Govinda Daamodara Stotram

Govinda Daamodara Maadhaveti

श्लोकः, अन्वयः of गोविन्द-दामोदर-स्तोत्रम् govinda-dāmodara-stotram

Rendition of Sanskrit Shlokas – संस्कृतश्लोकगीतिः स्तोत्रकारः – श्रीबिल्वमङ्गलाचार्यः

Written by Shree Bilvamangala Aachaarya

गायिका – डॉ. हरिणी अगरम् Sung by Dr. Harini Agaram

चित्रकारः – श्री. केशवः Paintings by Sri. Keshav

Paintings Copyrights © Krishnafortoday.com & Sri. Keshav https://krishnafortoday.com/

https://nivedita2015.wordpress.com/govindadaamodarastotram

अग्रे कुरूणामथ पाण्डवानां
दुःशासनेनाहृतवस्त्रकेशा ।
कृष्णा तदाक्रोशदनन्यनाथा
गोविन्द दामोदर माधवेति ॥ १ ॥
कुरूणाम् अथ पाण्डवानाम् अग्रे, दुःशासनेन आहृत-वस्त्र-केशा, अनन्य-नाथा, कृष्णा, तदा गोविन्द दामोदर माधव इति आक्रोशत् । [आक्रोशत् = आङ्+क्रुशँ आह्वाने रोदने च, लङ्]

श्रीकृष्ण विष्णो मधुकैटभारे
भक्तानुकम्पिन् भगवन् मुरारे ।
त्रायस्व मां केशव लोकनाथ
गोविन्द दामोदर माधवेति ॥ २ ॥
श्रीकृष्ण विष्णो मधु-कैटभ-अरे भक्त-अनुकम्पिन् भगवन् मुर-अरे केशव लोक-नाथ गोविन्द दामोदर माधव ! (त्वं) मां त्रायस्व । [त्रायस्व = त्रैङ् पालने, लोट्., म., एक.]

विक्रेतुकामा किल गोपकन्या
मुरारिपादार्पितचित्तवृत्तिः ।
दध्यादिकं मोहवशादवोचद्
गोविन्द दामोदर माधवेति ॥ ३ ॥
मुरारि-पाद-अर्पित-चित्त-वृत्तिः, गोप-कन्या, दधि-आदिकं विक्रेतु-कामा, मोह-वशात् गोविन्द दामोदर माधव इति अवोचत् ।

उलूखले सम्भृततण्डुलांश्च
सङ्घट्टयन्त्यो मुसलैः प्रमुग्धाः ।
गायन्ति गोप्यो जनितानुरागा
गोविन्द दामोदर माधवेति ॥ ४ ॥
मुसलैः उलूखले सम्भृत-तण्डुलान् सङ्घट्टयन्त्यः, जनित-अनुरागाः च, प्रमुग्धाः, गोप्यः, गोविन्द दामोदर माधव इति गायन्ति ।

काचित् कराम्भोजपुटे निषण्णं
क्रीडाशुकं किंशुकरक्ततुण्डम् ।
अध्यापयामास सरोरुहाक्षी
गोविन्द दामोदर माधवेति ॥ ५ ॥
काचित् सरोरुह-अक्षी कर-अम्भोज-पुटे निषण्णं, किंशुक-रक्त-तुण्डं, क्रीडा-शुकं, गोविन्द दामोदर माधव इति अध्यापयामास। [अध्यापयामास = अधि+इङ् अध्ययने, णिजन्ते,लिट्.]

गृहे गृहे गोपवधूसमूहः
प्रतिक्षणं पञ्जरसारिकाणाम् ।
स्खलद्गिरं वाचयितुं प्रवृत्तो
गोविन्द दामोदर माधवेति ॥ ६ ॥
गृहे गृहे गोप-वधू-समूहः, गोविन्द दामोदर माधव इति, स्खलत्-गिरं पञ्जर-सारिकाणां वाचयितुं प्रति-क्षणं प्रवृत्तः । [पञ्जरः / पिञ्जरः = पक्षिशाला, बन्धनगृहम्]

पर्य्यङ्किकाभाजमलं कुमारं
प्रस्वापयन्त्योऽखिलगोपकन्याः ।
जगुः प्रबन्धं स्वरतालबन्धं
गोविन्द दामोदर माधवेति ॥ ७ ॥
पर्य्यङ्किक-आभाजं कुमारं प्र-स्वापयन्त्यः, अखिल-गोप-कन्याः गोविन्द दामोदर माधव इति स्वर-ताल-बन्धं प्रबन्धम् अलं जगुः । [जगुः = गै शब्दे, कर्तरि., लिट्., प्र., बहु., अगायन्]

रामानुजं वीक्षणकेलिलोलं
गोपी गृहीत्वा नवनीतगोलम् ।
आबालकं बालकमाजुहाव
गोविन्द दामोदर माधवेति ॥ ८ ॥
नवनीत-गोलं गृहीत्वा, वीक्षण-केलि-लोलम् आबालकं बालकं राम-अनुजं, गोपी, गोविन्द दामोदर माधव इति आजुहाव ।
[आजुहाव = आङ्+ह्वेञ् स्पर्धायां शब्दे च, लिट्.]

