद्धिः
        • कर्तृविशेषणम् = सा

यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।

अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ ३१ ॥

पदच्छेदः

यया धर्मम् अधर्मं च कार्यं च अकार्यम् एव च अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥

अन्वयः

पार्थ ! यया धर्मम् अधर्मं च कार्यं च अकार्यम् एव च अयथावत् प्रजानाति सा बुद्धिः राजसी ।

पदपरिचयः

 

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • “यया” वाक्यांश:
      • क्रियापदम् = प्रजानाति
      • क्रियाविशेषणम् = अयथावत्
      • वाक्यांश:
        • कर्मपदम् = धर्मम्
        • कर्मपदम् = अधर्मम्
        • संयोजकपदम् = च
      • वाक्यांश:
        • कर्मपदम् = कार्यम्
        • कर्मपदम् = अकार्यम्
        • अवधारणम् = एव
        • संयोजकपदम् = च
      • करणवाचकपदम् = यया
    • “सा” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = राजसी
      • कर्तृपदम् = बुद्धिः
      • कर्तृविशेषणम् = सा

अधर्मं धर्ममिति या मन्यते तमसावृता ।

सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ ३२ ॥

पदच्छेदः

अधर्मं धर्मम् इति या मन्यते तमसा आवृता सर्वार्थान् विपरीतान् च बुद्धिः सा पार्थ तामसी ॥

अन्वयः

पार्थ ! तमसा आवृता या बुद्धिः अधर्मं धर्मम् इति सर्वार्थान् विपरीतान् च मन्यते सा तामसी ।

पदपरिचयः

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • “या” वाक्यांश:
      • क्रियापदम् = मन्यते
      • कर्मपदम् = सर्वार्थान्
      • कर्मविशेषणम् = विपरीतान्
      • कर्तृपदम् = बुद्धिः
      • कर्तृविशेषणम् = या
      • वाक्यांश:
        • कर्तृविशेषणम् = आवृता
        • करणवाचकपदम् = तमसा
      • कर्म-वाक्यांश:
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = धर्मम्
        • कर्तृपदम् = अधर्मम्
        • संयोजकपदम् = इति
      • “सा” वाक्यांश:
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = तामसी
        • कर्तृपदम् = सा

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।

योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥

पदच्छेदः

धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः योगेन अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥

अन्वयः

पार्थ ! योगेन अव्यभिचारिण्या यया धृत्या मनःप्राणेन्द्रियक्रियाः धारयते सा धृतिः सात्त्विकी ।

पदपरिचयः

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • “यया” वाक्यांश:
      • (कर्मणि) क्रियापदम् = धारयते
      • (कर्मणि) कर्मपदम् = मनःप्राणेन्द्रियक्रियाः
      • (कर्मणि) कर्तृपदम् = धृत्या
      • (कर्मणि) कर्तृविशेषणम् = यया
      • (कर्मणि) कर्तृविशेषणम् = अव्यभिचारिण्या
      • करणवाचकपदम् = योगेन
    • “सा” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = सात्त्विकी
      • कर्तृपदम् = धृतिः
      • कर्तृविशेषणम् = सा

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।

प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥

पदच्छेदः

यया तु धर्मकामार्थान् धृत्या धारयते अर्जुन प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥

अन्वयः

अर्जुन ! प्रसङ्गेन फलाकाङ्क्षी यया धृत्या धर्मकामार्थान् धारयते सा धृतिः राजसी ।

पदपरिचयः

  • प्रथमवाक्यम्
  • सम्बोधनपदम् = अर्जुन!
  • प्रथमवाक्यम्
    • “यया” वाक्यांश:
      • क्रियापदम् = धारयते
      • कर्तृपदम् = फलाकाङ्क्षी
      • कर्मपदम् = धर्मकामार्थान्
      • करणवाचकपदम् = प्रसङ्गेन
      • वाक्यांश:
        • करणवाचकपदम् = धृत्या
        • करणविशेषणम् = यया
      • “सा” वाक्यांश:
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = राजसी
        • कर्तृपदम् = धृतिः
        • कर्तृपदम् = सा

