Bhagavad Gita – Chapter 18 – Part 1

श्रीमद्भगवद्गीता –अष्टादशोऽध्यायः – मोक्षसंन्यासयोगः

 

अर्जुन उवाच

सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।

त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १ ॥

पदच्छेदः

सन्न्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥

अन्वयः

महाबाहो हृषीकेश केशिनिषूदन ! सन्न्यासस्य त्यागस्य च तत्त्वं पृथक् वेदितुम् इच्छामि ।

पदपरिचयः

  • सम्बोधनपदम् = महाबाहो
  • सम्बोधनपदम् = हृषीकेश
  • सम्बोधनपदम् = केशिनिषूदन!
  • प्रथमवाक्यम्
    • क्रियापदम् = इच्छामि
    • वाक्यांश:
      • कारणवाचकपदम् = वेदितुम्
      • क्रियाविशेषणम् = पृथक्
      • वाक्यांश:
        • कर्मपदम् = तत्त्वम्
        • सम्बन्ध-पदम् = सन्न्यासस्य
        • सम्बन्ध-पदम् = त्यागस्य
        • संयोजकपदम् = च
      • कर्तृपदम् = (अहम्)

श्रीभगवानुवाच

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।

सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥

पदच्छेदः

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः सर्वकर्मफलत्यागं प्राहुः त्यागं विचक्षणाः ॥ २ ॥

अन्वयः

काम्यानां कर्मणां न्यासं सन्न्यासं इति कवयः विदुः । सर्वकर्मफलत्यागं विचक्षणाः त्यागं इति प्राहुः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = विदुः
    • कर्तृपदम् = कवयः
    • वाक्यांश:
      • कर्मविशेषण-सूचक-पदम् = सन्न्यासम्
      • वाक्यांश:
        • कर्मपदम् = न्यासम्
        • सम्बन्ध-पदम् = कर्मणाम्
        • सम्बन्ध-विशेषण-पदम् = काम्यानाम्
        • संयोजकपदम् = इति
      • द्वितीयवाक्यम्
        • क्रियापदम् = प्राहुः
        • कर्तृपदम् = विचक्षणाः
        • वाक्यांश:
          • कर्मविशेषण-सूचक-पदम् = त्यागम्
          • कर्मपदम् = सर्वकर्मफलत्यागम्
          • संयोजकपदम् = इति

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।

यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ ३ ॥

पदच्छेदः

त्याज्यं दोषवत् इति एके कर्म प्राहुः मनीषिणः यज्ञदानतपः कर्म न त्याज्यम् इति च अपरे ॥ ३ ॥

अन्वयः

एके मनीषिणः दोषवत् कर्म त्याज्यम् इति प्राहुः । अपरे यज्ञदानतपःकर्म च न त्याज्यम् इति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = प्राहुः
    • कर्तृपदम् = मनीषिणः
    • कर्तृविशेषणम् = एके
    • वाक्यांश:
      • कर्मविशेषण-सूचक-पदम् = त्याज्यम्
      • कर्मपदम् = कर्म
      • कर्मविशेषणम् = दोषवत्
      • संयोजकपदम् = इति
    • द्वितीयवाक्यम्
      • क्रियापदम् = प्राहुः
      • कर्तृपदम् = अपरे
      • वाक्यांश:
        • वाक्यांश:
          • कर्मविशेषण-सूचक-पदम् = त्याज्यम्
          • प्रतिषेधपदम् = न
        • कर्मपदम् = यज्ञदानतपःकर्म
        • संयोजकपदम् = इति
        • संयोजकपदम् = च

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।

त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ ४ ॥

पदच्छेदः

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम त्यागः हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥

अन्वयः

भरतसत्तम ! तत्र त्यागे मे निश्चयं शृणु, पुरुषव्याघ्र ! त्यागः हि त्रिविधः सम्प्रकीर्तितः ।

