(Video) Melpathur Narayana Bhattathiri’s Naaraayaneeyam – Narayana Namboodiri

Here is the playlist with all the sessions.

श्रीमन्नारायणीयम् श्रीमान् नारायणनम्बूदिरि

संस्कृतभारतीबेङ्गलुरु

Book Cover.jpg

(Naaraayaneeyam – Dashakam 1 – Explained by Sri Narayana Namboodiri, Samskrita Bharati, Bangalore).

This page
https://nivedita2015.wordpress.com/sanskrit-sessions/srimannarayaneeyam/ contains the detailed notes of all the ten shlokas  covered in these sessions.

Downloadable files:
Document –  Naaraayaneeyam – Prathama Dashakam – Sri Narayana Namboodri
PDF – Naaraayaneeyam – Prathama Dashakam – Sri Narayana Namboodri

More References are given at the end.

श्रीमन्नारायणीयम् – दशकम् – १

॥ ॐ नमो भगवते वासुदेवाय ॥
॥ ॐ श्रीकृष्णाय परब्रह्मणे नमः ॥

1.1. श्लोकः     

Video – https://youtu.be/w-IIzkglZ0U

प्रस्तावना

भगत्स्वरूपं महिमा च श्रीमन्नारायणीयस्य प्रथमदशकस्य विषयः । तत्र प्रथमस्लोके गुरुवायुपुरमन्दिरे तत् प्रसिद्धं ब्रह्मतत्वमेव प्रत्यक्षं विराजते इति उक्त्वा तस्य महत्वं वर्णयति – तत् ब्रह्मतत्वं कीदृशमस्ति इति अन्वये तस्य विशेषणानि पश्याम ।

मूलपाठः

सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां
निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।
अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्मतत्त्वं
तत्तावद्भाति साक्षाद् गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ १ ॥

पदच्छेदः

सान्द्रानन्दावबोधात्मकम्, अनुपमितम्, कालदेशावधिभ्याम्, निर्मुक्तम्, नित्यमुक्तम्, निगमशतसहस्रेण, निर्भास्यमानम्, अस्पष्टम्, दृष्टमात्रे, पुनः, उरुपुरुषार्थात्मकम्, ब्रह्मतत्त्वम्, तत्, तावत्, भाति, साक्षात्, गुरुपवनपुरे, हन्त, भाग्यम्, जनानाम्

अन्वयार्थः

  • सान्द्रानन्दावबोधात्मकम् = परमानन्दज्ञानस्वरूपम्
    • सान्द्रानन्दः = अतीवानन्दः, परमानन्दः
    • अवबोधः = ज्ञानम्
  • अनुपमितम् = अनन्यसदृशम्
  • कालदेशावधिभ्यां निर्मुक्तम् = कालस्य देशस्य वा परिमितिः नास्ति, स्वतन्त्रम्
  • नित्यमुक्तम् = सदा स्वतन्त्रं सुखदुःखादिमायाबन्धं नास्ति
  • निगमशतसहस्रेण निर्भास्यमानम् = अनेकैः वेदमन्त्रैः प्रकाश्यमानम्
  • अस्पष्टम् = न स्पष्टम्
  • दृष्टमात्रे पुनः = केवलम् एकवारं तस्य दर्शनानन्तरम्
  • उरुपुरुषार्थात्मकम् = बृहत् पुरुषार्थात्मकं, मोक्षस्वरूपम्
  • तत् ब्रह्मतत्त्वम् = प्रसिद्धं ब्रह्मतत्त्वम्
  • गुरुपवनपुरे = अत्र गुरुवायुपुरे
  • तावत् साक्षात् भाति = प्रत्यक्षं दृश्यते
  • हन्त = हा हन्त !
  • जनानां भाग्यम् = एतद् जनानां भाग्यमेव

अन्वयः

सान्द्रानन्दावबोधात्मकम् अनुपमितं कालदेशावधिभ्यां निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् अस्पष्टं दृष्टमात्रे पुनः उरुपुरुषार्थात्मकं तत् ब्रह्मतत्त्वं गुरुपवनपुरे तावत् साक्षात् भाति । हन्त ! जनानां भाग्यम् ।

अन्वयरचना

  • भाति
    • कथं भाति ? साक्षात्
    • कदा भाति ? तावत्
    • किं भाति ? तत् ब्रह्मतत्त्वम्
      • कीदृशं ब्रह्मतत्त्वम् ? सान्द्रानन्दावबोधात्मकम्
      • पुनः कीदृशं ब्रह्मतत्त्वम् ? अनुपमितम्
      • पुनः कीदृशं ब्रह्मतत्त्वम् ? निर्मुक्तम्
        • काभ्यां निर्मुक्तम् ? कालदेशावधिभ्याम्
      • पुनः कीदृशं ब्रह्मतत्त्वम् ? नित्यमुक्तम्
      • पुनः कीदृशं ब्रह्मतत्त्वम् ? निर्भास्यमानम्
        • केन निर्भास्यमानम् ? निगमशतसहस्रेण
      • पुनः कीदृशं ब्रह्मतत्त्वम् ? अस्पष्टम्
      • पुनः कीदृशं ब्रह्मतत्त्वम् ? उरुपुरुषार्थात्मकम्
        • कदा उरुपुरुषार्थात्मकम् ? दृष्टमात्रे पुनः
      • कुत्र भाति ? गुरुपवनपुरे
    • हन्त !
    • (तत्) भाग्यम् (अस्ति)
      • केषां भाग्यम् ? जनानाम्

तात्पर्यम्

वेदेषु उपनिषद्सु च वर्णितं प्रसिद्धं ब्रह्मतत्त्वं परमानन्दज्ञानस्वरूपम् अनन्यसदृशं च अस्ति । कालदेशावधिभ्यां निर्मुक्तम् अस्ति इति तस्य नित्यत्वं विभुत्वं च सूचयति, यतः अस्य कालस्य देशस्य वा परिमितिः न भवति । तत् ब्रह्मतत्त्वं सुखदुःखादिमायाबन्धं विना सर्वदा स्वतन्त्रमस्ति । तत् ब्रह्मतत्त्वं तु अनेकैः वेदमन्त्रैः प्रकाश्यमानमस्ति । तथापि भक्तिहीनानाम् अज्ञानिनां कृते अस्पष्टं भवति । केवलम् एकवारं तस्य दर्शनानन्तरं बृहत् पुरुषार्थात्मकं मोक्षस्वरूपमस्ति । तादृशं मह्द्ब्रह्मतत्त्वम् अत्र गुरुवायुपुरे प्रत्यक्षं दृश्यते ।

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

पदपरिचयः

  • सान्द्रानन्दावबोधात्मकम् = अ., नपुं., प्र.वि., ए.व.
  • अनुपमितम् = अ., नपुं., प्र.वि., ए.व.
  • कालदेशावधिभ्याम् = कालदेशावधि शब्दः, इ., पुं., तृ.वि., द्वि.व.
  • निर्मुक्तम् = अ., नपुं., प्र.वि., ए.व.
  • नित्यमुक्तम् = अ., नपुं., प्र.वि., ए.व.
  • निगमशतसहस्रेण = अ., नपुं., तृ.वि., ए.व.
  • निर्भास्यमानम् = अ., नपुं., प्र.वि., ए.व.
  • अस्पष्टम् = अ., नपुं., प्र.वि., ए.व.
  • दृष्टमात्रे = अ., नपुं., स.वि., ए.व.
  • पुनः = अव्ययम्
  • उरुपुरुषार्थात्मकम् = अ., नपुं., प्र.वि., ए.व.
  • ब्रह्मतत्त्वम् = अ., नपुं., प्र.वि., ए.व.
  • तत् = तद् शब्दः द., नपुं., प्र.वि., ए.व.
  • तावत् = अव्ययम्
  • भाति = भा “भा दीप्तौ” परस्मैपदं लट्लकारः प्रथमपुरुषैकवचनम् [http://ashtadhyayi.com/dhatu/02.0046]
  • साक्षात् = अव्ययम्
  • गुरुपवनपुरे = अ., नपुं., स.वि., ए.व.
  • हन्त = अव्ययम्
  • भाग्यम् = अ., नपुं., प्र.वि., ए.व.
  • जनानाम् = अ., पुं., ष.वि., ब.व.

पदविवरणम्

  • सान्द्रानन्दावबोधात्मकम्
    • सान्द्रानन्द्रः = सान्द्रः आनन्दः – कर्मधारयः, सवर्णदीर्घसन्धिः
    • सान्द्रानन्दावबोधौ = सान्द्रानन्दश्च अवबोधस्च – द्विगुः, सवर्णदीर्घसन्धिः
    • सान्द्रानन्दावबोधात्मा = सान्द्रानन्दावबोधौ एव आत्मा – कर्मधारयः, सवर्णदीर्घसन्धिः
    • सान्द्रानन्दावबोधात्मकम् = सान्द्रानन्दावबोधात्मा तदीयम् – तद्धितः ।
  • अनुपमितम् = न उपमितम् – नञ्-समासः ।
  • कालदेशावधिभ्याम्
    • कालदेशौ = कालश्च देशश्च – द्वन्द्वः ।
    • कालदेशावधिभ्याम् = कालदेशौ एव अवधी /कालदेशयोः अवधी, ताभ्याम् – सवर्णदीर्घसन्धिः
  • नित्यमुक्तम् = नित्यं मुक्तम् – कर्मधारयः ।
  • निगमशतसहस्रेण
    • शतसहस्रम् = शतानि च सहस्राणि च एतेषां समाहारः – द्वन्द्वः ।
    • निगमशतसहस्रम् = निगमानां शतसहस्रम् – तत्पुरुषः ।
  • अस्पष्टम् = न स्पष्टम् – नञ्-समासः ।
  • उरुपुरुषार्थात्मकम्
    • पुरुषार्थः = पुरुषस्य अर्थः – तत्पुरुषः, सवर्णदीर्घसन्धिः
    • पुरुषार्थात्मा = पुरुषार्थः एव आत्मा यस्य सः – बहुव्रीहिः, सवर्णदीर्घसन्धिः
    • पुरुषार्थात्मकम् = पुरुषार्थात्मा तदीयम् – तद्धितः ।
    • उरुपुरुषार्थात्मकम् = उरु पुरुषार्थात्मकम् – कर्मधारयः ।
  • गुरुपवनपुरे
    • गुरुपवनौ = गुरुश्च पवनश्च
    • गुरुपवनपुरम् = गुरुपवनयोः पुरम्

छन्दः

  • स्रग्धरा[https://nivedita2015.wordpress.com/chandas-2/#sragdharaa]
  • “म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्।”
  • प्रतिपादं २१ अक्षराणि । म-र-भ-न-य-य-य । “ऽऽऽ ऽ।ऽ ऽ।। ।।। ।ऽऽ ।ऽऽ ।ऽऽ”
  • प्रतिसप्तमाक्षरानन्तरं यतिः। म-र-भ-नैः यानां त्रयेण (य-य-य) त्रि(3)-मुनि(7)-यतियुता स्रग्धरा कीर्तिता अयम् ।
  • 21 letters; pause after 7th, 14th, and 21st letters;
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21
गु गु गु गु गु गु गु गु गु गु गु गु
सा न्द्रा न्दा बो धा त्म नु मि तं का दे शा धि भ्यां
नि र्मु क्तं नि त्य मु क्तं नि स्रे नि र्भा स्य मा नम्
स्प ष्टं दृ ष्ट मा त्रे पु रु रु पु रु षा र्था त्म कं ब्र ह्म त्वं
त्ता द्भा ति सा क्षा द्गु रु पु रे न्त भा ग्यं ना नाम्

Word-Meaning

  • गुरुपवनपुरे = In Guruvayoor (गुरुपवनपुर)
    • तत्त्वम् = the reality (तत्त्व)
      • तत् = that (तद्)
        • ब्रह्म = Supreme Brahman (ब्रह्मन्)
      • सान्द्रानन्दावबोधात्मकम् = one whose nature (आत्मक) is that of Intense (सान्द्र) Bliss (आनन्द) and Supreme Consciousness (अवबोध)
      • अनुपमितम् = one who is not (न-) comparable (उपमित)
      • निर्मुक्तम् = one who is totally free (निर्मुक्त)
        • कालदेशावधिभ्याम् = from the periods (अवधि) or limitations of time (काल) and space (देश)
      • नित्यमुक्तम् = one who is ever (नित्य) free (मुक्त)
      • निर्भास्यमानम् = one who is being caused to be clearly evident (निर् + भा + णिञ् + शानच्), i.e., whose nature is being caused to be revealed
        • निगमशतसहस्रेण = by the hundreds (शत) and thousands (सहस्र) of the Vedic (निगम) scriptural texts, i.e., by the innumerable scriptural texts
      • अस्पष्टम् = one who is not (न) evidently clear (स्पष्ट)
      • तावत् पुनः = but then (तावत्) again (पुनः)
        • उरुपुरुषार्थात्मकम् = who is of the nature (आत्मक) of the ultimate (उरु) object or aim (अर्थ) of all human endeavours (पुरुष)
          • दृष्टमात्रे = at once (मात्र), when seen (दृष्ट), i.e., upon realisation
        • भाति = shines
          • साक्षात् = evidently, i.e., right in front of our eyes
        • हन्त = Oh (हन्त)! Indeed!
        • जनानां भाग्यम् = (This is) mankind’s (जन) fortune (भाग्य)

1.2. श्लोकः

https://www.youtube.com/watch?v=Tzjlc8GW1r8

मूलपाठः

एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्
तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् ।
एते तावद्वयं तु स्थिरतरमनसा विश्वपीड़ापहत्यै
निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥ २ ॥

पदच्छेदः

एवम्, दुर्लभ्यवस्तुनि, अपि, सुलभतया, हस्तलब्धे, यत्, अन्यत्, तन्वा, वाचा, धिया, वा, भजति, बत, जनः, क्षुद्रता, एव, स्फुटा, इयम्, एते, तावत्, वयम्, तु, स्थिरतरमनसा, विश्वपीड़ापहत्यै, निश्शेषात्मानम्, एनम्, गुरुपवनपुराधीशम्, एव, आश्रयामः

अन्वयार्थः

  • दुर्लभ्यवस्तुनि = (तादृशं ब्रह्मतत्वं) दुर्लभवस्तु
  • एवं सुलभतया हस्तलब्धे अपि = एवं सुखेन प्राप्ते (सति) अपि
  • यत् जनः अन्यत् = यत् जनः अन्यवस्तु
  • तन्वा वाचा धिया वा = शरीरेण मनसा बुद्ध्या वा
  • भजति = आश्रयते
  • बत = अहो
  • इयं स्फुटा क्षुद्रता एव = एषा स्पष्टा क्षुद्रता एव
  • एते वयं तु तावत् = वयं तु इदानीम्
  • स्थिरतरमनसा = मनस्थैर्येण
  • विश्वपीड़ापहत्यै = समस्तपीडानिवारणाय
  • एनं निश्शेषात्मानं गुरुपवनपुराधीशम् एव = एनं सर्वात्मानं (परमात्मानं) गुरुवायुपुरेशम् एव
  • आश्रयामः = शरणं गच्छामः

अन्वयः

इयं स्फुटा क्षुद्रता एव यत् एवं दुर्लभ्यवस्तुनि सुलभतया हस्तलब्धे (सति) अपि जनः अन्यत् तन्वा वाचा धिया वा भजति, बत । एते वयं तु तावत् स्थिरतरमनसा विश्वपीड़ापहत्यै निश्शेषात्मानम् एनं गुरुपवनपुराधीशम् एव आश्रयामः ।

अन्वयरचना

  • बत !
  • इयम् (अस्ति)
    • का इयम् (अस्ति) ? क्षुद्रता एव
      • कीदृशी क्षुद्रता ? स्फुटा
      • किं क्षुद्रता अस्ति ? यत् … भजति
        • कः भजति ? जनः
        • कया वा भजति ? तन्वा वाचा धिया वा
        • किं भजति ? अन्यत्
        • कदा भजति ? एवं हस्तलब्धे (सति) अपि
          • कथं हस्तलब्धे ? सुलभतया
          • कस्मिन् हस्तलब्धे (सति) ? दुर्लभ्यवस्तुनि
        • तावत् आश्रयामः
          • के आश्रयामः ? एते वयं तु
          • कम् आश्रयामः ? एनं गुरुपवनपुराधीशम् एव
            • कीदृशं गुरुपवनपुराधीशम् ? निश्शेषात्मानम्
          • कस्यै आश्रयामः ? विश्वपीड़ापहत्यै
          • केन आश्रयामः ? स्थिरतरमनसा

तात्पर्यम्

पुरुषार्थरूपं ब्रह्मतत्वम् अत्र भगवद्दर्शनेन सुखेन प्राप्नोति इति पूर्वमुक्तम् । तथापि जनः कायेन वाचा मनसा वा अन्यत् किमपि भजति इति स्पष्टक्षुद्रता एव, अहो ! आस्चर्यम् । किन्तु वयं तु तावत् अत्र गुरुवायुपुरे विराजमानं परमात्मस्वरूपं भगवन्तम् एव शरणं गच्छामः ।

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

पदपरिचयः

  • एवम् = अव्ययम् ।
  • दुर्लभ्यवस्तुनि = वस्तु उ., नपुं., स.वि., ए.व. ।
  • अपि = अव्ययम् ।
  • सुलभतया = आ. स्त्री., तृ.वि., ए.व. ।
  • हस्तलब्धे = अ., नपुं., स.वि., ए.व. ।
  • यत् = अव्ययम् ।
  • अन्यत् = अव्ययम् ।
  • तन्वा = तनु उ., स्त्री., तृ.वि., ए.व. ।
  • वाचा = वाच् च., स्त्री., तृ.वि., ए.व. ।
  • धिया = धी ई., स्त्री., तृ.वि., ए.व. ।
  • वा = अव्ययम् ।
  • भजति = भज् “भजँ सेवायाम्” परस्मैपदं लट्लकारः प्रथमपुरुषैकवचनम् ।
  • बत = अव्ययम् ।
  • जनः = अ., पुं., प्र.वि., ए.व. ।
  • क्षुद्रता = आ., स्त्री., प्र.वि., ए.व. ।
  • एव = अव्ययम् ।
  • स्फुटा = आ., स्त्री., प्र.वि., ए.व. ।
  • इयम् = इदम् म., स्त्री., प्र.वि., ए.व. ।
  • एते = एतद् द., सर्वनाम., पुं., प्र.वि., ब.व. ।
  • तावत् = अव्ययम् ।
  • वयम् = अस्मद् द., सर्वनाम., त्रि., प्र.वि., ब.व. ।
  • तु = अव्ययम् ।
  • स्थिरतरमनसा = स्थिरतरमनस् स., नपुं., तृ.वि., ए.व. ।
  • विश्वपीड़ापहत्यै = विश्वपीड़ापहति इ., स्त्री., च.वि., ए.व. ।
  • निश्शेषात्मानम् = निश्शेषात्मा न., नपुं., द्वि.वि., ए.व. ।
  • एनम् = इदम् म., सर्वनाम पुं., द्वि.वि., ए.व. ।
  • गुरुपवनपुराधीशम् = अ., पुं., द्वि.वि., ए.व. ।
  • एव = अव्ययम् ।
  • आश्रयामः = आङ् + श्रि “श्रिञ् सेवायाम्” परस्मैपदं लट्लकारः उत्तमपुरुषबहुवचनम् ।

