RaghuveeraGadyam3

श्रीवेदान्तदेशिकेन विरचितम् रघुवीरगद्यम् ;

Raghuveeragadyam ;

Link to Playlist session

by Srimad Vedaantadeshika ;

on the Life & Leela of Sri Raama ;

प्रस्तोत्री – श्रीमती  सुजाता रमेशः

Presented by Smt. Sujatha Ramesh

Sanskrit Lecture Series on Literary Works – संस्कृते संस्कृतग्रन्थपरिचयः

Detailed notes at https://nivedita2015.wordpress.com/RaghuveeraGadyam

Paintings Copyrights @krishnafortoday.com and Sri. Keshav. For prints of the paintings, please visit krishnafortoday.com

#Raghuveeragadyam

नमस्क्रिया-श्लोकः

श्रीमान्वेङ्कटनाथार्यः   कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे   सन्निधत्तां सदा हृदि ॥

मङ्गलश्लोकः

कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय  वेदान्तगुरवे नमः॥

Session #31

युद्धकाण्डे मुख्यः घट्टः – विभीषणशरणागतिः

अहित सहोदर रक्षः परिग्रह विसंवादिविविध सचिव विप्रलम्भ समय संरम्भ समुज्जृम्भित सर्वेश्वर भाव सकृत्प्रपन्न जन संरक्षण दीक्षित वीर सत्यव्रत

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – लङ्कायै सुग्रीवसेनाप्रस्थानम्

विशेषः – वाल्मीकिरामायणम् – 6.4.5, 6.4.6

उत्तराफाल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते ।

अभिप्रयाम सुग्रीव सर्वानीकसमावृताः ॥

निमित्तानि च पश्यामि यानि प्रादुर्भवन्ति वै ।

निहत्य रावणं सीतामानयिष्यामि जानकीम् ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – इन्द्रजितः आक्षेपः

विशेषः – वाल्मीकिरामायणम् 6.1.22

त्यजाशु कोपं सुखधर्मनाशनं

  भजस्व धर्मं रतिकीर्तिवर्धनम् ।

प्रसीद जीवेम सपुत्र बान्धवाः

  प्रदीयताम् दाशरथाय मैथिली

श्रीमद्रामायणे युद्धकाण्डे मुख्याः घट्टाः

श्रीमद्रामायणे मुख्याः घट्टाः

श्रीमद्रामायणे युद्धकाण्डे मुख्याः घट्टाः

श्रीमद्रामायणे युद्धकाण्डे मुख्याः घट्टाः

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः

विशेषः – वाल्मीकिरामायणम् – 5.68.21, 22

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।
न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रावणाय विभीषणोपदेशः

विशेषः – वाल्मीकिरामायणम्6.10.14

यदा प्रभृति वैदेही

   सम्प्राप्तेह परतप ।
तदा प्रभृति दृश्यन्ते

   निमित्तान्यशुभानि नः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रावणाय विभीषणोपदेशः

विशेषः – वाल्मीकिरामायणम् 6.10.22-24

तदेवं प्रस्तुते कार्ये प्रायश्चित्तमिदं क्षमम् । रोचते वीर वैदेही राघवाय प्रदीयताम् ॥

इदं च यदि वा मोहाल्लोभाद् वा व्याहृतं मया । तत्रापि च महाराज न दोषं कर्तुमर्हसि ॥

अयं हि दोषः सर्वस्य जनस्यास्योपलक्ष्यते । रक्षसां राक्षसीनां च पुरस्यान्तःपुरस्य च ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रावणाय विभीषणोपदेशः

विशेषः – वाल्मीकिरामायणम् 6.10.29

भयं न पश्यामि कुतश्चिदप्यहं
  न राघवः प्राप्स्यति जातु मैथिलीम् ।

सुरैः सहेन्द्रैरपि सङ्गरे कथं

  ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रावणाय विभीषणोपदेशः 

विशेषः – वाल्मीकिरामायणम् 6.13.21

न वासवेनापि सहस्रचक्षुषा

  यथाऽस्मि शक्यो वरुणेन वा पुनः ।

मया त्विदं बाहुबलेन निर्जिता

  पुरा पुरी वैश्रवणेन पालिता ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रावणाय विभीषणोपदेशः

विशेषः – वाल्मीकिरामायणम् 6.15.2, 6.15.3

किं नाम ते तात कनिष्ठ वाक्यम् अनर्थकं वै बहुभीतवच्च ।

अस्मिन् कुले योऽपि भवेन्न जातः सोऽपीदृशं नैव वदेन्न कुर्यात् ॥

सत्त्वेन वीर्येण पराक्रमेण धैर्येण शौर्येण च तेजसा च ।
एकः कुलेऽस्मिन् पुरुषो विमुक्तो विभीषणस्तातकनिष्ठ एषः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – इन्द्रजितः आक्षेपः

विशेषः – वाल्मीकिरामायणम् – 6.15.9, 6.15.10

न तात मन्त्रे तव निश्चयोस्ति बालस्त्वमद्याप्यविपकबुद्धिः ।

तस्मात्त्वयाप्यात्मविनाशनाय वचोऽर्थहीनं बहु विप्रलप्तम् ॥

पुत्रप्रवादेन तु रावणस्य त्वमिन्द्रजिन्मित्रमुखोसि शत्रुः ।

यस्येदृशं राघवतो विनाशं निशम्य मोहादनुमन्यसे त्वम् ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रावणाय विभीषणोपदेशः

विशेषः – वाल्मीकिरामायणम् – 6.15.14

धनानि रत्नानि सुभूषणानि

   वासांसि दिव्यानि मणींश्च चित्रान् ।

सीताम् च रामाय निवेद्य देवीं

   वसेम राजन्निह वीतशोकाः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रावणाय विभीषणोपदेशः

विशेषः – वाल्मीकिरामायणम् –  6.14.3, 6.14.4

यावन्न लङ्कां समभिद्रवन्ति वलीमुखाः पर्वतकूटमात्राः ।

दंष्ट्रायुधाश्चैव नखायुधाश्च प्रदीयतां दाशरथाय मैथिली ॥

यावन्न गृह्णन्ति शिरांसि बाणा रामे रिता राक्षसपुङ्गवानाम् ।

वजोपमा वायुसमानवेगाः प्रदीयतां दाशरथाय मैथिली ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रावणकृत विभीषणपरिभवः

