Bhagavad Gita – Chapter 6

श्रीमद्भगवद्गीता – षष्ठोध्यायः – आत्मसंयमयोगः

(Some updates are pending)

श्रीभगवानुवाच

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।

स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥ १ ॥

पदच्छेदः

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः सः सन्न्यासी च योगी च न निरग्निः न च अक्रियः ॥

अन्वयः

यः कर्मफलम् अनाश्रितः कार्यं कर्म करोति सः सन्न्यासी च योगी च (भवति) । निरग्निः न, अक्रियः च न भवति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = करोति
      • कर्मपदम् = कर्म
      • कर्मविशेषणम् = कार्यम्
      • वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= अनाश्रितः
        • कर्मपदम् = कर्मफलम्
      • “सः” वाक्यांश:
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = सन्न्यासी
        • कर्तृ-विशेषण-सूचक-पदम् = योगी
        • सम्योजकपदम् = च
        • कर्तृपदम् = सः
      • द्वितीयवाक्यम्
        • क्रियापदम् = (भवति)
        • क्रियाविशेषणम् = न
        • कर्तृपदम् = निरग्निः
      • तृतीयवाक्यम्
        • क्रियापदम् = (भवति)
        • क्रियाविशेषणम् = न
        • सम्योजकपदम् = च
        • कर्तृपदम् = अक्रियः

यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।

न ह्यसंन्यस्तसल्पो योगी भवति कश्चन ॥ २ ॥

पदच्छेदः

यं सन्न्यासम् इति प्राहुः योगं तं विद्धि पाण्डव न हि असंन्यस्तसल्पः योगी भवति कश्चन ॥

अन्वयः

पाण्डव ! यं सन्न्यासम् इति प्राहुः तं योगं विद्धि । असंन्यस्तसल्पः हि कश्चन योगी न भवति ।

पदपरिचय:

  • सम्बोधनपदम् = पाण्डव!
  • प्रथमवाक्यम्
    • “यम्” वाक्यांश:
      • क्रियापदम् = प्राहुः
      • कर्म-वाक्यांश:
        • कर्मविशेषण-सूचक-पदम् = सन्न्यासम्
        • कर्मविशेषण-सूचक-पदम् = यम्
        • सम्योजकपदम् = इति
      • “तम्” वाक्यांश:
        • क्रियापदम् = विद्धि
        • कर्मविशेषण-सूचक-पदम् = योगम्
        • कर्मपदम् = तम्
        • कर्तृपदम् = (त्वम्)
      • द्वितीयवाक्यम्
        • क्रियापदम् = भवति
        • क्रियाविशेषणम् = न
        • कर्तृ-विशेषण-सूचक-पदम् = योगी
        • कर्तृपदम् = कश्चन
        • कर्तृविशेषणम् = असंन्यस्तसल्पः
        • कर्तृ-विशेषण-सूचक-पदम् = हि

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।

योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३ ॥

पदच्छेदः

आरुरुक्षोः मुनेः योगं कर्म कारणम् उच्यते योगारूढस्य तस्य एव शमः कारणम् उच्यते ॥

अन्वयः

योगम् आरुरुक्षोः मुनेः कर्म कारणम् उच्यते । योगारूढस्य तस्य एव (कर्मसन्न्यासे) शमः कारणम् उच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते
    • (कर्मणि) कर्तृ-विशेषण-सूचक-पदम् = कारणम्
    • वाक्यांश:
      • (कर्मणि) कर्तृपदम् = कर्म
      • सम्बन्ध-पदम् = मुनेः
      • वाक्यांश:
        • क्रिया-गर्भ-सम्बन्ध-विशेषण-पदम् = आरुरुक्षोः
        • कर्मपदम् = योगम्
      • द्वितीयवाक्यम्
        • (कर्मणि) क्रियापदम् = उच्यते
        • (कर्मणि) कर्तृ-विशेषण-सूचक-पदम् = कारणम्
        • वाक्यांश:
          • (कर्मणि) कर्तृपदम् = शमः
          • सम्बन्ध-पदम् = योगारूढस्य
          • सम्बन्ध-विशेषण-पदम् = तस्य
          • सम्बन्ध-विशेषण-सूचक-पदम् = एव

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।

सर्वसल्पसन्न्यासी योगारूढस्तदोच्यते ॥ ४ ॥

पदच्छेदः

यदा हि न इन्द्रियार्थेषु न कर्मसु अनुषज्जते सर्वसल्पसन्न्यासी योगारूढः तदा उच्यते ॥

अन्वयः

यदा हि इन्द्रियार्थेषु न अनुषज्जते, कर्मसु (अपि) न, तदा सर्वसल्पसन्न्यासी योगारूढः उच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यदा” वाक्यांश:
      • क्रियापदम् = अनुषज्जते
      • क्रियाविशेषणम् = न
      • अधिकरणपदम् = इन्द्रियार्थेषु
      • कालवाचकपदम् = यदा
      • सम्योजकपदम् = हि
      • कर्तृपदम् = सर्वसल्पसन्न्यासी
    • “यदा” वाक्यांश:
      • क्रियापदम् = अनुषज्जते
      • क्रियाविशेषणम् = न
      • अधिकरणपदम् = कर्मसु
      • कर्तृपदम् = सर्वसल्पसन्न्यासी
      • कालवाचकपदम् = यदा
    • “तदा” वाक्यांश:
      • क्रियापदम् = उच्यते
      • कर्तृ-विशेषण-सूचक-पदम् = योगारूढः
      • कर्तृपदम् = सर्वसल्पसन्न्यासी
      • कालवाचकपदम् = तदा

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५ ॥

पदच्छेदः

उद्धरेत् आत्मना आत्मानं न आत्मानम् अवसादयेत् आत्मा एव हि आत्मनः बन्धुः आत्मा एव रिपुः आत्मनः ॥

अन्वयः

आत्मानम् आत्मना उद्धरेत् । आत्मानं न अवसादयेत् । आत्मा एव हि आत्मनः बन्धुः । आत्मा एव आत्मनः रिपुः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = उद्धरेत्
    • करणवाचकपदम् = आत्मना
    • कर्मपदम् = आत्मानम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = अवसादयेत्
    • क्रियाविशेषणम् = न
    • णिजन्त: – प्रयोज्यकर्ता = आत्मानम्
    • णिजन्त: – प्रयोजककर्ता = आत्मना
  • तृतीयवाक्यम्
    • क्रियापदम् = (भवति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = बन्धुः
      • सम्बन्ध-पदम् = आत्मनः
    • कर्तृपदम् = आत्मा
    • कर्तृ-विशेषण-सूचक-पदम् = एव
  • चतुर्थवाक्यम्
    • क्रियापदम् = (भवति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = रिपुः
      • सम्बन्ध-पदम् = आत्मनः
    • कर्तृपदम् = आत्मा
    • कर्तृ-विशेषण-सूचक-पदम् = एव