छन्दः

Word-Meaning

  • बत = Alas!
  • इयम् = this is
    • क्षुद्रता एव = definitely (एव) inferior and pitiable
      • स्फुटा = one which is clear
    • यत् = that
    • जनः = people
      • भजति = persue
        • अन्यत् = other things
        • तन्वा वाचा धिया वा = by body (तनु), words (वाक्) or (वा) mind (धी)
        • दुर्लभ्यवस्तुनि अपि सुलभतया हस्तलब्धे = when even (अपि) the things (वस्तु) that are difficult_to_obtain (दुर्लभ्) have been obtained (लब्ध) in hand (हस्त)
          • एवम् = in this way
        • तावत् एते वयं तु = Whereas we these people
          • आश्रयामः = are ones who have surrendered
            • एनम् = to him
            • गुरुपवनपुराधीशम् = to the Lord (अधीश) of Guruvaayur, the abode (पुर) of Brhaspati (गुरु) and Vaayu (पवन)
            • निश्शेषात्मानम् = to one who is the soul (आत्मन्) of everyone without (निः) any exception (शेष)
            • एव = alone
          • स्थिरतरमनसा = with a mind (मनस्) that is extremely_resolved (स्थिरतर)
            • विश्वपीड़ापहत्यै = for the sake of eradication (अपहति) of the sufferings (पीड़ा) of the world (विश्व)

1.3. श्लोकः

https://www.youtube.com/watch?v=pwJcLJcYhUc

मूलपाठः

सत्त्वं यत्तत् पराभ्यामपरिकलनतो निर्मलं तेन तावत्
भूतैर्भूतेन्द्रियैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् ।
तत् स्वच्छ्त्वाद्यदाच्छादितपरसुखचिद्गर्भनिर्भासरूपं
तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥ ३ ॥

पदच्छेदः

सत्त्वम्, यत्, तत्, पराभ्याम्, अपरिकलनतः, निर्मलम्, तेन, तावत्, भूतैः, भूतेन्द्रियैः, ते, वपुः, इति, बहुशः, श्रूयते, व्यासवाक्यम्, तत्, स्वच्छ्त्वात्, यत्, अच्छादितपरसुखचिद्गर्भनिर्भासरूपम्, तस्मिन्, धन्याः, रमन्ते, श्रुतिमतिमधुरे, सुग्रहे, विग्रहे, ते

अन्वयार्थः

  • तत्पराभ्याम् = तस्मात् (सत्वात्) अन्याभ्यां, रजसा तमसा च
  • अपरिकलनतः = सम्पर्कराहित्यात्
  • निर्मलं यत् सत्त्वम् = परिशुद्धं यत् सत्त्वम्
  • तेन = तेन सत्वगुणेन
  • तावत् भूतैः = एव जातैः
  • भूतेन्द्रियैः = भूतैः इन्द्रियैः च
  • ते वपुः इति = भवतः शरीरम् इति
  • बहुशः व्यासवाक्यं श्रूयते = अनेकवारं व्यासेन उक्तम् इति श्रूयते
  • तत्स्वच्छ्त्वात् = तस्मात् निर्मलत्वात्
  • यत् = यत्
  • अच्छादितपरसुखचिद्गर्भनिर्भासरूपम् = न छादितम् अत्यन्तसुखेन प्रकाशेन च अन्तर्भागे विराजमानम्
  • श्रुतिमतिमधुरे = श्रवणे स्मरणे च मधुरे
  • सुग्रहे = सुखेने ग्राह्ये
  • ते तस्मिन् विग्रहे = भवतः तस्मिन् वपुषि
  • धन्याः = भाग्यवन्तः
  • रमन्ते = विलसन्ति

अन्वयः

तत्पराभ्याम् अपरिकलनतः यत् निर्मलं सत्त्वं (अस्ति) तेन तावत् भूतैः भूतेन्द्रियैः ते वपुः (अस्ति) इति व्यासवाकयं बहुशः श्रूयते । तत् स्वच्छ्त्वात् यत् अच्छादितपरसुखचिद्गर्भनिर्भासरूपम् (अस्ति) तस्मिन् श्रुतिमतिमधुरे सुग्रहे ते विग्रहे धन्याः रमन्ते ।

अन्वयरचना

  • श्रूयते
    • कथं श्रूयते ? बहुशः
    • किं श्रूयते ? व्यासवाकयम्
      • किमिति व्यासवाकयम् ? (अस्ति) इति
        • किम् अस्ति ? वपुः
          • कस्य वपुः ? ते
        • कैः वपुः अस्ति ? भूतेन्द्रियैः
          • कीदृशैः भूतेन्द्रियैः ? भूतैः भूतेन्द्रियैः
            • केन भूतैः भूतेन्द्रियैः ? तेन (सत्वेन) तावत्
              • कीदृशेन तेन ? यत् निर्मलम् (अस्ति)
                • किं निर्मलम् अस्ति ? सत्त्वम्
                • कस्मात् कारणात् निर्मलम् ? अपरिकलनतः
                  • काभ्याम् अपरिकलनतः ? तत्पराभ्याम्
                • रमन्ते
                  • के रमन्ते ? धन्याः
                  • कस्मिन् रमन्ते ? तस्मिन् विग्रहे
                    • कस्य विग्रहे ? ते
                    • कीदृशे विग्रहे ? श्रुतिमतिमधुरे
                    • पुनः कीदृशे विग्रहे ? सुग्रहे
                    • पुनः कीदृशे तस्मिन् विग्रहे ? यत् अच्छादितपरसुखचिद्गर्भनिर्भासरूपम् (अस्ति)
                      • कस्मात् कारणात् अच्छादितपरसुखचिद्गर्भनिर्भासरूपम् ? तत्स्वच्छ्त्वात्

तात्पर्यम्

शुद्धसत्वं निर्मलं भवति, यतः अस्य रजसा तमसा च सम्पर्कः नास्ति । तेन शुद्धसत्वेन उद्भूतैः पञ्चभुतैः दशेन्द्रियैः चैव भगवतः शरीरं अस्ति इति पुराणादिषु भगवता व्यासेन बहुवारं उक्तमिति ज्ञायते । निर्मलशुद्धसत्वात् अनावृतं तद्वपुः परमसुखरूपं चिद्रूपं अन्तःप्रकाशमानं च अस्ति। भगवत्कथाश्रवणं मननं च मधुरं भवति, स्वरुपध्यानं सुलभं च। भाग्यवन्तः भगगवत्स्वरूपे रमन्ते ।

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

पदपरिचयः

  • पराभ्याम् = पर अ., नपुं., प.वि., द्वि.व.
  • अपरिकलनतः = अव्ययम्
  • वपुः = वपुस् स., नपुं., प्र.वि., ए.व.
  • श्रूयते = श्रु “श्रु श्रवणे” कर्मणिप्रयोगः आत्मनेपदं लट्लकारः प्रथमपुरुषैकवचनम्
  • रमन्ते = रम् “रमुँ क्रीडायाम्” आत्मनेपदं लट्लकारः प्रथमपुरुषबहुवचनम्

पदविवरणम्

  • अपरिकलनतः = न परिकलनम् अपरिकलनं, तस्मात् इत्यर्थे तसिल्प्रत्ययः।
  • निर्मलम् = निर्गतं मलं यस्मात् तत् ।
  • भूतेन्द्रियैः = भूतानि च इन्द्रियाणि च, तैः
  • व्यासवाक्यम् = व्यासस्य वाक्यम्
  • तत्स्वच्छ्त्वात्
    • स्वच्छम् = सुष्ठु अच्छम्
    • स्वच्छत्वम् = स्वच्छ्स्य भावः
    • तत्स्वच्छ्त्वात् = तत् स्वच्छत्वं, तस्मात्
  • अच्छादितपरसुखचिद्गर्भनिर्भासरूपम्
    • परसुखम् = परं च तत् सुखं च
    • परसुखचित् = परसुखं च तत् चित् च
    • अच्छादितम् = न छादितम्
    • अच्छादितपरसुखचित् = अच्छादितं च तत् परसुखचित्
    • गर्भनिर्भासम् = गर्भे निर्भासम्
    • अच्छादितपरसुखचित्गर्भनिर्भासम् = अच्छादितपरसुखचित् च तत् गर्भनिर्भासं च
    • अच्छादितपरसुखचिद्गर्भनिर्भासरूपम् = अच्छादितपरसुखचित्गर्भनिर्भासं च तत् रूपं च

छन्दः

Word-Meaning

  • व्यासवाक्यम् = The sayings (वाक्य) of Saga Vyasa (व्यास)
    • श्रूयते = is heard
    • बहुशः = repeatedly
    • इति = that
      • ते वपुः = your body (वपुस्)
        • भूतेन्द्रियैः = is made with all with the five elements (भूत) and with the associated senses (इन्द्रिय)
        • भूतैः = which are created
          • तेन तावत् = only by that
          • यत् सत्त्वम् (अस्ति) = that sattva which is there
            • निर्मलम् = which is pure (निर्मल), devoid of (निर्) impurity (मल)
            • अपरिकलनतः = due to not (न) mixing (परिकलन)
              • पराभ्याम् = with the other two (पर) (namely Rajas and Tamas)
            • धन्याः = The fortunate ones
              • रमन्ते = revel
                • ते विग्रहे = in your figure (विग्रह)
                • श्रुतिमतिमधुरे = in that which is delightful (मधुर) to the ears (श्रुति) and the mind (मति)
                • सुग्रहे = that which is easily graspable (सु-ग्रह)
                • तस्मिन् = in that
                • यत् अच्छादितपरसुखचिद्गर्भनिर्भासरूपम् = that which is a form (रूप) that is supremely resplendent (निर्भास) Brahman, because of unobstructed (अच्छादित) supreme (पर) bliss (सुख) and consciousness (चित्) within (गर्भ)
                  • तत्स्वच्छ्त्वात् = due to that (तत्) purity (स्वच्छ्त्व)

1.4. श्लोकः

https://www.youtube.com/watch?v=5Lz3DIuk7I4

मूलपाठः

निष्कम्पे नित्यपूर्णे निरवधिपरमानन्दपीयूषरूपे
निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।
कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा
कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् ॥ ४ ॥

पदच्छेदः

निष्कम्पे, नित्यपूर्णे, निरवधिपरमानन्दपीयूषरूपे, निर्लीनानेकमुक्तावलिसुभगतमे, निर्मलब्रह्मसिन्धौ, कल्लोलोल्लासतुल्यम्, खलु, विमलतरम्, सत्त्वम्, आहुः, तदात्मा, कस्मात्, नो, निष्कलः, त्वम्, सकलः, इति, वचः, त्वत्कलासु, एव, भूमन्

अन्वयार्थः

  • विमलतरं सत्त्वम् = परिशुद्धं सत्त्वम्
  • निष्कम्पे = कम्परहिते, निश्चले
  • नित्यपूर्णे = सदा पूर्णे
  • निरवधिपरमानन्दपीयूषरूपे
    • निरवधिः = अनन्तः
    • परमानन्दः = अतीवानन्दः
    • पीयूषरूपम् = अमृतरूपम्
  • निर्लीनानेकमुक्तावलिसुभगतमे
    • निर्लीनः = विलीनः
    • अनेक = बहवः
    • मुक्ताः = (समुद्रस्य पक्षे) मौक्तिकाः / (ब्रह्मणः पक्षे) निर्मुक्ताः
    • आवलिः = समूहः
    • सुभगतमम् = स्पृहणीयम्, अत्यन्तकमनीयम्
  • निर्मलब्रह्मसिन्धौ = शुद्धब्रहसमुद्रे
  • कल्लोलोल्लासतुल्यम् = तरङ्गानाम् उल्लासतुल्यम्
  • आहुः खलु = वदन्ति खलु
  • तदात्मा त्वम् = तादृशसत्वस्वरूपः भवान्
  • कस्मात् नो निष्कलः = केन कारणेन न निष्कलः ? (निष्कलः एव)
  • भूमन् = सर्वव्यापिन्
  • सकलः इति वचः = सकलः इति उक्तिः
  • त्वत्कलासु एव = भगवतः अवतारेषु एव

अन्वयः

विमलतरं सत्त्वं, निष्कम्पे नित्यपूर्णे निरवधिपरमानन्दपीयूषरूपे निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ, कल्लोलोल्लासतुल्यम् (अस्ति) (इति) (पण्डिताः) आहुः खलु । तदात्मा (त्वं) कस्मात् नो निष्कलः (असि) । हे भूमन् ! त्वं सकलः इति वचः त्वत्कलासु एव (भवति) ।

अन्वयरचना

  • (पण्डिताः) आहुः खलु
    • किमिति आहुः ? कल्लोलोल्लासतुल्यम् (अस्ति) (इति)
      • किं कल्लोलोल्लासतुल्यम् (अस्ति) ? सत्त्वम्
        • कीदृशं सत्त्वम् ? विमलतरम्
      • कस्मिन् कल्लोलोल्लासतुल्यम् (अस्ति) ? निर्मलब्रह्मसिन्धौ
        • कीदृशे निर्मलब्रह्मसिन्धौ ? निष्कम्पे
        • पुनः कीदृशे निर्मलब्रह्मसिन्धौ ? नित्यपूर्णे
        • पुनः कीदृशे निर्मलब्रह्मसिन्धौ ? निरवधिपरमानन्दपीयूषरूपे
        • पुनः कीदृशे निर्मलब्रह्मसिन्धौ ? निर्लीनानेकमुक्तावलिसुभगतमे
      • कस्मात् (त्वं) नो निष्कलः (असि) ?
        • कीदृशः त्वम् ? तदात्मा
      • (हे) भूमन् !
      • (भवति)
        • किं भवति ? वचः
          • किमिति वचः ? त्वं सकलः इति
        • कासु भवति ? त्वत्कलासु एव

तात्पर्यम्

शुद्धब्रह्म निश्चलसमुद्रम् इव भवति । सदा पूर्णे तस्मिन् समुद्रे अनेकमुक्तावलयः विलीनाः भवन्ति । समुद्रे तरङ्गोल्लासः भवति । शुद्धसत्वं तु तादृशे ब्रह्मसमुद्रे जायमानः तारङ्गोल्लासः इव अस्ति इति पण्डिताः वदन्ति । शुद्धसत्वस्वरूपः भगवान् निष्कलः एव, भगवतः सकलत्वं तु ब्रह्माविष्णुमहेश्वराणां तथा भगवदवताराणां च विषये एव भवति ।

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

पदपरिचयः

  • आहुः = ब्रू “ब्रूञ् व्यक्तायां वाचि” परस्मैपदं लट्लकारः प्रथमपुरुषबहुवचनम्
  • तदात्मा = तदात्मन् न., पुं., प्र.वि., ए.व.
  • त्वत्कलासु = त्वत्कला आ., स्त्री., स.वि., ब.व.
  • भूमन् = भूमन् न., पुं., सम्बो.प्र.वि., ए.व.

पदविवरणम्

  • नो = न+उ, निषेदे
  • निरवधिपरमानन्दपीयूषरूपे
    • निरवधिपरमानन्दः = निरवधिश्च परमानन्द च ।
    • निरवधिपरमानन्दपीयूषम् = निरवधिपरमानन्दञ्च तत् पीयूषञ्च च ।
    • निरवधिपरमानन्दपीयूषरूपे = निरवधिपरमानन्दपीयूषञ्च तत् रूपं च, तस्मिन् ।
  • निर्लीनानेकमुक्तावलिसुभगतमे
    • मुक्तावलयः = मुक्तानाम् आवलयः ।
    • अनेकमुक्तावलयः = अनेकाः मुक्तावलयः ।
    • निर्लीनानेकमुक्तावलयः = निर्लीनाः अनेकमुक्तावलयः ।
    • निर्लीनानेकमुक्तावलिसुभगतमे = निर्लीनानेकमुक्तावलिभिः सुभगतमम्, तस्मिन् ।
  • निर्लीनानेकमुक्तावलिसुभगतमे
    • अनेकमुक्ताः = अनेकाः मुक्ताः ।
    • अनेकमुक्तावलिः = अनेकमुक्तानाम् आवलिः ।
    • निर्लीनानेकमुक्तावलयः = निर्लीनः अनेकमुक्तावलिः ।
    • निर्लीनानेकमुक्तावलिसुभगतमे = निर्लीनानेकमुक्तावलिना सुभगतमम्, तस्मिन् ।
  • कल्लोलोल्लासतुल्यम्
    • कल्लोलोल्लासः = कल्लोलस्य उल्लासः
    • कल्लोलोल्लासतुल्यम् = कल्लोलोल्लासस्य तुल्यम्

छन्दः

Word-Meaning

  • (पण्डिताः) आहुः खलु = Indeed the wise men say
    • (इति) = that
    • निर्मलब्रह्मसिन्धौ = in the pure (निर्मल) ocean (सिन्धु) of Brahma (ब्रह्म)
      • निष्कम्पे = in that which is vibrationless
      • नित्यपूर्णे = in that which is always complete
      • निरवधिपरमानन्दपीयूषरूपे = in that which is the personification (रूप) of the unlimited (निरवधि) nectarian (पीयूष) supreme (परम) bliss (आनन्द)
      • निर्लीनानेकमुक्तावलिसुभगतमे = in that which is the most charming and likeable (सुभगतम), due to the numerous (अनेक) collection (आवलि) of pearls (मुक्त) (in the context of ocean) or the liberated ones (मुक्त) (in the context of Brahman), that are immersed (निर्लीन) in it
    • सत्त्वम् = the Sattva
      • विमलतरम् = which is extremely pure
      • (अस्ति) = is
      • कल्लोलोल्लासतुल्यम् = like (तुल्य) the playful rising up (उल्लास) of the waves (कल्लोल)
    • हे भूमन् = O Omnipresent One!
    • कस्मात् = why
      • (त्वम्) = you
        • तदात्मा = the one having the nature of that (Sattva)
      • नो निष्कलः (असि) = are not Nishkala or Poornavaraata, the complete incarnation
    • वचः = The saying
      • इति = that
      • त्वम् = you are
      • सकलः = a sakala or Amshavatara, the incarnation associated with some part
      • त्वत्कलासु एव (भवति) = (applies to) your incarnations only

1.5. श्लोकः

मूलपाठः

निर्व्यापारोऽपि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां
तेनैवोदेति लीना प्रकृतिरसतिकल्पाऽपि कल्पादिकाले ।
तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं
स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्ठ रूपम् ॥५॥

