The anvaya for mukundamālā is given here. मुकुन्दमाला – श्लोकः, पदच्छेदः, अन्वयः
Rendition of Sanskrit Shlokas – संस्कृतश्लोकगीतिः
Composed by Shree Kulashekara Aazhvaar श्रीकुलशेखरनृपतिविरचिता
Paintings of Sri. Keshav चित्रकारः – श्री. केशवः
Sung by Bhargavi Jagannathan & Shreemathi Jagannathan गायिके – भार्गवी जगन्नाथन् , श्रीमती जगन्नाथन्
Audio: https://www.youtube.com/c/BhargaviShreemathi
- घुष्यते यस्य नगरे रङ्गयात्रा दिने दिने।
- तमहं शिरसा वन्दे राजानं कुलशेखरम् ॥
- पदच्छेदः
- घुष्यते यस्य नगरे रङ्गयात्रा दिने दिने तम् अहं शिरसा वन्दे राजानम् कुलशेखरम् ।
- अन्वयः
- यस्य नगरे, दिने दिने, रङ्गयात्रा घुष्यते, तं राजानं कुलशेखरम् अहं शिरसा वन्दे । [घुष्यते = घोषं क्रियते]
1
- श्रीवल्लभेति वरदेति दयापरेति
- भक्तप्रियेति भवलुण्ठनकोविदेति ।
- नाथेति नागशयनेति जगन्निवासे-
- त्यालापनं प्रतिपदं कुरु मे मुकुन्द ॥ १ ॥
- श्रीवल्लभ इति वरद इति दयापर इति भक्त-प्रिय इति भव-लुण्ठन-कोविद इति नाथ इति नाग-शयन इति जगत्-निवास इति आलापनम् प्रतिपदम् कुरु मे मुकुन्द ।
- (हे) मुकुन्द ! “श्रीवल्लभ!” इति, “वरद!” इति, “दयापर!” इति, “भक्त-प्रिय!” इति, “भव-लुण्ठन-कोविद!” इति, “नाथ!” इति, “नाग-शयन!” इति, “जगत्-निवास!” इति, मे आलापनं प्रतिपदं (यथा स्यात् तथा त्वं) कुरु ।
- [लुण्ठनम् = हरणम् । आलापनम् = स्वस्तिवाचनम्]
2
- जयतु जयतु देवो देवकीनन्दनोऽयं
- जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
- जयतु जयतु मेघश्यामलः कोमलाङ्गो
- जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ २ ॥
- जयतु जयतु देवः देवकी-नन्दनः अयम् जयतु जयतु कृष्णः वृष्णि-वंश-प्रदीपः जयतु जयतु मेघश्यामलः कोमलाङ्गः जयतु जयतु पृथ्वी-भार-नाशः मुकुन्दः।
- अयं देवकी-नन्दनः देवः जयतु जयतु। वृष्णि-वंश-प्रदीपः कृष्णः जयतु जयतु । मेघश्यामलः कोमलाङ्गः जयतु जयतु । पृथ्वी-भार-नाशः मुकुन्दः जयतु जयतु।
3
- मुकुन्द मूर्ध्ना प्रणिपत्य याचे
- भवन्तमेकान्तमियन्तमर्थम् ।
- अविस्मृतिस्त्वच्चरणारविन्दे
- भवे भवे मेऽस्तु भवत्प्रसादात् ॥ ३ ॥
- मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तम् एकान्तम् इयन्तम् अर्थम् अविस्मृतिः त्वत्-चरण-अरविन्दे भवे भवे मे अस्तु भवत्-प्रसादात् ।
- (हे) मुकुन्द ! भवत्-प्रसादात् भवे भवे त्वत्-चरण-अरविन्दे मे अविस्मृतिः अस्तु (इति अहं) मूर्ध्ना प्रणिपत्य, भवन्तम् इयन्तम् एकान्तम् अर्थं याचे ।
- [इयन् (इयत् शब्दः) = एतावत्, कियत्संख्याबोधकम् । एकान्तः = एकः एव ]
4
- नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः
- कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् ।
- रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं
- भावे भावे हृदयभवने भावयेयं भवन्तम्॥४॥
- न अहम् वन्दे तव चरणयोः द्वन्द्वम् अद्वन्द्व-हेतोः कुम्भीपाकम् गुरुम् अपि हरे नारकम् न अपनेतुम् रम्याः रामाः मृदु-तनु-लताः नन्दने न अपि रन्तुम् भावे भावे हृदय-भवने भावयेयम् भवन्तम् ।
- (हे) हरे ! अहं तव चरणयोः द्वन्द्वम्, अद्वन्द्व-हेतोः न वन्दे । गुरुं नारकं कुम्भीपाकम् अपनेतुम् अपि (अहं) न (वन्दे) । नन्दने मृदु-तनु-लताः रम्याः रामाः रन्तुम् अपि (अहं) न (वन्दे)। भावे भावे अहं हृदय-भवने भवन्तं भावयेयम्।
- [अद्वन्द्वः = द्वन्द्वरहितः,मुक्तिः। नन्दनम् = उपवनम् (अत्र स्वर्गे विद्यमानम् एकं नन्दनम्)। मृदु-तनु-लता = लता इव मृदुशरीरयुक्ता। अहं भवन्तं हृदयभवने भावयेयम् = यथा भवान् मम हृदयभवने भवेत् तथा अहं करिष्यामि ]
5
- नास्था धर्मे न वसुनिचये नैव कामोपभोगे
- यद्यद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम् ।
- एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि
- त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु॥५॥