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।

अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥

पदच्छेदः

बन्धुः आत्मा आत्मनः तस्य येन आत्मा एव आत्मना जितः अनात्मनः तु शत्रुत्वे वर्तेत आत्मा एव शत्रुवत् ॥

अन्वयः

येन आत्मना आत्मा एव जितः तस्य आत्मनः आत्मा बन्धुः । अनात्मनः तु आत्मा एव शत्रुवत् शत्रुत्वे वर्तेत ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “येन” वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= जितः
      • कर्मपदम् = आत्मा
      • कर्मविशेषण-वाक्यांश: एव
      • करणवाचकपदम् = आत्मना
      • कर्तृपदम् = येन
    • “तस्य” वाक्यांश:
      • क्रिया-गर्भ-कर्मपदम्= बन्धुः
      • कर्मपदम् = आत्मा
      • सम्बन्ध-पदम् = तस्य
      • सम्बन्ध-विशेषण-पदम् = आत्मनः
    • द्वितीयवाक्यम्
      • क्रियापदम् = वर्तेत
      • अधिकरणपदम् = शत्रुत्वे
      • वाक्यांश:
        • कर्तृपदम् = आत्मा
        • सम्बन्ध-पदम् = अनात्मनः
      • कर्तृ-विशेषण-सूचक-पदम् = तु
      • कर्तृ-विशेषण-सूचक-पदम् = एव
      • कर्तृविशेषणम् = शत्रुवत्

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।

शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ७ ॥

पदच्छेदः

जितात्मनः प्रशान्तस्य परमात्मा समाहितः शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥

अन्वयः

शीतोष्णसुखदुःखेषु तथा मानापमानयोः प्रशान्तस्य जितात्मनः परमात्मा समाहितः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्तृपदम्= समाहितः
    • कर्तृपदम् = परमात्मा
    • सम्बन्ध-पदम् = जितात्मनः
    • सम्बन्ध-विशेषण-पदम् = प्रशान्तस्य
    • अधिकरणपदम् = शीतोष्णसुखदुःखेषु
    • अधिकरणपदम् = मानापमानयोः
    • अधिकरण-विशेषणम् = तथा

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।

युक्तइत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ ८ ॥

पदच्छेदः

ज्ञानविज्ञानतृप्तात्मा कूटस्थः विजितेन्द्रियः युक्तः इति उच्यते योगी समलोष्टाश्मकाञ्चनः ॥

अन्वयः

ज्ञानविज्ञानतृप्तात्मा कूटस्थः समलोष्टाश्मकाञ्चनः विजितेन्द्रियः युक्तः योगी इति उच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = योगी
    • (कर्मणि) कर्मपदम् = युक्तः
    • (कर्मणि) कर्मविशेषणम् = ज्ञानविज्ञानतृप्तात्मा
    • (कर्मणि) कर्मविशेषणम् = कूटस्थः
    • (कर्मणि) कर्मविशेषणम् = समलोष्टाश्मकाञ्चनः
    • (कर्मणि) कर्मविशेषणम् = विजितेन्द्रियः
    • सम्योजकपदम् = इति

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।

साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥

पदच्छेदः

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुषु अपि च पापेषु समबुद्धिः विशिष्यते ॥

अन्वयः

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुषु पापेषु अपि च समबुद्धिः विशिष्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विशिष्यते
    • कर्तृपदम् = समबुद्धिः
    • अधिकरणपदम् = सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु
    • अधिकरणपदम् = साधुषु
    • अधिकरणपदम् = पापेषु
    • अधिकरण-विशेषणम् = अपि
    • सम्योजकपदम् = च

योगी युञ्जीत सततमात्मानं रहसि स्थितः ।

एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ १० ॥

पदच्छेदः

योगी युञ्जीत सततम् आत्मानं रहसि स्थितः एकाकी यतचित्तात्मा निराशीः अपरिग्रहः ॥

अन्वयः

यतचित्तात्मा निराशीः अपरिग्रहः एकाकी योगी रहसि स्थितः सततम् आत्मानं युञ्जीत ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = युञ्जीत
    • कर्मपदम् = आत्मानम्
    • कालवाचकपदम् = सततम्
    • कर्तृपदम् = योगी
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= स्थितः
      • अधिकरणपदम् = रहसि
    • कर्तृविशेषणम् = यतचित्तात्मा
    • कर्तृविशेषणम् = निराशीः
    • कर्तृविशेषणम् = अपरिग्रहः
    • कर्तृविशेषणम् = एकाकी

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।

नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥

पदच्छेदः

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ तत्र एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्य आसने युञ्ज्यात् योगम् आत्मविशुद्धये ॥

अन्वयः

यतचित्तेन्द्रियक्रियः शुचौ देशे स्थिरं नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् आत्मनः आसनं प्रतिष्ठाप्य तत्र आसने उपविश्य मनः एकाग्रं कृत्वा आत्मविशुद्धये योगं युञ्ज्यात् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = युञ्ज्यात्
    • कर्मपदम् = योगम्
    • अधिकरणपदम् = आत्मविशुद्धये
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = प्रतिष्ठाप्य
      • वाक्यांश:
        • कर्मपदम् = आसनम्
        • सम्बन्ध-पदम् = आत्मनः
      • कर्मविशेषणम् = स्थिरम्
      • कर्मविशेषणम् = नात्युच्छ्रितम्
      • कर्मविशेषणम् = नातिनीचम्
      • कर्मविशेषणम् = चैलाजिनकुशोत्तरम्
      • अधिकरणपदम् = देशे
      • अधिकरण-विशेषणम् = शुचौ
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = उपविश्य
      • अधिकरणपदम् = तत्र
      • अधिकरण-विशेषणम् = आसने
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = कृत्वा
      • क्रिया-गर्भ-कर्मपदम्= एकाग्रम्
      • सम्बन्ध-पदम् = मनः
    • कर्तृपदम् = यतचित्तेन्द्रियक्रियः