पदपरिचयः

  • सम्बोधनपदम् = भरतसत्तम!
  • प्रथमवाक्यम्
    • क्रियापदम् = शृणु
    • कर्तृपदम् = (त्वम्)
    • वाक्यांश:
      • कर्मपदम् = निश्चयम्
      • सम्बन्ध-पदम् = मे
    • विषयवाचकपदम् = त्यागे
    • विषयवाचकपदम् = तत्र
  • सम्बोधनपदम् = पुरुषव्याघ्र!
  • द्वितीयवाक्यम्
    • क्रिया-गर्भ-कर्तृपदम्= सम्प्रकीर्तितः
    • कर्तृ-विशेषण-सूचक-पदम् = त्रिविधः
    • कर्तृपदम् = त्यागः
    • अवधारणम् = हि

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।

यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥

पदच्छेदः

यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् यज्ञः दानं तपः च एव पावनानि मनीषिणाम् ॥

अन्वयः

यज्ञदानतपःकर्म न त्याज्यं तत् कार्यम् एव । यज्ञः दानं तपः च एव मनीषिणां पावनानि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • प्रतिषेधपदम् = न
    • कर्तृ-विशेषण-सूचक-पदम् = त्याज्यम्
    • कर्तृपदम् = यज्ञदानतपःकर्म
    • कर्तृविशेषणम् = कार्यम्
    • कर्तृविशेषणम् = तत्
    • अवधारणम् = एव
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = पावनानि
      • सम्बन्ध-पदम् = मनीषिणाम्
    • कर्तृपदम् = यज्ञः
    • कर्तृपदम् = दानम्
    • कर्तृपदम् = तपः
    • संयोजकपदम् = च
    • अवधारणम् = एव

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।

कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ ६ ॥

पदच्छेदः

एतानि अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च कर्तव्यानि इति मे पार्थ निश्चितं मतम् उत्तमम् ॥

अन्वयः

पार्थ ! एतानि अपि तु कर्माणि सङ्गं फलानि च त्यक्त्वा कर्तव्यानि इति निश्चितं मे उत्तमं मतम् ।

पदपरिचयः

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • वाक्यांश:
      • कर्तृ-पदम् = मतम्
      • कर्तृविशेषणम् = उत्तमम्
      • कर्तृविशेषणम् = निश्चितम्
      • सम्बन्ध-पदम् = मे
    • कर्म-वाक्यम्
      • क्रियापदम् = (भवन्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = कर्तव्यानि
      • वाक्यांश:
        • कर्तृपदम् = कर्माणि
        • कर्तृविशेषणम् = एतानि
        • अवधारणम् = अपि
        • अवधारणम् = तु
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = त्यक्त्वा
        • कर्मपदम् = सङ्गम्
        • कर्मपदम् = फलानि
        • संयोजकपदम् = च
      • संयोजकपदम् = इति

नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।

मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७ ॥

पदच्छेदः

नियतस्य तु सन्न्यासः कर्मणः न उपपद्यते मोहात् तस्य परित्यागः तामसः परिकीर्तितः ॥

अन्वयः

नियतस्य कर्मणः तु सन्न्यासः न उपपद्यते । मोहात् तस्य परित्यागः तामसः (इति) परिकीर्तितः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = उपपद्यते
    • प्रतिषेधपदम् = न
    • वाक्यांश:
      • कर्तृपदम् = सन्न्यासः
      • सम्बन्ध-पदम् = कर्मणः
      • सम्बन्ध-विशेषण-पदम् = नियतस्य
      • अवधारणम् = तु
    • द्वितीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • कर्तृपदम् = परिकीर्तितः
      • वाक्यांश:
        • कर्मविशेषण-सूचक-पदम् = तामसः
        • कर्मपदम् = परित्यागः
        • सम्बन्ध-पदम् = तस्य
        • कारणवाचकपदम् = मोहात्
        • संयोजकपदम् = (इति)

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।

स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८ ॥

पदच्छेदः

दुःखम् इति एव यत् कर्म कायक्लेशभयात् त्यजेत् स कृत्वा राजसं त्यागं न एव त्यागफलं लभेत् ॥