विचित्रवर्णाभरणाभिरामेऽ-
भिधेहि वक्त्राम्बुजराजहंसि ।
सदा मदीये रसनेऽग्ररङ्गे
गोविन्द दामोदर माधवेति ॥ ९ ॥
विचित्र-वर्ण-आभरण-अभिरामे, वक्त्र-अम्बुज-राज-हंसि, अग्र-रङ्गे, मदीये रसने ! सदा गोविन्द दामोदर माधव इति अभिधेहि । [अभिधेहि = अभि+डुधाञ् धारणपोषणयोः, लोट्., म., एक.]

अङ्काधिरूढं शिशुगोपगूढं
स्तनन्धयन्तं कमलैककान्तम् ।
सम्बोधयामास मुदा यशोदा
गोविन्द दामोदर माधवेति ॥ १० ॥
यशोदा शिशु-गोप-गूढम्, अङ्क-अधिरूढं, स्तनन्धयन्तं, कमला-एक-कान्तं, गोविन्द दामोदर माधव इति मुदा सम्बोधयामास । [सम्बोधयामास = सं+बुधिँर् बोधने, णिजन्त., लिट्.]

क्रीडन्तमन्तर्व्रजमात्मजं स्वं
समं वयस्यैः पशुपालबालैः ।
प्रेम्णा यशोदा प्रजुहाव कृष्णं
गोविन्द दामोदर माधवेति ॥ ११ ॥
अन्तर्-व्रजं, स्वं वयस्यैः पशु-पाल-बालैः समं क्रीडन्तम्, आत्मजं, कृष्णं, यशोदा गोविन्द दामोदर माधव इति प्रेम्णा प्रजुहाव । [समम् = सह । प्रजुहाव = प्र+ह्वेञ् स्पर्धायां शब्दे च, लिट्.]

यशोदया गाढमुलूखलेन
गोकण्ठपाशेन निबध्यमानः ।

गोविन्द दामोदर माधवेति ॥ १२ ॥
उलूखलेन गो-कण्ठ-पाशेन यशोदया गाढं निबध्यमानः, नवनीत-भोजी, गोविन्द दामोदर माधव इति मन्दं रुरोद ।
[भोजी = भोजिन् शब्दः, यः भुङ्क्ते । रुरोद = रुदिँर् अश्रुविमोचने, लिट्.]
निजाङ्गणे कङ्कणकेलिलोलं
निजाङ्गणे कङ्कणकेलिलोलं

आमर्दयत् पाणितलेन नेत्रे
गोविन्द दामोदर माधवेति ॥ १३ ॥
गोपी, नवनीत-गोलं गृहीत्वा, निज-अङ्गणे कङ्कण-केलि-लोलं (प्रति) गोविन्द दामोदर माधव इति पाणि-तलेन नेत्रे आमर्दयत् । [आमर्दयत् = आङ्+मृद्मृदँ क्षोदे, णिजन्त., लङ्.]
गृहे गृहे गोपवधूकदम्बाः
गृहे गृहे गोपवधूकदम्बाः

पुण्यानि नामानि पठन्ति नित्यं
गोविन्द दामोदर माधवेति ॥ १४ ॥
गृहे गृहे, सर्वे गोप-वधू-कदम्बाः मिलित्वा, गोविन्द दामोदर माधव इति पुण्यानि नामानि समवाय-योगे नित्यं पठन्ति ।
मन्दारमूले वदनाभिरामं
मन्दारमूले वदनाभिरामं

गोगोपगोपीजनमध्यसंस्थं
गोविन्द दामोदर माधवेति ॥ १५ ॥

उत्थाय गोप्योऽपररात्रभागे
उत्थाय गोप्योऽपररात्रभागे
स्मृत्वा यशोदासुतबालकेलिम् ।
गायन्ति प्रोच्चैर्दधि मन्थयन्त्यो
गोविन्द दामोदर माधवेति ॥ १६ ॥

जग्धोऽथ दत्तो नवनीतपिण्डो
जग्धोऽथ दत्तो नवनीतपिण्डो
गृहे यशोदा विचिकित्सयन्ती ।
उवाच सत्यं वद हे मुरारे
गोविन्द दामोदर माधवेति ॥ १७ ॥