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।

सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥

प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः ।

मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ १४ ॥

पदच्छेदः

समं कायशिरोग्रीवं धारयन् अचलं स्थिरः सम्प्रेक्ष्य नासिकाग्रं स्वं दिशः च अनवलोकयन् ॥ प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः मनः संयम्य मच्चित्तः युक्तः आसीत मत्परः ॥

अन्वयः

कायशिरोग्रीवं समम् अचलं धारयन् स्थिरः भूत्वा स्वं नासिकाग्रं सम्प्रेक्ष्य दिशः च अनवलोकयन् प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः सन् मनः संयम्य मच्चित्तः मत्परः युक्तः आसीत ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = आसीत
    • कर्तृपदम् = युक्तः
    • कर्तृविशेषणम् = मच्चित्तः
    • कर्तृविशेषणम् = मत्परः
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= धारयन्
      • क्रियाविशेषणम् = अचलम्
      • क्रियाविशेषणम् = समम्
      • कर्मपदम् = कायशिरोग्रीवम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = भूत्वा
      • कर्तृ-विशेषण-सूचक-पदम् = स्थिरः
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = सम्प्रेक्ष्य
      • कर्मपदम् = नासिकाग्रम्
      • कर्मविशेषणम् = स्वम्
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= अनवलोकयन्
      • कर्मपदम् = दिशः
      • सम्योजकपदम् = च
    • कर्तृविशेषणम् = प्रशान्तात्मा
    • कर्तृविशेषणम् = अनवलोकयन्
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= स्थितः
      • अधिकरणपदम् = ब्रह्मचारिव्रते
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = संयम्य
      • कर्मपदम् = मनः

युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।

शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५ ॥

पदच्छेदः

युञ्जन् एवं सदा आत्मानं योगी नियतमानसः शान्तिं निर्वाणपरमां मत्संस्थाम् अधिगच्छति ॥

अन्वयः

नियतमानसः योगी एवं सदा आत्मानं युञ्जन् निर्वाणपरमां मत्संस्थां शान्तिम् अधिगच्छति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अधिगच्छति
    • कर्मपदम् = शान्तिम्
    • कर्मविशेषणम् = निर्वाणपरमाम्
    • कर्मविशेषणम् = मत्संस्थाम्
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= युञ्जन्
      • क्रियाविशेषणम् = एवम्
      • कर्मपदम् = आत्मानम्
      • कालवाचकपदम् = सदा
    • कर्तृपदम् = योगी
    • कर्तृविशेषणम् = नियतमानसः

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।

न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १६ ॥

पदच्छेदः

नात्यश्नतः तु योगः अस्ति न च एकान्तम् अनश्नतः न च अतिस्वप्नशीलस्य जाग्रतः न एव च अर्जुन ॥

अन्वयः

अर्जुन  ! अत्यश्नतः तु योगः न अस्ति । एकान्तम् अनश्नतः च न । अतिस्वप्नशीलस्य च न । जाग्रतः च न एव ।

पदपरिचय:

  • सम्बोधनपदम् = अर्जुन
  • प्रथमवाक्यम्
    • क्रियापदम् = अस्ति
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = योगः
    • सम्बन्ध-पदम् = अत्यश्नतः
    • सम्बन्ध-विशेषण-पदम् = तु
  • द्वितीयवाक्यम्
    • क्रियापदम् = अस्ति
    • क्रियाविशेषणम् = च
    • कर्तृपदम् = योगः
    • क्रिया-गर्भ-सम्बन्ध-पदम् = अनश्नतः
    • क्रियाविशेषणम् = एकान्तम्
  • तृतीयवाक्यम्
    • क्रियापदम् = अस्ति
    • क्रियाविशेषणम् = न
    • सम्बन्ध-पदम् = अतिस्वप्नशीलस्य
    • सम्योजकपदम् = च
    • कर्तृपदम् = योगः
  • चतुर्थवाक्यम्
    • क्रियापदम् = अस्ति
    • क्रियाविशेषणम् = न
    • सम्बन्ध-पदम् = जाग्रतः
    • सम्बन्ध-विशेषण-पदम् = एव
    • सम्योजकपदम् = च

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।

युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १७ ॥

पदच्छेदः

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगः भवति दुःखहा ॥

अन्वयः

युक्ताहारविहारस्य कर्मसु युक्तचेष्टस्य युक्तस्वप्नावबोधस्य योगः दुःखहा भवति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = भवति
    • कर्तृ-विशेषण-सूचक-पदम् = दुःखहा
    • कर्तृपदम् = योगः
    • सम्बन्ध-पदम् = युक्ताहारविहारस्य
    • सम्बन्ध-पदम् = युक्तस्वप्नावबोधस्य
    • वाक्यांश:
      • क्रिया-गर्भ-सम्बन्ध-पदम् = युक्तचेष्टस्य
      • अधिकरणपदम् = कर्मसु

यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।

निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥

पदच्छेदः

यदा विनियतं चित्तम् आत्मनि एव अवतिष्ठते निःस्पृहः सर्वकामेभ्यः युक्तः इति उच्यते तदा ॥

अन्वयः

यदा विनियतं चित्तम् आत्मनि एव अवतिष्ठते सर्वकामेभ्यः निःस्पृहः तदा युक्तः इति उच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यदा” वाक्यांश:
      • क्रियापदम् = अवतिष्ठते
      • अधिकरणपदम् = आत्मनि
      • अधिकरण-विशेषणम् = एव
      • कर्मपदम् = चित्तम्
      • कर्मविशेषणम् = विनियतम्
      • कालवाचकपदम् = यदा
    • “तदा” वाक्यांश:
      • (कर्मणि) क्रियापदम् = उच्यते
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = युक्तः
      • वाक्यांश:
        • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= निःस्पृहः
        • अपादानपदम् = सर्वकामेभ्यः
      • सम्योजकपदम् = इति

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।

योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ १९ ॥

पदच्छेदः

यथा दीपः निवातस्थः नेङ्गते सोपमा स्मृता योगिनः यतचित्तस्य युञ्जतः योगम् आत्मनः ॥

अन्वयः

यथा निवातस्थः दीपः न इङ्गते सा उपमा आत्मनः योगं युञ्जतः यतचित्तस्य योगिनः स्मृता ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यथा” वाक्यांश:
      • क्रियापदम् = इङ्गते
      • क्रियाविशेषणम् = न
      • क्रियाविशेषणम् = यथा
      • कर्तृपदम् = दीपः
      • कर्तृविशेषणम् = निवातस्थः
    • “सा” वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = स्मृता
      • अधिकरणपदम् = (विषये)
      • सम्बन्ध-पदम् = योगिनः
      • सम्बन्ध-विशेषण-पदम् = यतचित्तस्य
      • सम्बन्ध-विशेषण-वाक्यांश:
        • क्रिया-गर्भ-सम्बन्ध-पदम् = युञ्जतः
        • वाक्यांश:
          • कर्मपदम् = योगम्
          • सम्बन्ध-पदम् = आत्मनः
        • कर्तृपदम् = उपमा
        • कर्तृविशेषणम् = सा