अन्वयः

कायक्लेशभयात् दुःखम् इति एव यत् कर्म त्यजेत् सः राजसं त्यागं कृत्वा त्यागफलं न एव लभेत् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “(यः)” वाक्यांश:
      • क्रियापदम् = त्यजेत्
      • कर्मपदम् = कर्म
      • कर्मविशेषणम् = यत्
      • वाक्यांश:
        • कर्मविशेषण-सूचक-पदम् = दुःखम्
        • संयोजकपदम् = इति
        • अवधारणम् = एव
      • कारणवाचकपदम् = कायक्लेशभयात्
      • कर्तृपदम् = (यः)
    • “सः” वाक्यांश:
      • क्रियापदम् = लभेत्
      • प्रतिषेधपदम् = न
      • अवधारणम् = एव
      • कर्मपदम् = त्यागफलम्
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = कृत्वा
        • कर्मपदम् = त्यागम्
        • कर्मविशेषणम् = राजसम्
      • कर्तृपदम् = सः

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।

सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ ९ ॥

पदच्छेदः

कार्यम् इति एव यत् कर्म नियतं क्रियते अर्जुन सङ्गं त्यक्त्वा फलं च एव सः त्यागः सात्त्विकः मतः ॥

अन्वयः

अर्जुन ! सङ्गं फलं च एव त्यक्त्वा कार्यम् इति एव यत् नियतं कर्म क्रियते सः त्यागः सात्त्विकः मतः ।

पदपरिचयः

  • सम्बोधनपदम् = अर्जुन!
  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • (कर्मणि) क्रियापदम् = क्रियते
      • (कर्मणि) कर्तृपदम् = कर्म
      • कर्तृविशेषणम् = नियतम्
      • कर्तृविशेषणम् = यत्
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = कार्यम्
        • संयोजकपदम् = इति
        • अवधारणम् = एव
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = त्यक्त्वा
        • ल्यबन्त-वाक्यांश: सङ्गम्
        • ल्यबन्त-वाक्यांश: फलम्
        • संयोजकपदम् = च
        • अवधारणम् = एव
      • “सः” वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • कर्तृ-विशेषण-सूचक-पदम् = मतः
        • वाक्यांश:
          • वाक्यांश:
            • कर्तृ-विशेषण-सूचक-पदम् = त्यागः
            • कर्तृविशेषणम् = सात्त्विकः
          • कर्तृपदम् = सः
        • संयोजकपदम् = (इति)

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।

त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ १० ॥

पदच्छेदः

न द्वेष्ट्यकुशलं कर्म कुशले न अनुषज्जते त्यागी सत्त्वसमाविष्टः मेधावी छिन्नसंशयः ॥

अन्वयः

सत्त्वसमाविष्टः छिन्नसंशयः मेधावी त्यागी अकुशलं कर्म न द्वेष्टि । कुशले न अनुषज्जते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = द्वेष्टि
    • प्रतिषेधपदम् = न
    • कर्मपदम् = कर्म
    • कर्मविशेषणम् = अकुशलम्
    • कर्तृपदम् = त्यागी
    • कर्तृविशेषणम् = मेधावी
    • कर्तृविशेषणम् = छिन्नसंशयः
    • कर्तृविशेषणम् = सत्त्वसमाविष्टः
  • द्वितीयवाक्यम्
    • क्रियापदम् = अनुषज्जते
    • प्रतिषेधपदम् = न
    • विषयवाचकपदम् = कुशले
    • कर्तृपदम् = (सः)

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।

यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ११ ॥

पदच्छेदः

न हि देहभृता शक्यं त्यक्तुं कर्माणि अशेषतः यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ॥

