Vegaasetustotram

श्रीवेदान्तदेशिकैः विरचितम् – वेगासेतुस्तोत्रम्

Presented in Tamil by Dr. Sreeram Jaganathan

Recitation

http://www.sreeramanuja.org/

ஸ்ரீ வேதாந்த தேசிகரின்

வேகாஸேதுஸ்தோத்ரம்

வழங்குபவர்

Dr. ஸ்ரீராம் ஜகந்நாதன்

śrīvedāntadeśika’s vegāsetustotram

Explanation of Sanskrit Shlokas in Tamil – संस्कृतश्लोकपरिचयः

https://nivedita2015.wordpress.com/vegaasetustotram

एकं वेगवतीमध्ये हस्तिशैले च दृश्यते ।

उपायफलभावेन स्वयं व्यक्तं परं महः ॥ १ ॥

  • स्वयं व्यक्तं, परम्, एकं महः, वेगवती-मध्ये हस्ति-शैले च, उपाय-फल-भावेन दृश्यते ।

ईष्टे गमयितुं पार- मेष सेतुरभङ्गुरः ।

यत्र सारस्वतं स्रोतो विश्राम्यति विश‍ृङ्खलम् ॥ २ ॥

  • अभङ्गुरः एषः सेतुः, पारं गमयितुम् ईष्टे, यत्र विश‍ृङ्खलं सारस्वतं स्रोतः विश्राम्यति ।

जयति जगदेकसेतु- र्वेगवतीमध्यलक्षितो देवः ।

प्रशमयति यः प्रजानां प्रथितान् संसारजलधिकल्लोलान् ॥ ३ ॥

  • यः जगद्-एक-सेतुः प्रजानां प्रथितान् संसार-जलधि-कल्लोलान् प्रशमयति, सः वेगवती-मध्य-लक्षितः देवः जयति ।

विभातु मे चेतसि विष्णुसेतु- र्वेगापगावेगविघातहेतुः । अम्भोजयोनेर्यदुपज्ञमासी- दभङ्गरक्षा हयमेधदीक्षा ॥ ४ ॥

  • वेगा-आपगा-वेग-विघात-हेतुः विष्णु-सेतुः मे चेतसि विभातु, अम्भोज-योनेः हयमेध-दीक्षा यद्-उपज्ञम् अभङ्गरक्षा आसीत् ।

चतुराननसप्ततन्तुगोप्ता सरितं वेगवतीमसौ निरुन्धन् । परिपुष्यति मङ्गलानि पुंसां भगवान् भक्तिमतां यथोक्तकारी ॥ ५ ॥

  • वेगवतीं सरितं निरुन्धन्, चतुर्-आनन-सप्ततन्तु-गोप्ता, भक्तिमतां यथा-उक्त-कारी, असौ भगवान्, पुंसां मङ्गलानि परिपुष्यति ।

श्रीमान् पितामहवधूपरिचर्यमाणः शेते भुजङ्गशयने स महाभुजङ्गः ।

प्रत्यादिशन्ति भवसञ्चरणं प्रजानां भक्तानुगन्तुरिह यस्य गतागतानि ॥ ६ ॥

  • श्रीमान्, पितामह-वधू-परिचर्यमाणः, सः महाभुजङ्गः, इह भुजङ्ग-शयने शेते, भक्त-अनुगन्तुः यस्य गत-आगतानि, प्रजानां भव-सञ्चरणं प्रति-आदिशन्ति ।

प्रशमितहयमेधव्यापदं पद्मयोनेः श्रितजनपरतन्त्रं शेषभोगे शयानम् ।

शरणमुपगताः स्मः शान्तनिःशेषदोषं शतमखमणिसेतुं शाश्वतं वेगवत्याः ॥ ७ ॥

  • पद्मयोनेः प्रशमित-हयमेध-व्यापदं, श्रित-जन-परतन्त्रं, शान्त-निःशेष-दोषं, शेष-भोगे शयानं, वेगवत्याः शाश्वतं शतमख-मणि-सेतुं, शरणम् उपगताः स्मः ।

शरणमुपगतानां सोऽयमादेशकारी शमयति परितापं सम्मुखः सर्वजन्तोः । शतगुणपरिणामः सन्निधौ यस्य नित्यं वरवितरणभूमा वारणाद्रीश्वरस्य ॥ ८ ॥

  • शरणम् उपगतानाम् आदेश-कारी, सः अयं, सर्व-जन्तोः सम्मुखः, परितापं शमयति, यस्य सन्निधौ वारण-अद्रि-ईश्वरस्य वर-वितरण-भूमा नित्यं शत-गुण-परिणामः ।

काञ्चीभाग्यं कमलनिलयाचेतसोऽभीष्टसिद्विः कल्याणानां निधिरविकलः कोऽपि कारुण्यराशिः । पुण्यानां नः परिणतिरसौ भूषयन् भोगिशय्यां वेगासेतुर्जयति विपुलो विश्वरक्षैकहेतुः ॥ ९ ॥

  • काञ्चीभाग्यं, कमल-निलया-चेतसः अभीष्ट-सिद्विः, नः पुण्यानां परिणतिः, कल्याणानाम् अविकलः निधिः, कारुण्य-राशिः, विश्व-रक्षा-एक-हेतुः, कोऽपि विपुलः असौ वेगासेतुः, भोगिशय्यां भूषयन्, जयति ।

वेगासेतोरिदं स्तोत्रं वेकटेशेन निर्मितम् । ये पठन्ति जनास्तेषां यथोक्तं कुरुते हरिः ॥ १० ॥

  • वेकटेशेन निर्मितम्, इदं वेगासेतोः स्तोत्रं, ये जनाः पठन्ति, तेषां यथोक्तं हरिः कुरुते ।

References:

  1. https://sanskritdocuments.org/doc_vishhnu/haristotrambhaktechChApUrtikaram.html
  2. http://desikastotras.blogspot.com/2007/02/vegasethu-stotram.html
  3. https://www.prapatti.com/slokas/sanskrit/desika-stotramaala/vegaasetustotram.pdf
  4. https://en.wikipedia.org/wiki/Yathothkari_Perumal_Temple

Leave a comment