यया स्वप्नं भयं शोकं विषादं मदमेव च ।

न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ ३५ ॥

पदच्छेदः

यया स्वप्नं भयं शोकं विषादं मदम् एव च न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥

अन्वयः

पार्थ ! दुर्मेधाः यया स्वप्नं भयं शोकं विषादं मदम् एव च न विमुञ्चति सा धृतिः तामसी ।

पदपरिचयः

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • “यया” वाक्यांश:
      • क्रियापदम् = विमुञ्चति
      • प्रतिषेधपदम् = न
      • कर्मपदम् = स्वप्नम्
      • कर्मपदम् = भयम्
      • कर्मपदम् = शोकम्
      • कर्मपदम् = विषादम्
      • कर्मपदम् = मदम्
      • अवधारणम् = एव
      • संयोजकपदम् = च
      • करणवाचकपदम् = यया
      • कर्तृपदम् = दुर्मेधाः
    • “सा” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = तामसी
      • कर्तृपदम् = धृतिः
      • कर्तृपदम् = सा

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।

अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ ३६ ॥

पदच्छेदः

सुखं तु विदानीं त्रिविधं शृणु मे भरतर्षभ अभ्यासात् रमते यत्र दुःखान्तं च निगच्छति ॥

अन्वयः

भरतर्षभ ! इदानीं मे (वचनात्) त्रिविधं सुखं तु शृणु यत्र अभ्यासात् रमते दुःखान्तं च निगच्छति ।

पदपरिचयः

  • सम्बोधनपदम् = भरतर्षभ!
  • प्रथमवाक्यम्
    • “यत्र” वाक्यांश:
      • क्रियापदम् = रमते
      • कारणवाचकपदम् = अभ्यासात्
      • अधिकरणपदम् = यत्र
      • समुच्चय-वाक्यम्
        • क्रियापदम् = निगच्छति
        • कर्मपदम् = दुःखान्तम्
        • संयोजकपदम् = च
      • “तम्” वाक्यांश:
        • क्रियापदम् = शृणु
        • कर्तृपदम् = (त्वम्)
        • कर्मपदम् = सुखम्
        • कर्मविशेषणम् = “तम्”
        • कर्मविशेषणम् = त्रिविधम्
        • अवधारणम् = तु
        • वाक्यांश:
          • कारणवाचकपदम् = (वचनात्)
          • सम्बन्ध-पदम् = मे
        • कालवाचकपदम् = इदानीम्

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।

तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ ३७ ॥

पदच्छेदः

यत् तत् अग्रे विषम् इव परिणामे अमृतोपमम् तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् ॥

अन्वयः

यत् तत् अग्रे विषम् इव परिणामे अमृतोपमम् आत्मबुद्धिप्रसादजं तत् सुखं सात्त्विकं प्रोक्तम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = यत्
      • कर्तृविशेषणम् = तत्
      • वाक्यांश:
        • अधिकरणपदम् = अग्रे
        • कर्तृविशेषणम् = विषम्
        • संयोजकपदम् = इव
      • वाक्यांश:
        • अधिकरणपदम् = परिणामे
        • कर्तृविशेषणम् = अमृतोपमम्
      • कर्तृविशेषणम् = आत्मबुद्धिप्रसादजम्
    • “तत्” वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= प्रोक्तम्
      • कर्मविशेषण-सूचक-पदम् = सात्त्विकम्
      • कर्मपदम् = सुखम्
      • कर्मविशेषणम् = तत्

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।

परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ ३८ ॥

पदच्छेदः

विषयेन्द्रियसंयोगात् यत् तदग्रे अमृतोपमम् परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥

अन्वयः

यत् तत् विषयेन्द्रियसंयोगात् अग्रे अमृतोपमं परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = यत्
      • कर्तृविशेषणम् = तत्
      • वाक्यांश:
        • कारणवाचकपदम् = विषयेन्द्रियसंयोगात्
        • अधिकरणपदम् = अग्रे
        • कर्तृ-विशेषण-सूचक-पदम् = अमृतोपमम्
      • वाक्यांश:
        • अधिकरणपदम् = परिणामे
        • कर्तृ-विशेषण-सूचक-पदम् = विषम्
        • संयोजकपदम् = इव
      • “तत्” वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= स्मृतम्
        • कर्तृ-विशेषण-सूचक-पदम् = राजसम्
        • कर्तृपदम् = सुखम्
        • कर्तृविशेषणम् = तत्

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।

निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥

पदच्छेदः

यत् अग्रे च अनुबन्धे च सुखं मोहनम् आत्मनः निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ॥

अन्वयः

यत् सुखम् अग्रे च अनुबन्धे च आत्मनः मोहनं निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = निद्रालस्यप्रमादोत्थम्
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = मोहनम्
        • सम्बन्ध-पदम् = आत्मनः
      • कर्तृपदम् = सुखम्
      • कर्तृविशेषणम् = यत्
      • अधिकरणपदम् = अग्रे
      • अधिकरणपदम् = अनुबन्धे
      • संयोजकपदम् = च
    • “तत्” वाक्यांश:
      • क्रिया-गर्भ-कर्मपदम्= उदाहृतम्
      • कर्मविशेषण-सूचक-पदम् = तामसम्
      • कर्मपदम् = तत्

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।

सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः ॥ ४० ॥

पदच्छेदः

न तत् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः सत्त्वं प्रकृतिजैः मुक्तं यत् एभिः स्यात् त्रिभिः गुणैः ॥

अन्वयः

प्रकृतिजैः एभिः त्रिभिः गुणैः यत् मुक्तंस्यात् तत् सत्त्वं पृथिव्यां न अस्ति, दिवि देवेषु वा पुनः (नास्ति) ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = स्यात्
      • कर्तृ-विशेषण-सूचक-पदम् = मुक्तम्
      • करणवाचकपदम् = गुणैः
      • करणविशेषणम् = त्रिभिः
      • करणविशेषणम् = एभिः
      • करणविशेषणम् = प्रकृतिजैः
      • कर्तृपदम् = यत्
    • “तत्” वाक्यांश:
      • क्रियापदम् = अस्ति
      • प्रतिषेधपदम् = न
      • कर्तृ-विशेषण-सूचक-पदम् = सत्त्वम्
      • कर्तृपदम् = तत्
      • अधिकरणपदम् = पृथिव्याम्
      • समुच्चय-वाक्यम्
        • क्रियापदम् = (अस्ति)
        • प्रतिषेधपदम् = (न)
        • क्रियाविशेषणम् = पुनः
        • अधिकरणपदम् = दिवि
        • अधिकरणपदम् = देवेषु
        • संयोजकपदम् = वा

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।

कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ ४१ ॥

पदच्छेदः

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप कर्माणि प्रविभक्तानि स्वभावप्रभवैः गुणैः ॥

अन्वयः

परन्तप ! ब्राह्मणक्षत्रियविशां शूद्राणां च स्वभावप्रभवैः गुणैः कर्माणि प्रविभक्तानि ।

पदपरिचयः

  • सम्बोधनपदम् = परन्तप!
  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = प्रविभक्तानि
    • कर्तृपदम् = कर्माणि
    • सम्बन्ध-पदम् = ब्राह्मणक्षत्रियविशाम्
    • सम्बन्ध-पदम् = शूद्राणाम्
    • संयोजकपदम् = च
    • करणवाचकपदम् = गुणैः
    • करणविशेषणम् = स्वभावप्रभवैः

