Mukundamaalaa

Composed by Shree Kulashekara Aazhvaar श्रीकुलशेखरनृपतिविरचिता
Paintings of Sri. Keshav चित्रकारः – श्री. केशवः
Bhargavi Jagannathan & Shreemathi Jagannathan
गायिके – भार्गवी जगन्नाथन् , श्रीमती जगन्नाथन्
Audio: https://www.youtube.com/c/BhargaviShreemathi

https://nivedita2015.wordpress.com/mukundamaalaa/

Mukundamaalaa Sung By Bhargavi and Shreemathi

Mukundamaalaa Chandas

Mukundamaalaa Anvaya

 

श्रीवल्लभेति वरदेति दयापरेति

  • श्रीवल्लभेति वरदेति दयापरेति
  • भक्तप्रियेति भवलुण्ठनकोविदेति ।
  • नाथेति नागशयनेति जगन्निवासे-
  • त्यालापिनं प्रतिपदं कुरु मे मुकुन्द ॥ १ ॥
  • śrīvallabheti varadeti dayāpareti
  • bhaktapriyeti bhavaluṇṭhanakovideti ।
  • nātheti nāgaśayaneti jagannivāseti
  • ālāpinaṃ pratipadaṃ kuru me mukunda ॥ 1 ॥

जयतु जयतु देवो देवकीनन्दनोऽयं

    • जयतु जयतु देवो देवकीनन्दनोऽयं
    • जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
    • जयतु जयतु मेघश्यामलः कोमलाङ्गो
    • जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ २ ॥

jayatu jayatu devo devakīnandano’yaṃ

jayatu jayatu kṛṣṇo vṛṣṇivaṃśapradīpaḥ ।

jayatu jayatu meghaśyāmalaḥ komalāṅgaḥ

jayatu jayatu pṛthvībhāranāśaḥ mukundaḥ ॥ 2 ॥

मुकुन्द मूर्ध्ना प्रणिपत्य याचे

  • मुकुन्द मूर्ध्ना प्रणिपत्य याचे
  • भवन्तमेकान्तमियन्तमर्थम् ।
  • अविस्मृतिस्त्वच्चरणारविन्दे
  • भवे भवे मेऽस्तु भवत्प्रसादात् ॥ ३ ॥
  • mukunda mūrdhnā praṇipatya yāce
  • bhavantamekāntamiyantamartham ।
  • avismṛtiḥ tvat caraṇāravinde
  • bhave bhave me’stu bhavatprasādāt ॥ 3 ॥

नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः

    • नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः
    • कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् ।
    • रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं
    • भावे भावे हृदयभवने भावयेयं भवन्तम् ॥ ४ ॥

nāhaṃ vande tava caraṇayoḥ dvandvamadvandvahetoḥ

kumbhīpākaṃ gurumapi hare nārakaṃ nāpanetum ।

ramyā rāmā mṛdutanulatā nandane nāpi rantuṃ

bhāve bhāve hṛdayabhavane bhāvayeyaṃ bhavantam ॥ 4 ॥

नास्था धर्मे न वसुनिचये नैव कामोपभोगे

  • नास्था धर्मे न वसुनिचये नैव कामोपभोगे
  • यद्यद्भव्यं भवतु भगवन्पूर्वकर्मानुरूपम् ।
  • एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि
  • त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ ५ ॥
  • nāsthā dharme na vasunicaye naiva kāmopabhoge
  • yadyadbhavyaṃ bhavatu bhagavanpūrvakarmānurūpam ।
  • etatprārthyaṃ mama bahumataṃ janmajanmāntare’pi
  • tvatpādāmbhoruhayugagatā niścalā bhaktirastu ॥ 5 ॥

दिवि वा भुवि वा ममास्तु वासो

  • दिवि वा भुवि वा ममास्तु वासो
  • नरके वा नरकान्तक प्रकामम् ।
  • अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ ६ ॥
  • divi vā bhuvi vā mamāstu vāso
  • narake vā narakāntaka prakāmam ।
  • avadhīritaśāradāravindau
  • caraṇau te maraṇe’pi cintayāmi ॥ 6 ॥

कृष्ण त्वदीयपदपङ्कजपञ्जरान्तम्

  • कृष्ण त्वदीयपदपङ्कजपञ्जरान्तम्
  • अद्यैव मे विशतु मानसराजहंसः ।
  • प्राणप्रयाणसमये कफवातपित्तैः
  • कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ७ ॥
  • kṛṣṇa tvadīyapadapaṅkajapañjarāntam
  • adyaiva me viśatu mānasarājahaṃsaḥ ।
  • prāṇaprayāṇasamaye kaphavātapittaiḥ
  • kaṇṭhāvarodhanavidhau smaraṇaṃ kutaste ॥ 7 ॥