यत्रोपरमते चित्तं निरुद्धं योगसेवया ।

यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥

पदच्छेदः

यत्र उपरमते चित्तं निरुद्धं योगसेवया यत्र च एव आत्मना आत्मानं पश्यन् न आत्मनि तुष्यति ॥

अन्वयः

यत्र योगसेवया निरुद्धं चित्तम् उपरमते, यत्र च एव आत्मना आत्मानं पश्यन् आत्मनि तुष्यति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • वाक्यांश: यत्र
    • “यत्र” वाक्यांश:
      • क्रियापदम् = उपरमते
      • कर्मपदम् = चित्तम्
      • कर्मविशेषणम् = निरुद्धम्
      • करणवाचकपदम् = योगसेवया
      • स्थानवाचकपदम् = यत्र
    • “यत्र” वाक्यांश:
      • क्रियापदम् = तुष्यति
      • अधिकरणपदम् = आत्मनि
      • कर्तृपदम् = (सः)
      • कर्तृ-विशेषण-वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= पश्यन्
        • कर्मपदम् = आत्मानम्
        • करणवाचकपदम् = आत्मना
      • अधिकरणपदम् = यत्र
      • अधिकरण-विशेषणम् = एव
      • सम्योजकपदम् = च

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।

वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ २१ ॥

पदच्छेदः

सुखम् आत्यन्तिकं यत् तत् बुद्धिग्राह्यम् अतीन्द्रियम् वेत्ति यत्र न च एव अयं स्थितः चलति तत्त्वतः ॥

अन्वयः

यत्र यत् तत् बुद्धिग्राह्यम् अतीन्द्रियम् आत्यन्तिकं सुखं वेत्ति, यत्र च स्थितः अयं तत्त्वतः न एव चलति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यत्र” वाक्यांश:
      • क्रियापदम् = वेत्ति
      • कर्मपदम् = सुखम्
      • कर्मविशेषणम् = यत्
      • कर्मविशेषणम् = बुद्धिग्राह्यम्
      • कर्मविशेषणम् = अतीन्द्रियम्
      • कर्मविशेषणम् = आत्यन्तिकम्
      • कर्मविशेषणम् = तत्
      • कर्तृपदम् = (त्वम्)
      • स्थानवाचकपदम् = यत्र
    • “यत्र” वाक्यांश:
      • क्रियापदम् = चलति
      • क्रियाविशेषणम् = न
      • क्रियाविशेषणम् = एव
      • क्रियाविशेषणम् = तत्त्वतः
      • कर्तृपदम् = अयम्
      • कर्तृविशेषणम् = स्थितः
      • स्थानवाचकपदम् = यत्र
      • सम्योजकपदम् = च

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।

यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ २२ ॥

पदच्छेदः

यं लब्ध्वा च अपरं लाभं मन्यते न अधिकं ततः यस्मिन् स्थितः न दुःखेन गुरुणा अपि विचाल्यते ॥

अन्वयः

यं च लब्ध्वा ततः अधिकम् अपरं लाभं न मन्यते, यस्मिन् स्थितः गुरुणा दुःखेन अपि न विचाल्यते (तं योगसंज्ञितं विद्यात् ।)

पदपरिचय:

  • प्रथमवाक्यम्
    • “यम्” वाक्यांश:
      • क्रियापदम् = मन्यते
      • क्रियाविशेषणम् = न
      • कर्मपदम् = लाभम्
      • कर्मविशेषणम् = अपरम्
      • वाक्यांश:
        • कर्मविशेषणम् = अधिकम्
        • अपादानपदम् = ततः
      • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = लब्ध्वा
      • कर्मपदम् = यम्
      • सम्योजकपदम् = च
    • “यस्मिन्” वाक्यांश:
      • क्रियापदम् = विचाल्यते
      • क्रियाविशेषणम् = न
      • करणवाचकपदम् = दुःखेन
      • करणविशेषणम् = अपि
      • करणविशेषणम् = गुरुणा
      • वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= स्थितः
        • अधिकरणपदम् = यस्मिन्
      • (तम्) वाक्यांश:
        • क्रियापदम् = (विद्यात्)
        • कर्मपदम् = (योगसंज्ञितम्)
        • कर्मविशेषणम् = (तम्)

तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् ।

स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ २३ ॥

पदच्छेदः

तं विद्यात् दुःखसंयोगवियोगं योगसंज्ञितम् सः निश्चयेन योक्तव्यः योगः अनिर्विण्णचेतसा ॥

अन्वयः

तं दुःखसंयोगवियोगं योगसंज्ञितं विद्यात् । सः योगः अनिर्विण्णचेतसा निश्चयेन योक्तव्यः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विद्यात्
    • कर्मपदम् = योगसंज्ञितम्
    • कर्मविशेषणम् = दुःखसंयोगवियोगम्
    • कर्मविशेषणम् = तम्
  • द्वितीयवाक्यम्
    • क्रिया-गर्भ-कर्मपदम्= योक्तव्यः
    • कर्मपदम् = योगः
    • कर्मविशेषणम् = सः
    • करणवाचकपदम् = निश्चयेन
    • कर्तृपदम् = अनिर्विण्णचेतसा

सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।

मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ २४ ॥

शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।

आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ २५ ॥

पदच्छेदः

सङ्कल्पप्रभवान् कामान् त्यक्त्वा सर्वान् अशेषतः मनसा एव इन्द्रियग्रामं विनियम्य समन्ततः ॥ शनैः शनैः उपरमेत् बुद्ध्या धृतिगृहीतया आत्मसंस्थं मनः कृत्वा न किञ्चित् अपि चिन्तयेत् ॥