पदच्छेदः

निर्व्यापारः, अपि, निष्कारणम्, अज, भजसे, यत्, क्रियाम्, ईक्षणाख्याम्, तेन, एव, उदेति, लीना, प्रकृतिः, असतिकल्पा, अपि, कल्पादिकाले, तस्याः, संशुद्धम्, अंशम्, कम्, अपि, तम्, अतिरोधायकम्, सत्त्वरूपम्, सः, त्वम्, धृत्वा, दधासि, स्वमहिमविभवाकुण्ठ, वैकुण्ठ, रूपम्

अन्वयार्थः

  • अज = जन्मरहित
  • निर्व्यापारः अपि = निश्चेष्टः अपि
  • निष्कारणम् = (किमपि) कारणं विना
  • ईक्षणाख्यां क्रियां भजसे यत् = ईक्षणं नाम चेष्टाम् अनुवर्तसे यत्
  • तेन एव = तेन एव
  • असतिकल्पा अपि = यद्यपि नास्ति इति भासते
  • लीना प्रकृतिः = (त्वयि) विलीना प्रकृतिः (माया)
  • कल्पादिकाले = कल्पारम्भकाले
  • उदेति = जागरति, उत्तिष्ठति
  • स्वमहिमविभवाकुण्ठ = स्वस्य अपारमहिमया कदापि न रुद्धः, सम्बुद्धौ
  • वैकुण्ठ = वैकुण्ठवासिन्
  • सः त्वम् = तादृशः (निर्व्यापारः) भवान्
  • तस्याः = तस्याः प्रकृतेः
  • अतिरोधायकम् = न आच्छादकम्
  • संशुद्धं तं सत्त्वरूपं कम् अपि अंशं धृत्वा = निर्मलं सत्त्वरूपं कमपि अंशं स्वीकृत्य
  • रूपं दधासि = रूपं धरसि (सकलो भवसि)

अन्वयः

(हे) अज । (त्वं) निर्व्यापारः अपि निष्कारणम् ईक्षणाख्यां क्रियां भजसे यत्, तेन एव असतिकल्पा अपि (त्वयि) लीना प्रकृतिः कल्पादिकाले उदेति । हे स्वमहिमविभवाकुण्ठ ! हे वैकुण्ठ ! सः त्वं तस्याः अतिरोधायकं संशुद्धं तं सत्त्वरूपं कम् अपि अंशं धृत्वा रूपं दधासि ।

अन्वयरचना

  • (हे) अज ! उदेति
    • का उदेति ? प्रकृतिः
      • कीदृशी प्रकृतिः ? असतिकल्पा अपि
      • पुनः कीदृशी प्रकृतिः ? (त्वयि) लीना
    • कदा उदेति ? कल्पादिकाले
    • केन कारणेन उदेति ? तेन एव
      • केन तेन ? यत् (त्वं) भजसे
        • कथं भजसे ? निष्कारणम्
        • कीदृशः त्वम् ? निर्व्यापारः अपि
        • कां भजसे ? क्रियाम्
          • कीदृशीं क्रियाम् ? ईक्षणाख्याम्
        • हे स्वमहिमविभवाकुण्ठ
        • हे वैकुण्ठ
        • दधासि
          • कः दधासि ? सः त्वम्
          • किं दधासि ? रूपम्
          • किं कृत्वा दधासि ? धृत्वा
            • कं धृत्वा ? अंशम्
              • कीदृशम् अंशम् ? कम् अपि
              • पुनः कीदृशम् अंशम् ? संशुद्धम्
              • पुनः कीदृशम् अंशम् ? तं सत्त्वरूपम्
              • पुनः कीदृशम् अंशम् ? अतिरोधायकम्
            • कस्याः अंशम् ? तस्याः

तात्पर्यम्

भगवतः सकलत्वं वर्णयति अत्र । निष्कलः भवान् स्वतः निर्व्यापारः अपि कल्पादौ ईक्षणं नाम क्रियाम् अनुवर्तते । (एषा एव भगवतः सिसृक्षा ।) तेन ईक्षणेन, दर्शनेन असतिकल्पा अपि भवति विलीना मायाप्रकृतिः जागरति । हे अनिरुद्ध ! विष्णो ! तस्याः प्रकृतेः निर्मलं सत्वरूपम् अतिरोधायकं भवति, यस्य कमपि अंशं स्वीकृत्य भवान् रूपं धरति, सकलो भवति च ।

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

पदपरिचयः

  • उदेति = उत् + इ “इण् गतौ” परस्मैपदम् लट्लकारः प्रथमपुरुषैकवचनम्
  • दधासि = धा “डुधाञ् धारणपोषणयोः” परस्मैपदम् लट्लकारः मध्यमपुरुषैकवचनम्
  • प्रकृतिः = प्रकृति इ. स्त्री., प्र.वि., ए.व.
  • कम् = किम् म. पुं., द्वि.वि., ए.व.
  • यत् = यद् द. पुं., प्र.वि., ए.व.
  • तेन = तद् द. पुं., तृ.वि., ए.व.
  • तस्याः = तद् द. स्त्री., ष.वि., ए.व.
  • भजसे = भज् “भजँ सेवायाम्” आत्मनेपदम् लट्लकारः मध्यमपुरुषैकवचनम्

पदविवरणम्

  • https://naaraayaneeyam.wordpress.com/2012/04/24/1-5/
  • निर्व्यापारः = निर्गतः व्यापारः यस्मात् सः
  • निष्कारणम् = निर्गतं कारणं यस्मात् तत् । क्रियाविशेषणम्
  • अज = न जायते इति अजः, सम्बुदौ
  • ईक्षणाख्याम् = ईक्षणम् आख्या यस्याः सा ईक्षणाख्या, ताम्
  • धृत्वा = धृ “धृञ्धारणे” + क्त्व
  • असतिकल्पा
    • असती = न सती असती
    • असतिकल्पा = ईषदसमाप्ता असती असतिकल्पा (कल्प is added by the sutra 5-3-67 ईषदसमाप्तौ कल्पब्देश्यदेशीयरः। Note that असती becomes असति by 6-3-43 घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः।)
  • कल्पादिकाले
    • आदिकालः = आदिः च असौ कालः च
    • कल्पादिकाले = कल्पस्य आदिकालः कल्पादिकालः, तस्मिन्
  • संशुद्धम् = संयक् शुद्धः संशुद्धः, तम्
  • अतिरोधायकम्
  • सत्त्वरूपम् = सत्त्वम् रूपम् यस्य सः सत्त्वरूपः, तम्
  • स्वमहिमविभवाकुण्ठ
    • स्वमहिमा = स्वस्य महिमा
    • स्वमहिमविभवः = स्वमहिमा एव विभवः
    • अकुण्ठः = न कुण्ठः
    • स्वमहिमविभवाकुण्ठ = स्वमहिमविभवेन अकुण्ठः स्वमहिमविभवाकुण्ठः, सम्बुदौ

छन्दः

Word-Meaning

  • (हे) अज = O Birth-less one !
  • कल्पादिकाले = At the time of start (आदि) of Kalpa (कल्प), the new cycle of creation
    • प्रकृतिः = nature i.e., maya
      • (त्वयि) लीना = one who is latent or dissolved in you
      • असतिकल्पा अपि = though she is one who appears to be non-existent
    • उदेति = arises or manifests
    • तेन एव = just (एव) due to that (तेन)
      • भजसे यत् = that (यद्) you engage (भज) in
      • ईक्षणाख्यां क्रियाम् = the activity (क्रिया) called eekshana (ईक्षण) or seeing
      • निष्कारणम् = without (निः) any reason (कारण)
      • (त्वं) निर्व्यापारः अपि = though (अपि) you are one without (निर्) any activities (व्यापार)
    • हे स्वमहिमविभवाकुण्ठ = O one who is always unobstructed (अकुण्ठ) due to your (स्व) abundant (महिम) glory (विभवा)
    • वैकुण्ठ = O Vishnu, one who lives in Vaikuntha
    • सः त्वम् = You, that person
      • दधासि = take or assume
      • रूपम् = the form
      • धृत्वा = wearing
      • तस्याः संशुद्धं कम् अपि अंशं = some absolutely pure (संशुद्ध) part (अंश) of her (i.e., Maya),
        • अतिरोधायकम् = that which is non-obstructing
        • तम् सत्त्वरूपम् = that saattvik form

1.6. श्लोकः

मूलपाठः

तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं
लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम् ।
लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दसन्दोहमन्तः
सिञ्चत् सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ ॥६॥

पदच्छेदः

तत्, ते, प्रत्यग्रधाराधरललितकलायावलीकेलिकारम्, लावण्यस्य, एकसारम्, सुकृतिजनदृशाम्, पूर्णपुण्यावतारम्, लक्ष्मीनिश्शङ्कलीलानिलयनम्, अमृतस्यन्दसन्दोहम्, अन्तः, सिञ्चत्, सञ्चिन्तकानाम्, वपुः, अनुकलये, मारुतागारनाथ

अन्वयार्थः

  • मारुतागारनाथ = वायुपुरेश, गुरुवायुपुरेश
  • प्रत्यग्रधाराधरललितकलायावलीकेलिकारम् = नूतनमेघानां सुन्दरकलायकुसुमसमूहानां च विलासं यत् करोति
  • लावण्यस्य एकसारम् = सौन्दर्यस्य उत्तमं सारम्
  • सुकृतिजनदृशाम् = सुकृतिजनानां नयनानाम्
  • पूर्णपुण्यावतारम् = पुण्यस्य पूर्णावतारम्
  • लक्ष्मीनिश्शङ्कलीलानिलयनम् = लक्ष्मीदेव्याः सङ्कोचरहितलीलास्थानम्
  • सञ्चिन्तकानाम् अन्तः = ध्याननिरतानाम् अन्तः, मनसि
  • अमृतस्यन्दसन्दोहम् = अमृतधाराप्रवाहम्
  • सिञ्चत् = वर्षत्
  • तत् ते वपुः = तादृशं भवतः शरीरम्
  • अनुकलये = ध्यायामि

अन्वयः

(हे) मारुतागारनाथ । प्रत्यग्रधाराधरललितकलायावलीकेलिकारं लावण्यस्य एकसारं सुकृतिजनदृशां पूर्णपुण्यावतारं लक्ष्मीनिश्शङ्कलीलानिलयनं सञ्चिन्तकानाम् अन्तः अमृतस्यन्दसन्दोहं सिञ्चत् तत् ते वपुः (अहम्) अनुकलये ।

अन्वयरचना

  • (हे) मारुतागारनाथ ।
  • (अहम्) अनुकलये
    • किम् अनुकलये ? तत् वपुः
      • कस्य वपुः ? ते
      • किं कुर्वत् वपुः ? सिञ्चत्
        • कं सिञ्चत् ? अमृतस्यन्दसन्दोहम्
        • कुत्र सिञ्चत् ? अन्तः
          • केषाम् अन्तः ? सञ्चिन्तकानाम्
        • कीदृशं वपुः ? प्रत्यग्रधाराधरललितकलायावलीकेलिकारम्
        • पुनः कीदृशं वपुः ? एकसारम्
          • कस्य एकसारम् ? लावण्यस्य
        • पुनः कीदृशं वपुः ? पूर्णपुण्यावतारम्
          • केषां पूर्णपुण्यावतारम् ? सुकृतिजनदृशाम्
        • पुनः कीदृशं वपुः ? लक्ष्मीनिश्शङ्कलीलानिलयनम्

तात्पर्यम्

भगवत्स्वरूपवर्णना दृश्यते अस्मिन् श्लोकेऽपि । भगवद्वपुः नूतनमेघानां सुन्दरकलायकुसुमसमुहस्य च इव सुन्दरमस्ति । लावण्यस्य उत्तमसारं, सुकृतिजनानां पुरतः तेषां पुण्यस्य पूर्णावतारं तद्वपुः सदा ध्याननिरतानाम् अन्तःकरणे अमृतधाराप्रवाहं वर्षति । तस्मिन्नेव वपुषि लक्ष्मीदेवी निश्शङ्कं लीलाविलासं करोति । हे गुरुवायुपुरेश ! अहं तादृशं भवत्स्वरूपं ध्यायामि ।

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

पदपरिचयः

  • अनुकलये = अनु + कल “कल गतौ सङ्ख्याने च” उभयपदी धातुः, आत्मनेपदम् लट्लकारः उत्तमपुरुषैकवचनम्
  • सुकृतिजनदृशाम् = सुकृतिजनदृश् श., स्त्री., ष.वि., ब.व. । दृक् इति प्र.वि., ए.व. रूपम् ।
  • सिञ्चत् = सिञ्चत् त., नपुं., प्र.वि., ए.व.
  • वपुः = वपुस् स., नपुं., द्वि.वि., ए.व.

पदविवरणम्

  • प्रत्यग्रधाराधरललितकलायावलीकेलिकारम्
    • धाराधरः = धारां धरति इति
    • प्रत्यग्रधाराधरः = प्रत्यग्रः च असौ धाराधरः च
    • ललितकलायः = ललितः कलायः
    • ललितकलायावली = ललितकलायानाम् आवली
    • केलिकारम् = केलिं करोति इति
    • प्रत्यग्रधाराधरललितकलायावलीः = प्रत्यग्रधाराधराः च ललितकलायावली च
    • प्रत्यग्रधाराधरललितकलायावलीकेलिकारम् = प्रत्यग्रधाराधरललितकलायावलीनां केलिकारम्
  • एकसारम् = एकं सारम्
  • सुकृतिजनदृशाम्
    • सुकृतिनः = सुकृतम् एषाम् अस्ति इति सुकृतिनः
    • सुकृतिजनः = सुकृतिः जनः
    • सुकृतिजनाः = सुकृतिनः च ते जनाः च
    • सुकृतिजनादृशाम् = सुकृतिजनानां दृशः सुकृतिजनदृशः, तासाम्
  • पूर्णपुण्यावतारम्
    • पूर्णपुण्यम् = पूर्णं च तत् पुण्यं च
    • पूर्णपुण्यावतारम = पूर्णपुण्यस्य अवतारः – सवर्णदीर्घसन्धिः
  • लक्ष्मीनिश्शङ्कलीलानिलयनम्
    • निश्शङ्का = निर्गता शङ्का यस्याः सा
    • निश्शङ्कलीला = निश्शङ्का च सा लीला च
    • लक्ष्मीनिश्शङ्कलीला = लक्ष्म्याः निश्शङ्कलीला
    • निलयनम् = निलीयते अत्र इति
    • लक्ष्मीनिश्शङ्कलीलानिलयनम् = लक्ष्मीनिश्शङ्कलीलायाः निलयनम्
  • अमृतस्यन्दसन्दोहम्
    • अमृतस्यन्दः = अमृतस्य स्यन्दः
    • अमृतस्यन्दसन्दोहम् = अमृतस्यन्दस्य सन्दोहः, तम्
  • मारुतागारनाथ
    • अगारम् =
    • मारुतागारम् = मारुतस्य अगारम्
    • मारुतागारनाथ = मारुतागारस्य नाथ

छन्दः

Word-Meaning

  • (हे) मारुतागारनाथ = O Lord of Guruvaayur
  • (अहम्) अनुकलये = I meditate upon
    • तत् ते वपुः = that body of yours
      • प्रत्यग्रधाराधरललितकलायावलीकेलिकारम् = which ridicules (केलिकार) the fresh (प्रत्यग्र) rain-bearing (धारा-धर) clouds (धाराधर) and the bunch (आवली) of lovely (ललित) dark-colored kalaaya (कलाय) flowers, due to its superior dark-colored beauty
      • लावण्यस्य एकसारम् = which is the ultimate (एक) essence (सार) of beauty (लावण्य)
      • सुकृतिजनदृशां पूर्णपुण्यावतारम् = which is the full (पूर्ण) manifestation (अवतार) of the virtues (पुण्य) in front of the eyes (दृश्) of virtuous (सुकृति) people (जन)
      • लक्ष्मीनिश्शङ्कलीलानिलयनम् = which is the location for Lakshmi to play without any worry
      • सिञ्चत् = which is raining
        • सञ्चिन्तकानाम् अन्तः = in the minds of those who are meditating
        • अमृतस्यन्दसन्दोहम् = the combined flow of emerging nectar

1.7. श्लोकः

मूलपाठः

कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा-
मित्येवं पूर्वमालोचितमजित मया नैवमद्याभिजाने ।
नोचेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं
नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥७॥

पदच्छेदः

कष्टा, ते, सृष्टिचेष्टा, बहुतरभवखेदावहा, जीवभाजाम्, इति, एवम्, पूर्वम्, आलोचितम्, अजित, मया, न, एवम्, अद्य, अभिजाने, नो, चेत्, जीवाः, कथम्, वा, मधुरतरम्, इदम्, त्वद्वपुः, चिद्रसार्द्रम्, नेत्रैः, श्रोत्रैः, च, पीत्वा, परमरससुधाम्भोधिपूरे, रमेरन्

अन्वयार्थः

  • जीवभाजाम् = जीविनाम्
  • बहुतरभवखेदावहा = अनेकसंसारदुःखप्रदायिनी
  • ते सृष्टिचेष्टा = भवतः सृष्टिक्रिया
  • कष्टा = दुस्सहा
  • पूर्वम् आलोचितम् = पूर्वं चिन्तितम्
  • अद्य न एवम् अभिजाने = इदानीम् एवं न चिन्तयामि
  • नो चेत् = सृष्टिं न करोति चेत्
  • जीवाः कथं वा = जीविनः कथं वा
  • चिद्रसार्द्रम् = ज्ञानानन्दमयम्, चिदानन्दाभ्याम् आर्द्रम्
  • मधुरतरम् इदं त्वद्वपुः = अतीवमधुरम् एतत् भवतः शरीरम्
  • नेत्रैः श्रोत्रैः च पीत्वा = नेत्रैः श्रोत्रैः च पानं कृत्वा (साक्षाद्दर्शनेन कथाश्रवणेन च)
  • परमरससुधाम्भोधिपूरे रमेरन् = परमानन्दामृतसागरप्रवाहे रमेरन्

अन्वयः

(हे) अजित । जीवभाजां बहुतरभवखेदावहा ते सृष्टिचेष्टा कष्टा (अस्ति) इति एवं मया पूर्वम् आलोचितम् (आसीत्) । अद्य (अहम्) एवं न अभिजाने । नो चेत् जीवाः कथं वा चिद्रसार्द्रं मधुरतरम् इदं त्वद्वपुः नेत्रैः श्रोत्रैः च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ।

अन्वयरचना

  • (हे) अजित ।
  • आलोचितम् (आसीत्)
    • कया आलोचितम् ? मया
    • कदा आलोचितम् ? पूर्वम्
    • कथम् आलोचितम् ? एवम्
    • किमिति आलोचितम् ? कष्टा (अस्ति) इति
      • का कष्टा ? सृष्टिचेष्टा
      • कस्य सृष्टिचेष्टा ? ते
      • कीदृशी सृष्टिचेष्टा ? बहुतरभवखेदावहा
        • केषां बहुतरभवखेदावहा ? जीवभाजाम्
      • (अहं) न अभिजाने
        • कथं न अभिजाने ? एवम्
        • कदा न अभिजाने ? अद्य
      • नो चेत् कथं वा रमेरन्
        • के रमेरन् ? जीवाः
        • कस्मिन् रमेरन् ? परमरससुधाम्भोधिपूरे
        • किं कृत्वा रमेरन् ? पीत्वा
          • किं पीत्वा ? इदं त्वद्वपुः
            • कीदृशं त्वद्वपुः ? मधुरतरम्
            • पुनः कीदृशं त्वद्वपुः ? चिद्रसार्द्रम्
          • कैः पीत्वा ? नेत्रैः श्रोत्रैः च