अन्वयः

देहभृता अशेषतः कर्माणि त्यक्तुं न हि शक्यम् । यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= शक्यम्
    • प्रतिषेधपदम् = न
    • अवधारणम् = हि
    • तुमुनन्तपदम् = त्यक्तुम्
    • (कर्मणि) कर्मपदम् = कर्माणि
    • क्रियाविशेषणम् = अशेषतः
    • (कर्मणि) कर्तृपदम् = देहभृता
  • द्वितीयवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = कर्मफलत्यागी
      • कर्तृपदम् = यः
      • अवधारणम् = तु
    • “सः” वाक्यांश:
      • क्रियापदम् = अभिधीयते
      • कर्म-वाक्यम्
        • कर्तृ-विशेषण-सूचक-पदम् = त्यागी
        • कर्तृपदम् = सः
        • संयोजकपदम् = इति

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।

भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १२ ॥

पदच्छेदः

अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् भवति अत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥

अन्वयः

अनिष्टम् इष्टं मिश्रं च इति कर्मणः त्रिविधं फलम् । अत्यागिनां प्रेत्य भवति सन्न्यासिनां तु न क्वचित् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = त्रिविधम्
    • कर्तृपदम् = फलम्
    • वाक्यांश:
      • कर्तृपदम् = अनिष्टम्
      • कर्तृपदम् = इष्टम्
      • कर्तृपदम् = मिश्रम्
      • संयोजकपदम् = च
      • संयोजकपदम् = इति
    • द्वितीयवाक्यम्
      • क्रियापदम् = भवति
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = प्रेत्य
        • सम्बन्ध-पदम् = अत्यागिनाम्
        • कर्तृपदम् = (तत्)
      • समुच्चय-वाक्यम्
        • प्रतिषेधपदम् = न
        • वाक्यांश:
          • कर्मपदम् = क्वचित्
          • सम्बन्ध-पदम् = सन्न्यासिनाम्
          • अवधारणम् = तु

पञ्चैतानि महाबाहो कारणानि निबोध मे ।

साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १३ ॥

पदच्छेदः

पञ्च एतानि महाबाहो कारणानि निबोध मे साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥

अन्वयः

महाबाहो ! साङ्ख्ये कृतान्ते सर्वकर्मणां सिद्धये प्रोक्तानि एतानि पञ्च कारणानि मे (वचनात्) निबोध ।

पदपरिचयः

  • सम्बोधनपदम् = महाबाहो!
  • प्रथमवाक्यम्
    • क्रियापदम् = निबोध
    • कर्तृपदम् = (त्वम्)
    • वाक्यांश:
      • कर्मपदम् = कारणानि
      • कर्मविशेषणम् = पञ्च
      • कर्मविशेषणम् = एतानि
    • वाक्यांश:
      • कर्मविशेषणम् = प्रोक्तानि
      • सम्प्रदानपदम् = सिद्धये
      • सम्बन्ध-पदम् = सर्वकर्मणाम्
    • अधिकरणपदम् = कृतान्ते
    • अधिकरण-विशेषणम् = साङ्ख्ये
    • वाक्यांश:
      • कारणवाचकपदम् = (वचनात्)
      • सम्बन्ध-पदम् = मे

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।

विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १४ ॥

पदच्छेदः

अधिष्ठानं तथा कर्ता करणं च पृथक् विधम् विविधाः च पृथक् चेष्टाः दैवं च एव अत्र पञ्चमम् ॥

अन्वयः

अधिष्ठानं तथा कर्ता, पृथग्विधं करणं च, विविधाः च पृथक्चेष्टाः अत्र च एव पञ्चमं दैवम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृपदम् = अधिष्ठानम्
    • वाक्यांश:
      • कर्तृपदम् = कर्ता
      • संयोजकपदम् = तथा
    • वाक्यांश:
      • कर्तृपदम् = करणम्
      • कर्तृविशेषणम् = पृथग्विधम्
      • संयोजकपदम् = च
    • वाक्यांश:
      • कर्तृपदम् = पृथक्चेष्टाः
      • कर्तृविशेषणम् = विविधाः
      • संयोजकपदम् = च
    • वाक्यांश:
      • कर्तृपदम् = दैवम्
      • कर्तृविशेषणम् = पञ्चमम्
      • अवधारणम् = एव
      • संयोजकपदम् = च
    • अधिकरणपदम् = अत्र