चिन्तयामि हरिमेव सन्ततं

  • चिन्तयामि हरिमेव सन्ततं
  • मन्दमन्दहसिताननाम्बुजम् ।
  • नन्दगोपतनयं परात्परं
  • नारदादिमुनिवृन्दवन्दितम् ॥ ८ ॥
  • cintayāmi harimeva santataṃ
  • mandamandahasitānanāmbujam ।
  • nandagopatanayaṃ parātparaṃ
  • nāradādimunivṛndavanditam ॥ 8 ॥

करचरणसरोजे कान्तिमन्नेत्रमीने

    • करचरणसरोजे कान्तिमन्नेत्रमीने
    • श्रममुषिभुजवीचिव्याकुलेऽगाधमार्गे ।
    • हरिसरसिविगाह्यापीयतेजोजलौघं
    • भवमरुपरिखिन्नः खेदमद्य त्यजामि ॥ ९ ॥

karacaraṇasaroje kāntimannetramīne

śramamuṣibhujavīcivyākule agādhamārge ।

harisarasivigāhyāpīyatejojalaughaṃ

bhavamaruparikhinnaḥ khedamadya tyajāmi ॥ 9 ॥

सरसिजनयने सशङ्खचक्रे

  • सरसिजनयने सशङ्खचक्रे
  • मुरभिदि मा विरमस्व चित्त रन्तुम् ।
  • सुखतरमपरं न जातु जाने
  • हरिचरणस्मरणामृतेन तुल्यम् ॥ १० ॥
  • sarasijanayane saśaṅkhacakre
  • murabhidi mā viramasva citta rantum ।
  • sukhataramaparaṃ na jātu jāne
  • haricaraṇasmaraṇāmṛtena tulyam ॥ 10 ॥

मा भैर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातनाः

  • मा भैर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातनाः
  • नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः ।
  • आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं
  • लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ ११ ॥
  • mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanāḥ
  • nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ ।
  • ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ
  • lokasya vyasanāpanodanakaraḥ dāsasya kiṃ na kṣamaḥ ॥ 11 ॥

भवजलधिगतानां द्वन्द्ववाताहतानां

  • भवजलधिगतानां द्वन्द्ववाताहतानां
  • सुतदुहितृकलत्रत्राणभारार्दितानाम् ।
  • विषमविषयतोये मज्जतामप्लवानां
  • भवतु शरणमेको विष्णुपोतो नराणाम् ॥ १२ ॥
  • bhavajaladhigatānāṃ dvandvavātāhatānāṃ
  • sutaduhitṛkalatratrāṇabhārārditānām ।
  • viṣamaviṣayatoye majjatāmaplavānāṃ
  • bhavatu śaraṇameko viṣṇupoto narāṇām ॥ 12 ॥

भवजलधिमगाधं दुस्तरं निस्तरेयं

  • भवजलधिमगाधं दुस्तरं निस्तरेयं
  • कथमहमिति चेतो मा स्म गाः कातरत्वम् ।
  • सरसिजदृशि देवे तावकी भक्तिरेका
  • नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ १३ ॥
  • bhavajaladhimagādhaṃ dustaraṃ nistareyaṃ
  • kathamahamiti ceto mā sma gāḥ kātaratvam ।
  • sarasijadṛśi deve tāvakī bhaktirekā
  • narakabhidi niṣaṇṇā tārayiṣyatyavaśyam ॥ 13 ॥

तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले

  • तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले
  • दारावर्ते तनयसहजग्राहसङ्घाकुले च ।
  • संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्
  • पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ ॥ १४ ॥
  • tṛṣṇātoye madanapavanoddhūtamohormimāle
  • dārāvarte tanayasahajagrāhasaṅghākule ca ।
  • saṃsārākhye mahati jaladhau majjatāṃ nastridhāman
  • pādāmbhoje varada bhavato bhaktināvaṃ prayaccha ॥ 14 ॥

मा द्राक्षं क्षीणपुण्यान्क्षणमपि भवतो भक्तिहीनान्पदाब्जे

  • मा द्राक्षं क्षीणपुण्यान्क्षणमपि भवतो भक्तिहीनान्पदाब्जे
  • मा श्रौषं श्रव्यबद्धं तव चरितमपास्याऽन्यदाख्यानजातम् ।
  • मा स्मार्षं माधव त्वामपि भुवनपते चेतसाऽपह्नुवानान्
  • मा भूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरेऽपि ॥ १५ ॥
  • mā drākṣaṃ kṣīṇapuṇyānkṣaṇamapi bhavato bhaktihīnānpadābje
  • mā śrauṣaṃ śravyabaddhaṃ tava caritamapāsyā’nyadākhyānajātam ।
  • mā smārṣaṃ mādhava tvāmapi bhuvanapate cetasā’pahnuvānān
  • mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare’pi ॥ 15 ॥

जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं

  • जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं
  • पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु।
  • कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं
  • जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन्नमाधोक्षजम् ॥ १६ ॥
  • jihve kīrtaya keśavaṃ muraripuṃ ceto bhaja śrīdharaṃ
  • pāṇidvandva samarcaya acyutakathāḥ śrotradvaya tvaṃ śṛṇu ।
  • kṛṣṇaṃ lokaya locanadvaya harergacchāṅghriyugmālayaṃ
  • jighra ghrāṇa mukundapādatulasīṃ mūrdhannamādhokṣajam॥16॥

हे लोकाश्शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां

  • हे लोकाश्शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां
  • योगज्ञास्समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।
  • अन्तर्योर्तिरमेयमेकममृतं कृष्णाख्यमापीयतां
  • तत्पीतं परमौषधं वितनुते निर्वाणमात्यन्तिकम् ॥ १७ ॥
  • he lokāśśṛṇuta prasūtimaraṇavyādheścikitsāmimāṃ
  • yogajñāssamudāharanti munayo yāṃ yājñavalkyādayaḥ ।
  • antaryortirameyamekamamṛtaṃ kṛṣṇākhyamāpīyatāṃ
  • tatpītaṃ paramauṣadhaṃ vitanute nirvāṇamātyantikam ॥ 17 ॥

 

  • हे मर्त्याः परमं हितं श्रुणुत वो वक्ष्यामि सङ्क्षेपतः
  • संसारार्णवमापदूर्मिबहुलं सम्यक् प्रविश्य स्थिताः ।
  • नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुं
  • मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥ १८ ॥
  • he martyāḥ paramaṃ hitaṃ śruṇuta vo vakṣyāmi saṅkṣepataḥ
  • saṃsārārṇavamāpadūrmibahulaṃ samyak praviśya sthitāḥ ।
  • nānājñānamapāsya cetasi namo nārāyaṇāyetyamuṃ
  • mantraṃ sapraṇavaṃ praṇāmasahitaṃ prāvartayadhvaṃ muhuḥ॥

पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुस्फुलिङ्गोऽनलः

  • पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुस्फुलिङ्गोऽनलः
  • तेजो निःश्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः ।
  • क्षुद्रा रुद्रपितामहप्रभृतयः कीटास्समस्तास्सुरा
  • दृष्टे यत्र स तावको विजयते भूमावधूतावधिः ॥ १९ ॥
  • pṛthvīreṇuraṇuḥ payāṃsi kaṇikāḥ phalgusphuliṅgo’nalaḥ
  • tejo niḥśvasanaṃ maruttanutaraṃ randhraṃ susūkṣmaṃ nabhaḥ ।
  • kṣudrā rudrapitāmahaprabhṛtayaḥ kīṭāssamastāssurā
  • dṛṣṭe yatra sa tāvako vijayate bhūmāvadhūtāvadhiḥ ॥ 19 ॥

बद्धेनाञ्जलिना नतेन शिरसा गात्रैस्सरोमोद्गमैः

  • बद्धेनाञ्जलिना नतेन शिरसा गात्रैस्सरोमोद्गमैः
  • कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।
  • नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिना-
  • मस्माकं सरसीरुहाक्ष सततं संपद्यतां जीवितम् ॥ २० ॥
  • baddhenāñjalinā natena śirasā gātraissaromodgamaiḥ
  • kaṇṭhena svaragadgadena nayanenodgīrṇabāṣpāmbunā ।
  • nityaṃ tvaccaraṇāravindayugaladhyānāmṛtāsvādinām
  • asmākaṃ sarasīruhākṣa satataṃ saṃpadyatāṃ jīvitam ॥ 20 ॥

 

  • हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
  • हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
  • हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां
  • हे गोपीजननाथ पालय परं जानामि न त्वां विना॥ २१॥
  • he gopālaka he kṛpājalanidhe he sindhukanyāpate
  • he kaṃsāntaka he gajendrakaruṇāpārīṇa he mādhava ।
  • he rāmānuja he jagattrayaguro he puṇḍarīkākṣa māṃ
  • he gopījananātha pālaya paraṃ jānāmi na tvāṃ vinā ॥ 21 ॥

भक्तापायभुजङ्गगारुडमणिस्त्रैलोक्यरक्षामणि-

  • भक्तापायभुजङ्गगारुडमणिस्त्रैलोक्यरक्षामणि-
  • र्गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः।
  • यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः
  • श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥ २२ ॥
  • bhaktāpāyabhujaṅgagāruḍamaṇistrailokyarakṣāmaṇiḥ
  • gopīlocanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ ।
  • yaḥ kāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ
  • śreyo devaśikhāmaṇiḥ diśatu no gopālacūḍāmaṇiḥ ॥ 22 ॥

शत्रुच्छेदैकमस्त्रं सकलमुपनिषद्वाक्यसम्पूज्यमन्त्रं

  • शत्रुच्छेदैकमस्त्रं सकलमुपनिषद्वाक्यसम्पूज्यमन्त्रं
  • संसारोत्तारमन्त्रं समुपचिततमस्सङ्गनिर्याणमन्त्रम् ।
  • सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं
  • जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥ २३॥
  • śatrucchedaikamastraṃ sakalamupaniṣadvākyasampūjyamantraṃ
  • saṃsārottāramantraṃ samupacitatamassaṅganiryāṇamantram ।
  • sarvaiśvaryaikamantraṃ vyasanabhujagasandaṣṭasantrāṇamantraṃ
  • jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram ॥ 23 ॥