अभ्यर्च्य गेहं युवतिः प्रवृद्ध-
अभ्यर्च्य गेहं युवतिः प्रवृद्ध-
प्रेमप्रवाहा दधि निर्ममन्थ ।
गायन्ति गोप्योऽथ सखीसमेता
गोविन्द दामोदर माधवेति ॥ १८ ॥

क्वचित् प्रभाते दधिपूर्णपात्रे
क्वचित् प्रभाते दधिपूर्णपात्रे

आलोक्य गानं विविधं करोति
गोविन्द दामोदर माधवेति ॥ १९ ॥
प्रभाते क्वचित् युवती दधि-पूर्ण-पात्रे मन्थं निक्षिप्य, मुकुन्दम् आलोक्य, गोविन्द दामोदर माधव इति विविधं गानं करोति ।
क्रीडापरं भोजनमज्जनार्थं
क्रीडापरं भोजनमज्जनार्थं

आजूहवत् प्रेमपरिप्लुताक्षी
गोविन्द दामोदर माधवेति ॥ २० ॥
हित-एषिणी प्रेम-परिप्लुत-अक्षी स्त्री यशोदा क्रीडापरं तनुजं भोजन-मज्जनार्थं गोविन्द दामोदर माधव इति आजूहवत् । [आजूहवत् = आङ् + ह्वेञ् स्पर्धायां शब्दे च, णिजन्त., लुङ्]
सुखं शयानं निलये च विष्णुं
सुखं शयानं निलये च विष्णुं

तेनाच्युते तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ॥ २१ ॥
निलये सुखं शयानं विष्णुं प्रपन्नाः, देव-ऋषि-मुख्याः मुनयः, गोविन्द दामोदर माधव इति वदन्ति । तेन अच्युते तन्मयतां व्रजन्ति ।
विहाय निद्रामरुणोदये च
विहाय निद्रामरुणोदये च

वेदावसाने प्रपठन्ति नित्यं
गोविन्द दामोदर माधवेति ॥ २२ ॥

वृन्दावने गोपगणाश्च गोप्यो
वृन्दावने गोपगणाश्च गोप्यो
विलोक्य गोविन्दवियोगखिन्नाम् ।
राधां जगुः साश्रुविलोचनाभ्यां
गोविन्द दामोदर माधवेति ॥ २३ ॥

प्रभातसञ्चारगता नु गाव-
प्रभातसञ्चारगता नु गाव-
स्तद्रक्षणार्थं तनयं यशोदा ।
प्राबोधयत् पाणितलेन मन्दं
गोविन्द दामोदर माधवेति ॥ २४ ॥
गावः प्रभात-सञ्चार-गताः नु । यशोदा तत्-रक्षणार्थं तनयं गोविन्द दामोदर माधव इति पाणि-तलेन मन्दं प्राबोधयत् ।
[प्राबोधयत् = प्र+बुधिँर् बोधने, णिजन्त., लङ्]

प्रवालशोभा इव दीर्घकेशा
वाताम्बुपर्णाशनपूतदेहाः ।
मूले तरूणां मुनयः पठन्ति
गोविन्द दामोदर माधवेति ॥ २५ ॥
प्रवाल-शोभाः इव दीर्घ-केशाः, वात-अम्बु-पर्ण-अशन-पूत-देहाः मुनयः, तरूणां मूले, गोविन्द दामोदर माधव इति पठन्ति ।

एवं ब्रुवाणा विरहातुरा भृशं
व्रजस्त्रियः कृष्णविषक्तमानसाः ।
विसृज्य लज्जां रुरुदुः स्म सुस्वरं
गोविन्द दामोदर माधवेति ॥ २६ ॥
एवं ब्रुवाणाः, भृशं विरह-आतुराः, कृष्ण-विषक्त-मानसाः, व्रजस्त्रियः, लज्जां विसृज्य, गोविन्द दामोदर माधव इति सुस्वरं रुरुदुः स्म । श्रीमद्भागवतपुराणम्,स्कन्धः १०,पूर्वार्धः,अध्यायः ३९- ३१

गोपी कदाचिन्मणिपिञ्जरस्थं
शुकं वचो वाचयितुं प्रवृत्ता ।
आनन्दकन्द व्रजचन्द्र कृष्ण
गोविन्द दामोदर माधवेति ॥ २७ ॥
कदाचित् गोपी मणि-पिञ्जर-स्थं शुकम्, आनन्द-कन्द व्रज-चन्द्र कृष्ण गोविन्द दामोदर माधव इति वचः वाचयितुं प्रवृत्ता ।