विशेषः – वाल्मीकिरामायणम्6.16.16

अन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर ।
अस्मिन्मुहूर्ते न भवेत्त्वां तु धिक्कुलपांसनम्

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रावणकृत विभीषणपरिभवः

विशेषः – रामायणमञ्जरी 152, 153

श्रुत्वैतत्कोपसन्तप्तः समुत्थाय दशाननः ।

साम्राज्यमिव पादेन जघानाशु विभीषणम् ॥

स पपात हतस्तेन तेजस्वी कनकासनात् ।

अस्ताचलादिव रविः शर्वर्यन्तरितोदयः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रावणाय विभीषणोपदेशः

विशेषः – वाल्मीकिरामायणम् – 6.16.23, 24

दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः ।

न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रावणाय विभीषणोपदेशः

विशेषः – वाल्मीकिरामायणम् – 3.37.2

सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रावणाय विभीषणोपदेशः

विशेषः – वाल्मीकिरामायणम् – 6.16.26

स्वस्ति तेsस्तु गमिष्यामि सुखी भव मया विना !

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – विभीषणशरणागतिः

विशेषः – वाल्मीकिरामायणम् – 6.17.1

इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः ।

आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥

Session #32

Raghuveeragadyam
of Srimad Vedaantadeshika
#32 – Yuddhakaandam – 2
Presented by Smt. Sujatha Ramesh

प्रस्तोत्री – श्रीमती सुजाता रमेशः।भागः #32
विभीषणस्य निवेदनं, शरणागतिक्रमः, रामानुग्रहः च             .

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – वानरसेनां प्रति विभीषणवचनानि

विशेषः – वाल्मीकिरामायणम् – 6.17.12 – 6.17.17

रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः । तस्याहमनुजो भ्राता विभीषण इति श्रुतः ॥
तेन सीता जनस्थानाद्धृता हत्वा जटायुषम् । रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता ॥
तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम् । साधु निर्यात्यतां सीता रामायेति पुनः पुनः॥
स च न प्रतिजग्राह रावणः कालचोदितः । उच्यमानो हितं वाक्यं विपरीत इवौषधम् ॥
सोऽहं परुषितस्तेन दासवच्चावमानितः । त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥
निवेदयत मां क्षिप्रं राघवाय महात्मने । सर्वलोकशरण्याय विभीषणमुपस्थितम् ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – सुग्रीवप्रतिस्पन्दः

विशेषः – वाल्मीकिरामायणम्  – 6.17.21

अन्तर्धानगता ह्येते राक्षसाः कामरूपिणः ।

शूराश्च निकृतिज्ञाश्च तेषां जातु न विश्वसेत् ॥ 

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – सुग्रीवप्रतिस्पन्दः

विशेषः – वाल्मीकिरामायणम्  – 6.17.26, 27

रावणस्यानुजो भ्राता विभीषण इति श्रुतः ।
चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः ॥

रावणेन प्रणीतं हि तमवेहि विभीषणम् ।
तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – वायुपुत्रस्य अभिप्रायः

विशेषः – वाल्मीकिरामायणम्  – 6.17.62

न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता ।
प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – वायुपुत्रस्य अभिप्रायः

विशेषः – वाल्मीकिरामायणम्  – 6.17.66, 6.17.67

उद्योगं तव सम्प्रेक्ष्य मिथ्यावृत्तं च रावणम् ।
वालिनश्च हतं श्रुत्वा सुग्रीवं चाभिषेचितम् ॥

राज्यं प्रार्थयमानस्तु बुद्धिपूर्वमिहागतः ।
एतावत्तु पुरस्कृत्य विद्यते त्वस्य संग्रहः

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रघुनन्दनस्य निर्णयः

विशेषः – वाल्मीकिरामायणम्  – 6.18.1, 6.18.3

अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य
प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि  स्थितम् ॥

मित्रभावेन संप्राप्तं न त्यजेयं कथञ्चन ।

दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम् ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रघुनन्दनस्य निर्णयः

विशेषः – वाल्मीकिरामायणम्  – 6.18.24, 33, 34

स हि तं प्रतिजग्राह भार्या हर्तारमागतम् ।
कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः ॥

सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥

आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ।
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम्

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रघुनन्दनस्य निर्णयः

विशेषः – वाल्मीकिरामायणम्  – 6.19.5, 6, 19

भवन्तं सर्वभूतानां शरण्यं शरणं गतः ।
परित्यक्ता मया लङ्का मित्राणि च धनानि च |

वचसा सान्त्वयित्वैनं लोचनाभ्या पिबन्निव
आख्याहि मम तत्वेन राक्षसानां बलाबलम् ॥

अहं हत्वा दशग्रीवं सप्रहस्तं सहात्मजम् ।
राजानं त्वां करिष्यामि सत्यमेतच्छृणोतु मे

विमतसहोदररक्षःपरिग्रहविसंवादिविविधसचिवविस्रम्भसमयसंरम्भसमुज्जृम्भितसर्वेश्वरभाव

[प्रतिपदार्थः] विमतः = अहितः, विपक्षः । सहोदरः = अनुजः । रक्षः = राक्षसः ।

परिग्रहः = स्वीकारविषयः । विसंवादी = विप्रलापी । विविधः = नैकप्रकारः । सचिवः = मन्त्री । विस्रम्भण-समयः = विश्वसितुं योग्यः समयः ।

संरम्भः = सम्भ्रमः । समुजृम्भितः = प्रकटीकृतः । सर्वेश्वरभावः = निरङ्कुशत्वं यस्य सः, तादृशः श्रीरामः  ।

विमतसहोदररक्षःपरिग्रहविसंवादिविविधसचिवविस्रम्भसमयसंरम्भसमुज्जृम्भितसर्वेश्वरभाव

[तात्पर्यम्] रावणसहोदरस्य विभीषणस्य अनुग्रहविषये स्वस्य सचिवानाम् अनङ्गीकारस्य एकाभिप्रायं श्रुत्वा सम्भ्रमेण प्रकटीकृतसर्वेश्वरभाव !