तात्पर्यम्

(भगवत्स्वरूपदर्शनं कथाश्रवणं च भक्तानां कृते परमानन्दप्रदायकं भवति इति वर्णयति अस्मिन् श्लोके।)

भवता सृष्टाः जीविनः संसारदुःखम् अनुभवन्ति, अतः भवतः सृष्टिक्रिया कष्टा इति मया पूर्वं चिन्तितम् । किन्तु इदानीम् अहम् एवं न चिन्तयामि । भगवत्स्वरूपं ज्ञानानन्दमयम् अतिमधुरं च भवति । यदि सृष्टिः न भवति चेत् जीवानां भगवद्दर्शनश्रवणसौभाग्यं कथं भवति, कथं वा ते तज्जन्ये परमानन्दामृतसागरे रमन्ति च ।

(प्रथमश्लोके “हन्त ! भाग्यं जनानम्” इति अस्ति । तस्य समर्थनम् अत्र।)

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

पदपरिचयः

  • अभिजाने = अभि + ज्ञा “ज्ञा अवबोधने” उभयपदी धातुः, आत्मनेपदम् लट्लकारः उत्तमपुरुषैकवचनम्
  • रमेरन् = रम् “रमुँ क्रीडायाम्” आत्मनेपदम् विधिलिङ्लकारः प्रथमपुरुषबहुवचनम्
  • जीवभाजाम् = जीवभाज् ज. पुं., ष.वि., ब.व. । जीवभाक् इति प्र.वि. रूपम् ।

पदविवरणम्

  • सृष्टिचेष्टा = सृष्टिः एव चेष्टा
  • बहुतरभवखेदावहा
    • भवखेदः = भवस्य खेदः – तत्पुरुषः
    • बहुतरभवखेदाः = बहुतराः भवखेदाः – तत्पुरुषः
    • बहुतरभवखेदावहा = बहुतरभवखेदान् आवहति इति – सवर्णदीर्घसन्धिः
  • जीवभाजाम् = जीवं भजति इति जीवभाक्, तेषाम्
  • अजित = न जितः, अजितः – नञ् समासः
  • त्वद्वपुः = तव वपुः – तत्पुरुषः
  • चिद्रसार्द्रम्
  • परमरससुधाम्भोधिपूरे
    • परमरसः = परमः च असौ रसः च
    • परमरससुधा = परमरसः एव सुधा
    • अम्भोधिः = अम्भांसि धीयन्ते अत्र इति
    • परमरससुधाम्भोधिः = परमरससुधायाः अम्भोधिः – तत्पुरुष्ः, सवर्णदीर्घसन्धिः
    • परमरससुधाम्भोधिपूरे = परमरससुधाम्भोधेः पूरम्, तस्मिन्
  • नो = न उ – गुणसन्धिः

छन्दः

Word-Meaning

  • पूर्वम् = Earlier
  • मया आलोचितम् = it was thought by me that
    • ते सृष्टिचेष्टा = your activity of creation is
      • कष्टा = one that is tormenting
      • बहुतरभवखेदावहा = and one that brings forth many sorrows
        • जीवभाजाम् = for all the living beings
      • अजित = O, Invincible one
      • अद्य एवं न अभिजाने = Now I do not think so.
      • नो चेत् = If not
        • कथं वा = how will
        • जीवाः = the humans
        • नेत्रैः श्रोत्रैः च पीत्वा = having drunk with eyes and ears (seen and heard)
          • इदं त्वद्वपुः = this form of yours
          • मधुरतरम् = that is extremely delightful
          • चिद्रसार्द्रम् = and that is soaked (आर्द्र) in consciousness (चित्) and bliss (रस)
        • रमेरन् = revel
          • परमरससुधाम्भोधिपूरे = in the fullness (पूर) of the ocean (आम्भोधि) of absolute (परम) nectarian (सुधा) bliss (रस)

1.8. श्लोकः

मूलपाठः

नम्राणां सन्निधत्से सततमपि पुरस्तैरनभ्यर्थितान-

प्यर्थान् कामानजस्रं वितरसि परमानन्दसान्द्रां गतिं च ।
इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे त्वं
क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम् ॥८॥

पाठभेदः

नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यर्थितान-
प्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च ।

पदच्छेदः

नम्राणाम्, सन्निधत्से, सततम्, अपि, पुरः, तैः, अनभ्यर्थितान्, अपि, अर्थान्, कामान्, अजस्रम्, वितरसि, परमानन्दसान्द्राम्, गतिम्, च, इत्थम्, निश्शेषलभ्यः, निरवधिकफलः, पारिजातः, हरे, त्वम्, क्षुद्रम्, तम्, शक्रवाटीद्रुमम्, अभिलषति, व्यर्थम्, अर्थिव्रजः, अयम्

अन्वयार्थः

  • नम्राणां पुरः = नमस्कारं कुर्वतां पुरतः
  • सततम् = सदा
  • सन्निधत्से = सान्निध्यं करोषि, आविर्भवसि
  • तैः अनभ्यर्थितान् अपि = नम्रैः अनर्थितान् अपि
  • अर्थान् कामान् = अर्थान् अभीष्टान् च
  • परमानन्दसान्द्रां गतिं च = परमानन्दमयीं गतिं (मोक्षम्) च
  • अजस्रम् = सर्वदा
  • वितरसि = ददासि
  • इत्थम् = एवम्
  • हरे त्वम् = हे विष्णो ! भवान्
  • निश्शेषलभ्यः = सर्वैः प्राप्यः
  • निरवधिकफलः = अनेकफलयुक्तः
  • पारिजातः = कल्पवृक्षः
  • अयम् अर्थिव्रजः = एषः अर्थिगणः
  • क्षुद्रम् शक्रवाटीद्रुमम् = इन्द्रस्य आरामे स्थितं नीचं वृक्षम्
  • व्यर्थम् अभिलषति = व्यर्थम् इच्छति

अन्वयः

(त्वं) नम्राणां पुरः सततम् अपि सन्निधत्से । (त्वं) तैः अनभ्यर्थितान् अपि अर्थान् कामान् परमानन्दसान्द्रां गतिं च अजस्रं वितरसि । हे हरे ! इत्थं त्वं निश्शेषलभ्यः निरवधिकफलः पारिजातः (असि) । अयम् अर्थिव्रजः क्षुद्रं तं शक्रवाटीद्रुमं व्यर्थम् अभिलषति ।

अन्वयरचना

  • (त्वं) सन्निधत्से
    • कदा सन्निधत्से ? सततम् अपि
    • कुत्र सन्निधत्से ? पुरः
      • केषां पुरः ? नम्राणाम्
    • (त्वं) वितरसि
      • कान् वितरसि ? अर्थान्
      • पुनः कान् वितरसि ? कामान्
        • कीदृशान् कामान् ? अनभ्यर्थितान् अपि
          • कैः अनभ्यर्थितान् ? तैः
        • पुनः किं वितरसि ? गतिं च
          • कीदृशीं गतिम् ? परमानन्दसान्द्राम्
        • कदा वितरसि ? अजस्रम्
      • हे हरे!
      • इत्थं त्वं पारिजातः (असि)
        • कीदृशः पारिजातः ? निरवधिकफलः
        • पुनः कीदृशः पारिजातः ? निश्शेषलभ्यः
      • अभिलषति
        • कथम् अभिलषति ? व्यर्थम्
        • कः अभिलषति ? अयम् अर्थिव्रजः
        • किम् अभिलषति ? तं शक्रवाटीद्रुमम्
          • कीदृशं शक्रवाटीद्रुमम् ? क्षुद्रम्

तात्पर्यम्

अस्मिन् श्लोके भगवतः भक्तवात्सल्यवैशिष्ट्यं वर्णयति । ये भक्ताः भगवन्तं नमस्कुर्वन्ति, तेषां पुरतः भगवान् सदा सान्निध्यं करोति । भक्तवत्सलः भगवान् निष्कामभक्तेभ्यः अनभ्यर्थितान् अर्थकामानेव न मोक्षमपि सर्वदा प्रददाति । एवं भगवान् सर्वैरपि प्राप्यः अनेकफलयुक्तः कल्पवृक्षः अस्ति, तथापि अर्थाभिलाषिणः क्षुद्रम् इन्द्रवाटीद्रुममेव व्यर्थम् इच्छन्ति ।

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

पदपरिचयः

पदविवरणम्

  • अनभ्यर्थितान् = न अभ्यर्थितः – नञ् समासः, तान्
  • परमानन्दसान्द्राम्
    • परमानन्दः = परमः आनन्दः
    • परमानन्दैः सान्द्रा = परमानन्दसान्द्रा – तत्पुरुषः
  • निश्शेषलभ्यः
    • निश्शेषः = न शेषः
    • निश्शेषलभ्यः = निश्शेषैः लभ्यः – तत्पुरुषः
  • निरवधिकफलः = निरवधिकानि फलानि यस्मिन् सः – बहुव्रीहिः
  • शक्रवाटीद्रुमम्
    • शक्रवाटी = शक्रस्य वाटी – तत्पुरुषः
    • शक्रवाटीद्रुमः = शक्रवाट्याः द्रुमः – तत्पुरुषः
  • अर्थिव्रजः = अर्थिनां व्रजः – तत्पुरुषः

छन्दः

Word-Meaning

  • (भवान्) सन्निधत्से = You appear
    • सततम् अपि = always also
    • पुरः = in front
    • नम्राणाम् = of those who worship
  • (भवान्) वितरसि = You give away
    • अजस्रम् = perpetually
    • अर्थान् कामान् = wealth and desired objects
      • अनभ्यर्थितान् अपि = even those that have not been requested
        • तैः = by them
      • गतिं च = and the state
        • परमानन्दसान्द्राम् = which is completely filled (सान्द्र) with the Supreme (परम) Happiness (आनन्द)
      • हे हरे = O Hari
      • इत्थं = In this way,
        • पारिजातः त्वम् = you are the Paarijaata tree
          • निश्शेषलभ्यः = accessible to all without leaving anyone
          • निरवधिकफलः = the bestower of boundless (निरवधिक) fruits (फल)
        • अयम् अर्थिव्रजः = These multitude (व्रज) of desire-prompted (अर्थि) men
          • व्यर्थम् = unnecessarily
          • अभिलषति = wish
          • तं क्षुद्रं शक्रवाटीद्रुमम् = that inferior (क्षुद्र) tree (द्रुम) from Indra’s (शक्र) garden (वाटी)

1.9. श्लोकः

मूलपाठः

कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा-
दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम् ।
त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्या-
स्त्वं चात्माराम एवेत्यतुलगुणगणाधार शौरे नमस्ते ॥९॥

पदच्छेदः

कारुण्यात्, कामम्, अन्यम्, ददति, खलु, परे, स्वात्मदः, त्वम्, विशेषात्, ऐश्वर्यात्, ईशते, अन्ये, जगति, परजने, स्वात्मनः, अपि, ईश्वरः, त्वम्, त्वयि, उच्चैः, आरमन्ति, प्रतिपदमधुरे, चेतनाः, स्फीतभाग्याः, त्वम्, च, आत्मारामः, एव, इति, अतुलगुणगणाधार, शौरे, नमः, ते

अन्वयार्थः

  • परे = अन्ये (देवाः)
  • कारुण्यात् = दयया
  • अन्यं कामं ददति खलु = अन्यं (सामान्यम्) अभीष्टं ददति खलु
  • त्वं विशेषात् (कारुण्यात्) = भवान् विशेषकारुण्यात्
  • स्वात्मदः = आत्मदाता, सायूज्यदाता
  • अन्ये = अन्ये (देवाः)
  • ऐश्वर्यात् = ईशत्वात्, स्वामित्वात्
  • जगति = लोके
  • परजने = अन्यजनविषये
  • ईशते = स्वामित्वं भजन्त्ति
  • त्वं स्वात्मनः अपि ईश्वरः = भगवान् स्वस्य आत्मनः अपि ईश्वरः
  • स्फीतभाग्याः चेतनाः = सौभाग्यवन्तः जनाः
  • प्रतिपदमधुरे त्वयि = पदे पदे मधुरे त्वद्विषये
  • उच्चैः आरमन्ति = अत्यन्तम् आह्लादयन्ति
  • आत्मारामः एव = आत्मनि एव आह्लादयन्
  • इति = एवम्
  • अतुलगुणगणाधार शौरे = अनुपमगुणानाम् आश्रय ! शौरे !
  • नमस्ते = तुभ्यं नमः (अस्तु)

अन्वय

परे कारुण्यात् अन्यं कामं ददति खलु । त्वं विशेषात् स्वात्मदः (असि) । अन्ये ऐश्वर्यात् जगति परजने ईशते । त्वं स्वात्मनः अपि ईश्वरः (असि) । स्फीतभाग्याः चेतनाः प्रतिपदमधुरे त्वयि उच्चैः आरमन्ति । त्वं आत्मारामः एव (असि) च । इति हे अतुलगुणगणाधार ! शौरे ! ते नमः (अस्तु) ।

अन्वयरचना

  • ददति खलु
    • के ददति ? परे
    • कं ददति ? कामम्
      • कीदृशं कामम् ? अन्यम्
    • कस्मात् कारणात् ददति ? कारुण्यात्
  • त्वम् (असि)
    • त्वं कीदृशः असि ? स्वात्मदः
      • कस्मात् कारणात् स्वात्मदः ? विशेषात्
    • ईशते
      • के ईशते ? अन्ये
      • कुत्र ईशते ? जगति
      • कस्मिन् ईशते ? परजने
        • कस्मात् कारणात् ईशते ? ऐश्वर्यात्
      • त्वम् ईश्वरः (असि)
        • कस्य ईश्वरः ? स्वात्मनः अपि
      • आरमन्ति
        • कथम् आरमन्ति ? उच्चैः
        • के आरमन्ति ? चेतनाः
          • कीदृशाः चेतनाः ? स्फीतभाग्याः
        • कस्मिन् आरमन्ति ? त्वयि
          • कीदृशे त्वयि ? प्रतिपदमधुरे
        • त्वम् (असि) च
          • त्वं कीदृशः असि ? आत्मारामः एव
        • इति हे अतुलगुणगणाधार !
        • शौरे !
        • नमः (अस्तु)
          • कस्मै नमः अस्तु ? ते

तात्पर्यम्

अस्मिन् श्लोके भगवद्वैशिष्ट्यवर्णना दृश्यते ।

अन्ये देवाः दयया भक्तेभ्यः सामान्यम् अभीष्टं ददति, किन्तु भगवान् विशेषकरुणया सायूज्यं, मोक्षमपि ददाति । अन्यदेवानाम् ऐश्वर्यं लोके अन्यजनानां स्वामित्वादेव भवति । अन्यदेवाः लोके अन्यजनानां स्वामित्वं भजन्ति । भगवान् तु स्वात्मनः अपि ईश्वरः अस्ति । सौभाग्यवन्तः जनाः सर्वत्र मधुरे भगवद्विषये अत्यन्तम् आह्लादयन्ति, किन्तु भगवान् आत्मारामः अपि अस्ति । एवं भगावान् अनुपमगुणानाम् आश्रयः अस्ति । हे विष्णो ! तुभ्यं नमः ।

 सन्धिः (https://nivedita2015.wordpress.com/sandhi)

पदपरिचयः

  • ददति = दा “डुदाञ् दाने” परस्मैपदम् लट्लकारः प्रथमपुरुषबहुवचनम्
  • ईशते = ईश् “ईशँ ऐश्वर्ये” आत्मनेपदम् लट्लकारः प्रथमपुरुषबहुवचनम्
  • आरमन्ति = आङ् + रम् “रमुँ क्रीडायाम्” आत्मनेपदी धातुः, (वि, आङ्, परि वा – उपसर्गेण योजितं चेत्) परस्मैपदम् लट्लकारः प्रथमपुरुषबहुवचनम्
  • स्वात्मनः = स्वात्मन् न., पुं., ष.वि., ए.व.
  • शौरे= शौरि इ., पुं., सम्बो.प्र.वि., ए.व.