अन्वयः

सङ्कल्पप्रभवान् सर्वान् कामान् अशेषतः त्यक्त्वा, मनसा एव समन्ततः इन्द्रियग्रामं विनियम्य,धृतिगृहीतया बुद्ध्या शनैः शनैः उपरमेत् । मनः आत्मसंस्थं कृत्वा किञ्चित् अपि न चिन्तयेत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = उपरमेत्
    • क्रियाविशेषणम् = शनैः
    • करणवाचकपदम् = बुद्ध्या
    • करणविशेषणम् = धृतिगृहीतया
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = त्यक्त्वा
      • क्रियाविशेषणम् = अशेषतः
      • कर्मपदम् = कामान्
      • कर्मविशेषणम् = सर्वान्
      • कर्मविशेषणम् = सङ्कल्पप्रभवान्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = विनियम्य
      • क्रियाविशेषणम् = समन्ततः
      • ल्यबन्त-वाक्यांश: इन्द्रियग्रामम्
      • करणवाचकपदम् = मनसा
      • करणविशेषणम् = एव
    • द्वितीयवाक्यम्
      • क्रियापदम् = चिन्तयेत्
      • क्रियाविशेषणम् = न
      • कर्मपदम् = किञ्चित्
      • कर्मविशेषण-सूचक-पदम् = अपि
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = कृत्वा
        • कर्मविशेषण-सूचक-पदम् = आत्मसंस्थम्
        • कर्मपदम् = मनः

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।

ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥

पदच्छेदः

यतः यतः निश्चरति मनः चञ्चलम् अस्थिरम् ततः ततः नियम्य एतत् आत्मनि एव वशं नयेत् ॥

अन्वयः

चञ्चलम् अस्थिरं मनः यतः यतः निश्चरति ततः ततः एतत् नियम्य आत्मनि एव वशं नयेत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यतः” वाक्यांश:
      • क्रियापदम् = निश्चरति
      • अपादानपदम् = यतः
      • कर्तृपदम् = मनः
      • कर्तृविशेषणम् = अस्थिरम्
    • “ततः” वाक्यांश:
      • क्रियापदम् = नयेत्
      • कर्मपदम् = वशम्
      • अधिकरणपदम् = आत्मनि
      • अधिकरण-विशेषणम् = एव
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = नियम्य
        • कर्मपदम् = एतत्
        • अपादानपदम् = ततः

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।

उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥

पदच्छेदः

प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमम् उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम् ॥

अन्वयः

प्रशान्तमनसं हि शान्तरजसम् अकल्मषं ब्रह्मभूतम् एनं योगिनम् उत्तमं सुखम् उपैति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = उपैति
    • कर्मपदम् = योगिनम्
    • कर्मविशेषणम् = एनम्
    • कर्मविशेषणम् = प्रशान्तमनसम्
    • कर्मविशेषण-सूचक-पदम् = हि
    • कर्मविशेषणम् = शान्तरजसम्
    • कर्मविशेषणम् = अकल्मषम्
    • कर्मविशेषणम् = ब्रह्मभूतम्
    • कर्तृपदम् = सुखम्
    • कर्तृविशेषणम् = उत्तमम्

युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।

सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥

पदच्छेदः

युञ्जन् एवं सदा आत्मानं योगी विगतकल्मषः सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥

अन्वयः

विगतकल्मषः योगी एवम् आत्मानं सदा युञ्जन् सुखेन अत्यन्तं सुखं ब्रह्मसंस्पर्शम् अश्नुते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अश्नुते
    • कर्मपदम् = ब्रह्मसंस्पर्शम्
    • कर्मविशेषण-वाक्यांश:
      • कर्मपदम् = सुखम्
      • कर्मविशेषणम् = अत्यन्तम्
    • करणवाचकपदम् = सुखेन
    • कर्तृपदम् = योगी
    • कर्तृविशेषणम् = विगतकल्मषः
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = युञ्जन्
      • क्रियाविशेषणम् = एवम्
      • कालवाचकपदम् = सदा
      • कर्मपदम् = आत्मानम्

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ २९ ॥

पदच्छेदः

सर्वभूतस्थम् आत्मानं सर्वभूतानि च आत्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥

अन्वयः

योगयुक्तात्मा सर्वत्र समदर्शनः आत्मानम् सर्वभूतस्थम् आत्मनि च सर्वभूतानि ईक्षते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = ईक्षते
    • वाक्यांश:
      • कर्मविशेषण-सूचक-पदम् = सर्वभूतस्थम्
      • कर्मपदम् = आत्मानम्
    • वाक्यांश:
      • कर्मपदम् = सर्वभूतानि
      • अधिकरणपदम् = आत्मनि
      • सम्योजकपदम् = च
    • कर्तृपदम् = योगयुक्तात्मा
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= समदर्शनः
      • अधिकरणपदम् = सर्वत्र

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ३० ॥

पदच्छेदः

यः मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्य अहं न प्रणश्यामि सः च मे न प्रणश्यति ॥

अन्वयः

यः मां सर्वत्र पश्यति सर्वं च मयि पश्यति, तस्य अहं न प्रणश्यामि सः च मे न प्रणश्यति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = पश्यति
      • कर्मपदम् = माम्
      • स्थानवाचकपदम् = सर्वत्र
      • कर्तृपदम् = यः
    • “यः” वाक्यांश:
      • क्रियापदम् = पश्यति
      • कर्मपदम् = सर्वम्
      • अधिकरणपदम् = मयि
      • सम्योजकपदम् = च
      • कर्तृपदम् = यः
    • “तस्य” वाक्यांश:
      • वाक्यांश:
        • क्रियापदम् = प्रणश्यामि
        • क्रियाविशेषणम् = न
        • सम्बन्ध-पदम् = तस्य
      • कर्तृपदम् = अहम्
    • द्वितीयवाक्यम्
      • वाक्यांश:
        • क्रियापदम् = प्रणश्यति
        • क्रियाविशेषणम् = न
        • सम्बन्ध-पदम् = मे
      • कर्तृपदम् = सः

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ३१ ॥

पदच्छेदः

सर्वभूतस्थितं यः मां भजति एकत्वम् आस्थितः सर्वथा वर्तमानः अपि सः योगी मयि वर्तते ॥

अन्वयः

एकत्वम् आस्थितः यः सर्वभूतस्थितं मां भजति, सः योगी सर्वथा वर्तमानः अपि मयि वर्तते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = भजति
      • कर्मपदम् = माम्
      • कर्मविशेषणम् = सर्वभूतस्थितम्
      • कर्तृपदम् = यः
      • कर्तृ-विशेषण-वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= आस्थितः
        • कर्मपदम् = एकत्वम्
      • “सः” वाक्यांश:
        • क्रियापदम् = वर्तते
        • अधिकरणपदम् = मयि
        • कर्तृपदम् = सः
        • कर्तृविशेषणम् = योगी
        • कर्तृ-विशेषण-वाक्यांश:
          • क्रिया-गर्भ-कर्तृपदम्= वर्तमानः
          • क्रियाविशेषणम् = सर्वथा
          • कर्तृ-विशेषण-सूचक-पदम् = अपि