गोवत्सबालैः शिशुकाकपक्षं
बध्नन्तमम्भोजदलायताक्षम् ।
उवाच माता चिबुकं गृहीत्वा
गोविन्द दामोदर माधवेति ॥ २८ ॥
माता चिबुकं गृहीत्वा, गो-वत्स-बालैः शिशु-काक-पक्षं बध्नन्तम्, अम्भोज-दल-आयत-अक्षं, गोविन्द दामोदर माधव इति उवाच । [बालः = पुच्छः । काकपक्षः = मस्तकपार्श्व-केशरचना।]

प्रभातकाले वरवल्लवौघा
गोरक्षणार्थं धृतवेत्रदण्डाः ।
आकारयामासुरनन्तमाद्यं
गोविन्द दामोदर माधवेति ॥ २९ ॥
प्रभात-काले, गो-रक्षणार्थं धृत-वेत्र-दण्डाः, वर-वल्लव-ओघाः, अनन्तम् आद्यं, गोविन्द दामोदर माधव इति आकारयामासुः। [ओघाः = गणाः । आकारयामासुः = आङ्+डुकृञ् करणे, णिजन्त.,लिट्.]

जलाशये कालियमर्दनाय
यदा कदम्बादपतन्मुरारिः ।
गोपाङ्गनाश्चुक्रुशुरेत्य गोपा
गोविन्द दामोदर माधवेति ॥ ३० ॥
जलाशये कालिय-मर्दनाय यदा कदम्बात् मुरारिः अपतत् , गोप-अङ्गनाः गोपाः (च) एत्य, गोविन्द दामोदर माधव इति चुक्रुशुः । [चुक्रुशुः = क्रुशँ आह्वाने रोदने च, लिट्., प्र., बहु.]

अक्रूरमासाद्य यदा मुकुन्द-
श्चापोत्सवार्थं मथुरां प्रविष्टः ।
तदा स पौरैर्जयसीत्यभाषि
गोविन्द दामोदर माधवेति ॥ ३१ ॥
यदा मुकुन्दः, अक्रूरम् आसाद्य, चाप-उत्सवार्थं मथुरां प्रविष्टः, तदा सः पौरैः गोविन्द दामोदर माधव जयसि इति अभाषि । [अभाषि = भाषँ व्यक्तायां वाचि, भावकर्मणोः लुङ्., प्र., एक.]

कंसस्य दूतेन यदैव नीतौ
वृन्दावनान्ताद् वसुदेवसूनू ।
रुरोद गोपी भवनस्य मध्ये
गोविन्द दामोदर माधवेति ॥ ३२ ॥
यदा कंसस्य दूतेन वृन्दावन-अन्तात् वसुदेव-सूनू नीतौ, गोविन्द दामोदर माधव इति भवनस्य मध्ये एव गोपी रुरोद ।
[सूनू = सूनु शब्दः, प्र., द्वि.]

सरोवरे कालियनागबद्धं
शिशुं यशोदातनयं निशम्य ।
चक्रुर्लुठन्त्यः पथि गोपबाला
गोविन्द दामोदर माधवेति ॥ ३३ ॥
सरोवरे कालिय-नाग-बद्धं यशोदा-तनयं शिशुं निशम्य, पथि लुठन्त्यः गोप-बालाः, गोविन्द दामोदर माधव इति चक्रुः । [चक्रुः = डुकृञ् करणे, लिट्., प्र., बहु.]

अक्रूरयाने यदुवंशनाथं
सङ्गच्छमानं मथुरां निरीक्ष्य ।
ऊचुर्वियोगात्किल गोपबाला
गोविन्द दामोदर माधवेति ॥ ३४ ॥
अक्रूर-याने मथुरां सङ्गच्छमानं यदु-वंश-नाथं निरीक्ष्य, वियोगात् किल गोप-बालाः, गोविन्द दामोदर माधव इति ऊचुः । [ऊचुः = ब्रूञ् व्यक्तायां वाचि, लिट्., प्र., बहु.]

चक्रन्द गोपी नलिनीवनान्ते
कृष्णेन हीना कुसुमे शयाना ।
प्रफुल्लनीलोत्पललोचनाभ्यां
गोविन्द दामोदर माधवेति ॥ ३५ ॥
नलिनी-वन-अन्ते कृष्णेन हीना, कुसुमे शयाना, गोपी, गोविन्द दामोदर माधव इति प्रफुल्ल-नील-उत्पल-लोचनाभ्यां चक्रन्द । [चक्रन्द = क्रदिँ आह्वाने रोदने च, लिट्. । लोचनाभ्याम् = तृ.वि.]