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।

न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १५ ॥

पदच्छेदः

शरीरवाङ्मनोभिः यत् कर्म प्रारभते नरः न्याय्यं वा विपरीतं वा पञ्च एते तस्य हेतवः ॥

अन्वयः

नरः शरीरवाङ्मनोभिः न्याय्यं वा विपरीतं वा यत् कर्म प्रारभते तस्य एते पञ्च हेतवः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = प्रारभते
      • करणवाचकपदम् = शरीरवाङ्मनोभिः
      • वाक्यांश:
        • कर्मविशेषणम् = न्याय्यम्
        • संयोजकपदम् = वा
        • कर्मविशेषणम् = विपरीतम्
        • संयोजकपदम् = वा
      • कर्मपदम् = कर्म
      • कर्मविशेषणम् = यत्
      • कर्तृपदम् = नरः
    • “तस्य” वाक्यांश:
      • क्रियापदम् = (भवन्ति)
      • कर्तृपदम् = हेतवः
      • कर्तृविशेषणम् = पञ्च
      • वाक्यांश:
        • कर्तृविशेषणम् = एते
        • सम्बन्ध-पदम् = तस्य

तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।

पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १६ ॥

पदच्छेदः

तत्र एवं सति कर्तारम् आत्मानं केवलं तु यः पश्यति अकृतबुद्धित्वात् न सः पश्यति दुर्मतिः ॥

अन्वयः

देहभृता अशेषतः कर्माणि त्यक्तुं न हि शक्यम् । यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= शक्यम्
    • प्रतिषेधपदम् = न
    • अवधारणम् = हि
    • (कर्मणि) कर्तृपदम् = देहभृता
    • कर्मपदम् = कर्माणि
    • तुमुनन्तपदम् = त्यक्तुम्
    • क्रियाविशेषणम् = अशेषतः
  • द्वितीयवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = कर्मफलत्यागी
      • कर्तृपदम् = यः
      • अवधारणम् = तु
    • “सः” वाक्यांश:
      • क्रियापदम् = अभिधीयते
      • वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • कर्तृ-विशेषण-सूचक-पदम् = त्यागी
        • कर्तृपदम् = सः
        • संयोजकपदम् = इति

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।

हत्वापि स इमान् लोकान्न हन्ति न निबध्यते ॥ १७ ॥

पदच्छेदः

यस्य न अहङ्कृतः भावः बुद्धिः यस्य न लिप्यते हत्वापि स इमान् लोकान् न हन्ति न निबध्यते ॥

अन्वयः

यस्य अहङ्कृतः भावः न, यस्य बुद्धिः न लिप्यते सः इमान् लोकान् हत्वा अपि न हन्ति, न निबध्यते।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यस्य” वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = भावः
      • सम्बन्ध-पदम् = अहङ्कृतः
      • सम्बन्ध-पदम् = यस्य
    • “यस्य” वाक्यांश:
      • क्रियापदम् = लिप्यते
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = बुद्धिः
      • सम्बन्ध-पदम् = यस्य
    • “सः” वाक्यांश:
      • क्रियापदम् = हन्ति
      • प्रतिषेधपदम् = न
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = हत्वा
        • कर्मपदम् = लोकान्
        • कर्मविशेषणम् = इमान्
        • अवधारणम् = अपि
      • कर्तृपदम् = सः
      • समुच्चय-वाक्यम्
      • क्रियापदम् = निबध्यते
      • प्रतिषेधपदम् = न

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।

करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ १८ ॥

पदच्छेदः

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना करणं कर्म कर्ता इति त्रिविधः कर्मसङ्ग्रहः ॥