पदविवरणम्

  • स्वात्मदः
    • स्वात्मा = स्वस्य आत्मा – तत्पुरुषः
    • स्वात्मदः = स्वात्मानं यः ददाति, सः – बहुव्रीहिः
  • परजने = परः जनः, तस्मिन् – कर्मधारयः
  • स्वात्मनः = स्वस्य आत्मा, तस्य – तत्पुरुषः
  • प्रतिपदमधुरे = प्रतिपदं मधुरं यस्य सः, तस्मिन् – बहुव्रीहिः
  • स्फीतभाग्याः = स्फीतं भाग्यं येषां ते – बहुव्रीहिः
  • आत्मारामः
    • आरामः = आ समन्तात् रमते – तद्धितः
    • आत्मारामः = आत्मनि आरामः यस्य सः / आत्मा एव आरामः यस्य सः – बहुव्रीहिः
  • अतुलगुणगणाधार
    • अतुलगुणः = अतुलः गुणः – कर्मधारयः
    • अतुलगुणानां गणः = अतुलगुणगणः – तत्पुरुषः
    • अतुलगुणगणाधारः = अतुलगुणगणानाम् आधारः, सम्बुद्धौ – तत्पुरुषः

छन्दः

का रु ण्या त्का न्यं ति लु रे स्वा त्म स्त्वं वि शे षा
दै श्व र्या दी ते न्ये ति ने स्वा त्म नो पी श्व स्त्व
म्त्व य्यु च्चै रा न्ति प्र ति धु रे चे नाः स्फी भा ग्या
स्त्वं चा त्मा रा वे त्य तु गु णा धा शौ रे स्ते

Word-Meaning

  • परे ददति खलु = Others (i.e., other gods) give
    • अन्यं कामम् = other desired objects
    • कारुण्यात् = due to compassion
  • त्वं स्वात्मदः (असि) = You give your own self (i.e., give liberation)
    • विशेषात् = due to special (विशेष) compassion
  • अन्ये ईशते = Others (i.e., other gods) rule
    • ऐश्वर्यात् = by their powers (ऐश्वर्य)
    • जगति = in the world
    • परजने = in the context of other people
  • त्वं ईश्वरः (असि) = You are the lord
    • स्वात्मनः अपि = even of your own self
  • चेतनाः = The enlightened souls
    • स्फीतभाग्याः = those who are exceedingly (स्फीत) fortunate (भाग्य)
    • उच्चैः = deeply
      • आरमन्ति = revel
        • त्वयि = in you
        • प्रतिपदमधुरे = in one who is sweet in each step
      • त्वं च आत्मारामः एव = you are also (च) verily (एव) the one reveling (आराम) in one’s own self (आत्मन्)
      • इति हे अतुलगुणगणाधार = Thus, O Abode (आधार) of immense and incomparable (अतुल) qualities (गुण)
      • शौरे = O Sauri, Krishna!
      • ते नमः = Salutations to thee

1.10. श्लोकः

मूलपाठः

ऐश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां
तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् ।
अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता
तद्वातागारवासिन् मुरहर भगवच्छब्दमुख्याश्रयोऽसि ॥१०॥

पदच्छेदः

ऐश्वर्यम्, शङ्करादीश्वरविनियमनम्, विश्वतेजोहराणाम्, तेजस्संहारि, वीर्यम्, विमलम्, अपि, यशः, निस्पृहैः, च, उपगीतम्, अङ्गासङ्गा, सदा, श्रीः, अखिलवित्, असि, न, क्व, अपि, ते, सङ्गवार्ता, तत्, वातागारवासिन्, मुरहर, भगवच्छब्दमुख्याश्रयः, असि

अन्वयार्थः

  • तव ऐश्वर्यम् = भवतः ईश्वरत्वम् / स्वामित्वम्
  • शङ्करादीश्वरविनियमनम् = शङ्करादीनाम् ईश्वराणां नियमनम्
  • विश्वतेजोहराणाम् = समस्ततेजोहराणाम् / सूर्याग्निप्रभृतीनाम्
  • तेजस्संहारि = तेजोहारि
  • विमलं यशः = संशुद्धं यशः
  • निस्पृहैः = स्पृहारहितैः सिद्धैः
  • उपगीतम् = कीर्तितम्
  • श्रीः = लक्षमीः
  • सदा अङ्गासङ्गा = सर्वदा अङ्गे आसक्ता
  • अखिलवित् = सर्वज्ञः
  • क्व अपि = कुत्रापि
  • सङ्गवार्ता = आसक्तिकथनम्
  • वातागारवासिन् = गुरुवायुपुरनिवासिन्
  • मुरहर = मुरान्तक
  • तत् = तस्मात्
  • भगवच्छब्दमुख्याश्रयः = भगवान् इति पदस्य मुख्याश्रयः

अन्वयः

(तव) ऐश्वर्यं शङ्करादीश्वरविनियमनम् (अस्ति) । (तव) वीर्यं विश्वतेजोहराणाम् तेजस्संहारि (अस्ति) । (तव) विमलं यशः अपि निस्पृहैः उपगीतम् (अस्ति) च । श्रीः सदा (तव) अङ्गासङ्गा (अस्ति) । (त्वम्) अखिलवित् असि । सङ्गवार्ता ते क्व अपि न (अस्ति) । तत् (हे) वातागारवासिन् ! (हे) मुरहर ! (त्वं) भगवच्छब्दमुख्याश्रयः असि ।

अन्वयरचना

  • शङ्करादीश्वरविनियमनम् (अस्ति)
    • किं शङ्करादीश्वरविनियमनम् अस्ति ? (तव) ऐश्वर्यम्
  • तेजस्संहारि (अस्ति)
    • केषां तेजस्संहारि ? विश्वतेजोहराणाम्
    • किं तेजस्संहारि अस्ति ? (तव) वीर्यम्
  • उपगीतम् (अस्ति) च
    • कैः उपगीतम् अस्ति ? निस्पृहैः अपि
    • किम् उपगीतम् अस्ति ? (तव) यशः
      • कीदृशं यशः ? विमलम्
    • (तव) अङ्गासङ्गा (अस्ति)
      • का अङ्गासङ्गा ? श्रीः
      • कदा अङ्गासङ्गा ? सदा
    • (त्वम्) अखिलवित् असि
    • सङ्गवार्ता न (अस्ति)
      • कस्य सङ्गवार्ता न अस्ति ? ते
      • कुत्र न अस्ति ? क्व अपि
    • (हे) वातागारवासिन् ।
    • (हे) मुरहर ।
    • (त्वं) भगवच्छब्दमुख्याश्रयः असि
      • कस्मात् कारणात् भगवच्छब्दमुख्याश्रयः ? तत्

तात्पर्यम्

ऐश्वर्यं, वीर्यं, यशः, श्रीः, ज्ञानं, वैराग्यम् इति षण्णां गुणानां समाहारः भगः इत्युच्यते । एते सर्वेऽपि गुणाः गुरुवायुपुरेशे विष्णौ सन्ति इति वदति अस्मिन् श्लोके ।
शङ्करादीनां नियन्तॄणाम् अपि त्वं नियन्ता । सर्वेशित्वम् एव तव ऐश्वर्यम् । सूर्याग्निप्रभृतीनाम् अखिलतेजोहराणाम् अपि तेजः जेतुं त्वं समर्थः । तव वीर्यम् अतुल्यम् । शुकब्रह्मसदृशाः निष्कामसिद्धाः अपि तव संशुद्धं यशः कीर्तयन्ति । श्रीः, लक्ष्मीदेवी तु त्वदङ्गे सदा आसक्ता वर्तते । त्वं सर्वज्ञः असि । यत्र कुत्रापि तव आसक्तिः न लक्ष्यते । तव वैराग्यम् अद्वितीयम् । एवं षड् गुणाः अपरिमिततया त्वयि विद्यन्ते इति हेतोः ‘भगवान्’ इति शब्दस्य अन्वर्थग्रहणं तव विषये एव । अन्येषां विषये भगवच्छब्दप्रयोगः तु पूज्यार्थे भवति ।

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

पदपरिचयः

  • असि = अस् “असँ भुवि” परस्मैपदम् लट्लकारः मध्यमपुरुषैकवचनम्
  • विश्वतेजोहराणाम् = अ., पुं., ष.वि., ब.व.
  • तेजस्संहारि = इ., नपुं., प्र.वि., ए.व.
  • अखिलवित् = द., पुं., प्र.वि., ए.व.
  • वातागारवासिन्= न., पुं., संबो.प्र.वि., ए.व.
  • मुरहर = अ., पुं., संबो.प्र.वि., ए.व.
  • भगवच्छब्दमुख्याश्रयः = अ., पुं., प्र.वि., ए.व.

पदविवरणम्

  • शङ्करादीश्वरविनियमनम्
    • शङ्करादयः = शङ्करः येषां आदौ ते – बहुव्रीहिः
    • शङ्करादीश्वराः = शङ्करादयः च ते ईश्वराः – कर्मधारयः
    • शङ्करादीश्वरविनियमनम् = शङ्करादीश्वराणाम् विनियमनम् – तत्पुरुषः
  • विश्वतेजोहराणाम्
    • विश्वतेजः = विश्वम् तेजः – कर्मधारयः
    • विश्वतेजोहरः = विश्वतेजसां हरः – तत्पुरुषः
  • तेजस्संहारि = तेजसः संहारि – तत्पुरुषः
  • निस्पृहैः = न स्पृहा येषां ते – बहुव्रीहिः
  • अङ्गासङ्गा = अङ्गे आसङ्गा या – बहुव्रीहिः
  • अखिलवित् = यः अखिलं वेत्ति सः – बहुव्रीहिः
  • सङ्गवार्ता = सङ्गस्य वार्ता – तत्पुरुषः
  • वातागारवासिन्
    • वातागारम् = वातस्य आगारम् – तत्पुरुषः
    • वातागारवासिन् = वातागारे वासः यस्य सः, वातागारवासी, सम्बुदौ – बहुव्रीहिः
  • मुरहर = मुरस्य हरः – तत्पुरुषः
  • भगवच्छब्दमुख्याश्रयः
    • भगवच्छब्दः = भगवत् इति शब्दः – सम्‍भावनापूर्वपदः कर्मधारयः ।
      भगवत् + शब्दः –> भगवच् + शब्दः – श्चुत्वसन्धिः
      भगवच् + शब्दः –> भगवच् + छब्दः – छत्वसन्धिः
    • मुख्याश्रयः = मुख्यः आश्रयः – कर्मधारयः ।
    • भगवच्छब्दमुख्याश्रयः = भगवच्छब्दस्य मुख्याश्रयः – तत्पुरुषः ।

छन्दः

श्व र्यं ङ्क रा दी श्व वि नि नं वि श्व ते जो रा णां
ते स्सं हा रि वी र्यं वि पि शो नि स्पृ है श्चो गी तं
ङ्गा ङ्गा दा श्री खि वि सि क्वा पि ते ङ्ग वा र्ता
द्वा ता गा वा सि न्मु च्छ ब्द मु ख्या श्र यो सि

Word-Meaning

  • (तव) ऐश्वर्यम् = Thy lordliness
    • शङ्करादीश्वरविनियमनम् = controls (विनियमन) of all gods (ईश्वर) beginning (आदि) with Shankara (शङ्कर)
  • (तव) वीर्यम् = (Thy) prowess (वीर्य)
    • तेजस्संहारि = is the destroyer (संहारिन्) of the powers (तेजस्)
      • विश्वतेजोहराणाम् = of those (powerful beings) who are the destroyers (हर) of the powers (तेजस्) of the universe (विश्व)
    • (तव) यशः = your fame
      • विमलम् = is untainted
      • उपगीतम् च = and is sung
        • निस्पृहैः अपि = even by the desire-less (निस्पृह) sages
      • श्रीः = Goddess Lakshmi
        • सदा = always
        • (तव) अङ्गासङ्गा = resides (आसङ्गा) in your bosom (अङ्ग)
      • (त्वम्) अखिलवित् असि = You are omniscient
      • ते सङ्गवार्ता = The news about your attachment
        • न क्व अपि = is not there anywhere also (i.e., you are beyond attachment)
      • (हे) वातागारवासिन् = O Resident or the Residing Lord (वासिन्) of Guruvaayur (वातागार)
      • (हे) मुरहर – O Slayer of demon Mura!
      • तत् = Hence
        • (त्वं) असि = you are

भगवच्छब्दमुख्याश्रयः = the main (मुख्य) resort (आश्रय) for the word (शब्द) Bhagavat (भगवत्) i.e., Only You deserve to be called Bhagavaan since You possess the six qualities of ऐश्वर्यं (sovereignty), वीर्यं (virility), यशः (fame), श्रीः (wealth), ज्ञानं (knowledge), वैराग्यम् (detachment).

—————–

द्वितीयदशकम्

Shloka 2.1

सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं
कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् ।
गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं
त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥२.१॥

[पदच्छेदः] सूर्यस्पर्धिकिरीटम् ऊर्ध्वतिलकप्रोद्भासिफालान्तरम् कारुण्याकुलनेत्रम् आर्द्रहसितोल्लासम् सुनासापुटम् गण्डोद्यन्मकराभकुण्डलयुगम् कण्ठोज्ज्वलत्कौस्तुभम् त्वद्रूपम् वनमाल्यहारपटलश्रीवत्सदीप्रम् भजे ।

अन्वयरचना

  • (अहं) भजे
    • किं भजे ? त्वद्रूपम्
      • कीदृशं त्वद्रूपम् ? वनमाल्यहारपटलश्रीवत्सदीप्रम्
      • पुनः कीदृशं त्वद्रूपम् ? सूर्यस्पर्धिकिरीटम्
      • पुनः कीदृशं त्वद्रूपम्? ऊर्ध्वतिलकप्रोद्भासिफालान्तरम्
      • पुनः कीदृशं त्वद्रूपम्? कारुण्याकुलनेत्रम्
      • पुनः कीदृशं त्वद्रूपम्? आर्द्रहसितोल्लासम्
      • पुनः कीदृशं त्वद्रूपम्? सुनासापुटम्
      • पुनः कीदृशं त्वद्रूपम्? गण्डोद्यन्मकराभकुण्डलयुगम्
      • पुनः कीदृशं त्वद्रूपम्? कण्ठोज्ज्वलत्कौस्तुभम्

[अन्वयः] सूर्यस्पर्धिकिरीटम् ऊर्ध्वतिलकप्रोद्भासिफालान्तरं कारुण्याकुलनेत्रम् आर्द्रहसितोल्लासं सुनासापुटं गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं वनमाल्यहारपटलश्रीवत्सदीप्रं त्वद्रूपम् (अहं) भजे ।

पदार्थः

  • सूर्य-स्पर्धि-किरीटम् = सूर्यादपि शोभनं किरीटम्
  • ऊर्ध्वतिलक-प्रोद्भासि-फालान्तरम् = ऊर्ध्वतिलकेन भासमानं फालदेशम्
  • कारुण्याकुल-नेत्रम् = दयापूर्णनेत्रद्वयम्
  • आर्द्र-हसितोल्लासम् = मृदु-मन्दहास-उल्लासम्
  • सु-नासापुटम् = शोभनं नासापुटम्
  • गण्डोद्यन्मकराभ-कुण्डल-युगम् = गण्डदेशे प्रतिबिम्बमानं विलसन्तं मकररूप-कुण्डलद्वयम्
  • कण्ठोज्ज्वलत्-कौस्तुभम् = कण्ठे शोभमानं कौस्तुभम्
  • त्वद्-रूपम् = भवद्रूपम्, वैकुण्ठविग्रहम्
  • वनमाल्य-हार-पटल-श्रीवत्स-दीप्रम् = वनमाल-मुक्तहार-श्रीवत्सैः प्रकाशमानम्
  • भजे = ध्यायामि

[तात्पर्यम्] भगवद्विग्रहस्य वर्णनं कुर्वन् कविः भगवन्तं भजति । विग्रहस्य शिरसि सूर्यादपि उज्ज्वलं किरीटं, फालदेशे ऊर्ध्वतिलकं च विराजते । भगवन्नेत्रं करुणामयमस्ति, नासापुटम् सुन्दरं च । एवमेव कपोलः मकररूप-कुण्डलद्वयेन, कण्ठ कौस्तुभेन च शोभते । वनमालाभिः  रत्नहारैः श्रीवत्सेन च भगवद्रूपं शोभते । तादृशं मधुरं भवद्रूपम् अहं ध्यायामि ।

पदविवरणम् समासः

  • सूर्यस्पर्धिकिरीटम्
    • सूर्येण स्पर्धते इति सूर्यस्पर्धि – तत्पुरुषः
    • सूर्यस्पर्धि च तत् किरीटम् च = सूर्यस्पर्धिकिरीटम् – कर्मधारयः
    • सूर्यस्पर्धिकिरीटम् यस्य तत् – सूर्यस्पर्धिकिरीटम् – बहुव्रीहिः
  • ऊर्ध्वतिलकप्रोद्भासिफालान्तरम्
    • ऊर्ध्वम् च तत् तिलकम् च = ऊर्ध्वतिलकम् – कर्मधारयः
    • ऊर्ध्वतिलकेन प्रोद्भासते इति ऊर्ध्वतिलकप्रोद्भासि – तत्पुरुषः
    • ऊर्ध्वतिलकप्रोद्भासि च तत् फालान्तरम् च = ऊर्ध्वतिलकप्रोद्भासिफालान्तरम् – कर्मधारयः
    • ऊर्ध्वतिलकप्रोद्भासिफालान्तरम् यस्य तत् = ऊर्ध्वतिलकप्रोद्भासिफालान्तरम् – बहुव्रीहिः
  • कारुण्याकुलनेत्रम्
    • कारुण्येन आकुलम् = कारुण्याकुलम् – तत्पुरुषः
    • कारुण्याकुलम् च तत् नेत्रम् च = कारुण्याकुलनेत्रम् – कर्मधारयः
    • कारुण्याकुलनेत्रे यस्य तत् = कारुण्याकुलनेत्रम् – बहुव्रीहिः
  • आर्द्रहसितोल्लासम्
    • आर्द्रं च तत् हसितं च आर्द्रहसितम्
    • आर्द्रहसितेन उल्लसति इति आर्द्रहसितोल्लासम् – तत्पुरुषः
    • आर्द्रहसितोल्लासम् यस्य तत् = आर्द्रहसितोल्लासम् – बहुव्रीहिः
  • गण्डोद्यन्मकराभकुण्डलयुगम्
    • कुण्डलस्य युगम् = कुण्डलयुगम् – तत्पुरुषः,
    • मकररूपं कुण्डलयुगम् = मकरकुण्डलयुगम् – कर्मधारयः
    • मकरकुण्डलयुगस्य आभा = मकराभकुण्डलयुगम् – तत्पुरुषः
    • उद्यत् च तत् मकराभकुण्डलयुगम् च = उद्यन्मकराभकुण्डलयुगम् – कर्मधारयः
    • गण्ड़े उद्यन्मकराभकुण्डलयुगम् = गण्डोद्यन्मकराभकुण्डलयुगम् – तत्पुरुषः
  • कण्ठोज्वलत्कौस्तुभम्
    • कण्ठम् च उज्वलत् तत् = कण्ठोज्वलत् – तत्पुरुषः
    • कण्ठोज्वलत् च तत् कौस्तुभम् च = कण्ठोज्वलत्कौस्तुभम् – कर्मधारयः
    • कण्ठोज्वलत्कौस्तुभम् यस्य तत् कण्ठोज्वलत्कौस्तुभम् – बहुव्रीहिः
  • तव रुपम् = त्वद्रूपं – तत्पुरुषः
  • वनमाल्यहारपटलश्रीवत्सदीप्रम्
    • वनमाल्यानि च हाराश्च वनमाल्यहाराः – द्वन्द्वः
    • वनमाल्यहाराणां पटलम् = वनमाल्यहारापटलम् – तत्पुरुषः
    • वनमाल्यहारपटलं च श्रीवत्सः च = वनमाल्यहारपटलश्रीवत्से = द्वन्द्वः
    • वनमाल्यहारापटलश्रीवत्साभ्यां दीप्रम् = वनमाल्यहारपटलश्रीवत्सदीप्रम् – तत्पुरुषः

पदपरिचयः

  • सूर्यस्पर्धिकिरीटम् = अ, नपुं, द्वि.वि, ए.व.
  • ऊर्ध्वतिलकप्रोद्भासिफालान्तरम् = अ, नपुं, द्वि.वि, ए.व.
  • कारुण्याकुलनेत्रम् = अ, नपुं, द्वि.वि, ए.व.
  • आर्द्रहसितोल्लासम् = अ, नपुं, द्वि.वि, ए.व.
  • सुनासापुटम् = अ, नपुं, द्वि.वि, ए.व.
  • गण्डोद्यन्मकराभकुण्डलयुगम् = अ, नपुं, द्वि.वि, ए.व.
  • कण्ठोज्वलत्कौस्तुभम् = अ, नपुं, द्वि.वि, ए.व.
  • त्वद्रूपम् = अ, नपुं, द्वि.वि, ए.व.
  • वनमाल्यहारपटलश्रीवत्सदीप्रम् = अ, नपुं, द्वि.वि, ए.व.
  • भजे = भज् (सेवायाम्) आ, लट्, प्र.पु, ए.व

सन्धिः

अस्मिन् श्लोके न विद्यते | समस्तपदेषु एव सन्ति |

छन्दः

Detailed explanation are available here – https://nivedita2015.wordpress.com/chandas-2/#shaardoolavikreeditam   Shaardoolavikreeditam शार्दूलविक्रीडितम्

  • शार्दूलविक्रीडितं वृत्तम् – “सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्” / “सूर्याः वैः मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्” ।
  • प्रतिपादं १९ अक्षराणि । म-स-ज-स-त-त-गुरुः । द्वादशाक्षरानन्तरं यतिः । “SSS ।।S ।S। ।।S SS। SS। S”
  • सूर्य(12)+अश्वैः(7) यदि मः स+जौ स+त+त+गाः शार्दूलविक्रीडितम् ।
  • 19 letters; pause after 12; Majestic like the gait of the lion or tiger.