मातापितृभ्यां परिवार्यमाणा
गेहं प्रविष्टा विललाप गोपी ।
आगत्य मां पालय विश्वनाथ
गोविन्द दामोदर माधवेति ॥ ३६ ॥
माता-पितृभ्यां परिवार्यमाणा, गेहं प्रविष्टा, गोपी, विश्व-नाथ गोविन्द दामोदर माधव, आगत्य मां पालय इति विललाप । [विललाप = वि+लपँ व्यक्तायां वाचि, लिट्.]

वृन्दावनस्थं हरिमाशु बुद्ध्वा
गोपी गता कापि वनं निशायाम् ।
तत्राप्यदृष्ट्वाऽतिभयादवोचद्
गोविन्द दामोदर माधवेति ॥ ३७ ॥
वृन्दावन-स्थं हरिं बुद्ध्वा, निशायाम् आशु वनं गता कापि गोपी, तत्र अपि अदृष्ट्वा, अतिभयात् गोविन्द दामोदर माधव इति अवोचत् । [अवोचत् = ब्रूञ् व्यक्तायां वाचि, लुङ्. । आशु = शीघ्रम् ]

सुखं शयाना निलये निजेऽपि
नामानि विष्णोः प्रवदन्ति मर्त्याः ।
ते निश्चितं तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ॥ ३८ ॥
निजे निलये, सुखं शयानाः अपि, मर्त्याः, (ये) गोविन्द दामोदर माधव इति विष्णोः नामानि प्रवदन्ति, ते तन्मयतां व्रजन्ति इति निश्चितम् । [व्रजन्ति = व्रजँ गतौ, लट्., प्र., बहु.]

सा नीरजाक्षीमवलोक्य राधां
रुरोद गोविन्दवियोगखिन्नाम् ।
सखी प्रफुल्लोत्पललोचनाभ्यां
गोविन्द दामोदर माधवेति ॥ ३९ ॥
सा सखी गोविन्द-वियोग-खिन्नां नीरज-अक्षीं राधाम् अवलोक्य, गोविन्द दामोदर माधव इति प्रफुल्ल-उत्पल-लोचनाभ्यां रुरोद ।

जिह्वे रसज्ञे मधुरप्रिया त्वं
सत्यं हितं त्वां परमं वदामि ।
आवर्णयेथा मधुराक्षराणि
गोविन्द दामोदर माधवेति ॥ ४० ॥
रसज्ञे जिह्वे ! त्वं मधुर-प्रिया (असि) । त्वां परमं हितं, सत्यं वदामि । गोविन्द दामोदर माधव इति मधुर-अक्षराणि (त्वम्) आवर्णयेथाः । [आवर्णयेथाः = आङ+वर्ण, विधिलिङ्., म., एक. ]

आत्यन्तिकव्याधिहरं जनानां
चिकित्सकं वेदविदो वदन्ति ।
संसारतापत्रयनाशबीजं
गोविन्द दामोदर माधवेति ॥ ४१ ॥
जनानाम् आत्यन्तिक-व्याधि-हरं चिकित्सकं संसार-ताप-त्रय-नाश-बीजं, वेद-विदः, गोविन्द दामोदर माधव इति वदन्ति । [आत्यन्तिकः = अत्यन्तस्य भावः]

ताताज्ञया गच्छति रामचन्द्रे
सलक्ष्मणेऽरण्यचये ससीते ।
चक्रन्द रामस्य निजा जनित्री
गोविन्द दामोदर माधवेति ॥ ४२ ॥
स-लक्ष्मणे स-सीते राम-चन्द्रे तात-आज्ञया अरण्यचये गच्छति (सति), रामस्य निजा जनित्री गोविन्द दामोदर माधव इति चक्रन्द । [चयः = समूहः]

एकाकिनी दण्डककाननान्तात्
सा नीयमाना दशकन्धरेण ।
सीता तदाक्रन्ददनन्यनाथा
गोविन्द दामोदर माधवेति ॥ ४३ ॥
दण्डक-कानन-अन्तात् दश-कन्धरेण नीयमाना, एकाकिनी, अनन्य-नाथा, सा सीता, तदा गोविन्द दामोदर माधव इति आक्रन्दत् । [आक्रन्दत् = आङ्+क्रदिँ आह्वाने रोदने च, लङ्.]