- न आस्था धर्मे न वसु-निचये न एव काम-उपभोगे यत् यत् भव्यम् भवतु भगवन् पूर्व-कर्म-अनुरूपम् एतत् प्रार्थ्यम् मम बहुमतम् जन्म-जन्म-अन्तरे अपि त्वत्-पाद-अम्भोरुह-युग-गता निश्चला भक्तिः अस्तु ।
- (हे) भगवन् ! धर्मे (मम) आस्था न (अस्ति)। वसु-निचये न (अस्ति)। काम-उपभोगे न (अस्ति) एव। पूर्व-कर्म-अनुरूपं यत् यत् भव्यं, (तत् तत्) भवतु । जन्म-जन्म-अन्तरे अपि त्वत्-पाद-अम्भोरुह-युग-गता निश्चला भक्तिः अस्तु । एतत् मम बहुमतं प्रार्थ्यम् (अस्ति)।
- [आस्था = अपेक्षा । बहुमतम् = अत्यन्तं सम्मानितम्]
6
- दिवि वा भुवि वा ममास्तु वासो
- नरके वा नरकान्तक प्रकामम् ।
- अवधीरितशारदारविन्दौ
- चरणौ ते मरणेऽपि चिन्तयामि ॥ ६ ॥
- दिवि वा भुवि वा मम अस्तु वासः नरके वा नरक-अन्तक प्रकामम् अवधीरित-शारद-अरविन्दौ चरणौ ते मरणे अपि चिन्तयामि ।
- (हे) नरक-अन्तक ! दिवि वा, भुवि वा, मम वासः अस्तु । नरके वा प्रकामम् (अस्तु) । (अहं) ते अवधीरित-शारद-अरविन्दौ चरणौ, मरणे अपि चिन्तयामि ।
- [नरक-अन्तकः = नरकासुरस्य मारकः। प्रकामम् = यथा इष्टम् । अवधीरितः = अतिक्रान्तः। शारद-अरविन्दः = शरत्कालीनं कमलम्]
7
- कृष्ण त्वदीयपदपङ्कजपञ्जरान्तम्
- अद्यैव मे विशतु मानसराजहंसः ।
- प्राणप्रयाणसमये कफवातपित्तैः
- कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ७ ॥
- कृष्ण त्वदीय-पद-पङ्कज-पञ्जर-अन्तम् अद्य एव मे विशतु मानस-राज-हंसः प्राण-प्रयाण-समये कफ-वात-पित्तैः कण्ठ-अवरोधन-विधौ स्मरणम् कुतः ते ।
- (हे) कृष्ण ! मे मानस-राज-हंसः त्वदीय-पद-पङ्कज-पञ्जर-अन्तं अद्य एव विशतु । प्राण-प्रयाण-समये कफ-वात-पित्तैः कण्ठ-अवरोधन-विधौ ते स्मरणं कुतः (भवति)।
- [पञ्जरम् = पक्षिशाला। विशतु = अन्तः प्रविशतु । प्राण-प्रयाणम् = प्राणस्य निर्गमनम्, मरणम् । अवरोधनम् = कर्मविघ्नः। विधिः = विधानम्, अवस्था]
8
- चिन्तयामि हरिमेव सन्ततं
- मन्दमन्दहसिताननाम्बुजम् ।
- नन्दगोपतनयं परात्परं
- नारदादिमुनिवृन्दवन्दितम् ॥ ८ ॥
- चिन्तयामि हरिम् एव सन्ततम् मन्द-मन्द-हसित-आनन-अम्बुजम् नन्दगोप-तनयम् परात् परम् नारद-आदि-मुनि-वृन्द-वन्दितम् ।
- मन्द-मन्द-हसित-आनन-अम्बुजं नन्दगोप-तनयं परात् परं नारद-आदि-मुनि-वृन्द-वन्दितं हरिम् एव सन्ततम् (अहं) चिन्तयामि ।
- [वृन्दम् / बृन्दम् = समूहः]
9
- करचरणसरोजे कान्तिमन्नेत्रमीने
- श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे ।
- हरिसरसि विगाह्यापीय तेजोजलौघं
- भवमरुपरिखिन्नः खेदमद्य त्यजामि ॥९॥
- कर-चरण-सरोजे कान्तिमत्-नेत्र-मीने श्रम-मुषि भुज-वीचि-व्याकुले अगाध-मार्गे हरि-सरसि विगाह्य आपीय तेजः-जल-ओघम् भव-मरु-परिखिन्नः खेदम् अद्य त्यजामि ।
- कर-चरण-सरोजे कान्तिमत्-नेत्र-मीने श्रम-मुषि भुज-वीचि-व्याकुले अगाध-मार्गे हरि-सरसि विगाह्य, तेजः-जल-ओघम् आपीय, भव-मरु-परिखिन्नः (अहम्) अद्य खेदं त्यजामि।
- [श्रम-मुट्/मुड् = श्रमं मुष्णाति इति (धातुः मुष्), श्रम-हारकः। वीचिः = तरङ्गः। अगाधः = अतिगभीरः। विगाह्य = निमज्ज्य । ओघः = समूहः । मरुः = निर्जलदेशः]
10
- सरसिजनयने सशङ्खचक्रे
- मुरभिदि मा विरमस्व चित्त रन्तुम् ।
- सुखतरमपरं न जातु जाने
- हरिचरणस्मरणामृतेन तुल्यम् ॥ १०॥
- सरसिज-नयने स-शङ्ख-चक्रे मुर-भिदि मा विरमस्व चित्त रन्तुम् सुखतरम् अपरम् न जातु जाने हरि-चरण-स्मरण-अमृतेन तुल्यम् ।
- (हे) चित्त ! (त्वं) सरसिज-नयने स-शङ्ख-चक्रे मुर-भिदि रन्तुं मा विरमस्व । (यतः) हरि-चरण-स्मरण-अमृतेन तुल्यं सुखतरम् अपरं जातु (अहं) न जाने ।
- [मुर-भिद् = मुरं भिनत्ति इति मुरभिद् (धातुः भिद्), असुरस्य मुरस्य विदारकः। जातु = कदा अपि ]
11
- मा भीर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातनाः
- नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः।
- आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं
- लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः॥
- मा भीः मन्द-मनः विचिन्त्य बहुधा यामीः चिरं यातनाः न अमी नः प्रभवन्ति पाप-रिपवः स्वामी ननु श्रीधरः आलस्यम् व्यपनीय भक्ति-सुलभम् ध्यायस्व नारायणम् लोकस्य व्यसन-अपनोदन-करः दासस्य किम् न क्षमः।