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।

सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ३२ ॥

पदच्छेदः

आत्मौपम्येन सर्वत्र समं पश्यति योः अर्जुन सुखं वा यदि वा दुःखं सः योगी परमः मतः ॥

अन्वयः

अर्जुन ! (तस्मात्) सुखं (भवतु) यदि वा (तस्मात्) दुःखं (तथापि) यः आत्मौपम्येन सर्वत्र समं पश्यति सः परमः योगी मतः ।

पदपरिचय:

  • सम्बोधनपदम् = अर्जुन!
  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = पश्यति
      • कर्मपदम् = समम्
      • स्थानवाचकपदम् = सर्वत्र
      • करणवाचकपदम् = आत्मौपम्येन
      • कर्तृपदम् = यः
      • कालवाचक-वाक्यांश:
        • क्रियापदम् = (भवतु)
        • कर्तृपदम् = सुखम्
        • कर्तृपदम् = दुःखम्
        • सम्योजकपदम् = यदि
        • सम्योजकपदम् = वा
      • “सः” वाक्यांश:
        • वाक्यांश:
          • क्रिया-गर्भ-कर्तृपदम्= मतः
          • कर्तृ-विशेषण-सूचक-पदम् = परमः
          • कर्तृ-विशेषण-सूचक-पदम् = योगी
        • कर्तृपदम् = सः

अर्जुन उवाच –

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।

एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ३३ ॥

पदच्छेदः

य अयं योगः त्वया प्रोक्तः साम्येन मधुसूदन एतस्यहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥

अन्वयः

मधुसूदन ! यः अयं योगः त्वया साम्येन प्रोक्तः मनसः चञ्चलत्वात् एतस्य स्थिरां स्थितिं अहं न पश्यामि ।

पदपरिचय:

  • सम्बोधनपदम् = मधुसूदन!
  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रिया-गर्भ-कर्मपदम्= प्रोक्तः
      • करणवाचकपदम् = साम्येन
      • कर्मपदम् = योगः
      • कर्मविशेषणम् = अयम्
      • कर्मविशेषणम् = यः
      • कर्तृपदम् = त्वया
    • “एतस्य” वाक्यांश:
      • क्रियापदम् = पश्यामि
      • क्रियाविशेषणम् = न
      • वाक्यांश:
        • कर्मपदम् = स्थितिम्
        • कर्मविशेषणम् = स्थिराम्
        • सम्बन्ध-पदम् = एतस्य
      • वाक्यांश:
        • कारणवाचकपदम् = चञ्चलत्वात्
        • सम्बन्ध-पदम् = मनसः
      • कर्तृपदम् = अहम्

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।

तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥

पदच्छेदः

चञ्चलं हि मनः कृष्ण प्रमाथि बलवत् दृढम् तस्य अहं निग्रहं मन्ये वायोः इव सुदुष्करम् ॥

अन्वयः

कृष्ण ! मनः हि चञ्चलं बलवत् दृढं प्रमाथि । अहं तस्य निग्रहं वायोः इव सुदुष्करं मन्ये ।

पदपरिचय:

  • सम्बोधनपदम् = कृष्ण!
  • प्रथमवाक्यम्
    • क्रियाविशेषणम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = चञ्चलम्
    • कर्तृ-विशेषण-सूचक-पदम् = बलवत्
    • कर्तृ-विशेषण-सूचक-पदम् = दृढम्
    • कर्तृ-विशेषण-सूचक-पदम् = प्रमाथि
    • कर्तृपदम् = मनः
    • कर्तृ-विशेषण-सूचक-पदम् = हि
  • द्वितीयवाक्यम्
    • क्रियाविशेषणम् = मन्ये
    • वाक्यांश:
      • कर्मपदम् = निग्रहम्
      • सम्बन्ध-पदम् = तस्य
    • वाक्यांश:
      • कर्मविशेषण-सूचक-पदम् = सुदुष्करम्
      • वाक्यांश:
        • कर्मपदम् = निग्रहम्
        • सम्बन्ध-पदम् = वायोः
        • सम्योजकपदम् = इव
      • कर्तृपदम् = अहम्

श्रीभगवान् उवाच –

असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥

पदच्छेदः

असंशयं महाबाहो मनः दुर्निग्रहं चलम् अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥

अन्वयः

महाबाहो ! असंशयम् मनः दुर्निग्रहं चलम् । कौन्तेय ! अभ्यासेन तु वैराग्येण च गृह्यते ।

पदपरिचय:

  • सम्बोधनपदम् = महाबाहो!
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • क्रियाविशेषणम् = असंशयम्
    • कर्तृ-विशेषण-सूचक-पदम् = चलम्
    • कर्तृ-विशेषण-सूचक-पदम् = दुर्निग्रहम्
    • कर्तृपदम् = मनः
  • सम्बोधनपदम् = कौन्तेय!
  • द्वितीयवाक्यम्
    • (कर्मणि) क्रियापदम् = गृह्यते
    • (कर्मणि) कर्मपदम् = मनः
    • (कर्मणि) कर्तृपदम् = अभ्यासेन
    • (कर्मणि) कर्तृपदम् = वैराग्येण
    • (कर्मणि) कर्तृ-विशेषण-सूचक-पदम् = तु
    • सम्योजकपदम् = च

असंयतात्मना योगो दुष्प्राप इति मे मतिः ।

वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ३६ ॥

पदच्छेदः

असंयतात्मना योगः दुष्प्रापः इति मे मतिः वश्यात्मना तु यतता शक्यः अवाप्तुम् उपायतः ॥

अन्वयः

असंयतात्मना योगः दुष्प्रापः इति मे मतिः । यतता वश्यात्मना तु उपायतः अवाप्तुं शक्यः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • वाक्यांश:
      • कर्तृपदम् = मतिः
      • सम्बन्ध-पदम् = मे
    • कर्म-वाक्यम्
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= दुष्प्रापः
      • (कर्मणि) कर्मपदम् = योगः
      • (कर्मणि) कर्तृपदम् = असंयतात्मना
      • सम्योजकपदम् = इति
    • द्वितीयवाक्यम्
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= शक्यः
      • वाक्यांश:
        • तुमुनन्तपदम् = अवाप्तुम्
        • क्रियाविशेषणम् = उपायतः
      • (कर्मणि) कर्तृपदम् = वश्यात्मना
      • (कर्मणि) कर्तृविशेषणम् = यतता
      • (कर्मणि) कर्तृ-विशेषण-सूचक-पदम् = तु

अर्जुन उवाच –

अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।

अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ३७ ॥

पदच्छेदः

अयतिः श्रद्धया उपेतः योगात् चलितमानसः अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥

अन्वयः

कृष्ण ! श्रद्धया उपेतः अयतिः योगात् चलितमानसः योगसंसिद्धिम् अप्राप्य कां गतिं गच्छति ?

