Soundaryalahari

सौन्दर्यलहरी

Soundaryalahari By Sri Adi shankaracharya

Sung by Smt. Harini Agaram

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं

न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।

अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि

प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥१॥

शक्तः भवति

कः शक्तः ? शिवः

किं कर्तुं शक्तः ? प्रभवितुम्

कदा शक्तः ? यदि युक्तः

कया युक्तः ? शक्त्या

एवं न चेत् किम् ? एवं न चेत् न कुशलः खलु

कः न कुशलः ? देवः

किं कर्तुं न कुशलः ? स्पन्दितुम् अपि

अतः किम् ? अतः कथम् प्रभवति

कः प्रभवति ? अकृत-पुण्यः

किं कर्तुं प्रभवति ? प्रणन्तुं स्तोतुं वा

कां प्रणन्तुं स्तोतुं वा ? आराध्यां त्वाम्

कैः आराध्याम् ? हरि-हर-विरिञ्च-आदिभिः अपि

यदि शिवः शक्त्या युक्तः, प्रभवितुं शक्तः भवति । एवं न चेत् , देवः स्पन्दितुम् अपि न कुशलः खलु । अतः हरि-हर-विरिञ्च-आदिभिः अपि आराध्यां त्वाम् , प्रणन्तुं स्तोतुं वा, कथम् अकृत-पुण्यः प्रभवति ?

तनीयांसं पांसुं तव चरणपङ्केरुहभवं

विरिञ्चिः सञ्चिन्वन्विरचयति लोकानविकलम् ।

वहत्येनं शौरिः कथमपि सहस्रेण शिरसां

हरः संक्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥२॥

विरिञ्चिः विरचयति

कीदृशः सन् विरिञ्चिः ? सञ्चिन्वन्

कं सञ्चिन्वन् ? तनीयांसं पांसुम्

कीदृशं पांसुम् ? तव चरणपङ्केरुहभवम्

कान् विरचयति ? लोकान्

कथं विरचयति ? अविकलम्

शौरिः वहति

कथं वहति ? कथम् अपि

किं वहति ? एनम्

केन वहति ? शिरसां सहस्रेण

हरः भजति

किं भजति ? भसित-उद्धूलन-विधिम्

किं कृत्वा भजति ? एनं संक्षुद्य

विरिञ्चिः तव चरणपङ्केरुहभवं तनीयांसं पांसुं सञ्चिन्वन् लोकान् अविकलम् विरचयति । शौरिः शिरसां सहस्रेण कथम् अपि एनं वहति । हरः एनं संक्षुद्य भसित-उद्धूलन-विधिं भजति ।

अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी

जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी ।

दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ

निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ॥३॥

(तव पादाब्जरेणुः) भवति ।

कीदृशं भवति ? अविद्यानाम् [अज्ञानिनाम्] अन्तः-तिमिर-मिहिर-द्वीप-नगरी [अन्तस्थित-अज्ञानरूप-अन्धकारस्य विनाशकरूप-सूर्यस्य समुद्रमध्यस्थ-द्वीपे उदयप्रदेशे भवं पत्तनम्]

पुनः कीदृशं भवति ? जडानां [मन्दानां] चैतन्य-स्तबक-मकरन्द-स्रुति-झरी [चैतन्यरूपस्य कल्पवृक्षगुच्छस्य पुष्परसस्य स्रोतस्य प्रवाहः]

पुनः कीदृशं भवति ? दरिद्राणां चिन्तामणि-गुणनिका [चिन्तामणिः मणिः]

पुनः कथं भवति ? मुररिपु-वराहस्य [विष्णोः वराहावतारस्य] दंष्ट्रा

केषां कृते दंष्ट्रा भवति ? निमग्नानाम्

कस्मिन् निमग्नानाम् ? जन्म-जलधौ

(तव पादाब्जरेणुः) अविद्यानाम् अन्तः-तिमिर-मिहिर-द्वीप-नगरी, जडानां चैतन्य-स्तबक-मकरन्द-स्रुति-झरी, दरिद्राणां चिन्तामणि-गुणनिका,  जन्म-जलधौ निमग्नानां मुररिपु-वराहस्य दंष्ट्रा भवति ।