- (हे) मन्द-मनः! (तव) भीः मा (अस्तु)। यामीः चिरं यातनाः बहुधा विचिन्त्य, (त्वं भयं न कुरु) । अमी पाप-रिपवः नः न प्रभवन्ति। ननु श्रीधरः (नः) स्वामी (अस्ति) । (त्वम्) आलस्यं व्यपनीय, भक्ति-सुलभं नारायणं ध्यायस्व । लोकस्य व्यसन-अपनोदन-करः (सः), दासस्य (कृते) किं (कर्तुं) न क्षमः (भवति)।
- [यामी = यमस्य इयम् । असौ (अदस् शब्दः – असौ, अमू, अमी) = एषः। यातना = पीडा ]
12
- भवजलधिगतानां द्वन्द्ववाताहतानां
- सुतदुहितृकलत्रत्राणभारार्दितानाम् ।
- विषमविषयतोये मज्जतामप्लवानां
- भवतु शरणमेको विष्णुपोतो नराणाम्॥१२॥
- भव-जलधि-गतानाम् द्वन्द्व-वात-आहतानाम् सुत-दुहितृ-कलत्र-त्राण-भार-आर्दितानाम् विषम-विषय-तोये मज्जताम् अप्लवानाम् भवतु शरणम् एकः विष्णु-पोतः नराणाम्।
- भव-जलधि-गतानां, द्वन्द्व-वात-आहतानां, सुत-दुहितृ-कलत्र-त्राण-भार-आर्दितानां, विषम-विषय-तोये मज्जताम्, अप्लवानां नराणां विष्णु-पोतः एकः शरणं भवतु ।
- [वातः = वायुः। दुहिता (दुहितृ शब्दः) = पुत्री । कलत्रम् = पत्नी। तोयम् = जलम् । अप्लवः = तरणसाधनरहितः। पोतः = नौका ]
13
- भवजलधिमगाधं दुस्तरं निस्तरेयं
- कथमहमिति चेतो मा स्म गाः कातरत्वम् ।
- सरसिजदृशि देवे तावकी भक्तिरेका
- नरकभिदि निषण्णा तारयिष्यत्यवश्यम्॥१३॥
- भव-जलधिम् अगाधम् दुस्तरम् निस्तरेयम् कथम् अहम् इति चेतः मा स्म अगाः कातरत्वम् सरसिज-दृशि देवे तावकी भक्तिः एका नरक-भिदि निषण्णा तारयिष्यति अवश्यम् ।
- (हे) चेतः ! अगाधं दुस्तरं भव-जलधिम् अहं कथं निस्तरेयम् इति कातरत्वं (त्वं) मा स्म गाः । सरसिज-दृशि नरक-भिदि देवे निषण्णा तावकी भक्तिः एका अवश्यं तारयिष्यति ।
- [कातरत्वम् = भीरुता। मा + अगाः = मा गाः (अडागमः न माङ्योगे)। नरक-भिद् = नरकासुरस्य विदारकः । निषण्णा = स्थापिता। तावकी = तव इयम् ]
14
- तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले
- दारावर्ते तनयसहजग्राहसङ्घाकुले च ।
- संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्
- पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ॥१४॥
- तृष्णा-तोये मदन-पवन-उद्धूत-मोह-ऊर्मि-माले दारा-आवर्ते तनय-सहज-ग्राह-सङ्घ-आकुले च संसार-आख्ये महति जलधौ मज्जताम् नः त्रिधामन् पाद-अम्भोजे वरद भवतः भक्ति-नावम् प्रयच्छ।
- (हे) त्रिधामन् ! तृष्णा-तोये, मदन-पवन-उद्धूत-मोह-ऊर्मि-माले, दारा-आवर्ते, तनय-सहज-ग्राह-सङ्घ-आकुले च, संसार-आख्ये, महति जलधौ, मज्जतां नः, (हे) वरद!, भवतः पाद-अम्भोजे भक्ति-नावं (त्वं) प्रयच्छ।
- [दाराः (दारा शब्दः, नित्यबहुवचनम्) = भार्याः। सहजः = सोदरः]
15
- मा द्राक्षं क्षीणपुण्यान्क्षणमपि भवतो भक्तिहीनान्पदाब्जे
- मा श्रौषं श्राव्यबद्धं तव चरितमपास्याऽन्यदाख्यानजातम्।
- मा स्मार्षं माधव त्वामपि भुवनपते चेतसाऽपह्नुवानान्
- मा भूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरेऽपि॥
- मा अद्राक्षम् क्षीण-पुण्यान् क्षणम् अपि भवतः भक्तिहीनान् पद-अब्जे मा अश्रौषम् श्राव्य-बद्धम् तव चरितम् अपास्य अन्यत् आख्यान-जातम् मा अस्मार्षम् माधव त्वाम् अपि भुवन-पते चेतसा अपह्नुवानान् मा भूवम् त्वत्-सपर्या-व्यतिकर-रहितः जन्म-जन्म-अन्तरे अपि ।
- (हे) माधव ! क्षीण-पुण्यान्, भवतः पद-अब्जे भक्तिहीनान्, क्षणम् अपि (अहं) मा द्राक्षम् । तव चरितम् अपास्य अन्यत् श्राव्य-बद्धम् आख्यान-जातम् (अहं) मा श्रौषम्। त्वां चेतसा अपि अपह्नुवानान् (अहं) मा स्मार्षम् । (हे) भुवन-पते ! त्वत्-सपर्या-व्यतिकर-रहितः जन्म-जन्म-अन्तरे अपि (अहं) मा भूवम् ।
- [अपह्नुवानः = यः परिहरति। सपर्या = पूजा । व्यतिकरः = अवकाशः। मा + अद्राक्षम् / अश्रौषम् / अस्मार्षम् = मा द्राक्षम् / श्रौषम् / स्मार्षम् (अडागमः न माङ्योगे)]
16
- जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं
- पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु।
- कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं
- जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन्नमाधोक्षजम्॥
- जिह्वे कीर्तय केशवम् मुर-रिपुम् चेतः भज श्रीधरम् पाणि-द्वन्द्व समर्चय अच्युत-कथाः श्रोत्र-द्वय त्वम् शृणु कृष्णम् लोकय लोचन-द्वय हरेः गच्छ अङ्घ्रि-युग्म आलयम् जिघ्र घ्राण मुकुन्द-पाद-तुलसीम् मूर्धन् नम अधोक्षजम् ।
- (हे) जिह्वे ! (त्वं) केशवं कीर्तय । (हे) चेतः ! (त्वं) मुर-रिपुं भज । (हे) पाणि-द्वन्द्व ! (त्वं) श्रीधरं समर्चय । (हे) श्रोत्र-द्वय ! त्वम् अच्युत-कथाः शृणु । (हे) लोचन-द्वय ! (त्वं) कृष्णं लोकय । (हे) अङ्घ्रि-युग्म ! (त्वं) हरेः आलयं गच्छ। (हे) जिघ्र ! (त्वं) मुकुन्द-पाद-तुलसीं घ्राण । (हे) मूर्धन् ! (त्वम्) अधोक्षजं नम ।
- [अधोक्षजः = विष्णुः]
17
- हे लोकाश्शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां
- योगज्ञास्समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।
- अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां
- तत्पीतं परमौषधं वितनुते निर्वाणमात्यन्तिकम् ॥
- हे लोकाः शृणुत प्रसूति-मरण-व्याधेः चिकित्साम् इमाम् योग-ज्ञाः समुदाहरन्ति मुनयः याम् याज्ञवल्क्य-आदयः अन्तः-ज्योतिः अमेयम् एकम् अमृतम् कृष्ण-आख्यम् आपीयताम् तत् पीतम् परम-औषधम् वितनुते निर्वाणम् आत्यन्तिकम् ।
- हे लोकाः ! (यूयं) प्रसूति-मरण-व्याधेः इमां चिकित्सां शृणुत, यां याज्ञवल्क्य-आदयः योग-ज्ञाः मुनयः समुदाहरन्ति । अन्तः-ज्योतिः, अमेयं एकं कृष्ण-आख्यम् अमृतं (युष्माभिः) आपीयताम् । तत् परम-औषधं पीतं (चेत्), आत्यन्तिकं निर्वाणं वितनुते ।
- [ज्योतिः (नपुंसकलिङ्गः) = प्रकाशः। अमेयम् = ज्ञातुम् अशक्यम्। निर्वाणः = मोक्षः ]
18
- हे मर्त्याः परमं हितं शृणुत वो वक्ष्यामि सङ्क्षेपतः
- संसारार्णवमापदूर्मिबहुलं सम्यक् प्रविश्य स्थिताः।
- नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुं
- मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः॥१८॥
- हे मर्त्याः परमम् हितम् शृणुत वः वक्ष्यामि सङ्क्षेपतः संसार-आर्णवम् आपद्-ऊर्मि-बहुलम् सम्यक् प्रविश्य स्थिताः नाना-ज्ञानम् अपास्य चेतसि नमः नारायणाय इति अमुम् मन्त्रम् स-प्रणवम् प्रणाम-सहितम् प्रावर्तयध्वम् मुहुः ।
- आपद्-ऊर्मि-बहुलं संसार-आर्णवं सम्यक् प्रविश्य स्थिताः, हे मर्त्याः ! वः परमं हितं सङ्क्षेपतः (अहं) वक्ष्यामि । (यूयं) शृणुत। नाना-ज्ञानम् अपास्य, चेतसि, स-प्रणवं, नारायणाय नमः इति अमुं मन्त्रं, (यूयं) प्रणाम-सहितं मुहुः प्रावर्तयध्वम् ।
- [स-प्रणवं, नारायणाय नमः = ॐ नमो नारायणाय ]
19
- पृथ्वी रेणुरणुः पयांसि कणिकाः फल्गुस्फुलिङ्गोऽनलः तेजो निःश्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः ।
- क्षुद्रा रुद्रपितामहप्रभृतयः कीटास्समस्तास्सुरा
- दृष्टे यत्र स तावको विजयते भूमावधूतावधिः॥१९॥
- पृथ्वी रेणुः अणुः पयांसि कणिकाः फल्गु-स्फुलिङ्गः अनलः तेजः निःश्वसनम् मरुत् तनुतरम् रन्ध्रम् सुसूक्ष्मम् नभः क्षुद्राः रुद्र-पितामह-प्रभृतयः कीटाः समस्ताः सुराः दृष्टे यत्र सः तावकः विजयते भूमा अवधूत-अवधिः ।
- यत्र (यस्मिन् तव भूम्नि) दृष्टे (सति), पृथ्वी अणुः रेणुः (भासते), पयांसि कणिकाः (भासन्ते), तेजः अनलः फल्गु-स्फुलिङ्गः (भासते), मरुत् तनुतरं निःश्वसनं (भासते), नभः सुसूक्ष्मं रन्ध्रं (भासते), रुद्र-पितामह-प्रभृतयः क्षुद्राः (भासन्ते), समस्ताः सुराः कीटाः (भासन्ते), सः अवधूत-अवधिः, तावकः भूमा विजयते ।
- [रेणुः = दूलिः। पयः (पयस् शब्दः, नपुं.) = जलम्, अत्र समुद्रः। कणिका = लवः । फल्गुः = क्षुद्रम् । स्फुलिङ्गः = अग्निकणः। तनुतरम् = अतिकृशम् । नभः (नभस् शब्दः, नपुं.) = आकाशः । पितामहः = ब्रह्मा। अवधूत-अवधिः = सीमा रहितः । तावकः = तव अयम् । भूमा = बहोः भावः]
20
- बद्धेनाञ्जलिना नतेन शिरसा गात्रैस्सरोमोद्गमैः
- कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।
- नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिना-