Word-Meaning

    • सूर्य-स्पर्धि-किरीटम्- with a crown which rivals the Sun (in brilliance)
    • ऊर्ध्वतिलक-प्रोद्भासि-फालान्तरम् by the upright mark (tilak of sandal paste) whose forehead is made more resplendent,
    • कारुण्य-आकुलनेत्रम्- whose eyes are brimming with mercy
    • आर्द्र-हसित-उल्लासम् (whose face) is lit up with a benevolent smile
    • सुनासापुटम् with a shapely nose
    • गण्डोद्यन्-मकर-आभ-कुण्डल-युगम् with cheeks shining due to the brilliance of a pair of fish shaped ear pendants
    • कण्ठोज्ज्वलत्-कौस्तुभम् with the Kaustubh jewel shining on the neck
    • त्वत्-रूपम् Thy form
    • वनमाल्य-हार-पटल-श्रीवत्सदीप्रम् (and Thy bosom) resplendent with garlands of flowers (and tulsi) necklaces ( of pearls and gems) and the mark of Srivatsa
  • भजे I meditate upon

Shloka 2.2

केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित-
श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् ।
काञ्चित् काञ्चनकाञ्चिलाञ्च्छितलसत्पीताम्बरालम्बिनीम्
आलम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥२॥

पदच्छेदः

केयूराङ्गद-कङ्कणोत्तम-महा-रत्नाङ्गुलीयाङ्कित-श्रीमद्-बाहु-चतुष्क-सङ्गत-गदा-शङ्खारि-पङ्केरुहाम् काञ्चित् काञ्चन-काञ्चि-लाञ्च्छित-लसत्-पीताम्बरालम्बिनीम् आलम्बे विमलाम्बुज-द्युति-पदाम् मूर्तिम् तव आर्तिच्छिदम् ।

अन्वयरचना

  • (अहम्) आलम्बे ।
    • काम् आलम्बे ? मूर्तिम्
      • कस्य मूर्तिम् ? तव
      • कीदृशीं मूर्तिम् ? काञ्चित्
      • पुनः कीदृशीं मूर्तिम् ? केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित-श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम्
      • पुनः कीदृशीं मूर्तिम् ? काञ्चनकाञ्चिलाञ्च्छितलसत्पीताम्बरालम्बिनीम्
      • पुनः कीदृशीं मूर्तिम् ? विमलाम्बुजद्युतिपदाम्
      • पुनः कीदृशीं मूर्तिम् ? आर्तिच्छिदम्

अन्वयः

केयूराङ्गद-कङ्कणोत्तम-महा-रत्नाङ्गुलीयाङ्कित-श्रीमद्-बाहु-चतुष्क-सङ्गत-गदा-शङ्खारि-पङ्केरुहां काञ्चन-काञ्चि-लाञ्च्छित-लसत्-पीताम्बरालम्बिनीं विमलाम्बुज-द्युति-पदाम् आर्तिच्छिदं काञ्चित् तव मूर्तिम् (अहम्) आलम्बे ।

पदार्थः

  • केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित-श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् = केयूर-अङ्गद-कङ्कण-रत्नाङ्गुलीयैः अलङ्कृतेषु चतुर्बाहुषु शङ्ख-चक्र-गदा-पद्म-धृताम्
  • काञ्चित् = तां प्रसिद्धाम्
  • काञ्चनकाञ्चिलाञ्च्छितलसत्पीताम्बरालम्बिनीम् = सुवर्णकाञ्च्या अलङ्कृतं शोभनं पीताम्बरं धृताम्
  • आलम्बे = आश्रये
  • विमलाम्बुजद्युतिपदाम् = शुद्धपङ्कज-शोभायुक्त-पदसहिताम्
  • मूर्तिम् = विग्रहम्
  • आर्तिच्छिदम् = दुःखविनाशिनीम्

तात्पर्यम्

अस्य श्लोकस्य पूर्वार्धं सम्पूर्णम् एकं समस्तपदमस्ति यत्र भगवन्मूर्तेः बाहुचतुष्टयस्य आभरणायुधानां वर्णनमस्ति । केयूरैः अङ्गदैः श्रेष्ठकङ्कणैः रत्नाङ्गुलीयैश्च अलङ्कृतेषु भगवतः चतुर्बाहुषु शङ्खः चक्रं गदा पद्मं च विराजन्ते । भगवद्विग्रहे लम्बमाने पीताम्बरे सुवर्णकाञ्चिः विलसति । शुद्धपङ्कजमिव शोभमानौ भगवत्पादौ सर्वदुःखनिवारकौ स्तः । अहं भगवतः तादृशं महनीयविग्रहं नमामि इति कविः प्रार्थयति ।

पदविवरणम् समासः

  • केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कितश्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम्
    • केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कितम्
      • उत्तमं च तत् कङ्कणम् च = कङ्कणोत्तमम् – कर्मधारयः
      • महारत्नाङ्गुलीयम्
        • महत् च तत् रत्नम् च = महारत्नम् – कर्मधारयः
        • महारत्नयुक्तम् अङ्गुलीयम् = महारत्नाङ्गुलीयम् – कर्मधारयः
      • केयूरम् अङ्गदम् कङ्कणोत्तमम् महारत्नाङ्गुलीयम् च = केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयानि – द्वन्द्वः
      • केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयैः अङ्कितम् = केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कितम् – तत्पुरुषः
    • श्रीमद्बाहुचतुष्कम्
      • बाहूनाम् चतुष्कम् = बाहुचतुष्कम् – तत्पुरुषः
      • श्रीमत् च तत् बाहुचतुष्कम् च = श्रीमद्बाहुचतुष्कम् – कर्माधारयः
    • केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कितम् च तत् श्रीमद्बाहुचतुष्कम् च = केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कितश्रीमद्बाहुचतुष्कम् – कर्मधारयः
    • गदाशङ्खारिपङ्केरुहानि
      • गदा च शङ्खः च अरिः च पङ्केरुहं च गदाशङ्खारिपङ्केरुहानि – द्वन्द्वः
    • केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कितश्रीमद्बाहुचतुष्के सङ्गतनि गदाशङ्खारिपङ्केरुहानि यस्याः सा – केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कितश्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहा – बहुव्रीहिः
  • काञ्चनकाञ्चिलाञ्च्छितलसत्पीताम्बरालम्बिनीम्
    • काञ्चनकाञ्चिलाञ्च्छितम्
      • काञ्चनस्य काञ्चिः = काञ्चनकाञ्चिः – तत्पुरुषः
      • काञ्चनकाञ्च्या लाञ्च्छितम् = काञ्चनकाञ्चिलाञ्च्छितम् – तत्पुरुषः
    • लसत्पीताम्बरम्
      • पीतम् च तत् अम्बरम् च = पीताम्बरम् – कर्माधारयः
      • लसत् च तत् पीताम्बरम् च = लसत्पीताम्बरम् – कर्माधारयः
    • काञ्चनकाञ्चिलाञ्छितं च तत् लसत्पीताम्बरं च = काञ्चनकाञ्चिलाञ्छितलसत्पीताम्बरम् – कर्माधारयः
    • काञ्चनकाञ्चिलाञ्छितलसत्पीताम्बरम् आलम्बते यस्याम् सा काञ्चनकाञ्चिलाञ्छितलसत्पीताम्बरालम्बिनी – बहुव्रीहिः
  • विमलाम्बुजद्युतिपदाम्
    • विमलम् च तत् अम्बुजम् च = विमलाम्बुजम् – कर्माधारयः
    • विमलाम्बुजस्य द्युतिः = विमलाम्बुजद्युतिः – तत्पुरुषः
    • विमलाम्बुजद्युतिः यस्याः पदयोः अस्ति सा विमलाम्बुजद्युतिपदा – बहुव्रीहिः
  • आर्तिच्छिदम् –
    • आर्त्तिं छिनत्ति या सा आर्तिच्छिद् – बहुव्रीहिः

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

छन्दः

Detailed explanation are available here – https://nivedita2015.wordpress.com/chandas-2/#shaardoolavikreeditam   Shaardoolavikreeditam शार्दूलविक्रीडितम्

Word-Meaning (http://narayaneeyam-firststep.org/dashaka2)

  • केयूराङ्गद-कङ्कणोत्तम-महारत्न-आङ्गुलीय-अङ्कित- = (ornaments such as) Keyur (epaulets) Angada (armlets) Kankana (bracelets)and finger rings, studded with gems
  • श्रीमद्बाहु-चतुष्कसङ्गत-गदा-शङ्ख-अरि-पङ्केरुहाम् = adorning the sacred four arms, holding the mace, the conch, the discus and the lotus
  • काञ्चित् = Indescribable (form)
  • काञ्चन-काञ्चि-लाञ्च्छित-लसत्-पीताम्बर-आलम्बिनीम्- = wearing a yellow resplendent silk cloth, fastened by a golden waist band
  • आलम्बे = I take refuge in (Thy form)
  • विमल-अम्बुज-द्युति-पदाम् = with pure lotuses like lustrous feet
  • म तव- = Thy form
  • आर्तिच्छिदम् = which removes the woes (of devotees)

Shloka 2.3

यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्
कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।
सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽ-
प्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥३॥

पदच्छेदः

यत् त्रैलोक्यमहीयसः अपि महितम् सम्मोहनम् मोहनात् कान्तम् कान्तिनिधानतः अपि मधुरम् माधुर्यधुर्यात् अपि सौन्दर्योत्तरतः अपि सुन्दरतरम् त्वद्रूपम् आश्चर्यतः अपि आश्चर्यम् भुवने न कस्य कुतुकम् पुष्णाति विष्णो विभो ।

अन्वयरचना

  • हे विष्णो ! विभो !
  • न पुष्णाति ?
    • किं न पुष्णाति ? (तत्) त्वद्रूपम् (कर्तृपदम्)
    • किं न पुष्णाति ? कस्य कुतुकम् (कर्मपदम्)
    • कुत्र न पुष्णाति ? भुवने
      • कीदृशं त्वद्रूपम् ? यत् महितम् (अस्ति)
        • कस्मात् महितम् ? त्रैलोक्यमहीयसः अपि
      • पुनः कीदृशं त्वद्रूपम् ? सम्मोहनम्
        • कस्मात् सम्मोहनम् ? मोहनात् (अपि)
      • पुनः कीदृशं त्वद्रूपम् ? कान्तम्
        • कस्मात् कान्तम् ? कान्तिनिधानतः अपि
      • पुनः कीदृशं त्वद्रूपम् ? मधुरम्
        • कस्मात् मधुरम् ? माधुर्यधुर्यात् अपि
      • पुनः कीदृशं त्वद्रूपम् ? सुन्दरतरम्
        • कस्मात् सुन्दरतरम् ? सौन्दर्योत्तरतः अपि
      • पुनः कीदृशं त्वद्रूपम् ? आश्चर्यम्
        • कस्मात् आश्चर्यम् ? आश्चर्यतः अपि

अन्वयः

हे विष्णो ! विभो ! यत् (त्वद्रूपं) त्रैलोक्यमहीयसः अपि महितं, मोहनात् (अपि) सम्मोहनं, कान्तिनिधानतः अपि कान्तं, माधुर्यधुर्यात् अपि मधुरं, सौन्दर्योत्तरतः अपि सुन्दरतरम्, आश्चर्यतः अपि आश्चर्यम् (अस्ति), (तत्) त्वद्रूपं भुवने कस्य कुतुकं न पुष्णाति।

पदार्थः

  • त्रैलोक्यमहीयसः = त्रैलोक्ये पूज्यतमात्
  • महितम् = पूज्यम्
  • सम्मोहनम् = अतिमनोहरम्
  • कान्तम् = तेजस्वि
  • कान्तिनिधानतः = तेजोनिधेः
  • माधुर्यधुर्यात् = माधुर्यसारात्
  • सौन्दर्योत्तरतः = अतिसौन्दर्यात्
  • त्वद्रूपम् = भवतः रूपम्
  • आश्चर्यतः = अद्भुतात्
  • भुवने = लोके
  • कुतुकम् = कौतुकम्
  • पुष्णाति = वर्धयति

तात्पर्यम्

अस्मिन् श्लोके भगवतः महनीयविग्रहस्य वैशिष्ट्यवर्णनं करोति । भगवद्रूपम् अत्यन्तं श्रेष्ठं, पूजनीयं, मोहनं, तेजोमयं, मधुरं, सुन्दरम्, अद्भुतं च अस्ति । तादृशं भगवद्रूपं लोके कस्य वा कौतुकं न वर्धयति? लोके समस्तजनानां कौतुकं वर्धयति इति भावः।

पदविवरणम् समासः

  • त्रैलोक्यमहीयसः
    • त्रयाणां लोकानां समाहारः = त्रिलोकी – द्विगुः (त्रिलोकी एव त्रैलोक्यम्)
    • त्रैलोक्ये महीयान् = त्रैलोक्यमहीयान् – तत्पुरुषः
  • कान्तिनिधानतः
    • कान्तेः निधानम् = कान्तिनिधानम् – तत्पुरुषः (तसिल् प्रात्ययानान्तम्)
  • माधुर्यधुर्यात्
    • माधुर्यस्य धुर्यम् = माधुर्यधुर्यम् – तत्पुरुषः
  • सौन्दर्योत्तरतः
    • सौन्दर्यस्य उत्तरम् = सौन्दर्योत्तरम् – तत्पुरुषः (तसिल् प्रत्ययान्तम्)
  • त्वद्रूपम् = तव रूपम् – तत्पुरुषः

सन्धिः

छन्दः

Detailed explanation are available here – https://nivedita2015.wordpress.com/chandas-2/#shaardoolavikreeditam   Shaardoolavikreeditam शार्दूलविक्रीडितम्

य त्त्रै लो क्य म ही य सो पि म हि तं सं मो ह नं मो ह नात्
का न्तं का न्ति नि धा न तो पि म धु रं मा धु र्य धु र्या द पि
सौ न्द र्यो त्त र तो पि सु न्द र त रं त्व द्रू प मा श्च र्य तो
प्या श्च र्यं भु व ने न क स्य कु तु कं पु ष्णा ति वि ष्णो वि भो

Word-Meaning

यत्-त्रैलोक्य-महीयसः अपि महितम् = that which is superior to (what is considered to be) the greatest in all the three worlds
मोहनात् सम्मोहनम् = more charming than the most charming
कान्ति-निधानतः अपि कान्तम् = more brilliant than the most brilliant even
माधुर्य-धुर्यात् अपि मधुरम् = sweeter than the sweetest even
सौन्दर्य-उत्तरतः अपि सुन्दरतरम् = more beautiful than even the most beautiful
त्वत्-रूपम् = Thy form,
आश्चर्यतः अपि आश्चर्यम् = (which is) the wonder of wonders
भुवने = in this world
न कस्य कुतुकं पुष्णाति = (is there any one) whose entrancement (to Thee) is not aroused

विष्णो विभो = O All Pervading Lord Vishnu!

Shloka 2.4

तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी
सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि ।
तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक-
प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥४॥

पदच्छेदः

तत्तादृङ्मधुरात्मकम् तव वपुः सम्प्राप्य सम्पन्मयी सा देवी परमोत्सुका चिरतरम् न आस्ते स्वभक्तेषु अपि तेन अस्याः बत कष्टम् अच्युत विभो त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयात् अचापलबलात् चापल्यवार्ता उदभूत् ।

अन्वयरचना

  • न आस्ते ।
    • का न आस्ते ? सा देवी ।
    • सा देवी कथं न आस्ते ? चिरतरम् ।
      • कीदृशी सा ? सम्पन्मयी ।
      • पुनः कीदृशी सा ? परमोत्सुका ।
    • केषु चिरतरं न आस्ते ? स्वभक्तेषु अपि ।
    • किं कृत्वा ? सम्प्राप्य ।
      • किं सम्प्राप्य ? वपुः ।
        • कस्य वपुः ? तव ।
          • कीदृशं तव वपुः ? तत्तादृङ्मधुरात्मकम् ।
  • (हे) अच्युत ! विभो !
  • उदभूत्, बत कष्टम् !
    • का उदभूत् ? चापल्यवार्ता ।
    • केन चापल्यवार्ता उदभूत् ? तेन ।
      • कस्मात् चापल्यवार्ता उदभूत् ? त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयात् ।
        • कस्याः त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयात् ? अस्याः ।
      • पुनः कस्मात् ? अचापलबलात् ।

अन्वयः

तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य परमोत्सुका सम्पन्मयी सा देवी स्वभक्तेषु अपि चिरतरं न आस्ते । (हे) अच्युत ! विभो ! तेन अस्याः त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयात् अचापलबलात् चापल्यवार्ता उदभूत् । बत ! कष्टम् !