सकृत्प्रपन्नजनसंरक्षणदीक्षित वीर सत्यव्रत

[प्रतिपदार्थः] सकृत् = एकवारम् । प्रपन्नजनः = शरणागतः । संरक्षणम् = परिपालनम् । दीक्षितः = बद्धव्रतः । वीरः = शूरः । सत्यव्रतः = सत्यमेव व्रतं यस्य सः ।

[तात्पर्यम्] शरणागतानं रक्षणे दृढव्रत ! शूर !  सत्यतत्पर !  

Session #33

Raghuveeragadyam of Srimad Vedaantadeshika
#33 – Yuddhakaandam – 3
Presented by Smt. Sujatha Ramesh

प्रस्तोत्री – श्रीमती सुजाता रमेशः।भागः #33

सागरमुद्दिश्य रामकृतप्रार्थना, सेतुनिर्माणं च  

युद्धकाण्डे मुख्यः घट्टः – सेतुनिर्माणम्

1.सागरमुद्दिश्य रामकृतप्रार्थना

2.निरुत्तरं समुद्रं प्रति रामस्य कोपः

3.नलस्य सेतुनिर्माणप्रक्रिया, हरिसैन्यस्य सेतुनिर्माणप्रयासः च

4.सेतोः निर्माणाकालः तस्य परिमाणञ्च

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – दर्भशयनम्

विशेषः – वाल्मीकिरामायणम्  – 6.19.30

एवमुक्तस्तु धर्मात्मा प्रत्युवाच विभीषणः ।
समुद्रं राघवो राजा शरणं गन्तुमर्हति ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – दर्भशयनम्

विशेषः – वाल्मीकिरामायणम्  – 6.21.1

ततः सागरवेलायां दर्भानास्तीर्य राघवः ।
अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – निरुत्तरं समुद्रं प्रति रामस्य कोपः

विशेषः – वाल्मीकिरामायणम् 6.21.8, 6.21.10, 6.21.11

गोसहस्रप्रदातारं ह्युपधाय भुजं महत् ।
अद्य मे तरणं वाथ मरणं सागरस्य वा ॥

तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले ।
नियमादप्रमत्तस्य निशास्तिस्रोsभिजग्मतुः ॥

स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।
उपासत तदा रामः सागरं सरितां पतिम् ॥

रघुवीरगद्ये – सागरमुद्दिश्य रामकृतप्रार्थना

प्रतिशयनभूमिका
भूषितपयोधिपुलिन

प्रतिशयनभूमिकाभूषितपयोधिपुलिन

[प्रतिपदार्थः] प्रतिशयनम् = समीपशयनम् । भूमिका = वेशधारणम् । भूषितः = अलङ्कृतः । पयोधिः = सागरः । पुलिनम् = सैकतम् / सिकतमयम् ।

प्रतिशयनभूमिकाभूषितपयोधिपुलिन

[तात्पर्यम्]

लङ्काप्राप्तौ अवरोधभूतं सागरं मार्गदर्शनाय संप्रार्थयन् तत्समीपे शयनावसरे तत्रस्थसैकतेन अलङ्कृतः श्रीरामः, तस्य सम्बुद्धिः !

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – निरुत्तरं समुद्रं प्रति रामस्य कोपः

विशेषः – वाल्मीकिरामायणम्6.21.15, 16

असामर्थ्यफला ह्येते निर्गुणेषु सतां गुणाः ।

आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् ॥

सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् ।

न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – निरुत्तरं समुद्रं प्रति रामस्य कोपः

विशेषः – वाल्मीकिरामायणम्6.21.20, 21, 22

क्षमया हि समायुक्तं माम् अयं मकरालयः ॥

असमर्थं विजानाति धिक् क्षमाम् ईदृशे जने ।

स दर्शयति साम्ना मे सागरो रूपमात्मनः ॥

चापमानय सौमित्रे शराश्चाशीविषोपमान् ।

समुद्रं शोषयिष्यामि पद्भ्यां यान्तु प्लवङ्गमाः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – निरुत्तरं समुद्रं प्रति रामस्य कोपः

विशेषः – वाल्मीकिरामायणम्6.22.26, 27

विधास्ये येन गन्तासि विषहिष्ये ह्यहं तथा ।
न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति ॥
हरीणां तरणे राम करिष्यामि यथास्थलम् ।

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – नलस्य सेतुनिर्माणप्रक्रिया

विशेषः – वाल्मीकिरामायणम्6.22.41, 42

अयं सौम्य नलो नाम तनयो विश्वकर्मणः ।
पित्रा दत्तवरः श्रीमान्प्रीतिमान् विश्वकर्मणः ॥

एष सेतुं महोत्साहः करोतु मयि वानरः ।
तमहं धारयिष्यामि यथा ह्येष पिता तथा ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – नलस्य सेतुनिर्माणप्रक्रिया

विशेषः – वाल्मीकिरामायणम्6.22.44

अहं सेतुं करिष्यामि विस्तीर्णे मकरालये ।
पितुः सामर्थ्यमासाद्य तत्त्वमाह महोदधिः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – नलस्य सेतुनिर्माणप्रक्रिया

विशेषः – वाल्मीकिरामायणम्6.22.50

ततो विसृष्टा रामेण सर्वतो हरिपुंगवाः ।

उत्पेततुर्महारण्यं हृष्टाः शतसहस्रशः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – नलस्य सेतुनिर्माणप्रक्रिया

विशेषः – वाल्मीकिरामायणम्6.22.58, 6.22.59

समुद्रं क्षोभयामासुर्निपतन्तः समन्ततः ।
सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतं शतयोजनम् ॥

नलः चक्रे महासेतुं मध्ये नदनदीपतेः ।
स तदा क्रियते सेतुर्वानरैर्घोरकर्मभिः ॥

रघुवीरगद्ये – निरुत्तरं समुद्रं प्रति रामस्य कोपः

प्रलयशिखिपरुषविशिखशिखाशोषिताकूपारवारिपूर !

प्रलयशिखिपरुषविशिखशिखाशोषिताकूपारवारिपूर

[प्रतिपदार्थः] प्रलयशिखी = कल्पान्ताग्निः । परुषः = घोरः ।

विशिखः = ब्रह्मास्त्रेण अभिमन्त्रितः शरः । शिखा = अग्रभागः ।

शोषितः = निर्जलीकृतः । आकूपारः = समुद्रः । वारिपूरः = जलप्रवाहः ।

प्रलयशिखिपरुषविशिखशिखाशोषिताकूपारवारिपूर

[तात्पर्यम्]

कल्पान्ताग्निसदृशतेजोमयेन बाणाग्रेण शतयोजनविस्तीर्णः जलप्रवाहयुक्तः सागरः शोषितः येन सः, तादृशः श्रीरामः, तस्य सम्बुद्धिः !