- मस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम्॥
- बद्धेन अञ्जलिना नतेन शिरसा गात्रैः स-रोम-उद्गमैः कण्ठेन स्वर-गद्गदेन नयनेन उद्गीर्ण-बाष्प-अम्बुना नित्यम् त्वत्- चरण-अरविन्द-युगल-ध्यान-अमृत-आस्वादिनाम् अस्माकम् सरसीरुह-अक्ष सततम् सम्पद्यताम् जीवितम् ।
- (हे) सरसीरुह-अक्ष ! बद्धेन अञ्जलिना, नतेन शिरसा, स-रोम-उद्गमैः गात्रैः, स्वर-गद्गदेन कण्ठेन, उद्गीर्ण-बाष्प-अम्बुना नयनेन, नित्यं त्वत्-चरण-अरविन्द-युगल-ध्यान-अमृत-आस्वादिनाम् अस्माकं जीवितं सततं सम्पद्यताम्।
- [रोम (रोमन् शब्दः) = शरीरजाताङ्कुरः । गद्गदः = वाक्स्खलनम् । उद्गीर्ण-बाष्प-अम्बुः = बहिरागतनेत्राम्बुः। सम्पद्यताम् = सम्यक् पदं प्राप्नोतु, सफलतां प्राप्नोतु ]
21
- हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
- हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
- हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां
- हे गोपीजननाथ पालय परं जानामि न त्वां विना॥
- हे गोपालक हे कृपा-जलनिधे हे सिन्धु-कन्या-पते हे कंस-अन्तक हे गजेन्द्र-करुणा-पारीण हे माधव हे राम-अनुज हे जगत्-त्रय-गुरो हे पुण्डरीक-अक्ष माम् हे गोपी-जन-नाथ पालय परम् जानामि न त्वाम् विना ।
- हे गोपालक ! हे कृपा-जलनिधे ! हे सिन्धु-कन्या-पते ! हे कंस-अन्तक ! हे गजेन्द्र-करुणा-पारीण ! हे माधव ! हे राम-अनुज ! हे जगत्-त्रय-गुरो ! हे पुण्डरीक-अक्ष ! हे गोपी-जन-नाथ ! (त्वं) मां पालय । त्वां विना परं न जानामि।
- [सिन्धु-कन्या = सागरोद्भवा लक्ष्मीः। पारीणः = निपुणः । राम-अनुजः = बलरामस्य कनिष्ठभ्राता, कृष्णः]
22
- भक्तापायभुजङ्गगारुडमणिस्त्रैलोक्यरक्षामणि-
- र्गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः।
- यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः
- श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः॥
- भक्त-अपाय-भुजङ्ग-गारुड-मणिः त्रैलोक्य-रक्षा-मणिः गोपी-लोचन-चातक-अम्बुद-मणिः सौन्दर्य-मुद्रा-मणिः यः कान्ता-मणि-रुक्मिणी-घन-कुच-द्वन्द्व-एक-भूषा-मणिः श्रेयः देव-शिखा-मणिः दिशतु नः गोपाल-चूडामणिः ।
- यः भक्त-अपाय-भुजङ्ग-गारुड-मणिः त्रैलोक्य-रक्षा-मणिः गोपी-लोचन-चातक-अम्बुद-मणिः सौन्दर्य-मुद्रा-मणिः कान्ता-मणि-रुक्मिणी-घन-कुच-द्वन्द्व-एक-भूषा-मणिः देव-शिखा-मणिः गोपाल-चूडामणिः नः श्रेयः दिशतु ।
- [मणिः इति पदस्य प्रयोगे रूपकालङ्कारः उत्प्रेक्षालन्कारः च]
23
- शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसम्पूज्यमन्त्रं
- संसारोत्तारमन्त्रं समुपचिततमस्सङ्गनिर्याणमन्त्रम् ।
- सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं
- जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम्॥
- शत्रु-च्छेद-एक-मन्त्रम् सकलम् उपनिषद्-वाक्य-सम्पूज्य-मन्त्रम् संसार-उत्तार-मन्त्रम् समुपचित-तमः-सङ्ग-निर्याण-मन्त्रम् सर्व-ऐश्वर्य-एक-मन्त्रम् व्यसन-भुजग-सन्दष्ट-सन्त्राण-मन्त्रम् जिह्वे श्रीकृष्ण-मन्त्रम् जप जप सततं जन्म-साफल्य-मन्त्रम् ।
- (हे) जिह्वे ! शत्रु-च्छेद-एक-मन्त्रम्, सकलम्, उपनिषद्-वाक्य-सम्पूज्य-मन्त्रम्, संसार-उत्तार-मन्त्रम्, समुपचित-तमः-सङ्ग-निर्याण-मन्त्रम्, सर्व-ऐश्वर्य-एक-मन्त्रम्, व्यसन-भुजग-सन्दष्ट-सन्त्राण-मन्त्रम्, जन्म-साफल्य-मन्त्रम्, श्रीकृष्ण-मन्त्रं (त्वं) सततं जप जप ।
- [समुपचितम् = सम्यक् उपचितम्, संवर्धितम्। निर्याणम् = निर्गमनम् । भुजगः = भुजैः गच्छति इति भुजगः, सर्पः । मन्त्रः = मननात् त्रायते इति मन्त्रः ]
24
- व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं
- दैत्येन्द्रार्तिकरौषधं त्रिजगतां सञ्जीवनैकौषधम् ।
- भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं
- श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम्॥
- व्यामोह-प्रशम-औषधम् मुनि-मनः-वृत्ति-प्रवृत्ति-औषधम् दैत्य-इन्द्र-आर्तिकर-औषधम् त्रिजगताम् सञ्जीवन-एक-औषधम् भक्त-अत्यन्त-हित-औषधम् भव-भय-प्रध्वंसन-एक-औषधम् श्रेयः-प्राप्तिकर-औषधम् पिब मनः श्रीकृष्ण-दिव्य-औषधम्।