रामाद्वियुक्ता जनकात्मजा सा
विचिन्तयन्ती हृदि रामरूपम् ।
रुरोद सीता रघुनाथ पाहि
गोविन्द दामोदर माधवेति ॥ ४४ ॥
रामात् वियुक्ता जनक-आत्मजा, सा सीता, हृदि राम-रूपं विचिन्तयन्ती (सती), रघुनाथ गोविन्द दामोदर माधव, (त्वं मां) पाहि इति रुरोद ।

प्रसीद विष्णो रघुवंशनाथ
सुरासुराणां सुखदुःखहेतो ।
रुरोद सीता तु समुद्रमध्ये
गोविन्द दामोदर माधवेति ॥ ४५ ॥
समुद्र-मध्ये तु सीता, विष्णो, रघु-वंश-नाथ, सुर-असुराणां सुख-दुःख-हेतो, गोविन्द, दामोदर, माधव, (त्वं) प्रसीद इति रुरोद ।

अन्तर्जले ग्राहगृहीतपादो
विसृष्टविक्लिष्टसमस्तबन्धुः ।
तदा गजेन्द्रो नितरां जगाद
गोविन्द दामोदर माधवेति ॥ ४६ ॥
गजेन्द्रः अन्तर्-जले ग्राह-गृहीत-पादः (सन्), विसृष्ट-विक्लिष्ट-समस्त-बन्धुः (सन्), तदा गोविन्द दामोदर माधव इति नितरां जगाद । [जगाद = गदँ व्यक्तायां वाचि, लिट्. । विसृष्टः= निक्षिप्तः ।विक्लिष्टः=पीडितः]

हंसध्वजः शङ्खयुतो ददर्श
पुत्रं कटाहे प्रपतन्तमेनम् ।
पुण्यानि नामानि हरेर्जपन्तं
गोविन्द दामोदर माधवेति ॥ ४७ ॥
शङ्ख-युतः हंसध्वजः कटाहे प्रपतन्तं, गोविन्द दामोदर माधव इति हरेः पुण्यानि नामानि जपन्तम्, एनं पुत्रं ददर्श ।
*Hamsadhvaja’s son, Sudhanva, challenged Arjuna in the battle field, during Ashvamedhayagna, to see Shreekrishna in person, and loses his life in His presence.

दुर्वाससो वाक्यमुपेत्य कृष्णा
सा चाब्रवीत् काननवासिनीशम् ।
अन्तः प्रविष्टं मनसा जुहाव
गोविन्द दामोदर माधवेति ॥ ४८ ॥
दुर्वाससः वाक्यम् उपेत्य, कानन-वासिनी सा कृष्णा, अन्तः प्रविष्टम् ईशं, गोविन्द दामोदर माधव इति अब्रवीत्, मनसा जुहाव च ।

ध्येयः सदा योगिभिरप्रमेय-
श्चिन्ताहरश्चिन्तितपारिजातः ।
कस्तूरिकाकल्पितनीलवर्णो
गोविन्द दामोदर माधवेति ॥ ४९ ॥
चिन्ता-हरः, चिन्तित-पारिजातः, कस्तूरिका-कल्पित-नील-वर्णः, अप्रमेयः, गोविन्द दामोदर माधव इति सदा योगिभिः ध्येयः ।

संसारकूपे पतितोऽत्यगाधे
मोहान्धपूर्णे विषयाभितप्ते ।
करावलम्बं मम देहि विष्णो
गोविन्द दामोदर माधवेति ॥ ५० ॥
(अहं) विषय-अभितप्ते मोह-अन्ध-पूर्णे अति-अगाधे संसार-कूपे पतितः (अस्मि) । मम कर-अवलम्बं (त्वं) देहि । विष्णो गोविन्द दामोदर माधव !

त्वामेव याचे मम देहि जिह्वे
समागते दण्डधरे कृतान्ते ।
वक्तव्यमेवं मधुरं सुभक्त्या
गोविन्द दामोदर माधवेति ॥ ५१ ॥
जिह्वे ! (अहं) त्वाम् एव याचे । मम देहि । दण्डधरे कृतान्ते समागते (सति) गोविन्द दामोदर माधव इति एवं मधुरं सु-भक्त्या वक्तव्यम् ।

भजस्व मन्त्रं भवबन्धमुक्त्यै
जिह्वे रसज्ञे सुलभं मनोज्ञम् ।
द्वैपायनाद्यैर्मुनिभिः प्रजप्तं
गोविन्द दामोदर माधवेति ॥ ५२ ॥
रसज्ञे जिह्वे ! (त्वं) द्वैपायन-आदयैः मुनिभिः प्रजप्तं, सुलभं, मनोज्ञं, गोविन्द दामोदर माधव इति मन्त्रं, भव-बन्ध-मुक्त्यै भजस्व । [कृष्णद्वैपायनः = वेदव्यासः]

गोपाल वंशीधर रूपसिन्धो
लोकेश नारायण दीनबन्धो ।
उच्चस्वरैस्त्वं वद सर्वदैव
गोविन्द दामोदर माधवेति ॥ ५३ ॥
(जिह्वे !) त्वं, गोपाल वंशी-धर रूप-सिन्धो लोक-ईश नारायण दीन-बन्धो गोविन्द दामोदर माधव इति, उच्च-स्वरैः सर्वदा एव वद ।