युद्धकाण्डे मुख्यः घट्टः – सेतुनिर्माणम्

युद्धकाण्डे मुख्यः घट्टः – सेतुनिर्माणम्

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – सेतुनिर्माणम्

विशेषः – वाल्मीकिरामायणम्6.22.76

दशयोजनविस्तीर्णं शतयोजनमायतम् ।
ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम् ॥

रघुवीरगद्ये – सेतुनिर्माणम्

प्रबलरिपुकलहकुतुकचटुलकपिकुलकरतलतूलितहृतगिरिनिकरसाधितसेतुपथसीमासीमन्तितसमुद्र !

प्रबलरिपुकलहकुतुकचटुलकपिकुलकरतलतूलितहृतगिरिनिकरसाधितसेतुपथसीमासीमन्तितसमुद्र

[प्रतिपदार्थः] प्रबलः = प्रकृष्टं बलं यस्य सः । रिपुः = शत्रुः (रावणः तत्सैन्यं वा) ।

कलहः = सङ्ग्रामः । कुतुकम् = कुतूहलम् / आसक्तिः । चटुलम् = चपलम् ।

कपिकुलम् = हरिसैन्यम् । करतलः = हस्तः । तूलितः = कार्पासितः ।

हृतः = आघातितः । गिरिनिकरः = पर्वतसमूहः । साधितः = विरचितः।

सेतुपथः = सेतुमार्गः । सीमा = अवधिः । सीमन्तितः = विभाजितः । समुद्रः = सिन्धुः ।

प्रबलरिपुकलहकुतुकचटुलकपिकुलकरतलतूलितहृतगिरिनिकरसाधितसेतुपथसीमासीमन्तितसमुद्र

[तात्पर्यम्]

प्रबलशत्रुजनैः योद्धुं कुतूहलेन वानरसेनया (तेषां हस्तैः) चूर्णीकृतपर्वतानां समूहैः विरचितसेतुना संविभक्तः सागरः येन सः, तादृशः श्रीरामः, तस्य सम्बुद्धिः !

Session #34

Raghuveeragadyam
of Srimad Vedaantadeshika
#34 – Yuddhakaandam – 4
Presented by Smt. Sujatha Ramesh

प्रस्तोत्री – श्रीमती सुजाता रमेशः।भागः #34

वानरसेनायाः व्यवस्था, रामस्य बलञ्च   

युद्धकाण्डे मुख्यः घट्टः – सेनायाः व्यवस्था 1.शुक-सारण-शार्दूलादीनां गूढचर्यम् 2.रावणसम्मुखे चाराणां हरिसेनायाः, रामबलस्य च प्रख्यापनम् 3.रामसेनायाः व्यूहरचना 4.रावणस्य सीताप्रलोभनप्रयत्नः 5.हरिपृथनायाः समयः

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – शुक-सारण-शार्दूलादीनां गूढचर्यम्

विशेषः – वाल्मीकिरामायणम् – 6.20.9 – 12

सुग्रीवं ब्रूहि गत्वाशु राजानं वचनान्मम । यथासंदेशमक्लीबं श्लक्षणया परया गिरा ॥ •त्वं वै महारज कुलप्रसूतो महाबलश्चर्क्षरजःसुतश्च ।
न कश्चनार्थस्तव नास्त्यनर्थस्तथापि मे भ्रातृसमो हरीश ॥

अहं यद्यहरं भार्यां राजपुत्रस्य धीमतः । किं तत्र तव सुग्रीव किष्किन्धां प्रतिगम्यताम् ॥

न हीयं हरिभिर्लङ्का प्राप्तुं शक्या कथञ्चन । देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – सुग्रीवस्य प्रतिवचनम्

विशेषः – वाल्मीकिरामायणम्6.20.22, 23

न मेऽसि मित्रं न तथानुकम्प्यो न चोपकर्तासि न मे प्रियोऽसि ।
अरिश्च रामस्य सहानुबन्धस्ततोऽसि वालीव वधार्ह वध्यः ॥

निहन्म्यहं त्वां ससुतं सबन्धुं सज्ञातिवर्गं रजनीचरेश ।
लङ्कां च सर्वां महता बलेन सर्वैः करिष्यामि समेत्य भस्म ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – शुक-सारण-शार्दूलादीनां गूढचर्यम्

विशेषः – वाल्मीकिरामायणम्6.24.30 – 32

स च हन्ता विराधस्य कबन्धस्य खरस्य च ।
सुग्रीवसहितो रामः सीतायाः पदमागतः ॥

स कृत्वा सागरे सेतुं तीर्त्वा च लवणोदधिम् ।
एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः ॥

ऋक्षवानरसङ्घानामनीकानि सहस्रशः ।
गिरिमेघनिकाशानां छादयन्ति वसुन्धराम् ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – हरिसेनायाः बलस्य प्रख्यापनम्

विशेषः – वाल्मीकिरामायणम् – 6.28.33 – 38

शतं शतसहस्राणां कोटिमाहुर्मनीषिणः । शतं कोटिसहस्राणां शङ्कुरित्यभिधीयते ॥

शतं शङ्कुसहस्राणां महाशङ्कुरिति स्मृतः । महाशङ्कुसहस्राणां शतं वृन्दमिहोच्यते ॥

शतं वृन्दसहस्राणां महावृन्दमिति स्मृतम् । महावृन्दसहस्राणां शतं पद्ममिहोच्यते ॥

शतं पद्मसहस्राणां महापद्ममिति स्मृतम् । महापद्मसहस्राणां शतं खर्वमिहोच्यते ॥

शतं खर्वसहस्राणां महाखर्वमिति स्मृतम् । महाखर्वसहस्राणां समुद्रमभिधीयते ॥

शतं समुद्रसाहस्रमोघ इत्यभिधीयते । शतं मोघसहस्राणां महौघा इति विश्रुतः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – हरिसेनायाः बलस्य प्रख्यापनम्

विशेषः – वाल्मीकिरामायणम् – 6.28.39 – 42

एवं कोटिसहस्रेण शन्कूनां च शतेन च । महाशङ्कुसहस्रेण तथा वृन्दशतेन च ॥

महावृन्दसहस्रेण तथा पद्मशतेन च । महापद्मसहस्रेण तथा खर्वशतेन च ॥

समुद्रेण च तेनैव महौघेन तथैव च । एष कोटिमहौघेन समुद्रसदृशेन च ॥

विभीषणेन वीरेण सचिवैः परिवारितः । सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमनुवर्तते ॥

विशेषः – वाल्मीकिरामायणम्6.24.34, 6.24.42

पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु ।
सीतां वास्मै प्रयच्छाशु युद्धं वापि प्रदीयताम् ॥

….