- (हे) मनः ! व्यामोह-प्रशम-औषधं, मुनि-मनः-वृत्ति-प्रवृत्ति-औषधं, दैत्य-इन्द्र-आर्तिकर-औषधं, त्रिजगतां सञ्जीवन-एक-औषधं, भक्त-अत्यन्त-हित-औषधं, भव-भय-प्रध्वंसन-एक-औषधं, श्रेयः-प्राप्तिकर-औषधं, श्रीकृष्ण-दिव्य-औषधं (त्वं) पिब ।
- [व्यामोहः = सम्भ्रमः। प्रशमः = उपशमः, शान्तिः । दैत्य-इन्द्रः = असुर-राजा। आर्ति-करः = पीडा-कारकः । मुनिः = मौनात् मुनिः, मौनव्रती। मुनि-मनः-वृत्ति-प्रवृत्तिः = मनः मौनं कर्तुं वृत्तिम् आनेतुं प्रवर्तयति, अत्र शब्दालङ्कारः]
25
- आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं
- मेदश्छेदफलानि पूर्तविधयः सर्वे हुतं भस्मनि ।
- तीर्थानामवगाहनानि च गजस्नानं विना यत्पद-
- द्वन्द्वाम्भोरुहसंस्मृतिर्विजयते देवः स नारायणः॥
- आम्नाय-अभ्यसनानि अरण्य-रुदितम् वेदव्रतानि अन्वहम् मेदस्-छेद-फलानि पूर्त-विधयः सर्वे हुतम् भस्मनि तीर्थानाम् अवगाहनानि च गज-स्नानम् विना यत्-पद-द्वन्द्व-अम्भोरुह-संस्मृतिः विजयते देवः सः नारायणः ।
- यत्-पद-द्वन्द्व-अम्भोरुह-संस्मृतिः विना, आम्नाय-अभ्यसनानि अरण्य-रुदितं (भवति), अन्वहं वेदव्रतानि मेदस्-छेद-फलानि (भवति), सर्वे पूर्त-विधयः भस्मनि हुतं (भवति), तीर्थानाम् अवगाहनानि च गज-स्नानं (भवति), सः देवः नारायणः विजयते ।
- [अरण्य-रुदितम् = वने रोदनम्, तत् व्यर्थं भवति इति भावः। अन्वहम् (अनु-अहम्) = प्रतिदिनम्। मेदः (मेदस् शब्दः) = वसा । छेदः = छेदनम्, अपनोदनम् । आम्नायः = वेदः । अभ्यसनम् = अभ्यासः । पूर्त-विधिः = यज्ञः । अवगाहनम् = निमज्जनम् ]
26
- श्रीमन्नाम प्रोच्य नारायणाख्यं
- के न प्रापुर्वाञ्छितं पापिनोऽपि ।
- हा नः पूर्वं वाक्प्रवृत्ता न तस्मिं- स्तेन प्राप्तं गर्भवासादिदुःखम् ॥ २६ ॥
- श्रीमत् नाम प्रोच्य नारायण-आख्यम् के न प्रापुः वाञ्छितम् पापिनः अपि हा नः पूर्वम् वाक् प्रवृत्ता न तस्मिन् तेन प्राप्तम् गर्भ-वास-आदि-दुःखम् ।
- श्रीमत् नारायण-आख्यं नाम प्रोच्य, पापिनः अपि के वाञ्छितं न प्रापुः । हा ! पूर्वं नः वाक् तस्मिन् न प्रवृत्ता (आसीत्)। तेन गर्भ-वास-आदि-दुःखम् (अस्माभिः) प्राप्तम् (अस्ति)।
27
- मज्जन्मनः फलमिदं मधुकैटभारे
- मत्प्रार्थनीयमदनुग्रह एष एव ।
- त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य-
- भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ २७ ॥
- मत्-जनमनः फलम् इदम् मधु-कैटभ-अरे मत्-प्रार्थनीय-मत्-अनुग्रहः एषः एव त्वत्-भृत्य-भृत्य-परिचारक-भृत्य-भृत्य-भृत्यस्य भृत्यः इति माम् स्मर लोकनाथ ।
- (हे) मधु-कैटभ-अरे ! (हे) लोकनाथ ! त्वत्-भृत्य-भृत्य-परिचारक-भृत्य-भृत्य-भृत्यस्य भृत्यः इति (त्वं) मां स्मर। इदं मत्-जनमनः फलं (भवति) । मत्-प्रार्थनीय-मत्-अनुग्रहः एषः एव (अस्ति)।
- [भृत्यः = परिचारकः = सेवकः]
28
- नाथे नः पुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा
- सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति।
- यं कञ्चित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं
- सेवायै मृगयामहे नरमहो मूका वराका वयम् ॥
- नाथे नः पुरुष-उत्तमे त्रि-जगताम् एक-अधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति यम् कञ्चित् पुरुष-अधमम् कतिपय-ग्राम-ईशम् अल्प-अर्थ-दम् सेवायै मृगयामहे नरम् अहो मूकाः वराकाः वयम्।
- पुरुष-उत्तमे, त्रि-जगताम् एक-अधिपे, चेतसा सेव्ये, स्वस्य पदस्य दातरि, सुरे, नः नाथे, नारायणे तिष्ठति (सति), यं कञ्चित् कतिपय-ग्राम-ईशम्, अल्प-अर्थ-दं, पुरुष-अधमं नरं, सेवायै वयं मृगयामहे । अहो ! वयं मूकाः वराकाः (स्मः)।
- [दातरि = दाता, तस्मिन् । सुरः = देवः । मूकः = वाक्शक्ति-वर्जितः। वराकः = अवरः ]
29
- मदन परिहर स्थितिं मदीये
- मनसि मुकुन्दपदारविन्दधाम्नि ।
- हरनयनकृशानुना कृशोऽसि
- स्मरसि न चक्रपराक्रमं मुरारेः ॥ २९ ॥
- मदन परिहर स्थितिम् मदीये मनसि मुकुन्द-पद-अरविन्द-धाम्नि हर-नयन-कृशानुना कृशः असि स्मरसि न चक्र-पराक्रमम् मुरारेः ।