त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः

त्वमेका नैवासि प्रकटितवराभीत्यभिनया ।

भयात्त्रातुं दातुं फलमपि च वाञ्छासमधिकं

शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥४॥

(अस्ति)

कीदृशः अस्ति ? अभय-वरदः [अभयं च वरं च यः ददाति तादृशः]

काभ्याम् अभय-वरदः ? पाणिभ्याम्

कः अभय-वरदः अस्ति ? दैवत-गणः [आदित्यादयः]

कः दैवत-गणः ? त्वत्-अन्यः

त्वम् एका एव न असि

कीदृशी न असि ? (पाणिभ्यां) प्रकटित-वर-अभीति-अभिनया [प्रकाशितः वर-अभीत्योः अभिनयः यस्याः सा]

(हे) लोकानां शरण्ये !

तव चरणौ एव हि निपुणौ (स्तः)

किं कर्तुं निपुणौ ? भयात् त्रातुम्

पुनः किं कर्तुं निपुणौ ? फलं दातुं अपि च

कीदृशं फलम् ? वाञ्छा-समधिकं [कामितार्थात् अधिकम्]

त्वत्-अन्यः दैवत-गणः पाणिभ्याम् अभय-वरदः । त्वम् एका एव पाणिभ्यां प्रकटित-वर-अभीति-अभिनया न असि । लोकानां शरण्ये ! भयात् त्रातुं, वाञ्छा-समधिकं फलम् अपि दातुं च, तव चरणौ एव हि निपुणौ ।

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं

पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् ।

स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा

मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥५॥

पुरा हरिः क्षोभं [मनोविकारम्] अनयत्

कं क्षोभं अनयत् ? पुररिपुम् अपि

किं कृत्वा अनयत् ? त्वाम् आराध्य

कीदृशीं त्वाम् ? प्रणत-जन-सौभाग्य-जननीं

पुनः किं कृत्वा अनयत् ? नारी भूत्वा

स्मरः [मन्मथः] अपि प्रभवति हि

किं कृत्वा प्रभवति ? त्वां नत्वा

केन प्रभवति ? रति-नयन-लेह्येन [स्वपत्न्याः रतेः नयनाभ्यां लेहनार्हेण] वपुषा [शरीरेण]

कुत्र प्रभवति ? महतां मुनीनाम् अपि अन्तः

किमर्थं प्रभवति ? मोहाय [शब्दादीन्विषयवाञ्छोत्पादनाय]

पुरा हरिः प्रणत-जन-सौभाग्य-जननीं त्वाम् आराध्य नारी भूत्वा पुररिपुम् अपि क्षोभम् अनयत् । स्मरः अपि त्वां नत्वा रति-नयन-लेह्येन वपुषा महतां मुनीनाम् अपि अन्तः मोहाय प्रभवति हि ।

धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः

वसन्तः सामन्तो मलयमरुदायोधनरथः ।

तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम्

अपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥६॥

(हे) हिम-गिरि-सुते !

अनङ्गः एकः विजयते

किं विजयते ? सर्वम् इदं जगत्

किं कृत्वा ? काम् अपि कृपां लब्ध्वा

कस्मात् लब्ध्वा ? ते अपाङ्गात् [कटाक्षात्]

कस्मिन् सन्दर्भे अपि विजयते ? (सः अनङ्गः) तथा अपि

अनङ्गस्य किं किं कीदृशं भवति ? धनुः पौष्पं [पुष्पमयं],  मौर्वी [शिञ्जिनी] मधुकरमयी [भ्रमरैः प्रचुरा], विशिखाः [बाणाः] पञ्च, सामन्तः [सचिवः] वसन्तः [वसन्तकालः],  आयोधनरथः [युद्धस्य रथः] मलयमरुत्

(हे) हिम-गिरि-सुते ! (यस्य अनङ्गस्य) धनुः पौष्पं,  मौर्वी मधुकरमयी, विशिखाः पञ्च, सामन्तः वसन्तः,  आयोधनरथः मलयमरुत् , तथा अपि (सः) अनङ्गः एकः ते अपाङ्गात् काम् अपि कृपां लब्ध्वा सर्वम् इदं जगत् विजयते ।