पदार्थः

  • तत्तादृङ्मधुरात्मकम् = तादृशं प्रसिद्धं मधुररूपम्
  • सम्प्राप्य = लब्ध्वा
  • सम्पन्मयी = सम्पत्स्वरुपिणी, श्रीलक्ष्मीदेवी
  • परमोत्सुका = अतीव उत्सुका, अनुरक्ता
  • चिरतरम् = चिरं कालम्
  • न आस्ते = न वसति, न तिष्ठति
  • त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयात् = भवद्रूपलावण्ये अनुरागदार्ढ्यात्
  • अचापलबलात् = चापल्यराहित्यशक्त्या
  • चापल्यवार्ता = चपला इति अपवादः
  • उदभूत् = अभवत्

तात्पर्यम्

भगवन्तं भर्तृरूपेण प्राप्य लक्ष्मीदेवी सदा अत्यन्तानुरागेण भर्तृसमीपे तिष्ठति, स्वभक्तेषु अपि चिरकालं न तिष्ठति । एवं लक्ष्मीदेवी प्रेमातिशयप्रभावेण भगवद्रूपे स्थिरा, किन्तु भक्तेषु अस्थिरा इति तस्याः  अपवादः जातः । अहो ! कष्टम् ।
[एवं भगवद्रूपं सर्वेषां कौतुकवर्धकमस्ति इति प्रस्तावः लक्षमीदेवीवृत्तान्तेन समर्थयति ।]

पदविवरणम् – समासः

  • तत्तादृङ्मधुरात्मकम्
    • मधुरः आत्मा यस्य तत् मधुरात्मकम् – बहुव्रीहिः
    • तादृशं च तत् मधुरात्मकम् च = तादृङ्मधुरात्मकम् – कर्मधारयः
    • तत् च तत् तादृङ्मधुरात्मकम् च = तत्तादृङ्मधुरात्मकम् – कर्मधारयः
  • परमा च सा उत्सुका च = परमोत्सुका – कर्मधारयः
  • त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयात्
    • तव रूपम् = त्वद्रूपम् – तत्पुरुषः
    • त्वद्रूपस्य मानोज्ञकम् = त्वद्रूपमानोज्ञकम् – तत्पुरुषः
    • त्वद्रूपमानोज्ञके प्रेम = त्वद्रूपमानोज्ञकप्रेम – तत्पुरुषः
    • त्वद्रूपमानोज्ञकप्रेम्णि स्थैर्यमयम् = त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयम् – तत्पुरुषः
  • अचापलबलात्
    • न चापलम् = अचापलम् – नञ् समासः
    • अचापलस्य बलम् = अचापलबलम् – तत्पुरुषः
  • चापल्यस्य वार्ता = चापल्यवार्ता – तत्पुरुषः

सन्धिः

छन्दः

Detailed explanation are available here – https://nivedita2015.wordpress.com/chandas-2/#shaardoolavikreeditam   Shaardoolavikreeditam शार्दूलविक्रीडितम्

19 syllables – सा दे वी प र मो त्सु का चि र त रं ना स्ते स्व भ क्ते ष्व पि

Word-Meaning

तत्-तादृक्-मधुर-आत्मकम् = (of) that such incomparable beauty
तव वपुः = Thy form
सम्प्राप्य = having got (in marriage)
सम्पन्मयी = the embodiment of prosperity and auspiciousness
सा देवी = that Devi (Lakshmi)
परम-उत्सुका = (who) became very much attached (to Thee)
चिरतरं न आस्ते = does not stay for long
स्व-भक्तेषु अपि = even with her own devotees
तेन अस्याः =because of that, her
बत कष्टम् = but alas
अच्युत विभो = O changeless One, O Lord!
त्वत्-रूप-मानोज्ञक-प्रेम-स्थैर्यमयात् = because of the unwavering love for the enchanting beauty of Thy form
अचापल-बलात् =because of the power of (her) firm (love for Thee)
चापल्य-वार्ता = as fickle (goddess), the reputation
उदभूत् = has risen

Shloka 2.5

लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरेत्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते ।

ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जनास्तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥५॥

[पदच्छेदः]

लक्ष्मीः तावकरामणीयकहृता एव इयम् परेषु अस्थिरा इति अस्मिन् अन्यत् अपि प्रमाणम् अधुना वक्ष्यामि लक्ष्मीपते ये त्वद्ध्यानगुणानुकीर्तनरसासक्ताः हि भक्ताः जनाः तेषु एषा वसति स्थिरा एव दयितप्रस्तावदत्तादरा ।

अन्वयरचना

  • हे लक्ष्मीपते ! (अहं) वक्ष्यामि ।
    • किं वक्ष्यामि ? प्रमाणम् अपि ।
      • कीदृशं प्रमाणम् ? अन्यत्
    • कदा वक्ष्यामि ? अधुना
    • कस्मिन् वक्ष्यामि ? अस्मिन्
    • किम् इति वक्ष्यामि ? अस्थिरा (अस्ति) इति
      • का अस्थिरा ? इयं लक्ष्मीः
        • कीदृशी लक्ष्मीः ? तावकरामणीयकहृता एव
      • केषु अस्थिरा ? परेषु
    • एषा वसति ।
      • कीदृशी एषा ? दयितप्रस्तावदत्तादरा
      • पुनः कीदृशी एषा ? स्थिरा एव
      • केषु एषा स्थिरा एव वसति ? तेषु
      • पुनः केषु ? ये जनाः भक्ताः (सन्ति)
        • कीदृशाः भक्ताः ? त्वद्ध्यानगुणानुकीर्तनरसासक्ताः हि

[अन्वयः]

हे लक्ष्मीपते ! इयं लक्ष्मीः तावकरामणीयकहृता एव परेषु अस्थिरा (अस्ति) इति अस्मिन् अन्यत् प्रमाणम् अपि अधुना (अहं) वक्ष्यामि । ये जनाः त्वद्ध्यानगुणानुकीर्तनरसासक्ताः हि भक्ताः (सन्ति) तेषु एषा दयितप्रस्तावदत्तादरा स्थिरा एव वसति ।

पदार्थः

  • तावकरामणीयकहृता = भवतः सौन्दर्ये आकृष्टा
  • त्वद्ध्यानगुणानुकीर्तनरसासक्ताः = भवतः ध्यानस्य गुणकीर्तनस्य च रसे आसक्ताः
  • दयितप्रस्तावदत्तादरा = प्रियतमस्य कथावर्णने दत्तश्रद्धा

[तात्पर्यम्]

लक्ष्मीदेवी भवतः सौन्दर्ये आकृष्टा अस्ति, अतः एव भर्तृसमीपे तस्याः स्थिरता, अन्यत्र अस्थिरता च इत्यस्य प्रस्तावस्य पुनरेकं प्रमाणम् अत्र दीयते । ये भक्ताः भगवतः ध्याने कीर्तने च आसक्ताः सन्ति, तेषु स्वप्रियतमस्य कथाप्रस्तावकाले एव लक्ष्मीदेवी श्रद्धया तिष्ठति ।

पदविवरणम् – समासः

  • एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनम्
    • एवम्भूता च सा मनोज्ञता च = एवम्भूतमनोज्ञता – कर्मधारयः
    • नवा च सा सुधा च = नवसुधा – कर्मधारयः
    • एवम्भूतमनोज्ञतायाः नवसुधा = एवम्भूतमनोज्ञतानवसुधा – तत्पुरुषः
    • निष्यन्दस्य सन्दोहनम् = निष्यन्दसन्दोहनम् – तत्पुरुषः
    • एवम्भूतमनोज्ञतानवसुधायाः निष्यन्दसन्दोहनम् = एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनम् – तत्पुरुषः
  • तव रुपम् = त्वद्रूपम् – तत्पुरुषः
  • परचिद्रसायनमयम्
    • परा चित् = परचित्
    • परचितः रसायनमयम् = परचिद्रसायनमयम् – तत्पुरुषः
  • चेतः हरति यत्, तत् चेतोहरम् – बहुव्रीहिः
  • शीतबाष्पविसरैः
    • शीतः वाष्पः = शीतवाष्पः – तत्पुरुषः
    • शीतबाष्पाणां विसरः = शीतवाष्पविसरः – कर्मधारयः
  • आनन्दमूर्छोद्भवैः
    • आनन्दस्य मूर्छा = आनन्दमूर्छा – कर्मधारयः
    • आनन्दमूर्छायाः उद्भवः = आनन्दमूर्छोद्भवः – कर्मधारयः

सन्धिः

छन्दः

Detailed explanation are available here – https://nivedita2015.wordpress.com/chandas-2/#shaardoolavikreeditam   Shaardoolavikreeditam शार्दूलविक्रीडितम्

Word-Meaning

      • लक्ष्मीः = Lakshmee
      • तावक-रामणीयकहृता एव इयं = being thus captivated by Thy beauty only, she
      • परेषु अस्थिरा इति = is unstable with others
      • अस्मिन् = in this respect,
      • अन्यत् अपि प्रमाणम् = another proof also,
      • अधुना = now
      • वक्ष्यामि = I will state
      • लक्ष्मीपते = O Consort of Laxmi!
      • ये त्वत्-ध्यान-गुण-अनुकीर्तन-रस-आस्क्ताः = those who meditate and are always engrossed in singing Thy glory
      • हि भक्ताः जनाः – = certainly (with) such devotees
      • तेषु एषा वसति स्थिरा एव = with them she stays always
      • दयितप्रस्ताव-दत्त-आदरा = (being) listening attentively to the praises of her beloved Lord

Shloka 2.6

एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं
त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् ।
सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गकं
व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ॥६॥

[पदच्छेदः]

एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनम् त्वद्रूपम् परचिद्रसायनमयम् चेतोहरम् शृण्वताम् सद्यः प्रेरयते मतिम् मदयते रोमाञ्चयति अङ्गकम् व्यासिञ्चति अपि शीतबाष्पविसरैः आनन्दमूर्च्छोद्भवैः ।

अन्वयरचना

  • सद्यः प्रेरयते ।
    • किं सद्यः प्रेरयते ? त्वद्रूपं सद्यः प्रेरयते ।
      • कीदृशं त्वद्रूपम् ? एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनम्
      • पुनः कीदृशं त्वद्रूपम् ? परचिद्रसायनमयम्
      • पुनः कीदृशं त्वद्रूपम् ? चेतोहरम्
    • त्वद्रूपं कां सद्यः प्रेरयते ? मतिम्
      • केषां मतिं सद्यः प्रेरयते ? शृण्वतां मतिं सद्यः प्रेरयते ।
    • त्वद्रूपं पुनः किं करोति ? मदयते अपि
    • त्वद्रूपं पुनः किं करोति ? रोमाञ्चयति ।
      • किं रोमाञ्चयति ? अङ्गकं रोमाञ्चयति ।
    • त्वद्रूपं पुनः किं करोति ? व्यासिञ्चति अपि ।
      • कैः व्यासिञ्चति ? शीतबाष्पविसरैः व्यासिञ्चति ।
        • कीदृशैः शीतबाष्पविसरैः ? आनन्दमूर्च्छोद्भवैः शीतबाष्पविसरैः

[अन्वयः]

एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं, परचिद्रसायनमयं, चेतोहरं, त्वद्रूपं शृण्वतां मतिं सद्यः प्रेरयते, मदयते, अङ्गकं रोमाञ्चयति, आनन्दमूर्च्छोद्भवैः शीतबाष्पविसरैः व्यासिञ्चति अपि ।

पदार्थः

  • एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनम् = एवं सौन्दर्यनवामृतप्रवाहस्य उद्भवस्थानम्
  • त्वद्रूपम् = भवतः रूपम्
  • परचिद्रसायनमयम् = परब्रह्मरसायनमयम्
  • चेतोहरम् = मनोहरम्
  • शृण्वताम् = श्रोतॄणाम्
  • मतिम् = बुद्धिम्
  • मदयते = अत्यन्तं तोषयति
  • रोमाञ्चयति = रोमाञ्चं जनयति
  • अङ्गकम् = देहम्
  • व्यासिञ्चति = समस्तं सिञ्चति
  • शीतबाष्पविसरैः = शीताश्रुप्रवाहैः
  • आनन्दमूर्च्छोद्भवैः = सञ्जातसन्तोषाधिक्यैः

[तात्पर्यम्]

भगवद्रूपं सौन्दर्यामृतस्य प्रभवस्थानं, ब्रह्मानन्दरसमयं च अस्ति । अस्य मनोहरविग्रहस्य वर्णनश्रवणमेव श्रोतॄणाम् मनसि भक्तिं जनयति । आनन्दाधिक्येन ते रोमाञ्चिताः भवन्ति, तेषां नयनयोः आनन्दाश्रुप्रवाहः भवति च ।

Shloka 2.7

एवम्भूततया हि भक्त्यभिहितो योगस्स योगद्वयात्
कर्मज्ञानमयाद् भृशोत्तमतरो योगीश्वरैर्गीयते ।
सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका

भक्तिर्निःश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ॥७॥

[पदच्छेदः]

एवम्भूततया हि भक्त्यभिहितः योगः सः योगद्वयात् कर्मज्ञानमयात् भृशोत्तमतरः योगीश्वरैः गीयते सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका भक्तिः निःश्रमम् एव विश्वपुरुषैः लभ्या रमावल्लभ ।

अन्वयरचना

  • गीयते ।
    • कैः गीयते ? योगीश्वरैः
      • कया योगीश्वरैः गीयते ?  एवम्भूततया हि
    • किं इति गीयते ? भृशोत्तमतरः (अस्ति) (इति) ।
      • कस्मात् भृशोत्तमतरः ? योगद्वयात्
        • कीदृशात् योगद्वयात् ? कर्मज्ञानमयात्
      • कः भृशोत्तमतरः (अस्ति) ? सः योगः
        • कीदृशः सः योगः ? भक्त्यभिहितः
  • (हे) रमावल्लभ ! लभ्या (अस्ति) खलु ।
    • कथं लभ्या (अस्ति)? निःश्रमम् एव
      • का निःश्रमम् एव लभ्या (अस्ति)? भक्तिः
        • कीदृशी भक्तिः ? प्रेमप्रकर्षात्मिका
      • कस्मिन् भक्तिः ? त्वयि
        • कीदृशे त्वयि ? सौन्दर्यैकरसात्मके

[अन्वयः]

एवम्भूततया हि योगीश्वरैः भक्त्यभिहितः सः योगः कर्मज्ञानमयात्, योगद्वयात् भृशोत्तमतरः (अस्ति इति) गीयते । (हे) रमावल्लभ ! सौन्दर्यैकरसात्मके त्वयि प्रेमप्रकर्षात्मिका भक्तिः विश्वपुरुषैः निःश्रमम् एव लभ्या (अस्ति) खलु ।

पदार्थः

  • एवम्भूततया = पूर्वोक्तरीत्या श्रवणमननादिभिः चित्तार्द्रीभावप्राप्त्या
  • भक्त्यभिहितः = भक्तिर्नाम
  • कर्मज्ञानमयात् योगद्वयात् = कर्मज्ञानयोगाभ्याम्
  • भृशोत्तमतरः = अत्युत्तमः
  • सौन्दर्यैकरसात्मके = सौन्दर्यैकरसस्वरूपे
  • प्रेमप्रकर्षात्मिका = परमप्रीतिरूपा
  • निःश्रमम् = श्रमं विना
  • विश्वपुरुषैः = सर्वैः जनैः
  • लभ्या = प्राप्या
  • रमावल्लभ = रमापते

[तात्पर्यम्]

भगवत्कथाश्रवणमननादिकं सद्यः एव उत्तमभक्तिं जनयति । अतः एव भगवत्प्राप्त्यर्थं भक्तियोगः कर्मज्ञानयोगयोः अपेक्षया अत्युत्तमः इति योगिनः कीर्तयन्ति । हे विष्णो ! केवलं सौन्दर्यरसस्वरुपे भवति परमप्रीतिरूपा भक्तिः सर्वे अपि प्रयत्नं विना प्राप्नुवन्ति एव ।

पदविवरणम्  समासः

  • भक्तिः इति अभिहितः = भक्त्यभिहितः – कर्मधारयः
  • योगद्वयात् = योगयोः द्वयम् योगद्वयम्, तस्मात् – तत्पुरुषः
  • कर्मज्ञानमयात्
    • कर्म च ज्ञानं च = कर्मज्ञाने– द्वन्द्वः
    • कर्मज्ञानमयात् = कर्मज्ञानयोः विकारः कर्मज्ञानमयः, तस्मात् । कर्मज्ञान + मयट्-प्रत्ययः – तद्धितः
  • भृशः च सः उत्तमतरः च = भृशोत्तमतरः – कर्मधारयः
  • योगीश्वरैः = योगीनाम् ईश्वरः योगीश्वरः, तैः – तत्पुरुषः
  • सौन्दर्यैकरसात्मके
    • एकः च सः रसः च = एकरसः – कर्मधारयः
    • सौन्दर्यम् एव एकरसः = सौन्दर्यैकरसः – कर्मधारयः
    • सौन्दर्यैकरसात्मके = सौन्दर्यैकरसः आत्मा यस्य सः सौन्दर्यैकरसात्मकः, तस्मिन् – बहुव्रीहिः,
  • प्रेमप्रकर्षात्मिका
    • प्रेम्णः प्रकर्षः = प्रेमप्रकर्षः – तत्पुरुषः
    • प्रेमप्रकर्षः आत्मा यस्याः सा प्रेमप्रकर्षात्मिका – बहुव्रीहिः
  • विश्वपुरुषैः = विश्वः च सः पुरुषः च विश्वपुरुषः, तैः – कर्मधारयः
  • रमावल्लभ = रमायाः वल्लभः रमावल्लभः, सम्बोधना – तत्पुरुषः

सन्धिः

छन्दः 

Detailed explanation are available here – https://nivedita2015.wordpress.com/chandas-2/#shaardoolavikreeditam  Shaardoolavikreeditam शार्दूलविक्रीडितम्

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
गु गु गु गु गु गु गु गु गु गु गु

ए व म्भू त त या हि भ क्त्य भि हि तो यो ग स्स यो ग द्व यात्
क र्म ज्ञा न म या द्भृ शो त्त म त रो यो गी श्व रै र्गी य ते
सौ न्द र्यै क र सा त्म के त्व यि ख लु प्रे म प्र क र्षा त्मि का
भ क्ति र्निः श्र म मे व वि श्व पु रु षै र्ल भ्या र मा व ल्ल भ

Word Meaning

    • एवं भूततया हि – It is because of these reasons only
    • भक्ति-अभिहितः योग: सः – that the yoga known as Bhakti (devotion), that
    • योगद्वयात् कर्म-ज्ञानमयात् – (in comparison to) the two yogas of Karma and Gyaana
    • भृशोत्तमततः – is indeed superior
    • योगीश्वरैः गीयते – so has been extolled by great sages
    • सौन्दर्यैक-रस-आत्मके त्वयि खलु – indeed in Thee, who are pure beauty incarnate
    • प्रेमप्रकर्ष-आत्मिका भक्तिः – devotion which emanates from intense love
    • निश्रमम् एव – effortlessly
    • विश्वपुरुषैः  – by all human beings
    • लभ्या – is attainable
    • रमावल्लभ् – O Consort of Lakshmi!