अन्वयः

ज्ञानं ज्ञेयं परिज्ञाता इति कर्मचोदना त्रिविधा । करणं कर्म कर्ता इति कर्मसङ्ग्रहः त्रिविधः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = त्रिविधा
    • कर्तृपदम् = कर्मचोदना
    • वाक्यांश:
      • कर्तृपदम् = ज्ञानम्
      • कर्तृपदम् = ज्ञेयम्
      • कर्तृपदम् = परिज्ञाता
      • संयोजकपदम् = इति
    • द्वितीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = त्रिविधः
      • कर्तृपदम् = कर्मसङ्ग्रहः
      • वाक्यांश:
        • कर्तृपदम् = करणम्
        • कर्तृपदम् = कर्म
        • कर्तृपदम् = कर्ता
        • संयोजकपदम् = इति

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।

प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ १९ ॥

पदच्छेदः

ज्ञानं कर्म च कर्ता च त्रिधा एव गुणभेदतः प्रोच्यते गुणसङ्ख्याने यथावत् शृणु तानि अपि ॥ १९ ॥

अन्वयः

ज्ञानं कर्म च कर्ता च गुणभेदतः त्रिधा एव गुणसङ्ख्याने प्रोच्यते । तानि अपि यथावत् शृणु ।

पदपरिचयः

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = प्रोच्यते
    • (कर्मणि) कर्मपदम् = ज्ञानम्
    • (कर्मणि) कर्मपदम् = कर्म
    • (कर्मणि) कर्मपदम् = कर्ता
    • संयोजकपदम् = च
    • वाक्यांश:
      • कर्मविशेषण-सूचक-पदम् = त्रिधा
      • अवधारणम् = एव
      • कारणवाचकपदम् = गुणभेदतः
    • अधिकरणपदम् = गुणसङ्ख्याने
  • द्वितीयवाक्यम्
    • क्रियापदम् = शृणु
    • क्रियाविशेषणम् = यथावत्
    • कर्मपदम् = तानि
    • अवधारणम् = अपि
    • कर्तृपदम् = (त्वम्)

सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।

अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ २० ॥

पदच्छेदः

सर्वभूतेषु येन एकं भावम् अव्ययम् ईक्षते अविभक्तं विभक्तेषु तत् ज्ञानं विद्धि सात्त्विकम् ॥

अन्वयः

विभक्तेषु सर्वभूतेषु अव्ययम् एकं भावं येन ईक्षते तत् ज्ञानं सात्त्विकं विद्धि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “येन” वाक्यांश:
      • (कर्मणि) क्रियापदम् = ईक्षते
      • (कर्मणि) कर्तृपदम् = येन
      • (कर्मणि) कर्मपदम् = भावम्
      • (कर्मणि) कर्मविशेषणम् = एकम्
      • (कर्मणि) कर्मविशेषणम् = अव्ययम्
      • अधिकरणपदम् = सर्वभूतेषु
      • अधिकरण-विशेषणम् = विभक्तेषु
    • “तत्” वाक्यांश:
      • क्रियापदम् = विद्धि
      • कर्तृपदम् = (त्वम्)
      • कर्मविशेषण-सूचक-पदम् = सात्त्विकम्
      • कर्मपदम् = ज्ञानम्
      • कर्मविशेषणम् = तत्

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।

वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ २१ ॥

पदच्छेदः

पृथक्त्वेन तु यत् ज्ञानं नानाभावान् पृथक् विधान् वेत्ति सर्वेषु भूतेषु तत् ज्ञानं विद्धि राजसम् ॥

अन्वयः

सर्वेषु भूतेषु पृथग्विधान् नानाभावान् पृथक्त्वेन तु यत् ज्ञानं वेत्ति तत् ज्ञानं राजसं विद्धि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = वेत्ति
      • कर्तृपदम् = ज्ञानम्
      • कर्तृविशेषणम् = यत्
      • करणवाचकपदम् = पृथक्त्वेन
      • अवधारणम् = तु
      • वाक्यांश:
        • कर्मपदम् = नानाभावान्
        • कर्मविशेषणम् = पृथग्विधान्
        • अधिकरणपदम् = भूतेषु
        • अधिकरण-विशेषणम् = सर्वेषु
      • “तत्” वाक्यांश:
        • क्रियापदम् = विद्धि
        • कर्तृपदम् = (त्वम्)
        • कर्मविशेषण-सूचक-पदम् = राजसम्
        • कर्मपदम् = ज्ञानम्
        • कर्मविशेषणम् = तत्
        • संयोजकपदम् = (इति)