क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता

परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।

धनुर्बाणान्पाशं सृणिमपि दधाना करतलैः

पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥७॥

आस्ताम् [उपविशतु]

का आस्ताम् ? क्वणत्-काञ्ची-दामा [शिञ्जन्-मणिमेखला यस्याः सा], करि-कलभ-कुम्भ-स्तन-नता [गज-शावक-कुम्भ-तुल्य-स्तनाभ्यां ईषद्-नम्र-मध्या], मध्ये परिक्षीणा [तनुमध्ये कृशा], परिणत-शरत्-चन्द्र-वदना [परिपूर्णकल-शरद्काल-इन्दुवत् वदनं यस्याः सा], धनुः बाणान् पाशं सृणिम् [अङ्कुशम्] अपि करतलैः दधाना, पुरमथितुः [त्रिपुरान्तकस्य शिवस्य] आहोपुरुषिका [आहो अहम् इति अहङ्कारस्य अविष्करणरूपा]

कुत्र आस्ताम् ? पुरस्तात् [पुरतः]

केषां पुरस्तात् ? नः [अस्माकम्]

क्वणत्-काञ्ची-दामा, करि-कलभ-कुम्भ-स्तननता, मध्ये परिक्षीणा, परिणत-शरत्-चन्द्र-वदना, धनुः बाणान् पाशं सृणिम् अपि करतलैः दधाना, पुरमथितुः आहोपुरुषिका, नः पुरस्तात् आस्ताम् ।

सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते

मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।

शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां

भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥८॥

कतिचन [विरलाः] धन्याः भजन्ति

कां भजन्ति ? त्वां चिदानन्द-लहरीम्

कीदृशीं त्वाम् ? परमशिव-पर्यङ्क-निलयाम् [परमशिवरूप-तल्पे अवस्थितिः यस्याः ताम्]

कुत्र परम-शिव-पर्यङ्क-निलयाम् ? सुधा-सिन्धोः [अमृत-समुद्रस्य] मध्ये

सुधा-सिन्धोः मध्ये कुत्र ? मणिद्वीपे

कीदृशे मणिद्वीपे ? सुरविटपि-वाटी-परिवृते [कल्पवृक्षाणां वाटीभिः परिवृते]

मणिद्वीपे कुत्र ? चिन्तामणि-गृहे

कीदृशे चिन्तामणि-गृहे ? नीप-उपवन-वति [कदम्बैः उपवनवति]

चिन्तामणि-गृहे कुत्र ? शिव-आकारे मञ्चे [खट्वायाम्]

सुधा-सिन्धोः मध्ये सुरविटपि-वाटी-परिवृते मणिद्वीपे नीप-उपवन-वति चिन्तामणि-गृहे शिव-आकारे मञ्चे परम-शिव-पर्यङ्क-निलयां त्वां चिदानन्द-लहरीं कतिचन धन्याः    भजन्ति ।

महीं मूलाधारे कमपि मणिपूरे हुतवहं

स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।

मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं

सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥९॥

रहसि विहरसे [क्रीडसे]

केन सह विहरसे ? पत्या सह [शिवेन सह]

कुत्र विहरसे ? सहस्रारे पद्मे

किं कृत्वा विहरसे ? स्थितं सकलं अपि कुल-पथं [सुषुम्नामार्गं इति मार्गेण] भित्त्वा

कुत्र स्थितं किं किं सकलम् ? मूलाधारे [मूलाधार-स्वाधिष्ठान-मणिपूर-अनाहत-विशुद्धि-आज्ञाचक्राणि इति षट्-चक्राणां प्रथमे चक्रे, गूदस्थाने सर्वाधारभूते मूलाधार-चक्रे] महीं [पृथिवीतत्त्वं], कम् [उदकतत्त्वम्] अपि मणिपूरे, हुतवहम् [अग्नितत्त्वं] स्वाधिष्ठाने, हृदि मरुतम्,आकाशम् उपरि मनः अपि भ्रूमध्ये