Shloka 2.8

निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिधं
तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः ।
तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो
त्वत्प्रेमात्मकभक्तिरेव सततं स्वादीयसी श्रेयसी ॥८॥

[पदच्छेदः]

निष्कामम् नियतस्वधर्मचरणम् यत् कर्मयोगाभिधम् तत् दूरेत्यफलम् यत् औपनिषदज्ञानोपलभ्यम् पुनः तत् तु अव्यक्ततया सुदुर्गमतरम् चित्तस्य तस्मात् विभो त्वत्प्रेमात्मकभक्तिः एव सततम् स्वादीयसी श्रेयसी ।

अन्वयरचना

तत् (भवति) ।
तत् कीदृशं भवति ? दूरेत्यफलम्
कीदृशं तत् ? कर्मयोगाभिधं यत् (अस्ति)
किं कर्मयोगाभिधम् ? नियतस्वधर्मचरणम्
कीदृशं नियतस्वधर्मचरणम् ? निष्कामम्

पुनः तत् तु (भवति) ।
तत् कीदृशम् ? सुदुर्गमतरम्
कस्य सुदुर्गमतरम् ? चित्तस्य
कया सुदुर्गमतरम् ? अव्यक्ततया
कीदृशं तत् ? यत् औपनिषदज्ञानोपलभ्यम् (अस्ति)

(हे) विभो !  त्वत्प्रेमात्मकभक्तिः एव (भवति) ।
कीदृशी त्वत्प्रेमात्मकभक्तिः ? स्वादीयसी
पुनः कीदृशी त्वत्प्रेमात्मकभक्तिः ? श्रेयसी
कदा भवति ? सततम्
कस्मात् भवति ? तस्मात्

[अन्वयः]

निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिधम् (अस्ति), तत् दूरेत्यफलं (भवति) । पुनः यत् औपनिषदज्ञानोपलभ्यम् (अस्ति), तत् तु अव्यक्ततया चित्तस्य सुदुर्गमतरं (भवति) । (हे) विभो ! तस्मात् त्वत्प्रेमात्मकभक्तिः एव सततं स्वादीयसी, श्रेयसी (च भवति) ।

पदार्थः

निष्कामम् = फलेच्छां विना
नियतस्वधर्मचरणम् = विहित-स्वधर्मानुष्ठानम्
कर्मयोगाभिधम् = कर्मयोगः नाम
दूरेत्यफलम् = यत् चिरकालात् फलं ददाति
औपनिषदज्ञानोपलभ्यम् = उपनिषदः प्राप्यमानं ज्ञानम्
अव्यक्ततया = अस्पष्टतया
सुदुर्गमतरम् = बहुकष्टेन प्राप्तव्यम्
त्वत्प्रेमात्मकभक्तिः = भगवत्प्रेमस्वरुपा भक्तिः
स्वादीयसी = अतिमधुरा
श्रेयसी = श्रेयस्करी

[तात्पर्यम्]

फलेच्छां विना स्वधर्माचरणमेव कर्मयोगः, यस्य फलसिद्धिः बहुकालानन्तरं भवति । उपनिषत्तत्वज्ञानं (ज्ञानयोगः) अस्पष्टतया कष्टेनैव अवगम्यते । अतः भगवद्भक्तिरेव सर्वदा अतिमधुरा श्रेयस्करी च भवति ।

पदविवरणम् – समासः

  • नियतस्वधर्मचरणम्
    • स्वस्य धर्मः = स्वधर्मः– तत्पुरुषः
    • नियतः च सः स्वधर्मः च = नियतस्वधर्मः – कर्माधारयः
    • नियतस्वधर्मस्य चरणम् = नियतस्वधर्मचरणम्– तत्पुरुषः
  • कर्मयोगाभिधम्
    • कर्म इति योगः = कर्मयोगः – कर्माधारयः
    • कर्मयोगः इति अभिधम् = कर्मयोगाभिधम् – कर्माधारयः
  • दूरेत्यफलम्
    • दूरात्एत्यम् = दूरेत्यम् – तत्पुरुषः
    • दूरेत्यं फलं यस्य तत् दूरेत्यफलम्– बहुव्रीहिः
  • औपनिषदज्ञानोपलभ्यम्
    • औपनिषदः उपलभ्यम् – औपनिषदोपलभ्यम्– तत्पुरुषः
    • औपनिषदोपलभ्यं च तत् ज्ञानं च = औपनिषदज्ञानोपलभ्यम्–  कर्माधारयः
  • अव्यक्ततया
    • न व्यक्तता = अव्यक्तता – नञ्समासः, तया
  • त्वत्प्रेमात्मकभक्तिः
    • त्वयि प्रेम = त्वत्प्रेम– तत्पुरुषः
    • त्वत्प्रेम आत्मा यस्याः सा त्वत्प्रेमात्मका– बहुव्रीहिः
    • त्वत्प्रेमात्मका च सा भक्तिः च = त्वत्प्रेमात्मकभक्तिः -कर्मधारयः

सन्धिः
(https://nivedita2015.wordpress.com/sandhi)

तद्दूरेत्यफलम् = तत् दूरेत्यफलम् – जश्त्वसन्धिः
यदौपनिषदज्ञानोपलभ्यम् = यत् औपनिषदज्ञानोपलभ्यम् – जश्त्वसन्धिः
त्वव्यक्ततया = तु अव्यक्ततया – यण् सन्धिः
तस्माद्विभो = तस्मात् विभो – जश्त्वसन्धिः
त्वत्प्रेमात्मकभक्तिरेव = त्वत्प्रेमात्मकभक्तिः एव – विसर्गसन्धिः रेफादेशः

छन्दः

Detailed explanation are available here – https://nivedita2015.wordpress.com/chandas-2/#shaardoolavikreeditam  Shaardoolavikreeditam शार्दूलविक्रीडितम्

नि ष्का मं नि स्व र्म णं त्क र्म यो गा भि धं
तद् दू रे त्य लं दौ नि ज्ञा नो भ्यं पु नः
त्त्व व्य क्त या सु दु र्ग रं चि त्त स्य स्मा द्वि भो
त्व त्प्रे मा त्म क्ति रे तं स्वा दी सी श्रे सी

Word-Meaning

  • निष्कामम् = without selfish desire
  • नियत-स्वधर्म-चरणम् = which consists in the performance of one’s duties
  • यत् कर्मयोग-अभिधम् = that which is called Karma yoga
  • तत्-दूरेत्य-फलम् = that becomes fruitful only in a distant future
  • यत्-उपनिषद्-ज्ञान-उपलभ्यं पुनः = (again) that which consists in attaining knowledge of Brahman as described in the Upanishads
  • तत्-तु-अव्यक्ततया = that indeed being abstract
  • सुदुर्गमतरं चित्तस्य = is very difficult for the mind to pursue
  • तस्मात्-विभो = hence, O All pervading Lord
  • त्वत्-प्रेमात्मक-भक्तिः एव = the Bhakti yoga which consists only in love for Thee
  • सततम् = (is) always
  • स्वादीयसी = the sweetest
  • श्रेयसी = (and) most beneficial

Shloka 2.9

अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला

बोधे भक्तिपथेऽथवाऽप्युचिततामायान्ति किं तावता ।

क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन-

श्चित्तार्द्रत्वमृते विचिन्त्य बहुभिस्सिद्ध्यन्ति जन्मान्तरैः॥९॥

[पदच्छेदः] अत्यायासकराणि कर्मपटलानि आचर्य निर्यन्मलाः बोधे भक्तिपथे अथवा अपि उचितताम् आयान्ति किम् तावता क्लिष्ट्वा तर्कपथे परम् तव वपुः ब्रह्माख्यम् अन्ये पुनः चित्तार्द्रत्वम् ऋते विचिन्त्य बहुभिः सिद्ध्यन्ति जन्मान्तरैः ।

अन्वयरचना

  • आयान्ति ।
  • के आयान्ति ? निर्यन्मलाः
  • काम् आयान्ति ? उचितताम्
  • कुत्र आयान्ति ? बोधे
  • अथवा कुत्र आयान्ति ? अथवा भक्तिपथे अपि
  • किं कृत्वा आयान्ति ? आचर्य
  • कानि आचर्य ? कर्मपटलानि
  • कीदृशानि कर्मपटलानि ? अत्यायासकराणि
  • तावता किम् ।

अन्वयरचना

  • सिद्ध्यन्ति ।
    • के सिद्ध्यन्ति ? अन्ये पुनः
    • कैः सिद्ध्यन्ति ? जन्मान्तरैः
      • कतिभिः जन्मान्तरैः ? बहुभिः
    • किं ऋते सिद्ध्यन्ति ? चित्तार्द्रत्वम् ऋते
    • किं कृत्वा चित्तार्द्रत्वम् ऋते ? क्लिष्ट्वा
      • कुत्र क्लिष्ट्वा ? तर्कपथे
    • पुनः किं कृत्वा सिद्ध्यन्ति ? विचिन्त्य
      • किं विचिन्त्य ? वपुः
        • कीदृशं वपुः ? परम्
        • कस्य वपुः ? तव वपुः
        • पुनः कीदृशं वपुः ? ब्रह्माख्यम्

[अन्वयः] अत्यायासकराणि कर्मपटलानि आचर्य, निर्यन्मलाः बोधे अथवा भक्तिपथे अपि उचितताम् आयान्ति । तावता किम् ? अन्ये पुनः, तर्कपथे क्लिष्ट्वा चित्तार्द्रत्वम् ऋते ब्रह्माख्यं तव परं वपुः विचिन्त्य बहुभिः जन्मान्तरैः सिद्ध्यन्ति ।

पदार्थः

  • अत्यायासकराणि = बहुकष्टकराणि
  • कर्मपटलानि = समस्तकर्माणि
  • आचर्य = कृत्वा
  • निर्यन्मलाः = शुद्धचित्ताः
  • बोधे = ज्ञाने, ज्ञानयोगे
  • भक्तिपथे = भक्तिमार्गे, भक्तियोगे
  • उचितताम् = योग्यताम्
  • किं तावता = तस्मात् किं प्रयोजनम्
  • क्लिष्ट्वा = कष्टम् अनुभूय
  • तर्कपथे = यूक्तिमार्गे
  • ब्रह्माख्यम् = ब्रह्म नाम
  • चित्तार्द्रत्वम् = मनसः आर्द्रता
  • जन्मान्तरैः = अनेकजन्मभिः 

[तात्पर्यम्] केचन अतिकष्टेन बहुविधकर्माचरणं कृत्वा मनश्शुद्धिं प्राप्य, ज्ञानयोगाय भक्तियोगाय वा अर्हतां प्राप्नुवन्ति, तावदेव। तेन भक्त्युपासकानां किमपि प्रयोजनं नास्ति। अन्ये केचन युक्तिमार्गे प्रयत्नं कुर्वन्ति, ध्यानयोगेन निर्गुणब्रह्मोपासनं कुर्वन्ति च । किन्तु ते अपि, भक्तिजन्यं चित्तार्द्रीभावं विना, अनेकजन्मानन्तरमेव सिद्धिं प्राप्नुवन्ति ।

पदविवरणम् – समास:

  • कर्मपटलानि = कर्मणाम् पटलम् कर्मपटलम् – तत्पुरुषः, तानि
  • निर्यन्मला: =  निर्यन्तः मलाः येभ्यः ते – बहुव्रीहिः (निर् + इण् गतौ + शतृ – निर्यत् इति प्रातिपदिकम्)
  • भक्तिपथे = भक्ते: पथम् भक्तिपथम् – तत्पुरुषः, तस्मिन्
  • तर्कपथे = तर्कस्य पथम् तर्कपथम् – तत्पुरुषः, तस्मिन्
  • ब्रह्माख्यम् = ब्रह्म इति आख्या यस्य तत् – बहुव्रीहिः
  • चित्तार्द्रत्वम् = चित्तस्य आर्द्रत्वम् – तत्पुरुषः
  • जन्मान्तरै: = जन्मन: अन्तर: जन्मान्तर: – तत्पुरुषः, तै:

सन्धिः –   https://nivedita2015.wordpress.com/sandhi/

छन्दः

Detailed explanation are available here – https://nivedita2015.wordpress.com/chandas-2/#shaardoolavikreeditam  Shaardoolavikreeditam शार्दूलविक्रीडितम्

Word-Meaning

  • अति-आयास-कराणि = demanding great effort
  • कर्मपटलानि = the disciplines of Karma (yoga)
  • आचर्य = by performing
  • निर्यन्मला = become purified (in mind)
  • बोधे = (required) for following the path of Gyaana (yoga)
  • भक्तिपथे अथवा अपि  = and also for the path of Bhakti (yoga)
  • उचितताम् आयान्ति = (one) gains fitness
  • किं तावता = what is the use (after spending so much effort)
  • क्लिष्ट्वा तर्कपथे = of straining in the path of logical reasoning (Gyaana yoga)
  • परं तव वपु: – ब्रह्म-आख्यम्- = (because) Thy unmanifested aspect known as Supreme Brahman
  • अन्ये पुनः  = others, however
  • चित्त-आर्द्रत्वम् ऋते = without melting of the heart (in love)
  • विचिन्त्य = pondering over (trying to fathom)
  • बहुभिः  = (take) a lot of (time)
  • सिद्ध्यन्ति = attain
  • जन्मान्तरैः = after many lives

Shloka 2.10

त्वद्भक्तिस्तु कथारसामृतझरीनिर्मज्जनेन स्वयं

सिद्ध्यन्ती विमलप्रबोधपदवीमक्लेशतस्तन्वती ।

सद्यस्सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पद-

प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर ॥१०॥

[पदच्छेदः] त्वद्भक्तिः तु कथारसामृतझरीनिर्मज्जनेन स्वयम् सिद्ध्यन्ती विमलप्रबोधपदवीम् अक्लेशतः तन्वती सद्यः सिद्धिकरी जयति अयि विभो सा एव अस्तु मे त्वत्पदप्रेमप्रौढिरसार्द्रता द्रुततरम् वातालयाधीश्वर ।

अन्वयरचना

  • जयति ।
    • का जयति ? त्वद्भक्तिः तु जयति ।
      • कीदृशी त्वद्भक्तिः ? सिद्ध्यन्ती
        • कथं सिद्ध्यन्ती ? स्वयं सिद्ध्यन्ती
        • केन सिद्ध्यन्ती ? कथारसामृतझरीनिर्मज्जनेन
      • पुनः कीदृशी त्वद्भक्तिः ? तन्वती
        • कथं तन्वती ? अक्लेशतः
        • कां तन्वती ? विमलप्रबोधपदवीम्
      • पुनः कीदृशी त्वद्भक्तिः ? सिद्धिकरी
        • कदा सिद्धिकरी ? सद्यः सिद्धिकरी
  • अयि विभो ! वातालयाधीश्वर ! अस्तु ।
    • का अस्तु ? सा एव अस्तु
      • कीदृशी सा ? त्वत्पदप्रेमप्रौढिरसार्द्रता सा
    • कस्य अस्तु ? मे अस्तु
    • कथम् अस्तु ? द्रुततरम् अस्तु

[अन्वयः] त्वद्भक्तिः तु, कथारसामृतझरीनिर्मज्जनेन स्वयं सिद्ध्यन्ती, विमलप्रबोधपदवीम् अक्लेशतः तन्वती, सद्यः सिद्धिकरी, जयति । अयि विभो ! वातालयाधीश्वर ! त्वत्पदप्रेमप्रौढिरसार्द्रता सा एव मे द्रुततरं अस्तु ।

पदार्थः

  • त्वद्भक्तिः = भगवद्भक्तिः
  • कथारसामृतझरीनिर्मज्जनेन = कथाश्रवणरसामृतप्रवाहे मज्जनेन
  • सिद्ध्यन्ती = प्राप्नुवन्ती
  • विमलप्रबोधपदवीम् = शुद्धब्रह्मज्ञानमार्गम्
  • अक्लेशतः = कष्टम् विना
  • तन्वती = उद्घाटयन्ती
  • त्वत्पदप्रेमप्रौढिरसार्द्रता = त्वत्पादयोः प्रेमातिशयरसार्द्रता
  • द्रुततरम् = शीघ्रम्
  • वातालयाधीश्वर = वायुपुरेश, गुरुवायुपूरेश

[तात्पर्यम्] “भगवत्कथाश्रवणनिरतेषु भक्तिः स्वयमेव उद्भवति । सा भक्तिः उपासकान् अनायासं शुद्धब्रह्मज्ञानमार्गे नयति, शीघ्रं फलं ददाति च । अतः भक्तिमार्गः जयति । हे प्रभो ! ममापि त्वत्पदे प्रेमातिशयस्वरूपा भक्तिः शीघ्रमेव भवतु” इति कविः भगवन्तं प्रार्थयति ।

पदविवरणम् – समासः

  • त्वद्भक्तिः = तव भक्तिः – तत्पुरुषः
  • कथारसामृतझरीनिर्मज्जनेन
    • कथायाः रसः = कथारसः – तत्पुरुषः
    • कथारसःएव अमृतम् = कथारसामृतम् – कर्मधारयः
    • कथारसामृतस्यझरी = कथारसामृतझरी – तत्पुरुषः
    • कथारसामृतझर्यां निमज्जनम् = कथारसामृतझरीनिर्मज्जनम् – तत्पुरुषः, तेन
  • विमलप्रबोधपदवीम्
    • विमलः च सः प्रबोधः च = विमलप्रबोधः – कर्मधारयः
    • विमलप्रबोधस्यपदवी = विमलप्रबोधपदवी – कर्मधारयः, ताम्
  • अक्लेशतः
    • नक्लेशः = अक्लेशः – नञ्  समासः, तसिल् प्रत्ययान्तः
  • त्वत्पदप्रेमप्रौढिरसार्द्रता
    • तव पदम् = त्वत्पदम् – तत्पुरुषः
    • प्रेम्णः प्रौढिः = प्रेमप्रौढिः – तत्पुरुषः
    • त्वत्पदयोः प्रेमप्रौढिः = त्वत्पदप्रेमप्रौढिः – तत्पुरुषः
    • त्वत्पदप्प्रेमप्रौढेः रसः = त्वत्पदप्प्रेमप्रौढिरसः – तत्पुरुषः
    • त्वत्पदप्प्रेमप्रौढिरसेण आर्द्रता = त्वत्पदप्रेमप्रौढिरसार्द्रता – तत्पुरुषः
  • वातालयाधीश्वर
    • वातस्य आलयः = वातालयः – तत्पुरुषः
    • वातालयस्य अधीश्वरः = वातालयाधीश्वरः – तत्पुरुषः, सम्बोधना

सन्धिः –   https://nivedita2015.wordpress.com/sandhi/

छन्दः

Detailed explanation are available here – https://nivedita2015.wordpress.com/chandas-2/#shaardoolavikreeditam  Shaardoolavikreeditam शार्दूलविक्रीडितम्

  • 19 letters; pause after 12; Majestic like the gait of the lion or tiger.
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
त्व द्भ क्ति स्तु था सा मृ री नि र्म ज्ज ने स्व यं
सि द्ध्य न्ती वि प्र बो वी क्ले स्त न्व ती
द्य स्सि द्धि री त्य यि वि भो सै वा स्तु मे त्व त्प
प्रे प्रौ ढि सा र्द्र ता द्रु रं वा ता या धी श्व

Word-Meaning

  • त्वत्-भक्तिः तु = devotion to Thee, indeed
  • कथारस-अमृतझरी = in the flow of nectar showering from Thy stories
  • निर्मज्जनेन = by submerging in its bliss
  • स्वयं सिद्ध्यन्ती = is self attainable, directly
  • विमल-प्रबोध-पदवीम् = the state of pure knowledge and enlightenment
  • अक्लेशतः = without any effort
  • तन्वती = bestows (because it gives)
  • सद्यः सिद्धिकरी = instant achievement
  • जयति = (and) is superior (to the other two paths)
  • अयि विभो = O Thou Universal Lord!
  • सा एव अस्तु मे = may I have that (Bhakti)
  • त्वत्-पद-प्रेम-प्रौढि-रस-आर्द्रता = the state of melting of the heart from the bliss of intense love for Thy feet
  • द्रुततरम् = very soon
  • वातालयाधीश्वर = O Lord of Guruvaayur!

References

Other references

10 thoughts on “(Video) Melpathur Narayana Bhattathiri’s Naaraayaneeyam – Narayana Namboodiri

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s