व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं

  • व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं
  • दैत्येन्द्रार्तिकरौषधं त्रिजगतां सञ्जीवनैकौषधम् ।
  • भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं
  • श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥ २४ ॥
  • vyāmohapraśamauṣadhaṃ munimanovṛttipravṛttyauṣadhaṃ
  • daityendrārtikarauṣadhaṃ trijagatāṃ sañjīvanaikauṣadham ।
  • bhaktātyantahitauṣadhaṃ bhavabhayapradhvaṃsanaikauṣadhaṃ
  • śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇadivyauṣadham ॥ 24 ॥

आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं

  • आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं
  • मेदश्छेदफलानि पूर्तविधयः सर्वे हुतं भस्मनि ।
  • तीर्थानामवगाहनानि च गजस्नानं विना यत्पद-
  • द्वन्द्वाम्भोरुहसंस्मृतिर्विजयते देवः स नारायणः ॥ २५ ॥
  • āmnāyābhyasanānyaraṇyaruditaṃ vedavratānyanvahaṃ
  • medaśchedaphalāni pūrtavidhayaḥ sarve hutaṃ bhasmani ।
  • tīrthānāmavagāhanāni ca gajasnānaṃ vinā yatpada-
  • dvandvāmbhoruhasaṃsmṛtirvijayate devaḥ sa nārāyaṇaḥ ॥ 25 ॥

श्रीमन्नाम प्रोच्य नारायणाख्यं

  • श्रीमन्नाम प्रोच्य नारायणाख्यं
  • केन प्रापुर्वाञ्छितं पापिनोऽपि ।
  • हा नः पूर्वं वाक्प्रवृत्ता न तस्मिं- स्तेन प्राप्तं गर्भवासादिदुःखम् ॥ २६ ॥
  • śrīmannāma procya nārāyaṇākhyaṃ
  • kena prāpurvāñchitaṃ pāpino’pi ।
  • hā naḥ pūrvaṃ vākpravṛttā na tasmin
  • tena prāptaṃ garbhavāsādiduḥkham ॥ 26 ॥

 

  • मज्जन्मनः फलमिदं मधुकैटभारे
  • मत्प्रार्थनीयमदनुग्रह एष एव ।
  • त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य- भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ २७ ॥
  • majjanmanaḥ phalamidaṃ madhukaiṭabhāre
  • matprārthanīyamadanugraha eṣa eva ।
  • tvadbhṛtyabhṛtyaparicārakabhṛtyabhṛtya-
  • bhṛtyasya bhṛtya iti māṃ smara lokanātha ॥ 27 ॥

नाथे नः पुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा

  • नाथे नः पुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा
  • सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति ।
  • यं कञ्चित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं
  • सेवायै मृगयामहे नरमहो मूका वराका वयम् ॥ २८ ॥
  • nāthe naḥ puruṣottame trijagatāmekādhipe cetasā
  • sevye svasya padasya dātari sure nārāyaṇe tiṣṭhati ।
  • yaṃ kañcitpuruṣādhamaṃ katipayagrāmeśamalpārthadaṃ
  • sevāyai mṛgayāmahe naramaho mūkā varākā vayam ॥ 28 ॥

मदन परिहरस्थितिं मदीये

  • मदन परिहरस्थितिं मदीये
  • मनसि मुकुन्दपदारविन्दधाम्नि ।
  • हरनयनकृशानुना कृशोऽसि
  • स्मरसि न चक्रपराक्रमं मुरारेः ॥ २९ ॥
  • madana pariharasthitiṃ madīye
  • manasi mukundapadāravindadhāmni ।
  • haranayanakṛśānunā kṛśo’si
  • smarasi na cakraparākramaṃ murāreḥ ॥ 29 ॥

तत्त्वं ब्रुवाणानि परं परस्मात्

  • तत्त्वं ब्रुवाणानि परं परस्मात्
  • मधु क्षरन्तीव सतां फलानि ।
  • प्रावर्तय प्राञ्जलिरस्मि जिह्वे
  • नामानि नारायणगोचराणि ॥ ३० ॥
  • tattvaṃ bruvāṇāni paraṃ parasmāt
  • madhu kṣarantīva satāṃ phalāni ।
  • prāvartaya prāñjalirasmi jihve
  • nāmāni nārāyaṇagocarāṇi ॥ 30 ॥

इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लथसन्धि जर्जरम् ।

  • इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लथसन्धि जर्जरम् ।
  • किमौषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ ३१ ॥
  • idaṃ śarīraṃ pariṇāmapeśalaṃ
  • patatyavaśyaṃ ślathasandhi jarjaram ।
  • kimauṣadhaiḥ kliśyasi mūḍha durmate
  • nirāmayaṃ kṛṣṇarasāyanaṃ piba ॥ 31 ॥

दारा वाराकरवरसुता ते तनूजो विरिञ्चिः

  • दारा वाराकरवरसुता ते तनूजो विरिञ्चिः
  • स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः ।
  • मुक्तिर्माया जगदविकलं तावकी देवकी ते
  • माता मित्रं बलरिपुसुतस्त्वय्यतोऽन्यन्न जाने ॥ ३२ ॥
  • dārā vārākaravarasutā te tanūjo viriñciḥ
  • stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ ।
  • muktirmāyā jagadavikalaṃ tāvakī devakī te
  • mātā mitraṃ balaripusutaḥ tvayyato’nyanna jāne ॥ 32 ॥

 

  • कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्याम्यहं
  • कृष्णेनामरशत्रवो विनिहताः कृष्णाय तुभ्यं नमः ।
  • कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं
  • कृष्णे तिष्ठति सर्वमेतदखिलं हे कृष्ण रक्षस्व माम्॥ ३३॥
  • kṛṣṇo rakṣatu no jagattrayaguruḥ kṛṣṇaṃ namasyāmyahaṃ
  • kṛṣṇenāmaraśatravo vinihatāḥ kṛṣṇāya tubhyaṃ namaḥ ।
  • kṛṣṇādeva samutthitaṃ jagadidaṃ kṛṣṇasya dāso’smyahaṃ
  • kṛṣṇe tiṣṭhati sarvametadakhilaṃ he kṛṣṇa rakṣasva mām॥ 33 ॥

तत् त्वं प्रसीद भगवन् कुरु मय्यनाथे

  • तत् त्वं प्रसीद भगवन् कुरु मय्यनाथे
  • विष्णो कृपां परमकारुणिकः किल त्वम् ।
  • संसारसागरनिमग्नमनन्त दीनं
  • उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥ ३४ ॥
  • tat tvaṃ prasīda bhagavan kuru mayyanāthe
  • viṣṇo kṛpāṃ paramakāruṇikaḥ kila tvam ।
  • saṃsārasāgaranimagnamananta dīnaṃ
  • uddhartumarhasi hare puruṣottamo’si ॥ 34 ॥

नमामि नारायणपादपङ्कजं

  • नमामि नारायणपादपङ्कजं
  • करोमि नारायणपूजनं सदा ।
  • वदामि नारायणनाम निर्मलं
  • स्मरामि नारायणतत्त्वमव्ययम् ॥ ३५ ॥
  • namāmi nārāyaṇapādapaṅkajaṃ
  • karomi nārāyaṇapūjanaṃ sadā ।
  • vadāmi nārāyaṇanāma nirmalaṃ
  • smarāmi nārāyaṇatattvamavyayam ॥ 35 ॥

श्रीनाथ नारायण वासुदेव

  • श्रीनाथ नारायण वासुदेव
  • श्रीकृष्ण भक्तप्रिय चक्रपाणे ।
  • श्रीपद्मनाभाच्युत कैटभारे
  • श्रीराम पद्माक्ष हरे मुरारे ॥ ३६ ॥
  • śrīnātha nārāyaṇa vāsudeva
  • śrīkṛṣṇa bhaktapriya cakrapāṇe ।
  • śrīpadmanābhācyuta kaiṭabhāre
  • śrīrāma padmākṣa hare murāre ॥ 36 ॥

अनन्त वैकुण्ठ मुकुन्द कृष्ण

  • अनन्त वैकुण्ठ मुकुन्द कृष्ण
  • गोविन्द दामोदर माधवेति ।
  • वक्तुं समर्थोऽपि न वक्ति कश्चित्
  • अहो जनानां व्यसनाभिमुख्यम् ॥ ३७ ॥
  • ananta vaikuṇṭha mukunda kṛṣṇa
  • govinda dāmodara mādhaveti ।
  • vaktuṃ samartho’pi na vakti kaścit
  • aho janānāṃ vyasanābhimukhyam ॥ 37 ॥

ध्यायन्ति ये विष्णुमनन्तमव्ययं

  • ध्यायन्ति ये विष्णुमनन्तमव्ययं
  • हृत्पद्ममध्ये सततं व्यवस्थितम् ।
  • समाहितानां सतताभयप्रदं
  • ते यान्ति सिद्धिं परमाञ्च वैष्णवीम् ॥ ३८ ॥
  • dhyāyanti ye viṣṇumanantamavyayaṃ
  • hṛtpadmamadhye satataṃ vyavasthitam ।
  • samāhitānāṃ satatābhayapradaṃ
  • te yānti siddhiṃ paramāñca vaiṣṇavīm ॥ 38 ॥