इमां महाराज समीक्ष्य वाहिनीमुपस्थितां प्रज्वलितग्रहोपमाम् ।

ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पराभवः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रामसेनायाः व्यूहरचना

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रावणचारेभ्यो अभयप्रदानम्

विशेषः – वाल्मीकिरामायणम् – 6.25.18, 19

यदि दृष्टं बलं सर्वं वयं वा सुसमाहिताः ।
यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् ॥

अथ किञ्चिददृष्टं वा भूयस्तद् द्रष्टुमर्हथः ।
विभीषणो वा कार्त्स्न्येन पुनः सन्दर्शयिष्यति ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रावणस्य सीताप्रलोभनप्रयत्नः

विशेषः – वाल्मीकिरामायणम् – 6.31.15, 16

सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे ।
खर हन्ता स ते भर्ता राघवः समरे हतः ॥

छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया ।
व्यसनेनात्मनः सीते मम भार्या भविष्यसि ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – सरमायाः सान्त्वनम्

विशेषः – वाल्मीकिरामायणम् – 6.33.16

दृष्टो मे परिपूर्णार्थः काकुत्स्थः सलक्ष्मणः ।
सहितैः सागरान्तस्थैर्वलैस्तिष्ठति रक्षितः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – हरिपृथनायाः समयः

विशेषः – वाल्मीकिरामायणम् – 6.37.33 – 35

न चैव मानुषं रूपं कार्यं हरिभिराहवे ।
एषा भवतु नः संज्ञा युद्धेऽस्मिन्वानरे बले ॥

वानरा एव नश्चिह्नं स्वजनेऽस्मिन्भविष्यति ।
वयं तु मानुषेणैव सप्त योत्स्यामहे परान् ॥

अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा ।
आत्मना पञ्चमश्चायं सखा मम विभीषणः ॥

रघुवीरगद्ये – रामबलस्य प्रख्यापनम्

द्रुतगति-तरुमृग-वरूथिनी-रुद्ध-लङ्कावरोध-वेपथुलास्यलीलोपदेश-देशिक-धनुर्ज्याघोष !

[प्रतिपदार्थः] द्रुतम् = शीघ्रम् । गतिः = वेगः । तरुमृगः = वुक्षसञ्चारी वानरः ।
वरूथिनी = सेना । रुद्धम् = निवारितम् । लङ्कावरोधः = लङ्कानिर्बन्धनमुखः ।
वेपथुः = कम्पनम् । लास्यलीला = नारीणां नृत्यम् । उपदेशः = बोधनविषयः ।
देशिकः = आचार्यरूपः । धनुर्ज्याघोषः = चापस्य ज्यायाः ध्वनिः । • •

[तात्पर्यम्] अत्यन्तवेगेन सरमाणया वानरसेनया लङ्कानगरम् अवरुद्धं जातम् । रामचापस्य ज्याघोषेण लङ्कायाम् अन्तःपुर-स्त्रीजनानां देहेषु कम्पनरूप-नृत्यभङ्गिमया रावणोद्बोधन-क्रियायाम् आचार्यरूपः यः कोदण्डपाणिः श्रीरामः, तस्य सम्बोधनम् ! • •श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – शुक-सारण-शार्दूलादीनां गूढचर्यम्

Session #35

Raghuveeragadyam
of Srimad Vedaantadeshika
#35 Yuddhakaandam5
Presented by Smt. Sujatha Ramesh

प्रस्तोत्री – श्रीमती सुजाता रमेशः।भागः #35

वैनतेयागमनं प्रमुखरावणसेनाधिपानां हननञ्च

युद्धकाण्डे मुख्याः घट्टाः

1.सुग्रीवस्य साहसकृत्यम्

2.अङ्गददौत्यम्

3.सीताप्रलोभनम्

4.वैनतेयस्य आगमनम्

5.प्रमुखरावणसेनाधिपानां हननम्

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – सुग्रीवस्य साहसकृत्यम्

विशेषः – वाल्मीकिरामायणम् 6.41.3, 4

संशये स्थाप्य मां चेदं बलं चेमं विभीषणम् । कष्टं कृतमिदं वीर साहसं साहसप्रिय ॥

इदानीं मा कृथा वीर एवं विधमरिंदम । त्वयि किञ्चित्समापन्ने किं कार्यं सीतया मया ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – सुग्रीवस्य साहसकृत्यम्

विशेषः – वाल्मीकिरामायणम् 6.41.6, 7, 8

त्वयि चानागते पूर्वमिति मे निश्चिता मतिः । जानतश्चापि ते वीर्यं महेन्द्रवरुणोपमम् ॥

हत्वावाऽहं रावणं युद्धे सपुत्रबलवाहनम् । अभिषिच्य च लङ्कायां विभीषणमथाऽपि च॥

भरते राज्यमारोप्य त्यक्ष्ये देहं महाबल ।

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – अङ्गददौत्यम्

विशेषः – वाल्मीकिरामायणम् 6.41.63

यच्च पापं कृतं मोहात्  अवलिप्तेन राक्षस । नूनं ते विगतो दर्पः  स्वयम्भूवरदानज ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – अङ्गददौत्यम्

विशेषः – वाल्मीकिरामायणम् 6.41.66, 67

बलेन येन वै सीतां मायया राक्षसाधम । मामतिक्रमयित्वा त्वं हृतवान् तन्निदर्शय ॥

अराक्षसमिमं लोकं कर्ता अस्मि निश्चितैश्शरैः । न चेच्छरणमभ्येषि तामादाय तु मैथिलीम् ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – अङ्गददौत्यम्