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।

ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ ४२ ॥

पदच्छेदः

शमः दमः तपः शौचं क्षान्तिः आर्जवमेव च ज्ञानं विज्ञानम् आस्तिक्यं ब्रह्मकर्म स्वभावजम् ॥

अन्वयः

शमः दमः तपः शौचं क्षान्तिः आर्जवम् एव च ज्ञानं विज्ञानम् आस्तिक्यं स्वभावजं ब्रह्मकर्म ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = ब्रह्मकर्म
      • कर्तृविशेषणम् = स्वभावजम्
    • वाक्यांश:
      • कर्तृपदम् = शमः
      • कर्तृपदम् = दमः
      • कर्तृपदम् = तपः
      • कर्तृपदम् = शौचम्
      • कर्तृपदम् = क्षान्तिः
      • कर्तृपदम् = आर्जवम्
      • कर्तृपदम् = ज्ञानम्
      • कर्तृपदम् = विज्ञानम्
      • कर्तृपदम् = आस्तिक्यम्
      • अवधारणम् = एव
      • संयोजकपदम् = च

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।

दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥

पदच्छेदः

शौर्यं तेजः धृतिः दाक्ष्यं युद्धे च अपि अपलायनम् दानम् ईश्वरभावः च क्षात्रं कर्म स्वभावजम् ॥

अन्वयः

शौर्यं तेजः धृतिः दाक्ष्यं युद्धे च अपि अपलायनं दानम् ईश्वरभावः च स्वभावजं क्षात्रं कर्म ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = कर्म
      • कर्तृविशेषणम् = क्षात्रम्
      • कर्तृविशेषणम् = स्वभावजम्
    • वाक्यांश:
      • कर्तृपदम् = शौर्यम्
      • कर्तृपदम् = तेजः
      • कर्तृपदम् = धृतिः
      • कर्तृपदम् = दाक्ष्यम्
      • कर्तृपदम् = युद्धे
      • कर्तृपदम् = दानम्
      • कर्तृपदम् = ईश्वरभावः
      • वाक्यांश:
        • कर्तृपदम् = अपलायनम्
        • अधिकरणपदम् = युद्धे
        • अवधारणम् = अपि
      • संयोजकपदम् = च

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।

परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुश्चत्वारिंशत्तमः(४४) श्लोकः ।

पदच्छेदः

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् परिचर्यात्मकं कर्म शूद्रस्य अपि स्वभावजम् ॥

अन्वयः

कृषिगौरक्ष्यवाणिज्यं स्वभावजं वैश्यकर्म । शूद्रस्य अपि परिचर्यात्मकं स्वभावजं कर्म ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = वैश्यकर्म
    • कर्तृविशेषणम् = स्वभावजम्
    • कर्तृपदम् = कृषिगौरक्ष्यवाणिज्यम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = कर्म
    • कर्तृविशेषणम् = स्वभावजम्
    • सम्बन्ध-पदम् = शूद्रस्य
    • अवधारणम् = अपि
    • कर्तृपदम् = परिचर्यात्मकम्

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।

स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ ४५ ॥

पदच्छेदः

स्वे स्वे कर्मणि अभिरतः संसिद्धिं लभते नरः स्वकर्मनिरतः सिद्धिं यथा विन्दति तत् शृणु ॥

अन्वयः

नरः स्वे स्वे कर्मणि अभिरतः संसिद्धिं लभते । स्वकर्मनिरतः सिद्धिं यथा विन्दति तत् शृणु ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = लभते
    • कर्मपदम् = संसिद्धिम्
    • कर्तृपदम् = नरः
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= अभिरतः
      • कर्मपदम् = कर्मणि
      • कर्मविशेषणम् = स्वे
    • द्वितीयवाक्यम्
      • “यथा” वाक्यांश:
        • क्रियापदम् = विन्दति
        • कर्मपदम् = सिद्धिम्
        • क्रियाविशेषणम् = यथा
        • कर्तृपदम् = स्वकर्मनिरतः
      • “तत्” वाक्यांश:
        • क्रियापदम् = शृणु
        • कर्मपदम् = तत्
        • कर्तृपदम् = (त्वम्)