पदपरिचय:

  • सम्बोधनपदम् = कृष्ण!
  • प्रथमवाक्यम्
    • क्रियापदम् = गच्छति
    • कर्मपदम् = गतिम्
    • प्रश्नवाचक-कर्म-पदम् = काम्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = अप्राप्य
      • कर्मपदम् = योगसंसिद्धिम्
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= चलितमानसः
      • अपादानपदम् = योगात्
    • कर्तृपदम् = अयतिः
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = उपेतः
      • करणवाचकपदम् = श्रद्धया

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।

अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ३८ ॥

पदच्छेदः

कच्चिन् न भयविभ्रष्टः छिन्नाभ्रम् इव नश्यति अप्रतिष्ठः महाबाहो विमूढः ब्रह्मणः पथि ॥

अन्वयः

महाबाहो ! उभयविभ्रष्टः अप्रतिः ब्रह्मणः पथि विमूढः छिन्नाभ्रमिव न नश्यति कच्चित् ।

पदपरिचय:

  • सम्बोधनपदम् = महाबाहो!
  • प्रथमवाक्यम्
    • क्रियापदम् = नश्यति
    • क्रियाविशेषणम् = न
    • प्रश्नवाचक-कर्तृ-पदम् = कच्चित्
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = छिन्नाभ्रम्
      • सम्योजकपदम् = इव
    • वाक्यांश:
      • कर्तृपदम् = विमूढः
      • वाक्यांश:
        • अधिकरणपदम् = पथि
        • सम्बन्ध-पदम् = ब्रह्मणः
      • कर्तृपदम् = उभयविभ्रष्टः

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।

त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ ३९ ॥

पदच्छेदः

एतत् मे संशयं कृष्ण छेत्तुम् अर्हस्य अशेषतः त्वदन्यः संशयस्य अस्य छेत्ता न हि उपपद्यते ॥

अन्वयः

कृष्ण ! एतत् मे संशयम् अशेषतः छेत्तुम् अर्हसि । त्वदन्यः हि अस्य संशयस्य छेत्ता न उपपद्यते ।

पदपरिचय:

  • सम्बोधनपदम् = कृष्ण!
  • प्रथमवाक्यम्
    • वाक्यांश:
      • क्रियापदम् = अर्हसि
      • क्रियाविशेषणम् = अशेषतः
      • तुमुनन्तपदम् = छेत्तुम्
    • वाक्यांश:
      • कर्मपदम् = अशेषतः
      • सम्बन्ध-पदम् = मे
    • कर्मविशेषणम् = एतत्
  • द्वितीयवाक्यम्
    • क्रियापदम् = उपपद्यते
    • क्रियाविशेषणम् = न
    • वाक्यांश:
      • कर्तृपदम् = छेत्ता
      • सम्बन्ध-पदम् = संशयस्य
      • सम्बन्ध-विशेषण-पदम् = अस्य
    • वाक्यांश:
      • कर्तृविशेषणम् = त्वदन्यः
      • कर्तृ-विशेषण-सूचक-पदम् = हि

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।

न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ ४० ॥

पदच्छेदः

पार्थ न एव इह न अमुत्र विनाशः तस्य विद्यते न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति ॥

अन्वयः

पार्थ ! इह तस्य विनाशः न एव विद्यते । अमुत्र न । तात ! कल्याणकृत् कश्चित् दुर्गतिं न गच्छति हि ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • क्रियापदम् = विद्यते
    • क्रियाविशेषणम् = न
    • क्रियाविशेषणम् = एव
    • वाक्यांश:
      • कर्तृपदम् = विनाशः
      • सम्बन्ध-पदम् = तस्य
      • अधिकरणपदम् = इह
    • द्वितीयवाक्यम्
      • क्रियापदम् = विद्यते
      • क्रियाविशेषणम् = न
      • वाक्यांश:
        • कर्तृपदम् = विनाशः
        • सम्बन्ध-पदम् = तस्य
      • अधिकरणपदम् = अमुत्र
    • सम्बोधनपदम् = तात!
    • तृतीयवाक्यम्
      • क्रियापदम् = गच्छति
      • क्रियाविशेषणम् = न
      • क्रियाविशेषणम् = हि
      • कर्मपदम् = दुर्गतिम्
      • कर्तृपदम् = कल्याणकृत्
      • कर्तृविशेषणम् = कश्चित्

प्राप्य पुण्यकृताँल्लोकानुषित्वा शाश्वतीः समाः ।

शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४१ ॥

पदच्छेदः

प्राप्य पुण्यकृतान् लोकान् उषित्वा शाश्वतीः समाः शुचीनां श्रीमतां गेहे योगभ्रष्टः अभिजायते ॥

अन्वयः

योगभ्रष्टः पुण्यकृतां लोकान् प्राप्य शाश्वतीः समाः उषित्वा शुचीनां श्रीमतां गेहे अभिजायते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अभिजायते
    • वाक्यांश:
      • अधिकरणपदम् = गेहे
      • सम्बन्ध-पदम् = श्रीमताम्
      • सम्बन्ध-विशेषण-पदम् = शुचीनाम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = उषित्वा
      • कालवाचकपदम् = समाः
      • कालवाचक-विशेषण-पदम् = शाश्वतीः
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = प्राप्य
      • वाक्यांश:
        • कर्मपदम् = लोकान्
        • सम्बन्ध-पदम् = पुण्यकृताम्
      • कर्तृपदम् = योगभ्रष्टः