विशेषः – वाल्मीकिरामायणम् 6.41.72

ब्रवीमि त्वां हितं वाक्यं  क्रियताम् और्ध्वदेहिकम् । सुदृष्टा क्रियतां लङ्का  जीवितं ते मयि स्थितम् ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – अङ्गददौत्यम्

विशेषः – वाल्मीकिरामायणम् 6.41.77

दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । वालिपुत्रो अन्गदो नाम यदि ते श्रोत्रम् आगतः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – शुक-सारण-शार्दूलादीनां गूढचर्यम्

विशेषः – वाल्मीकिरामायणम्6.20.9 – 12

सुग्रीवं ब्रूहि गत्वाशु राजानं वचनान्मम । यथासंदेशमक्लीबं श्लक्षणया परया गिरा ॥

त्वं वै महारज कुलप्रसूतो महाबलश्चर्क्षरजःसुतश्च । न कश्चनार्थस्तव नास्त्यनर्थस्तथापि मे भ्रातृसमो हरीश ॥

अहं यद्यहरं भार्यां राजपुत्रस्य धीमतः । किं तत्र तव सुग्रीव किष्किन्धां प्रतिगम्यताम् ॥

न हीयं हरिभिर्लङ्का प्राप्तुं शक्या कथञ्चन । देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ॥

श्रीमद्रामायणे मुख्यः घट्टः – सीताप्रलोभनम्

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – वैनतेयस्य आगमनम्

विशेषः – वाल्मीकिरामायणम् 6.50.36, 37

ततो मुहूर्ताद्गरुडं वैनतेयं महाबलम् । वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् ॥

तमागतम् अभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः । यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – वैनतेयस्य आगमनम्

विशेषः – वाल्मीकिरामायणम् 6.50.38, 39

ततः सुपर्णः काकुत्स्थौ स्पृष्ट्वा प्रत्यभिनन्द्य च । विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ॥

वैनतेयेन संस्पृष्टास्तयोः संरुरुहुव्रणाः । सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ॥

रघुवीरगद्ये – वैनतेयस्य आगमनम्

गगनचर-कनकगिरि-गरिमधर-निगममय-निजरथ-गरुड-गरुदनिल-लवगलितविवदनशरकदन

[प्रतिपदार्थः] गगनचरः = आकाशसञ्चारी । कनकगिरिः = स्वर्णमयः मेरुः । गरिमधरः = गुरुभूतः । निगममयः = वेदस्वरूपः । निजरथः = स्वस्य वाहनम् । गरुडः = गृध्रः । गरुदनिलः = पक्षयोः कम्पनेन समुत्पन्नः वायुः । लवः = सूक्ष्मभागः । गलितम् = विभ्रष्टम् । विषवदनशरः = सर्परूपबाणः । कदनम् = हिंसनम् ।

[तात्पर्यम्]

व्योमगामी, गुरुभूतः स्वर्णमयमेरुपर्वतसन्निभः, वेदस्वरूपः यः वैकुण्ठवासिनः वाहनं गरुडः, तस्य पक्षसञ्चलनात् वायुः समुत्पन्नः । तेन वायुना यस्मात् सर्परूपाः (नागास्त्रस्य) बाणाः छिद्राः/प्रनष्टाः, तादृशः श्रीरामः, तस्य सम्बुद्धिः !

रघुवीरगद्ये – प्रमुखरावणसेनाधिपानां हननम्

अकृतचरवनचररणकरणवैलक्ष्यकूणिताक्षरक्षोबलाध्यक्षवक्षःकपाटपाटनपटिमसाटोपकोपावलेप !

[प्रतिपदार्थः] [प्रतिपदार्थः] अकृतचरः=प्रकृतिसिद्धः । वनचरः = वानरः । रणकरणम् = युद्धकरणम् । वैलक्ष्यः = विस्मयान्वितः । कूणिताक्षः = आकुञ्चितनयनः । बहुविघः = बहवः । रक्षोबलाध्यक्षः = राक्षससेनानायकः । वक्षःकपाटः = (राक्षसानां) वक्षःस्थलमेव द्वारम् । पाटनम् = भेदनम् / विदारणम् । पटिमम् = पाटवम् । साटोपः = साडम्बरः । कोपावलेपः = कोपोदीर्णगर्वः ।

[तात्पर्यम्]

अकृत्रिमसैन्येन प्रतिपक्षं विस्माययन् राक्षसानां लज्जाभावपुरस्सरं तेषां वक्षःस्थलभेदनपटुत्वेन स्वस्य कोपगर्वमदादि गुणान् यः प्रकटयति, तादृशपराक्रमशाली श्रीरामः, तस्य सम्बुद्धिः !

Session #36

Raghuveeragadyam of Srimad Vedaantadeshika
#36 – Yuddhakaandam – 6 Presented by Smt. Sujatha Ramesh

प्रस्तोत्री – श्रीमती सुजाता रमेशः।भागः #36।   विश्रम्य पुनरागम्यतामिति श्रीरामकृतरावणानुग्रहः

युद्धकाण्डे मुख्याः घट्टाः

  • …. …. ….
  • युद्धे रावणस्य परिभवः
  • विश्रम्य पुनरागम्यतामिति श्रीरामकृतरावणानुग्रहः
  • कुम्भकर्णवधः
  • …. …. ….