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।

स्वकर्मणा तमभ्यर्च सिद्धिं विन्दति मानवः ॥ ४६ ॥

पदच्छेदः

यतः प्रवृत्तिः भूतानां येन सर्वम् इदं ततम् स्वकर्मणा तम् अभ्यर्च सिद्धिं विन्दति मानवः ॥

अन्वयः

मानवः यतः भूतानां प्रवृत्तिः, येन इदं सर्वं ततम् तं स्वकर्मणा अभ्यर्च सिद्धिं विन्दति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यतः” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = प्रवृत्तिः
      • सम्बन्ध-पदम् = भूतानाम्
      • अपादानपदम् = यतः
    • “येन” वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = ततम्
      • कर्तृपदम् = सर्वम्
      • कर्तृविशेषणम् = इदम्
      • करणवाचकपदम् = येन
    • “तम्” वाक्यांश:
      • क्रियापदम् = विन्दति
      • कर्मपदम् = सिद्धिम्
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = अभ्यर्च
        • कर्मपदम् = तम्
        • करणवाचकपदम् = स्वकर्मणा
      • कर्तृपदम् = मानवः
      • कर्तृविशेषणम् = यतः

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।

स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४७ ॥

पदच्छेदः

श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात् स्वभावनियतं कर्म कुर्वन् न आप्नोति किल्बिषम् ॥

अन्वयः

विगुणः स्वधर्मः स्वनुष्ठितात् परधर्मात् श्रेयान् । स्वभावनियतं कर्म कुर्वन् किल्बिषं न आप्नोति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = श्रेयान्
      • अपादानपदम् = परधर्मात्
      • अपादानविशेषणम् = स्वनुष्ठितात्
    • कर्तृपदम् = स्वधर्मः
    • कर्तृविशेषणम् = विगुणः
  • द्वितीयवाक्यम्
    • क्रियापदम् = आप्नोति
    • प्रतिषेधपदम् = न
    • कर्मपदम् = किल्बिषम्
    • क्रिया-गर्भ-कर्तृपदम्= कुर्वन्
    • कर्मपदम् = कर्म
    • कर्मविशेषणम् = स्वभावनियतम्

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।

सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ ४८ ॥

पदच्छेदः

सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् सर्वारम्भाः हि दोषेण धूमेन अग्निः इव आवृताः ॥

अन्वयः

कौन्तेय ! सदोषमपि सहजं कर्म न त्यजेत् । धूमेन हि अग्निः इव सर्वारम्भाः दोषेण आवृताः ।

पदपरिचयः

  • सम्बोधनपदम् = कौन्तेय!
  • प्रथमवाक्यम्
    • क्रियापदम् = त्यजेत्
    • प्रतिषेधपदम् = न
    • कर्मपदम् = कर्म
    • कर्मविशेषणम् = सहजम्
    • कर्मविशेषणम् = सदोषम्
    • अवधारणम् = अपि
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = आवृताः
      • करणवाचकपदम् = दोषेण
    • कर्तृपदम् = सर्वारम्भाः
    • वाक्यांश:
      • कर्तृविशेषणम् = अग्निः
      • संयोजकपदम् = इव
    • करणवाचकपदम् = धूमेन
    • अवधारणम् = हि

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।

नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥ ४९ ॥

पदच्छेदः

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः नैष्कर्म्यसिद्धिं परमां सन्न्यासेन अधिगच्छति ॥

अन्वयः

सर्वत्र असक्तबुद्धिः जितात्मा विगतस्पृहः सन्न्यासेन परमां नैष्कर्म्यसिद्धिम् अधिगच्छति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = अधिगच्छति
    • कर्मपदम् = नैष्कर्म्यसिद्धिम्
    • कर्मविशेषणम् = परमाम्
    • करणवाचकपदम् = सन्न्यासेन
    • कर्तृपदम् = विगतस्पृहः
    • कर्तृविशेषणम् = जितात्मा
    • वाक्यांश:
      • कर्तृविशेषणम् = असक्तबुद्धिः
      • अधिकरणपदम् = सर्वत्र