क्षीरसागरतरङ्गशीकरा-

  • क्षीरसागरतरङ्गशीकरा-
  • सारतारकितचारुमूर्तये ।
  • भोगिभोगशयनीयशायिने
  • माधवाय मधुविद्विषे नमः ॥ ३९ ॥
  • kṣīrasāgarataraṅgaśīkarā-
  • sāratārakitacārumūrtaye ।
  • bhogibhogaśayanīyaśāyine
  • mādhavāya madhuvidviṣe namaḥ ॥ 39 ॥

यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ

  • यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ
  • मित्रे द्विजन्मवरपद्मशरावभूताम् ।
  • तेनाम्बुजाक्षचरणाम्बुजषट्पदेन
  • राज्ञा कृता कृतिरियं कुलशेखरेण ॥ ४० ॥
  • इति श्रीकुलशेखरनृपतिविरचिता मुकुन्दमाला समाप्ता ।
  • yasya priyau śrutidharau kavilokavīrau
  • mitre dvijanmavarapadmaśarāvabhūtām ।
  • tenāmbujākṣacaraṇāmbujaṣaṭpadena
  • rājñā kṛtā kṛtiriyaṃ kulaśekhareṇa ॥ 40 ॥
  • iti śrīkulaśekharanṛpati-viracitā mukundamālā samāptā ।

References

  1. Translation with Word meaning – https://gitabase.com/eng/MM/1
  2. With Anvaya, Chandas, Meaninghttps://srikrishnasaras.home.blog/2019/09/03/mukunda-mala/
  3. Other references
    http://stotrarathna.blogspot.com/2009/07/kulashekhara-azhwars-mukunda-mala.html
    https://www.sadagopan.org/pdfuploads/Mukunda%20Mala.pdf
  4. https://www.indiadivine.org/mukunda-mala-stotra/
  5. Explanation in Tamil – https://valmikiramayanam.in/?p=2990
  6. Explanation in Hindi –
    https://ia600800.us.archive.org/3/items/MukundaMalaAurAnyaStotraJanakiNathKaulKamal/MukundaMala%20aur%20Anya%20Stotra%20-%20Janaki%20Nath%20Kaul%20Kamal.pdf
  7. Tamil lecture video – https://www.youtube.com/watch?v=OJl3DqU3560