जिह्वे सदैवं भज सुन्दराणि
नामानि कृष्णस्य मनोहराणि ।
समस्तभक्तार्तिविनाशनानि
गोविन्द दामोदर माधवेति ॥ ५४ ॥
जिह्वे ! (त्वं) गोविन्द दामोदर माधव इति एवं सुन्दराणि, मनोहराणि, समस्त-भक्त-आर्ति-विनाशनानि, कृष्णस्य नामानि, सदा भज ।

गोविन्द गोविन्द हरे मुरारे
गोविन्द गोविन्द मुकुन्द कृष्ण ।
गोविन्द गोविन्द रथाङ्गपाणे
गोविन्द दामोदर माधवेति ॥ ५५ ॥
(जिह्वे !) गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द मुकुन्द कृष्ण गोविन्द गोविन्द रथ-अङ्ग-पाणे गोविन्द दामोदर माधव इति (भज) ।

सुखावसाने त्विदमेव सारं
दुःखावसाने त्विदमेव गेयम् ।
देहावसाने त्विदमेव जाप्यं
गोविन्द दामोदर माधवेति ॥ ५६ ॥
गोविन्द दामोदर माधव इति इदम् एव सुख-अवसाने तु सारम् । दुःख-अवसाने तु इदम् एव गेयम् । देह-अवसाने तु इदम् एव जाप्यम् ।

दुर्वारवाक्यं परिगृह्य कृष्णा
मृगीव भीता तु कथं कथञ्चित् ।
सभां प्रविष्टा मनसा जुहाव
गोविन्द दामोदर माधवेति ॥ ५७ ॥
दुर्वार-वाक्यं परिगृह्य, मृगी इव भीता तु, कथञ्चित् सभां प्रविष्टा, कृष्णा, गोविन्द दामोदर माधव इति मनसा कथं जुहाव । [कृष्णा = द्रौपदी]

श्रीकृष्ण राधावर गोकुलेश
गोपाल गोवर्धननाथ विष्णो ।
जिह्वे पिब स्वामृतमेतदेव
गोविन्द दामोदर माधवेति ॥ ५८ ॥
जिह्वे ! श्रीकृष्ण राधा-वर गोकुल-ईश गोपाल गोवर्धन-नाथ विष्णो गोविन्द दामोदर माधव इति (नामानि त्वं) पिब । एतत् एव स्व-अमृतम् । [पिब = पा पाने, लोट्., म., एक.]

श्रीनाथ विश्वेश्वर विश्वमूर्ते
श्रीदेवकीनन्दन दैत्यशत्रो ।
जिह्वे पिब स्वामृतमेतदेव
गोविन्द दामोदर माधवेति ॥ ५९ ॥
जिह्वे ! श्रीनाथ विश्व-ईश्वर विश्व-मूर्ते श्री-देवकी-नन्दन दैत्य-शत्रो गोविन्द दामोदर माधव इति (नामानि) पिब । एतत् एव स्व-अमृतम् ।

गोपीपते कंसरिपो मुकुन्द
लक्ष्मीपते केशव वासुदेव ।
जिह्वे पिब स्वामृतमेतदेव
गोविन्द दामोदर माधवेति ॥ ६० ॥
जिह्वे ! गोपी-पते कंस-रिपो मुकुन्द लक्ष्मी-पते केशव वासुदेव गोविन्द दामोदर माधव इति (नामानि) पिब । एतत् एव स्व-अमृतम् ।

गोपीजनाह्लादकर व्रजेश
गोचारणारण्यकृतप्रवेश ।
जिह्वे पिब स्वामृतमेतदेव
गोविन्द दामोदर माधवेति ॥ ६१ ॥
जिह्वे ! गोपी-जन-आह्लाद-कर व्रज-ईश गो-चारण-अरण्य-कृत-प्रवेश गोविन्द दामोदर माधव इति (नामानि) पिब । एतत् एव स्व-अमृतम् ।

प्राणेश विश्वम्भर कैटभारे
वैकुण्ठनारायण चक्रपाणे ।
जिह्वे पिब स्वामृतमेतदेव
गोविन्द दामोदर माधवेति ॥ ६२ ॥
जिह्वे ! प्राण-ईश विश्वम्भर कैटभ-अरे वैकुण्ठ-नारायण चक्र-पाणे गोविन्द दामोदर माधव इति (नामानि) पिब । एतत् एव स्व-अमृतम् ।