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।

समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥

पदच्छेदः

सिद्धिं प्राप्तः यथा ब्रह्म तथा आप्नोति निबोध मे समासेन एव कौन्तेय निष्ठा ज्ञानस्य या परा ॥

अन्वयः

कौन्तेय ! सिद्धिं प्राप्तः ब्रह्म यथा आप्नोति तथा मे (वचनात्) निबोध या ज्ञानस्य परा निष्ठा समासेन एव।

पदपरिचयः

  • सम्बोधनपदम् = कौन्तेय!
  • प्रथमवाक्यम्
    • “यथा” वाक्यांश:
      • क्रियापदम् = आप्नोति
      • क्रियाविशेषणम् = यथा
      • कर्मपदम् = ब्रह्म
      • वाक्यांश:
        • कर्तृपदम् = प्राप्तः
        • कर्मपदम् = सिद्धिम्
      • “तथा” वाक्यांश:
        • क्रियापदम् = निबोध
        • क्रियाविशेषणम् = तथा
        • कर्तृपदम् = (त्वम्)
        • वाक्यांश:
          • कारणवाचकपदम् = (वचनात्)
          • सम्बन्ध-पदम् = मे
        • कर्म-वाक्यांश:
          • कर्मपदम् = निष्ठा
          • कर्मविशेषणम् = परा
          • सम्बन्ध-पदम् = ज्ञानस्य
        • कर्मविशेषणम् = या
        • करणवाचकपदम् = समासेन

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।

शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ ५१ ॥

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।

ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ ५२ ॥

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।

विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ ५३ ॥

दच्छेदः

बुद्ध्या विशुद्धया युक्तः धृत्या आत्मानं नियम्य च शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ध्यानयोगपरः नित्यं वैराग्यं सम् उपाश्रितः ॥ अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् विमुच्य निर्ममः शान्तः ब्रह्मभूयाय कल्पते ॥

अन्वयः

विशुद्धया बुद्ध्या युक्तः धृत्या आत्मानं नियम्य च शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ व्युदस्य च विविक्तसेवी लघ्वाशी यतवाक्कायमानसः नित्यं ध्यानयोगपरः वैराग्यं समुपाश्रितः अहारं बलं दर्पं कामं क्रोधं परिग्रहं विमुच्य शान्तः निर्ममः ब्रह्मभूयाय कल्पते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = कल्पते
    • सम्प्रदानपदम् = ब्रह्मभूयाय
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = नियम्य
      • कर्मपदम् = आत्मानम्
      • संयोजकपदम् = च
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = त्यक्त्वा
      • कर्मपदम् = विषयान्
      • कर्मविशेषणम् = शब्दादीन्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = व्युदस्य
      • कर्मपदम् = रागद्वेषौ
    • वाक्यांश:
      • कर्तृपदम् = युक्तः
      • करणवाचकपदम् = बुद्ध्या
      • करणविशेषणम् = विशुद्धया
    • कर्तृविशेषणम् = विविक्तसेवी
    • कर्तृविशेषणम् = लघ्वाशी
    • वाक्यांश:
      • कर्तृविशेषणम् = यतवाक्कायमानसः
      • कालवाचकपदम् = नित्यम्
    • वाक्यांश:
      • कर्तृविशेषणम् = समुपाश्रितः
      • कर्मपदम् = वैराग्यम्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = विमुच्य
      • कर्मपदम् = अहारम्
      • कर्मपदम् = बलम्
      • कर्मपदम् = दर्पम्
      • कर्मपदम् = कामम्
      • कर्मपदम् = क्रोधम्
      • कर्मपदम् = परिग्रहम्
    • कर्तृपदम् = शान्तः
    • कर्तृविशेषणम् = निर्ममः