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।

अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२ ॥

पदच्छेदः

यत् तु कृत्स्नवत् एकस्मिन् कार्ये सक्तम् अहैतुकम् अतत्त्वार्थवत् अल्पं च तत् तामसम् उदाहृतम् ॥

अन्वयः

यत् तु एकस्मिन् कार्ये कृत्स्नवत् सक्तम् अहैतुकम् अतत्त्वार्थवत् अल्पं च तत् तामसम् उदाहृतम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = सक्तम्
        • क्रियाविशेषणम् = कृत्स्नवत्
        • विषयवाचकपदम् = कार्ये
        • अधिकरण-विशेषणम् = एकस्मिन्
      • कर्तृ-विशेषण-सूचक-पदम् = अहैतुकम्
      • कर्तृ-विशेषण-सूचक-पदम् = अतत्त्वार्थवत्
      • कर्तृ-विशेषण-सूचक-पदम् = अल्पम्
      • संयोजकपदम् = च
    • “तत्” वाक्यांश:
      • (कर्मणि) क्रियापदम् = उदाहृतम्
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = तामसम्
      • (कर्मणि) कर्मपदम् = तत्
      • संयोजकपदम् = (इति)

नियतं सङ्गरहितमरागद्वेषतः कृतम् ।

अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ २३ ॥

पदच्छेदः

नियतं सङ्गरहितम् अरागद्वेषतः कृतम् अफलप्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥ २३ ॥

अन्वयः

अफलप्रेप्सुना अरागद्वेषतः नियतं सङ्गरहितम् यत् कृतं कर्म तत् सात्त्विकम् उच्यते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= कृतम्
      • (कर्मणि) कर्मपदम् = कर्म
      • (कर्मणि) कर्मविशेषणम् = यत्
      • (कर्मणि) कर्मविशेषणम् = अरागद्वेषतः
      • (कर्मणि) कर्मविशेषणम् = नियतम्
      • (कर्मणि) कर्मविशेषणम् = सङ्गरहितम्
      • (कर्मणि) कर्तृपदम् = अफलप्रेप्सुना
    • “तत्” वाक्यांश:
      • (कर्मणि) क्रियापदम् = उच्यते
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = सात्त्विकम्
      • (कर्मणि) कर्मपदम् = तत्

यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।

क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥

पदच्छेदः

यत् तु कामेप्सुना कर्म साहङ्कारेण वा पुनः क्रियते बहुलायासं तत् राजसम् उदाहृतम् ॥

अन्वयः

कामेप्सुना साहारेण वा पुनः बहुलायासं तु यत् कर्म क्रियते तत् राजसम् उदाहृतम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = क्रियते
      • (कर्मणि) कर्मपदम् = कर्म
      • (कर्मणि) कर्मविशेषणम् = यत्
      • (कर्मणि) क्रियाविशेषणम् = बहुलायासम्
      • (कर्मणि) अवधारणम् = तु
      • (कर्मणि) कर्तृपदम् = कामेप्सुना
      • (कर्मणि) कर्तृपदम् = साहारेण
      • संयोजकपदम् = वा
      • संयोजकपदम् = पुनः
    • “तत्” वाक्यांश:
      • (कर्मणि) क्रियापदम् = उदाहृतम्
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = राजसम्
      • (कर्मणि) कर्मपदम् = तत्

अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् ।

मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ २५ ॥

पदच्छेदः

अनुबन्धं क्षयं हिंसाम् अनवेक्ष्य च पौरुषम् मोहादारभ्यते कर्म यत् तत् तामसम् उच्यते ॥