- (हे) मदन ! (त्वं) मुकुन्द-पद-अरविन्द-धाम्नि मदीये मनसि स्थितिं परिहर। (त्वं) हर-नयन-कृशानुना कृशः असि । (त्वं) मुरारेः चक्र-पराक्रमं न स्मरसि (किम्) ।
- [धाम (धामन् शब्दः) = गृहम्, आलयम्, स्थानम्, निवासः। स्थितिः = निवासः। हरः = शिवः। कृशानुः = अग्निः। कृशः = क्षीणः, दुर्बलः]
30
- तत्त्वं ब्रुवाणानि परं परस्मात्
- मधु क्षरन्तीव सतां फलानि ।
- प्रावर्तय प्राञ्जलिरस्मि जिह्वे
- नामानि नारायणगोचराणि ॥ ३० ॥
- तत्त्वम् ब्रुवाणानि परम् परस्मात् मधु क्षरन्ति इव सताम् फलानि प्रावर्तय प्राञ्जलिः अस्मि जिह्वे नामानि नारायण-गोचराणि ।
- (हे) जिह्वे ! (अहं) प्राञ्जलिः अस्मि । परस्मात् परं तत्त्वं ब्रुवाणानि, मधु क्षरन्ति इव, सतां फलानि, नारायण-गोचराणि नामानि (त्वं) प्रावर्तय।
- [ब्रुवाणम् = ब्रूते इति ब्रुवाणम्, वक्ता। गोचरम् = यत् ज्ञापयति । प्रावर्तय = उपक्रमं कुरु ]
31
- इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लथसन्धिजर्जरम् ।
- किमौषधं पृच्छसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ ३१ ॥
- इदम् शरीरम् परिणाम-पेशलम् पतति अवश्यम् श्लथ-सन्धि-जर्जरम् किम् औषधं पृच्छसि मूढ दुर्मते निरामयम् कृष्ण-रसायनम् पिब ।
- (हे) मूढ दुर्मते ! परिणाम-पेशलं, श्लथ-सन्धि-जर्जरम्, इदं शरीरम् अवश्यं पतति । (त्वम्) किम् औषधं पृच्छसि। (त्वं) निरामयं कृष्ण-रसायनं पिब ।
- [परिणाम-पेशलम् = विकारे पटुः। श्लथः = शिथिलः। सन्धिः = अस्थियोगः । जर्जरम् = अस्थिरम् । क्लिश्यसि = क्लिश्यसे, क्लेशं अनुभवसि । रोगनाशकद्रव्यं मास्तु अमृतं पिब इति भावः ]
32
- दारा वाराकरवरसुता ते तनूजो विरिञ्चिः
- स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः ।
- मुक्तिर्माया जगदविकलं तावकी देवकी ते
- माता मित्रं बलरिपुसुतस्त्वय्यतोऽन्यन्न जाने ॥
- दाराः वार्-आकर-वर-सुता ते तनूजः विरिञ्चिः स्तोता वेदः तव सुरगणः भृत्यवर्गः प्रसादः मुक्तिः माया जगत् अविकलम् तावकी देवकी ते माता मित्रम् बल-रिपु-सुतः त्वयि अतः अन्यत् न जाने ॥
- ते दाराः वार्-आकर-वर-सुता (सन्ति)। ते तनूजः विरिञ्चिः (अस्ति)। ते स्तोता वेदः (अस्ति)। तव भृत्यवर्गः सुरगणः (अस्ति)। ते प्रसादः मुक्तिः (अस्ति)। तावकी माया अविकलं जगत् । ते माता देवकी (अस्ति)। तव मित्रं बल-रिपु-सुतः (अस्ति)। त्वयि अतः अन्यत् (अहं) न जाने।
- [दारा = पत्नी । वाः (वार् शब्दः) = जलम् । वार्-आकारः = समुद्रः। तनुजः = पुत्रः । विरिञ्चिः =ब्रह्मा । अविकलम् = सम्पूर्णम् । बलः = वलः इति वृत्रासुरस्य भ्राता । बल-रिपुः = बलस्य शत्रुः, इन्द्रः । बल-रिपु-सुतः = इन्द्रस्य अनुग्रहेण जनितः, अर्जुनः]
33
- कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्याम्यहं
- कृष्णेनामरशत्रवो विनिहताः कृष्णाय तुभ्यं नमः ।
- कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं
- कृष्णे तिष्ठति सर्वमेतदखिलं हे कृष्ण रक्षस्व माम्॥
- कृष्णः रक्षतु नः जगत्-त्रय-गुरुः कृष्णम् नमस्यामि अहम् कृष्णेन अमर-शत्रवः विनिहताः कृष्णाय तुभ्यम् नमः कृष्णात् एव समुत्थितम् जगत् इदम् कृष्णस्य दासः अस्मि अहम् कृष्णे तिष्ठति सर्वम् एतत् अखिलम् हे कृष्ण रक्षस्व माम् ।
- जगत्-त्रय-गुरुः कृष्णः नः रक्षतु । अहं कृष्णं नमस्यामि । कृष्णेन अमर-शत्रवः विनिहताः (सन्ति)। कृष्णाय तुभ्यं नमः (अस्तु)। इदं जगत् कृष्णात् एव समुत्थितम् (अस्ति)। अहं कृष्णस्य दासः अस्मि। एतत् सर्वम् अखिलं कृष्णे तिष्ठति । हे कृष्ण ! (त्वं) मां रक्षस्व।
- [कृष्णः, कृष्णं, कृष्णेन, कृष्णाय, कृष्णात्, कृष्णस्य, कृष्णे, हे कृष्ण इति अत्र कृष्णशब्दस्य सर्वाणि शब्दविभक्तिरूपाणि प्रयुक्तानि ]
34
- तत्त्वं प्रसीद भगवन् कुरु मय्यनाथे
- विष्णो कृपां परमकारुणिकः किल त्वम् ।
- संसारसागरनिमग्नमनन्त दीनं
- उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥ ३४ ॥