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।

समः सर्वेषु भूतेषु मद्भक्तिंलभते पराम् ॥ ५४ ॥

पदच्छेदः

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥

अन्वयः

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । सर्वेषु भूतेषु समः परां मद्भक्तिं लभते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = शोचति
    • प्रतिषेधपदम् = न
    • कर्तृपदम् = प्रसन्नात्मा
    • कर्तृविशेषणम् = ब्रह्मभूतः
    • समुच्चय-वाक्यम्
      • क्रियापदम् = काङ्क्षति
      • प्रतिषेधपदम् = न
    • द्वितीयवाक्यम्
      • क्रियापदम् = लभते
      • कर्मपदम् = मद्भक्तिम्
      • कर्मविशेषणम् = पराम्
      • वाक्यांश:
        • कर्तृपदम् = समः
        • अधिकरणपदम् = भूतेषु
        • अधिकरण-विशेषणम् = सर्वेषु

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।

ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ ५५ ॥

दच्छेदः

भक्त्या माम् अभिजानाति यावान् यः च अस्मि तत्त्वतः ततः मां तत्त्वतः ज्ञात्वा विशते तदनन्तरम् ॥

अन्वयः

भक्त्या तत्त्वतः यावान् यः च अस्मि (तादृशं) माम् अभिजानाति ततः मां तत्त्वतः ज्ञात्वा तदनन्तरं विशते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = अभिजानाति
    • क्रियाविशेषणम् = तत्त्वतः
    • करणवाचकपदम् = भक्त्या
    • कर्मपदम् = माम्
    • कर्म-वाक्यम्
      • क्रियापदम् = अस्मि
      • कर्तृ-विशेषण-सूचक-पदम् = यावान्
      • कर्तृ-विशेषण-सूचक-पदम् = यः
      • संयोजकपदम् = च
      • कर्तृपदम् = (अहम्)
      • संयोजकपदम् = (इति)
    • द्वितीयवाक्यम्
      • क्रियापदम् = विशते
      • कर्मपदम् = तदनन्तरम्
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = ज्ञात्वा
        • क्रियाविशेषणम् = तत्त्वतः
        • कर्मपदम् = माम्
      • अपादानपदम् = ततः

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।

मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ ५६ ॥

पदच्छेदः

सर्वकर्माणि अपि सदा कुर्वाणः मद्व्यपाश्रयः मत्प्रसादात् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥

अन्वयः

सदा सर्वकर्माणि कुर्वाणः अपि मद्व्यपाश्रयः मत्प्रसादात् अव्ययं शाश्वतं पदम् अवाप्नोति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = अवाप्नोति
    • कर्मपदम् = पदम्
    • कर्मविशेषणम् = शाश्वतम्
    • कर्मविशेषणम् = अव्ययम्
    • कारणवाचकपदम् = मत्प्रसादात्
    • कर्तृपदम् = मद्व्यपाश्रयः
    • वाक्यांश:
      • कर्तृविशेषणम् = कुर्वाणः
      • अवधारणम् = अपि
      • कर्मपदम् = सर्वकर्माणि
      • कालवाचकपदम् = सदा

चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः ।

बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ ५७ ॥

दच्छेदः

चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः बुद्धियोगम् उपाश्रित्य मच्चित्तः सततं भव ॥

अन्वयः

सर्वकर्माणि चेतसा मयि सन्न्यस्य बुद्धियोगम् उपाश्रित्य मत्परः (सन्) सततं मच्चित्तः भव ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = भव
    • कर्तृ-विशेषण-सूचक-पदम् = मच्चित्तः
    • कालवाचकपदम् = सततम्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = सन्न्यस्य
      • अधिकरणपदम् = मयि
      • करणवाचकपदम् = चेतसा
      • कर्मपदम् = सर्वकर्माणि
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = उपाश्रित्य
      • कर्मपदम् = बुद्धियोगम्
    • वाक्यांश:
      • कर्तृविशेषणम् = (सन्)
      • कर्तृविशेषणम् = मत्परः
    • कर्तृपदम् = (त्वम्)