अन्वयः

अनुबन्धं क्षयं हिंसां पौरुषं च अनवेक्ष्य मोहात् यत् कर्म आरभ्यते तत् तामसम् उच्यते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = आरभ्यते
      • (कर्मणि) कर्मपदम् = कर्म
      • (कर्मणि) कर्मविशेषणम् = यत्
      • कारणवाचकपदम् = मोहात्
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = अनवेक्ष्य
        • कर्मपदम् = अनुबन्धम्
        • कर्मपदम् = क्षयम्
        • कर्मपदम् = हिंसाम्
        • कर्मपदम् = पौरुषम्
        • संयोजकपदम् = च
      • “तत्” वाक्यांश:
        • (कर्मणि) क्रियापदम् = उच्यते
        • (कर्मणि) कर्मविशेषण-सूचक-पदम् = तामसम्
        • (कर्मणि) कर्मपदम् = तत्

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।

सिद्ध्यसिद्ध्योर्निविकारः कर्ता सात्त्विक उच्यते ॥ २६ ॥

पदच्छेदः

मुक्तसङ्गः अनहंवादी धृत्युत्साहसमन्वितः सिद्ध्यसिद्ध्योः निविकारः कर्ता सात्त्विकः उच्यते ॥

अन्वयः

मुक्तसङ्गः धृत्युत्साहसमन्वितः अनहंवादी सिद्ध्यसिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = सात्त्विकः
    • (कर्मणि) कर्मपदम् = कर्ता
    • (कर्मणि) कर्मविशेषणम् = मुक्तसङ्गः
    • (कर्मणि) कर्मविशेषणम् = धृत्युत्साहसमन्वितः
    • (कर्मणि) कर्मविशेषणम् = अनहंवादी
    • (कर्मणि) कर्मविशेषणम् = सिद्ध्यसिद्ध्योः
    • (कर्मणि) कर्मविशेषणम् = निर्विकारः

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।

हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ २७ ॥

पदच्छेदः

रागी कर्मफलप्रेप्सुः लुब्धः हिंसात्मकः अशुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥

अन्वयः

रागी कर्मफलप्रेप्सुः लुब्धः हिंसात्मकः अशुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = परिकीर्तितः
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = राजसः
    • (कर्मणि) कर्मपदम् = कर्ता
    • (कर्मणि) कर्मविशेषणम् = रागी
    • वाक्यांश:
      • कर्मविशेषणम् = लुब्धः
      • सम्बन्ध-पदम् = कर्मफलप्रेप्सुः
    • (कर्मणि) कर्मविशेषणम् = हिंसात्मकः
    • (कर्मणि) कर्मविशेषणम् = अशुचिः
    • (कर्मणि) कर्मविशेषणम् = हर्षशोकान्वितः

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।

विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ २८ ॥

पदच्छेदः

अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः विषादी दीर्घसूत्री च कर्ता तामसः उच्यते ॥ २८ ॥

अन्वयः

अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः विषादी दीर्घसूत्री च कर्ता तामसः उच्यते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = तामसः
    • (कर्मणि) कर्मपदम् = कर्ता
    • (कर्मणि) कर्मविशेषणम् = अयुक्तः
    • (कर्मणि) कर्मविशेषणम् = प्राकृतः
    • (कर्मणि) कर्मविशेषणम् = स्तब्धः
    • (कर्मणि) कर्मविशेषणम् = शठः
    • (कर्मणि) कर्मविशेषणम् = नैष्कृतिकः
    • (कर्मणि) कर्मविशेषणम् = अलसः
    • (कर्मणि) कर्मविशेषणम् = विषादी
    • (कर्मणि) कर्मविशेषणम् = दीर्घसूत्री
    • संयोजकपदम् = च

References –

  1. 20, 21 Feb 2016 दिनाङ्कयोः नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/7q4  मोक्षसंन्यासयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwas, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s