श्रीमद्रामायणे मुख्यः घट्टः – सीताप्रलोभनम्

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – युद्धे रावणस्य परिभवः  

विशेषः – वाल्मीकिरामायणम्6.59.124-126

अथैनमनुसङ्ग्रम्य हनूमान्वाक्यमब्रवीत् ॥
मम पृष्ठं समारुह्य राक्षसं शास्तुमर्हसि ।

विष्णुर्यथा गरुत्मन्तमारुह्यामरवैरिणम् ॥
तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ।

अथारुरोह सहसा हनूमन्तं महाकपिम् ॥
रथस्थं रावणं संख्ये ददर्श मनुजाधिपः ।

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – युद्धे रावणस्य परिभवः  

विशेषः – वाल्मीकिरामायणम्6.59.134,136, 137

रोषेण महताविष्टः पूर्ववैरमनुस्मरन् ।
आजघान शरैर्दीप्तैः  कालानलशिखोपमैः ॥

ततो रामो महातेजा रावणेन कृतव्रणम् ।
दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान् ॥

तस्याभिसंक्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् ।
ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शितैः शराग्रैः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – युद्धे रावणस्य परिभवः

विशेषः – वाल्मीकिरामायणम्6.59.138

तस्याभिसंक्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् ।

ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शितैः शराग्रैः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – श्रीरामकृतरावणानुग्रहः

विशेषः – वाल्मीकिरामायणम्6.59.141

तं निर्विषाशीविषसंनिकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम् ।

गतश्रियं कृत्तकिरीटकूटमुवाच  रामो युधि राक्षसेन्द्रम् ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – श्रीरामकृतरावणानुग्रहः

विशेषः – वाल्मीकिरामायणम्6.59.142, 143

कृतं त्वया कर्म महत्सुभीमं हतप्रवीरश्च कृतस्त्वथाहम् ।
तस्मात्परिश्रान्त इति व्यवस्य न त्वां शरैर्मृत्युवशं नयामि ॥

प्रयाहि जानामि रणार्दितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम् ।
आश्वस्य निर्याहि रथी च धन्वी तदा बलं प्रेक्ष्यसि मे रथस्थः ॥

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – श्रीरामकृतरावणानुग्रहः

विशेषः श्री अतिमानुषस्तवः – १९

(श्रीकूरनाथ-श्रीवत्सचिह्नमिश्रैः विरचितम्)

यत्तादृशागसमरिं रघुवीर वीक्ष्य

 विश्रम्यतामिति मुमोचsथ मुग्धमाजौ ।

कोsयं गुणः कतरकोटिगतः कियान् वा

 कस्य स्तुतेः पदमहो बत कस्य भूमिः ॥

रघुवीरगद्ये – श्रीरामकृतरावणानुग्रहः

कटुरटतटनिटङ्कृतिचटुलकठोरकार्मुकविनिस्सृतविशङ्कटविशिखविताडन- विघटितमकुटविह्वलविश्रवस्तनयविश्रमसमयविश्राणनविख्यातविक्रम !

[प्रतिपदार्थः] कटुरटत् = कठोरशब्दयुक्तः । अटनी = धनुषः कोटिः / मूलभागः। टङ्कृतिः = टङ्कारः । चटुलः = मनोहरः । कठोरः = कठिनम् । कार्मुकम् = शरासनम् । विनिस्सृतः = विनिर्गतः । विशङ्कटः = प्रुथुः । विशिखः = बाणः । विताडनम् = प्रहारः । विघटितः = विच्छिन्नः । मकुटम् = किरीटः ।
विह्वलः = विक्लवः । विश्रवस्तनयः = रावणः । विश्रमसमयः = श्रमापनयकालः ।
विश्राणनम् = दानम् । विख्यातः = सुप्रसिद्धः । विक्रमः = प्रतापः (यस्य सः) ।

[तात्पर्यम्]

कठोरशब्दजननसामर्थ्ययुक्तेन मनोहरेण धनुष्टङ्कारसहितेन कठिनबाणेन स्वमकुटमुक्ताय रावणाय अर्थात् अपमानिताय रावणाय श्रमपरिहारसमयप्रदानक्रियया लोके प्रसिद्धिं गतः यः तस्य सम्बुद्धिः !

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – कुम्भकर्णवधः

विशेषः – वाल्मीकिरामायणम्6.63.5

यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ।
पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – कुम्भकर्णवधः

विशेषः – वाल्मीकिरामायणम्6.67.138

कुम्भकर्णशिरो भाति  कुण्डलालङ्कृतं महत् ।

आदित्ये अभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः॥

विशेषः – चाटुश्लोकः

अर्थाहरणकौशल्यं  किं स्तुमः शास्त्रवादिनाम्  ।

यैरव्ययेभ्योऽपि अर्थाः निष्काष्यन्ते ह्यनेकशः ॥

रघुवीरगद्ये – कुम्भकर्णवधः

कुम्भकर्णकुलगिरिविदलनदम्भोलिभूतनिश्शङ्क-कङ्कपत्र !

[प्रतिपदार्थः]

कुम्भकर्णः = तन्नामको राक्षसः । कुलगिरिः = कुलाचलः ।

विदलनम् = विभेदनम् । दम्भोलिभूतः = वज्रसमः ।

निश्शङ्कः = निष्प्रतिघातः । कङ्कपत्रः = बाणः (यस्य सः) ।

[तात्पर्यम्]

कुलाचलवत् बृहदाकारस्य कुम्भकर्णस्य घातने संशयरहितः वज्रोपमः बाणः यस्य सः श्रीरामः, तस्य सम्बुद्धिः !

 

Session #37

Raghuveeragadyam
of Srimad Vedaantadeshika
#37
– Yuddhakaandam – 7
Presented by Smt. Sujatha Ramesh

प्रस्तोत्री – श्रीमती सुजाता रमेशः।भागः #37

अतिकायवधः, इन्द्रजितः ब्रह्मास्त्र प्रयोगः, हनूमतः औषधिपर्वतानयनं च ।

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – अतिकायवधः

विशेषःवाल्मीकिरामायणम्6.71.28 – 30

तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो बले ।
वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषां वरः ॥

अश्वपृष्ठे नागपृष्ठे खड्गे धनुषि कर्षणे ।
भेदे सान्त्वे च दाने च नये मन्त्रे च सम्मतः ॥

यस्य  बाहुं समाश्रित्य लङ्का भवति निर्भया ।
तनयं धान्यमालिन्या अतिकायमिमं विदुः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – अतिकायवधः

विशेषःवाल्मीकिरामायणम्6.71.97, 6.71.98

ब्रह्मदत्तवरो ह्येष अवध्यकवचावृतः ।
ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा ॥

अवध्य एष ह्यन्येषामस्त्राणां कवची बली ।
ततस्तु वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीर्यः ।

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – रावणस्य विस्मयः

विशेषःवाल्मीकिरामायणम्6.72.10

अहो नु बलवान् रामो महदस्त्रबलं च वै ।
यस्य विक्रममासाद्य राक्षसा निधनं गताः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – इन्द्रजितः प्रतिज्ञा