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।

अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ ५८ ॥

पदच्छेदः

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि अथ चेत् त्वम् अहङ्कारात् न श्रोष्यसि विनङ्क्ष्यसि ॥ ५८ ॥

अन्वयः

मच्चित्तः मत्प्रसादात् सर्वदुर्गाणि तरिष्यसि । अथ त्वम् अहङ्कारात् न श्रोष्यसि चेत् विनङ्क्ष्यसि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = तरिष्यसि
    • कर्मपदम् = सर्वदुर्गाणि
    • कारणवाचकपदम् = मत्प्रसादात्
    • कर्तृपदम् = (त्वम्)
    • कर्तृविशेषणम् = मच्चित्तः
  • द्वितीयवाक्यम्
    • क्रियापदम् = विनङ्क्ष्यसि
    • वाक्यांश:
      • क्रियापदम् = श्रोष्यसि
      • क्रियाविशेषणम् = न
      • कारणवाचकपदम् = अहङ्कारात्
      • संयोजकपदम् = चेत्
    • कर्तृपदम् = त्वम्
    • संयोजकपदम् = अथ

यद्यहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।

मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ ५९ ॥

पदच्छेदः

यदि अहङ्कारम् आश्रित्य न योत्स्य इति मन्यसे मिथ्या एष व्यवसायः ते प्रकृतिः त्वां नियोक्ष्यति ॥

अन्वयः

यदि अहङ्कारम् आश्रित्य न योत्स्ये इति मन्यसे (तर्हि) एषः ते व्यवसायः मिथ्या । प्रकृतिः त्वां नियोक्ष्यति।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यदि” वाक्यांश:
      • क्रियापदम् = मन्यसे
      • वाक्यांश:
        • क्रियापदम् = योत्स्ये
        • प्रतिषेधपदम् = न
        • संयोजकपदम् = इति
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = आश्रित्य
        • कर्मपदम् = अहङ्कारम्
      • संयोजकपदम् = यदि
    • “(तर्हि)” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = मिथ्या
      • वाक्यांश:
        • कर्तृपदम् = व्यवसायः
        • कर्तृविशेषणम् = एषः
        • सम्बन्ध-पदम् = ते
      • संयोजकपदम् = (तर्हि)
    • द्वितीयवाक्यम्
      • क्रियापदम् = नियोक्ष्यति
      • कर्मपदम् = त्वाम्
      • कर्तृपदम् = प्रकृतिः

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।

कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ ६० ॥

पदच्छेदः

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा कर्तुं न इच्छसि यत् मोहात् करिष्यसि अवशः अपि तत् ॥

अन्वयः

कौन्तेय ! स्वभावजेन स्वेन कर्मणा निबद्धः यत् कर्तुं न इच्छसि तत् मोहात् अवशः अपि करिष्यसि ।

पदपरिचयः

  • सम्बोधनपदम् = कौन्तेय!
  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = इच्छसि
      • प्रतिषेधपदम् = न
      • तुमुनन्तपदम् = कर्तुम्
      • कर्मपदम् = यत्
      • करणवाचकपदम् = कर्मणा
      • करणविशेषणम् = स्वेन
      • करणविशेषणम् = स्वभावजेन
    • “तत्” वाक्यांश:
      • क्रियापदम् = करिष्यसि
      • कर्तृपदम् = (त्वम्)
      • वाक्यांश:
        • कर्तृविशेषणम् = अवशः
        • अवधारणम् = अपि
      • कारणवाचकपदम् = मोहात्

References –

  1. 26 & 27 Feb 2016 दिनाङ्कयोः नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/7q4  मोक्षसंन्यासयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwas, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s