https://nivedita2015.wordpress.com/mukundamaalaa/

dhuṣyate yasya nagare raṃgayātrā dine dine ।

tamahaṃ śirasā vande rājānaṃ kulaśekharam ॥

śrīvallabheti varadeti dayāpareti

bhaktapriyeti bhavaluṇṭhanakovideti ।

nātheti nāgaśayaneti jagannivāseti

ālāpinaṃ pratipadaṃ kuru me mukunda ॥ 1 ॥

jayatu jayatu devo devakīnandano’yaṃ

jayatu jayatu kṛṣṇo vṛṣṇivaṃśapradīpaḥ ।

jayatu jayatu meghaśyāmalaḥ komalāṅgaḥ

jayatu jayatu pṛthvībhāranāśaḥ mukundaḥ ॥ 2 ॥

mukunda mūrdhnā praṇipatya yāce

bhavantamekāntamiyantamartham ।

avismṛtistvaccaraṇāravinde

bhave bhave me’stu bhavatprasādāt ॥ 3 ॥

nāhaṃ vande tava caraṇayordvandvamadvandvahetoḥ

kumbhīpākaṃ gurumapi hare nārakaṃ nāpanetum ।

ramyā rāmā mṛdutanulatā nandane nāpi rantuṃ

bhāve bhāve hṛdayabhavane bhāvayeyaṃ bhavantam ॥ 4 ॥

nāsthā dharme na vasunicaye naiva kāmopabhoge

yadyadbhavyaṃ bhavatu bhagavanpūrvakarmānurūpam ।

etatprārthyaṃ mama bahumataṃ janmajanmāntare’pi

tvatpādāmbhoruhayugagatā niścalā bhaktirastu ॥ 5 ॥

divi vā bhuvi vā mamāstu vāso

narake vā narakāntaka prakāmam ।

avadhīritaśāradāravindau

caraṇau te maraṇe’pi cintayāmi ॥ 6 ॥

kṛṣṇa tvadīyapadapaṅkajapañjarāntam

adyaiva me viśatu mānasarājahaṃsaḥ ।

prāṇaprayāṇasamaye kaphavātapittaiḥ

kaṇṭhāvarodhanavidhau smaraṇaṃ kutaste ॥ 7 ॥

cintayāmi harimeva santataṃ

mandamandahasitānanāmbujam ।

nandagopatanayaṃ parātparaṃ

nāradādimunivṛndavanditam ॥ 8 ॥

karacaraṇasaroje kāntimannetramīne

śramamuṣibhujavīcivyākule’gādhamārge ।

harisarasivigāhyāpīyatejojalaughaṃ

bhavamaruparikhinnaḥ khedamadya tyajāmi ॥ 9 ॥

sarasijanayane saśaṅkhacakre

murabhidi mā viramasva citta rantum ।

sukhataramaparaṃ na jātu jāne

haricaraṇasmaraṇāmṛtena tulyam ॥ 10 ॥

mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanāḥ

nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ ।

ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ

lokasya vyasanāpanodanakaraḥ dāsasya kiṃ na kṣamaḥ ॥ 11 ॥

bhavajaladhigatānāṃ dvandvavātāhatānāṃ

sutaduhitṛkalatratrāṇabhārārditānām ।

viṣamaviṣayatoye majjatāmaplavānāṃ

bhavatu śaraṇameko viṣṇupoto narāṇām ॥ 12 ॥

bhavajaladhimagādhaṃ dustaraṃ nistareyaṃ

kathamahamiti ceto mā sma gāḥ kātaratvam ।

sarasijadṛśi deve tāvakī bhaktirekā

narakabhidi niṣaṇṇā tārayiṣyatyavaśyam ॥ 13 ॥

tṛṣṇātoye madanapavanoddhūtamohormimāle

dārāvarte tanayasahajagrāhasaṅghākule ca ।

saṃsārākhye mahati jaladhau majjatāṃ nastridhāman

pādāmbhoje varada bhavato bhaktināvaṃ prayaccha ॥ 14 ॥

mā drākṣaṃ kṣīṇapuṇyānkṣaṇamapi bhavato bhaktihīnānpadābje

mā śrauṣaṃ śravyabaddhaṃ tava caritamapāsyā’nyadākhyānajātam ।

mā smārṣaṃ mādhava tvāmapi bhuvanapate cetasā’pahnuvānān

mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare’pi ॥ 15 ॥

jihve kīrtaya keśavaṃ muraripuṃ ceto bhaja śrīdharaṃ

pāṇidvandva samarcaya acyutakathāḥ śrotradvaya tvaṃ śṛṇu ।

kṛṣṇaṃ lokaya locanadvaya harergacchāṅghriyugmālayaṃ

jighra ghrāṇa mukundapādatulasīṃ mūrdhannamādhokṣajam ॥ 16 ॥

he lokāśśṛṇuta prasūtimaraṇavyādheścikitsāmimāṃ

yogajñāssamudāharanti munayo yāṃ yājñavalkyādayaḥ ।

antaryortirameyamekamamṛtaṃ kṛṣṇākhyamāpīyatāṃ

tatpītaṃ paramauṣadhaṃ vitanute nirvāṇamātyantikam ॥ 17 ॥

he martyāḥ paramaṃ hitaṃ śruṇuta vo vakṣyāmi saṅkṣepataḥ

saṃsārārṇavamāpadūrmibahulaṃ samyak praviśya sthitāḥ ।

nānājñānamapāsya cetasi namo nārāyaṇāyetyamuṃ

mantraṃ sapraṇavaṃ praṇāmasahitaṃ prāvartayadhvaṃ muhuḥ ॥ 18 ॥

pṛthvīreṇuraṇuḥ payāṃsi kaṇikāḥ phalgusphuliṅgo’nalaḥ

tejo niḥśvasanaṃ maruttanutaraṃ randhraṃ susūkṣmaṃ nabhaḥ ।

kṣudrā rudrapitāmahaprabhṛtayaḥ kīṭāssamastāssurā

dṛṣṭe yatra sa tāvako vijayate bhūmāvadhūtāvadhiḥ ॥ 19 ॥

baddhenāñjalinā natena śirasā gātraissaromodgamaiḥ

kaṇṭhena svaragadgadena nayanenodgīrṇabāṣpāmbunā ।