हरे मुरारे मधुसूदनाद्य
श्रीराम सीतावर रावणारे ।
जिह्वे पिब स्वामृतमेतदेव
गोविन्द दामोदर माधवेति ॥ ६३ ॥
जिह्वे ! हरे मुरारे मधुसूदन आद्य श्रीराम सीता-वर रावण-अरे गोविन्द दामोदर माधव इति (नामानि) पिब । एतत् एव स्व-अमृतम् ।

श्रीयादवेन्द्राद्रिधराम्बुजाक्ष
गोगोपगोपीसुखदानदक्ष ।
जिह्वे पिब स्वामृतमेतदेव
गोविन्द दामोदर माधवेति ॥ ६४ ॥
जिह्वे ! श्री-यादव-इन्द्र अद्रि-धर अम्बुज-अक्ष गो-गोप-गोपी-सुख-दान-दक्ष गोविन्द दामोदर माधव इति (नामानि) पिब । एतत् एव स्व-अमृतम् ।

धराभरोत्तारणगोपवेष
विहारलीलाकृतबन्धुशेष ।
जिह्वे पिब स्वामृतमेतदेव
गोविन्द दामोदर माधवेति ॥ ६५ ॥
जिह्वे ! धरा-भर-उत्तारण-गोप-वेष विहार-लीला-कृत-बन्धु-शेष गोविन्द दामोदर माधव इति (नामानि) पिब । एतत् एव स्व-अमृतम् ।[धराभरः = भूभारः।कृतबन्धुशेषः = येन आदिशेषः बन्धुः कृतः]

बकीबकाघासुरधेनुकारे
केशीतृणावर्तविघातदक्ष ।
जिह्वे पिब स्वामृतमेतदेव
गोविन्द दामोदर माधवेति ॥ ६६ ॥
जिह्वे ! बकी-बक-अघासुर-धेनुक-अरे केशी-तृणावर्त-विघात-दक्ष गोविन्द दामोदर माधव इति (नामानि) पिब । एतत् एव स्व-अमृतम् ।

श्रीजानकीजीवन रामचन्द्र
निशाचरारे भरताग्रजेश ।
जिह्वे पिब स्वामृतमेतदेव
गोविन्द दामोदर माधवेति ॥ ६७ ॥
जिह्वे ! श्रीजानकी-जीवन राम-चन्द्र निशाचर-अरे भरत-अग्रज ईश गोविन्द दामोदर माधव इति (नामानि) पिब । एतत् एव स्व-अमृतम् ।

नारायणानन्त हरे नृसिंह
प्रह्लादबाधाहर हे कृपालो ।
जिह्वे पिब स्वामृतमेतदेव
गोविन्द दामोदर माधवेति ॥ ६८ ॥
जिह्वे ! हे नारायण अनन्त हरे नृसिंह प्रह्लाद-बाधा-हर कृपालो गोविन्द दामोदर माधव इति (नामानि) पिब । एतत् एव स्व-अमृतम् ।

लीलामनुष्याकृतिरामरूप
प्रतापदासीकृतसर्वभूप ।
जिह्वे पिब स्वामृतमेतदेव
गोविन्द दामोदर माधवेति ॥ ६९ ॥
जिह्वे ! लीला-मनुष्य-आकृति-राम-रूप प्रताप-दासी-कृत-सर्व-भूप गोविन्द दामोदर माधव इति (नामानि) पिब । एतत् एव स्व-अमृतम् ।

श्रीकृष्ण गोविन्द हरे मुरारे
हे नाथ नारायण वासुदेव ।
जिह्वे पिब स्वामृतमेतदेव
गोविन्द दामोदर माधवेति ॥ ७० ॥
जिह्वे ! हे श्रीकृष्ण गोविन्द हरे मुरारे नाथ नारायण वासुदेव गोविन्द दामोदर माधव इति (नामानि) पिब । एतत् एव स्व-अमृतम् ।

वक्तुं समर्थोऽपि न वक्ति कश्चि-
दहो जनानां व्यसनाभिमुख्यम् ।
जिह्वे पिब स्वामृतमेतदेव
गोविन्द दामोदर माधवेति ॥ ७१ ॥
वक्तुं समर्थः अपि कश्चित् न वक्ति । अहो ! जनानां व्यसन-आभिमुख्यम् । जिह्वे ! गोविन्द दामोदर माधव इति (नामानि) पिब । एतत् एव स्व-अमृतम् ।[आभिमुख्यम् = सम्मुखताम्]
इति श्रीबिल्वमङ्गलाचार्य-विरचितं श्रीगोविन्ददामोदर-स्तोत्रं सम्पूर्णम् ।

 

References

One thought on “Govinda Daamodara Stotram

Leave a comment