- तत् त्वम् प्रसीद भगवन् कुरु मयि अनाथे विष्णो कृपाम् परम-कारुणिकः किल त्वम् संसार-सागर-निमग्नम् अनन्त दीनम् उद्धर्तुम् अर्हसि हरे पुरुषोत्तमः असि ।
- (हे) अनन्त ! त्वं परम-कारुणिकः किल। (हे) भगवन् ! तत् त्वं प्रसीद। (हे) विष्णो ! त्वम् अनाथे मयि कृपां कुरु । त्वं संसार-सागर-निमग्नं दीनं (माम्) उद्धर्तुम् अर्हसि । (हे) हरे ! त्वं पुरुषोत्तमः असि।
- [तत् = तस्मात्]
35
- नमामि नारायणपादपङ्कजं
- करोमि नारायणपूजनं सदा ।
- वदामि नारायणनाम निर्मलं
- स्मरामि नारायणतत्त्वमव्ययम् ॥ ३५ ॥
- नमामि नारायण-पाद-पङ्कजम् करोमि नारायण-पूजनम् सदा वदामि नारायण-नाम निर्मलम् स्मरामि नारायण-तत्त्वम् अव्ययम् ।
- (अहं) नारायण-पाद-पङ्कजं नमामि । (अहं) सदा नारायण-पूजनं करोमि । (अहं) निर्मलं नारायण-नाम वदामि । (अहम्) अव्ययं नारायण-तत्त्वं स्मरामि ।
36
- श्रीनाथ नारायण वासुदेव
- श्रीकृष्ण भक्तप्रिय चक्रपाणे ।
- श्रीपद्मनाभाच्युत कैटभारे
- श्रीराम पद्माक्ष हरे मुरारे ॥ ३६ ॥
- श्रीनाथ नारायण वासुदेव श्रीकृष्ण भक्त-प्रिय चक्र-पाणे श्रीपद्म-नाभ अच्युत कैटभ-अरे श्रीराम पद्म-अक्ष हरे मुरारे
- “(हे) श्रीनाथ ! (हे) नारायण ! (हे) वासुदेव ! (हे) श्रीकृष्ण ! (हे) भक्त-प्रिय ! (हे) चक्र-पाणे ! (हे) श्रीपद्म-नाभ ! (हे) अच्युत ! (हे) कैटभ-अरे ! (हे) श्रीराम ! (हे) पद्म-अक्ष ! (हे) हरे ! (हे) मुरारे ! …”
37
- अनन्त वैकुण्ठ मुकुन्द कृष्ण
- गोविन्द दामोदर माधवेति ।
- वक्तुं समर्थोऽपि न वक्ति कश्चित्
- अहो जनानां व्यसनाभिमुख्यम् ॥ ३७ ॥
- अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधव इति वक्तुम् समर्थः अपि न वक्ति कश्चित् अहो जनानाम् व्यसन-आभिमुख्यम् ।
- “… (हे) अनन्त ! (हे) वैकुण्ठ ! (हे) मुकुन्द ! (हे) कृष्ण ! (हे) गोविन्द ! (हे) दामोदर ! (हे) माधव!” इति वक्तुं समर्थः अपि, कश्चित् न वक्ति । अहो ! जनानां व्यसन-आभिमुख्यं (विचित्रम् अस्ति)।
- [अहो = अहो इति खेदे । व्यसनम् = विपत्तिः, दुर्घटना । आभिमुख्यम् = अभिमुखस्य भावः, औत्सुक्यम् ]
38
- ध्यायन्ति ये विष्णुमनन्तमव्ययं
- हृत्पद्ममध्ये सततं व्यवस्थितम् ।
- समाहितानां सतताभयप्रदं
- ते यान्ति सिद्धिं परमाञ्च वैष्णवीम् ॥ ३८॥
- ध्यायन्ति ये विष्णुम् अनन्तम् अव्ययम् हृत्-पद्म-मध्ये सततम् व्यवस्थितम् समाहितानाम् सतत-अभय-प्रदम् ते यान्ति सिद्धिम् परमाम् च वैष्णवीम् ।
- ये अनन्तम्, अव्ययं, हृत्-पद्म-मध्ये सततं व्यवस्थितं, समाहितानां सतत-अभय-प्रदं, विष्णुं ध्यायन्ति, ते परमां वैष्णवीं च सिद्धिं यान्ति ।
- [समाहितः = समाधिस्थः । वैष्णवी = विष्णोः इयम् ]
39
- क्षीरसागरतरङ्गशीकरा-
- सारतारकितचारुमूर्तये ।
- भोगिभोगशयनीयशायिने
- माधवाय मधुविद्विषे नमः॥३९॥
- क्षीर-सागर-तरङ्ग-शीकर-आसार-तारकित-चारु-मूर्तये भोगि-भोग-शयनीय-शायिने माधवाय मधु-विद्विषे नमः
- क्षीर-सागर-तरङ्ग-शीकर-आसार-तारकित-चारु-मूर्तये, भोगि-भोग-शयनीय-शायिने, माधवाय, मधु-विद्विषे नमः (अस्तु)।
- [शीकरः = वातादिप्रेरितजलकणः । आसारम् = प्रसारणम्। तारकितम् = नक्षत्रयुक्तम् । विद्विट् (विद्विष् शब्दः) = शत्रुः ]
40
- यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ
- मित्रे द्विजन्मवरपद्मशरावभूताम् ।
- तेनाम्बुजाक्षचरणाम्बुजषट्पदेन
- राज्ञा कृता कृतिरियं कुलशेखरेण ॥ ४० ॥
- इति श्रीकुलशेखरनृपतिविरचिता मुकुन्दमाला समाप्ता ।
- यस्य प्रियौ श्रुति-धरौ कवि-लोक-वीरौ मित्रे द्विजन्म-वर-पद्म-शरौ अभूताम् तेन अम्बुजाक्ष-चरणाम्बुज-षट्पदेन राज्ञा कृता कृतिः इयम् कुलशेखरेण ।
- इयं कृतिः, अम्बुजाक्ष-चरणाम्बुज-षट्पदेन तेन कुलशेखरेण राज्ञा कृता (अस्ति), यस्य प्रियौ श्रुति-धरौ कवि-लोक-वीरौ द्विजन्म-वर-पद्म-शरौ मित्रे अभूताम् ।
- [षट्पदः = भ्रमरः । श्रुतिः = वेदः । द्विजन्मा (द्विजन्मन् शब्दः) = विप्रः । पद्म-शरः = पद्मस्य काण्डम् ]
For more details (chandas), refer https://nivedita2015.wordpress.com/mukundamaalaa/
One thought on “Mukundamaalaa Anvaya”