nityaṃ tvaccaraṇāravindayugaladhyānāmṛtāsvādinām

asmākaṃ sarasīruhākṣa satataṃ saṃpadyatāṃ jīvitam ॥ 20 ॥

he gopālaka he kṛpājalanidhe he sindhukanyāpate

he kaṃsāntaka he gajendrakaruṇāpārīṇa he mādhava ।

he rāmānuja he jagattrayaguro he puṇḍarīkākṣa māṃ

he gopījananātha pālaya paraṃ jānāmi na tvāṃ vinā ॥ 21 ॥

bhaktāpāyabhujaṅgagāruḍamaṇistrailokyarakṣāmaṇiḥ

gopīlocanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ ।

yaḥ kāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ

śreyo devaśikhāmaṇiḥ diśatu no gopālacūḍāmaṇiḥ ॥ 22 ॥

śatrucchedaikamastraṃ sakalamupaniṣadvākyasampūjyamantraṃ

saṃsārottāramantraṃ samupacitatamassaṅganiryāṇamantram ।

sarvaiśvaryaikamantraṃ vyasanabhujagasandaṣṭasantrāṇamantraṃ

jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram ॥ 23 ॥

vyāmohapraśamauṣadhaṃ munimanovṛttipravṛttyauṣadhaṃ

daityendrārtikarauṣadhaṃ trijagatāṃ sañjīvanaikauṣadham ।

bhaktātyantahitauṣadhaṃ bhavabhayapradhvaṃsanaikauṣadhaṃ

śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇadivyauṣadham ॥ 24 ॥

āmnāyābhyasanānyaraṇyaruditaṃ vedavratānyanvahaṃ

medaśchedaphalāni pūrtavidhayaḥ sarve hutaṃ bhasmani ।

tīrthānāmavagāhanāni ca gajasnānaṃ vinā yatpada-

dvandvāmbhoruhasaṃsmṛtirvijayate devaḥ sa nārāyaṇaḥ ॥ 25 ॥

śrīmannāma procya nārāyaṇākhyaṃ

kena prāpurvāñchitaṃ pāpino’pi ।

hā naḥ pūrvaṃ vākpravṛttā na tasmin

tena prāptaṃ garbhavāsādiduḥkham ॥ 26 ॥

majjanmanaḥ phalamidaṃ madhukaiṭabhāre

matprārthanīyamadanugraha eṣa eva ।

tvadbhṛtyabhṛtyaparicārakabhṛtyabhṛtya-

bhṛtyasya bhṛtya iti māṃ smara lokanātha ॥ 27 ॥

nāthe naḥ puruṣottame trijagatāmekādhipe cetasā

sevye svasya padasya dātari sure nārāyaṇe tiṣṭhati ।

yaṃ kañcitpuruṣādhamaṃ katipayagrāmeśamalpārthadaṃ

sevāyai mṛgayāmahe naramaho mūkā varākā vayam ॥ 28 ॥

madana pariharasthitiṃ madīye

manasi mukundapadāravindadhāmni ।

haranayanakṛśānunā kṛśo’si

smarasi na cakraparākramaṃ murāreḥ ॥ 29 ॥

tattvaṃ bruvāṇāni paraṃ parasmāt

madhu kṣarantīva satāṃ phalāni ।

prāvartaya prāñjalirasmi jihve

nāmāni nārāyaṇagocarāṇi ॥ 30 ॥

idaṃ śarīraṃ pariṇāmapeśalaṃ

patatyavaśyaṃ ślathasandhi jarjaram ।

kimauṣadhaiḥ kliśyasi mūḍha durmate

nirāmayaṃ kṛṣṇarasāyanaṃ piba ॥ 31 ॥

dārā vārākaravarasutā te tanūjo viriñciḥ

stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ ।

muktirmāyā jagadavikalaṃ tāvakī devakī te

mātā mitraṃ balaripusutastvayyato’nyanna jāne ॥ 32 ॥

kṛṣṇo rakṣatu no jagattrayaguruḥ kṛṣṇaṃ namasyāmyahaṃ

kṛṣṇenāmaraśatravo vinihatāḥ kṛṣṇāya tubhyaṃ namaḥ ।

kṛṣṇādeva samutthitaṃ jagadidaṃ kṛṣṇasya dāso’smyahaṃ

kṛṣṇe tiṣṭhati sarvametadakhilaṃ he kṛṣṇa rakṣasva mām॥ 33 ॥

tat tvaṃ prasīda bhagavan kuru mayyanāthe

viṣṇo kṛpāṃ paramakāruṇikaḥ kila tvam ।

saṃsārasāgaranimagnamananta dīnaṃ

uddhartumarhasi hare puruṣottamo’si ॥ 34 ॥

namāmi nārāyaṇapādapaṅkajaṃ

karomi nārāyaṇapūjanaṃ sadā ।

vadāmi nārāyaṇanāma nirmalaṃ

smarāmi nārāyaṇatattvamavyayam ॥ 35 ॥

śrīnātha nārāyaṇa vāsudeva

śrīkṛṣṇa bhaktapriya cakrapāṇe ।

śrīpadmanābhācyuta kaiṭabhāre

śrīrāma padmākṣa hare murāre ॥ 36 ॥

ananta vaikuṇṭha mukunda kṛṣṇa

govinda dāmodara mādhaveti ।

vaktuṃ samartho’pi na vakti kaścit

aho janānāṃ vyasanābhimukhyam ॥ 37 ॥

dhyāyanti ye viṣṇumanantamavyayaṃ

hṛtpadmamadhye satataṃ vyavasthitam ।

samāhitānāṃ satatābhayapradaṃ

te yānti siddhiṃ paramāñca vaiṣṇavīm ॥ 38 ॥

kṣīrasāgarataraṅgaśīkarā-

sāratārakitacārumūrtaye ।

bhogibhogaśayanīyaśāyine

mādhavāya madhuvidviṣe namaḥ ॥ 39 ॥

yasya priyau śrutidharau kavilokavīrau

mitre dvijanmavarapadmaśarāvabhūtām ।

tenāmbujākṣacaraṇāmbujaṣaṭpadena

rājñā kṛtā kṛtiriyaṃ kulaśekhareṇa ॥ 40 ॥

iti śrīkulaśekharanṛpativiracitā mukundamālā samāptā ।

One thought on “Mukundamaalaa

Leave a comment