अथवा योगिनामेव कुले भवति धीमताम् ।

एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥

पदच्छेदः

अथवा योगिनाम् एव कुले भवति धीमताम् एतत् हि दुर्लभतरं लोके जन्म यत् ईदृशम् ॥

अन्वयः

अथवा धीमतां योगिनां कुले एव भवति । यत् ईदृशं जन्म एतत् लोके दुर्लभतरम् हि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = भवति
    • वाक्यांश:
      • अधिकरणपदम् = कुले
      • अधिकरण-विशेषणम् = एव
      • सम्बन्ध-पदम् = योगिनाम्
      • सम्बन्ध-विशेषण-पदम् = धीमताम्
    • सम्योजकपदम् = अथवा
    • कर्तृपदम् = जन्म
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = दुर्लभतरम्
    • कर्तृ-विशेषण-सूचक-पदम् = हि
    • अधिकरणपदम् = लोके
    • कर्तृपदम् = जन्म
    • कर्तृविशेषणम् = यत्
    • कर्तृविशेषणम् = ईदृशम्
    • कर्तृविशेषणम् = एतत्

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।

यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ४३ ॥

पदच्छेदः

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् यतते च ततः भूयः संसिद्धौ कुरुनन्दन ॥

अन्वयः

कुरुनन्दन ! (सः) तत्र तं पौर्वदेहिकं बुद्धिसंयोगं लभते । ततः च (सः) संसिद्धौ भूयः यतते ।

पदपरिचय:

  • सम्बोधनपदम् = कुरुनन्दन!
  • प्रथमवाक्यम्
    • क्रियापदम् = लभते
    • कर्मपदम् = बुद्धिसंयोगम्
    • कर्मविशेषणम् = तम्
    • कर्मविशेषणम् = पौर्वदेहिकम्
    • अधिकरणपदम् = तत्र
    • कर्तृपदम् = (सः)
  • द्वितीयवाक्यम्
    • क्रियापदम् = यतते
    • क्रियाविशेषणम् = भूयः
    • अधिकरणपदम् = संसिद्धौ
    • अपादानपदम् = ततः
    • सम्योजकपदम् = च
    • कर्तृपदम् = (सः)

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।

जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥

दच्छेदः

पूर्वाभ्यासेन तेन एव ह्रियते हि अवशः अपि सः जिज्ञासुः अपि योगस्य शब्दब्रह्म अतिवर्तते ॥

अन्वयः

सः अवशः अपि तेन पूर्वाभ्यासेन एव ह्रियते । योगस्य जिज्ञासुः अपि शब्दब्रह्म अतिवर्तते हि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = ह्रियते
    • (कर्मणि) कर्तृपदम् = पूर्वाभ्यासेन
    • (कर्मणि) कर्तृ-विशेषण-सूचक-पदम् = एव
    • (कर्मणि) कर्तृविशेषणम् = तेन
    • (कर्मणि) कर्मपदम् = अवशः
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = अपि
    • (कर्मणि) कर्मविशेषणम् = सः
  • द्वितीयवाक्यम्
    • क्रियापदम् = अतिवर्तते
    • क्रियाविशेषणम् = हि
    • कर्मपदम् = शब्दब्रह्म
    • वाक्यांश:
      • कर्तृपदम् = जिज्ञासुः
      • कर्तृ-विशेषण-सूचक-पदम् = अपि
      • सम्बन्ध-पदम् = योगस्य

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।

अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४५ ॥

पदच्छेदः

प्रयत्नात् यतमानः तु योगी संशुद्धकिल्बिषः अनेकजन्मसंसिद्धः ततः याति परां गतिम् ॥

अन्वयः

संशुद्धकिल्बिषः प्रयत्नात् यतमानः योगी तु अनेकजन्मसंसिद्धः ततः परां गतिं याति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = याति
    • कर्मपदम् = गतिम्
    • कर्मविशेषणम् = पराम्
    • अपादानपदम् = ततः
    • कर्तृपदम् = योगी
    • कर्तृ-विशेषण-सूचक-पदम् = तु
    • कर्तृविशेषणम् = अनेकजन्मसंसिद्धः
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= यतमानः
      • क्रियाविशेषणम् = प्रयत्नात्
    • कर्तृविशेषणम् = संशुद्धकिल्बिषः

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४६ ॥

पदच्छेदः

तपस्विभ्यः अधिकः योगी ज्ञानिभ्यः अपि मतः अधिकः कर्मिभ्यः च अधिकः योगी तस्मात् योगी भव अर्जुन ॥

अन्वयः

योगी तपस्विभ्यः अधिकः मतः । ज्ञानिभ्यः अपि अधिकः । कर्मिभ्यः च अधिकः । अर्जुन ! तस्मात् योगी भव ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्तृपदम्= मतः
    • वाक्यांश:
      • कर्तृपदम् = अधिकः
      • अपादानपदम् = तपस्विभ्यः
    • कर्तृपदम् = योगी
  • द्वितीयवाक्यम्
    • कर्तृपदम् = अधिकः
    • अपादानपदम् = ज्ञानिभ्यः
    • अपादानविशेषणम् = अपि
    • कर्तृपदम् = योगी
  • तृतीयवाक्यम्
    • कर्तृपदम् = अधिकः
    • अपादानपदम् = कर्मिभ्यः
    • सम्योजकपदम् = च
    • कर्तृपदम् = योगी
  • सम्बोधनपदम् = अर्जुन!
  • चतुर्थवाक्यम्
    • क्रियापदम् = भव
    • कर्तृ-विशेषण-सूचक-पदम् = योगी
    • कर्तृपदम् = (त्वम्)
    • कारणवाचकपदम् = तस्मात्

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।

श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ४७ ॥

पदच्छेदः

योगिनाम् अपि सर्वेषां मद्गतेन अन्तरात्मना श्रद्धावान् भजते यः मां सः मे युक्ततमः मतः ॥

अन्वयः

सर्वेषां योगिनाम् अपि यः श्रद्धावान् मद्गतेन अन्तरात्मना मां भजते सः मे युक्ततमः मतः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = भजते
      • कर्मपदम् = माम्
      • करणवाचकपदम् = अन्तरात्मना
      • करणविशेषणम् = मद्गतेन
      • वाक्यांश:
        • कर्तृपदम् = यः
        • सम्बन्ध-पदम् = योगिनाम्
        • सम्बन्ध-विशेषण-पदम् = सर्वेषाम्
        • सम्बन्ध-विशेषण-पदम् = अपि
      • कर्तृविशेषणम् = श्रद्धावान्
    • “सः” वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= मतः
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = युक्ततमः
        • सम्बन्ध-पदम् = मे
      • कर्तृपदम् = सः

References –

  1. नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6mt आत्मसंयमयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site