मूलाधारे महीं, मणिपूरे कम् अपि, स्वाधिष्ठाने हुतवहम्, हृदि मरुतम्, आकाशम् उपरि भ्रूमध्ये मनः अपि स्थितं सकलम् अपि कुलपथं भित्त्वा सहस्रारे पद्मे रहसि पत्या सह विहरसे ।

सुधाधारासारैश्चरणयुगलान्तर्विगलितैः

प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः ।

अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं

स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥१०॥

(त्वं) स्वपिषि [निद्रासि]

कुत्र स्वपिषि ? कुहरिणि [बिलं यस्य अस्ति तस्मिन्] कुल-कुण्डे [सुषुम्नामार्ग-मूलाधार-चक्रे]

कीदृशी त्वम् ? चरण-युगल-अन्तर्-विगलितैः [पादारविन्दद्वितयस्य मध्यप्रदेशात् स्रवद्भिः] सुधा-धार-आसारैः [अमृतधाराणां सम्पातैः] प्रपञ्चं सिञ्चन्ती

किं कृत्वा स्वपिषि ? रसाम्नायमहसः [चन्द्रसकाशात्] स्वां भूमिं पुनः अपि अवाप्य [प्राप्य]

पुनः किं कृत्वा स्वपिषि ? भुजगनिभं [सर्पसदृशम्] अध्युष्टवलयम् [अधिष्ठितकुण्डलनाविशेषं] स्वम् आत्मानं कृत्वा

चरण-युगल-अन्तर्-विगलितैः सुधा-धार-आसारैः प्रपञ्चं सिञ्चन्ती रसाम्नायमहसः स्वां भूमिं पुनः अपि अवाप्य भुजग-निभम् अध्युष्टवलयं स्वम् आत्मानं कृत्वा कुहरिणि कुल-कुण्डे स्वपिषि ।

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि

प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ।

चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-

त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥११॥

तव शरण-कोणाः [भवन-कोणाः, पूजापीठ-कोणाः] चतुश्चत्वारिंशत् (४४) परिणताः [निष्पन्नाः] (भवन्ति)

कैः सह चतुश्चत्वारिंशत् परिणताः ? चतुर्भिः श्रीकण्ठैः (४), शम्भोः (सकाशात्) प्रभिन्नाभिः पञ्चभिः शिवयुवतिभिः (५), नवभिः अपि मूल-प्रकृतिभिः (९), वसुदल-कलाश्र-त्रिवलय-त्रिरेखाभिः [अष्टदलाब्ज(८)-षोडशदलाब्ज(१६)- त्रिवलय(१)-त्रिरेखाभिः(१)] सार्धं [सहिताः]

तव शरण-कोणाः चतुर्भिः श्रीकण्ठैः, शम्भोः (सकाशात्) प्रभिन्नाभिः पञ्चभिः शिवयुवतिभिः, नवभिः अपि मूल-प्रकृतिभिः, वसुदल-कलाश्र-त्रिवलय-त्रिरेखाभिः सार्धं, चतुश्-चत्वारिंशत् परिणताः (भवन्ति) ।

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं

कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः ।

यदालोकौत्सुक्यादमरललना यान्ति मनसा

तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥१२॥

(हे) तुहिनगिरि-कन्ये [हिम-अद्रि-कन्ये] ।

कथम् अपि कल्पन्ते [न कल्पन्ते]

के कल्पन्ते ? विरिञ्चि-प्रभृतयः [ब्रह्मा प्रभृतिः येषां ते] कवि-इन्द्राः

किं कर्तुं कल्पन्ते ? त्वदीयं [तव सम्बन्धि] सौन्दर्यं [लावण्यं] तुलयितुं [तुलया समीकर्तुम्]

कीदृशं सौन्दर्यं ? यद्-आलोक-औत्सुक्यात् [यस्य  भवत्सौन्दर्यस्य आलोके औत्सुक्यं तस्मात्] यान्ति  [प्राप्नुवन्ति]

काः, केन यान्ति ? अमर-ललनाः [ऊर्वशीतिलोत्तमादि अप्सरसाः] मनसा

कां यान्ति ? तपोभिः दुष्प्रापाम् अपि गिरिश-सायुज्य-पदवीम्  [भवन्नित्यसहचरशङ्करसायुज्यं मनोभिः आकाङ्क्षन्ते इत्यर्थः]

(हे) तुहिनगिरिकन्ये । त्वदीयं सौन्दर्यं तुलयितुं विरिञ्चि-प्रभृतयः कवि-इन्द्राः कथम् अपि कल्पन्ते । यद्-आलोक-औत्सुक्यात् अमर-ललनाः तपोभिः दुष्प्रापाम् अपि गिरिश-सायुज्य-पदवीं मनसा यान्ति ।

नरं वर्षीयांसं नयनविरसं नर्मसु जडं

तवापाङ्गालोके पतितमनुधावन्ति शतशः ।

गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया

हठात्त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥१३॥

अनुधावन्ति

काः अनुधावन्ति ? शतशः [शतसङ्ख्याकाः, सर्वाः] युवतयः

कीदृशाः युवतयः ? गलद्-वेणी-बन्धाः [यासां वेणी-बन्धाः विगलन्तः सन्ति]  कुच-कलश-विस्रस्त-सिचयाः [यासां चेलाञ्चलाः कुचकलशाभ्यां शिथिलाः सन्ति] हठात् [शीघ्रं] त्रुट्यत्काञ्च्यः [यासां रसनाकलापाः गलन्तः सन्ति] विगलित-दुकूलाः [यासां क्षौमानि स्रंसमानानि अस्ति] सत्यः

कम् अनुधावन्ति ? नरम्

कीदृशं नरम् ? वर्षीयांसम् [अति-वृद्धं], नयन-विरसं [द्रष्टुम् अरुचिकरं], नर्मसु [रतिकलासु] जडम् [अति-मूढम्]

कथं भूतं नरम् ? तव अपाङ्ग-आलोके [कटाक्ष-वीक्षणे] पतितम्

वर्षीयांसं, नयन-विरसं, नर्मसु जडं, तव अपाङ्ग-आलोके पतितं, नरं, शतशः युवतयः गलद्-वेणी-बन्धाः कुच-कलश-विस्रस्त-सिचयाः हठात् त्रुट्यत्काञ्च्यः विगलित-दुकूलाः सत्यः अनुधावन्ति ।

क्षितौ षट्पञ्चाशद्द्विसमधिकपञ्चाशदुदके

हुताशे द्वाषष्टिश्चतुरघिकपञ्चाशदनिले ।

दिवि द्विःषट्त्रिंशन्मनसि च चतुःषष्टिरिति ये

मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥१४॥

तव पाद-अम्बुज-युगम् (वर्तते)

कुत्र वर्तते ? तेषाम् अपि उपरि

केषां उपरि ? ये मयूखाः [किरणाः] तेषाम्

के के मयूखाः ? क्षितौ [पृथिवीतत्त्वयुक्ते मूलाधारे] षट्पञ्चाशत् [56],  उदके [उदकतत्त्वयुक्ते मणिपूरस्थाने] द्वि-समधिक-पञ्चाशत् [52], हुताशे [वह्नितत्त्वयुक्ते स्वाधिष्ठानचक्रे] द्वा-षष्टिः [62], अनिले [वायुतत्त्वयुक्ते अनाहतचक्रे] चतुः-अघिक-पञ्चाशत् [54], दिवि [आकाशतत्त्वयुक्ते विशुद्धिचक्रे] द्विः-षट्-त्रिंशत् [2*36], मनसि [मनस्तत्त्वयुक्ते आज्ञाचक्रे] चतुःषष्टिः [64] च इति

ये मयूखाः क्षितौ षट्पञ्चाशत्, उदके द्वि-समधिक-पञ्चाशत्, हुताशे द्वा-षष्टिः, अनिले चतुः-अघिक-पञ्चाशत्, दिवि द्विः-षट्-त्रिंशत्, मनसि चतुःषष्टिः च इति तेषाम् अपि उपरि तव पाद-अम्बुज-युगम् (वर्तते) ।