विशेषःवाल्मीकिरामायणम् 6.73.6, 6.73.7

इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम् ।
अद्यैव रामं सह लक्ष्मणेन सन्तर्पयिष्यामि शरैरमोघैः ॥

अद्येन्द्रवैवस्वतविष्णुरुद्रसाध्याश्व वैश्वानरचन्द्रसूर्याः ।
द्रक्ष्यन्तु मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – जाम्बवतः निर्देशः

विशेषःवाल्मीकिरामायणम् 6.74.17, 18

नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये ।
विद्धगात्रः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥
अञ्जना सुप्रजा येन मातरिश्वा च सुव्रतः  ।
हनूमान्वानरश्रेष्ठः प्राणान्धारयते क्वचित् ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – जाम्बवतः निर्देशः

विशेषःवाल्मीकिरामायणम् 6.74.22

अस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् ।
हनूमत्युज्झितप्राणे  जीवन्तोऽपि मृता वयम् ॥

श्रीमद्रामायणे मुख्यः घट्टः – हनूमतः औषधिपर्वतानयनम्

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – वानरसैन्यस्य एव पुनरुज्जीवनम्

विशेषःवाल्मीकिरामायणम् 6.74.78

यदाप्रभृति लङ्कायां युद्ध्यन्ते कपिराक्षसाः ।
तदाप्रभृति मानार्थमाज्ञया रावणस्य च  ॥
ये हन्यन्ते रणे तत्र राक्षसा कपिकुञ्जरैः ।   
हताहतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥  

Session #38

 

Raghuveeragadyam of Srimad Vedaantadeshika #38 – Yuddhakaandam – 8

Presented by Smt. Sujatha Ramesh Paintings Copyrights @krishnafortoday.com and Sri. Keshav

प्रस्तोत्री – श्रीमती सुजाता रमेशः। भागः #38। इन्द्रजित्हननम्, रावणस्य सीताहननयत्नः च । 

#Raghuveeragadyam

श्रीमद्रामायणे युद्धकाण्डे – ‘निकुम्भिला’ नाम आभिचारयज्ञस्य प्रभावः  

विशेषःवाल्मीकिरामायणम् 6.84.13, 14, 15, 16

वानरान् मोहयित्वा तु प्रतियातः स राक्षसः । मायामयीं महाबाहो तां विद्धि जनकात्मजाम् ॥
चैत्यं निकुम्भिलामद्य प्राप्य होमं करिष्यति । हुतवानुपयातो हि देवैरपि सवासवैरपि ॥

दुराधर्षो भवत्येष संग्रामे रावणात्मजः । तेन मोहयता नूनमेषा माया प्रयोजिता ॥
विघ्नमन्विच्छता तत्र वानराणां पराक्रमे ।
ससैन्यास्तत्र गच्छामो यावत्तन्नसमाप्यते । त्यजैनं नरशार्दूल मिथ्यासंतापमागतम् ॥

रघुवीरगद्ये इन्द्रजित्हननम्

अभिचरणहुतवहपरिचरणविघटनसरभसपरिपतद्अपरिमितकपिबलजलधिलहरिकलकलरवकुपितमघवजिदभिहननकृदनुजसाक्षिकराक्षसद्वन्द्वयुद्ध !

 [प्रतिपदार्थः] अभिचरण-हुतवहः = अभिचाराग्निः, विधिविहितः परहिंसाफलकः  कर्मविशेषः । परिचरणम् = उपासनम् । विघटनम् = विच्छेदनम् । सरभसम् = सवेगम् । परिपतन्तम् = उत्प्लुत्य परितो धावन्तम् । अपरिमितः = असङ्ख्याकः । कपि-बलम् = वारणसैन्यम् । जलधिः = सागरः । लहरी = तरङ्गः । कलकल-रवः = कोलाहलशब्दः ।  कुपितः = कृद्धः । मघवजित्  = इन्द्रजितः । अभिहननकृत् = निधनकारी । अनुजः = अनुजन्मा । साक्षिकः = साक्षात्द्रष्टा । राक्षसाः = रावणसैन्यम् । द्वन्द्वयुद्धम् = एकस्य एकेन युद्धम् ।

 [तात्पर्यम्] अभिचारहोमं विधिवत् हवनपुरस्सरम् उपास्य योद्धुम् आगतः रावणपुत्रः । तदा इन्द्रजित्प्रयुक्तैः सवेगं परिपतन्तैः बाणैः विदारिताः असङ्ख्याकाः कपयः (सागरवत् दृश्यमणा वानरसेना) । तदा सागरतरङ्गघोषसदृशैः कपीनां हाहाकारैः कुपितः लक्ष्मणः रावणपुत्रम् इन्द्रजितं हन्ति । एवं स्वस्य अनुजेन कृतशत्रुहननं प्रत्यक्षं वीक्ष्य राक्षसैः द्वन्द्वयुद्धं कृतवान् यः श्रीरामः, तस्य सम्बुद्धिः ।

श्रीमद्रामायणे युद्धकाण्डे रावणस्य सीताहननयत्नः

विशेषःवाल्मीकिरामायणम् 6.92.34, 35

मायया  मम वत्सेन वञ्चनार्थं वनौकसाम् ।

किञ्चिदेव हतं तत्र सीतेयमिति दर्शितम् ॥

तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः ।

वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् ॥

श्रीमद्रामायणे युद्धकाण्डे रावणस्य सीताहननयत्नः

विशेषःवाल्मीकिरामायणम् 6.92.51, 52

विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः ।

हनूमास्तु तवाक्यं न कृतं क्षुद्रया मया ॥

यद्यहं तस्य पृष्टेन तदायासमनिर्जिता ।

नाद्यैवमुशोचेयं भर्तुरङ्कगता सती ॥

Session #39

Raghuveeragadyam of Srimad Vedaantadeshika #39 – Yuddhakaandam – 9

Presented by Smt. Sujatha Ramesh Paintings Copyrights @krishnafortoday.com and Sri. Keshav

प्रस्तोत्री – श्रीमती सुजाता रमेशः। भागः #39। इन्द्रजित्हननम्, रावणस्य सीताहननयत्नः च । 

#Raghuveeragadyam

रामरावणयोर्युद्धञ्च रावणवधः च ।

रघुवीरगद्ये – रामस्य पराक्रमः 

अप्रतिद्वन्द्व-पौरुष !

[प्रतिपदार्थः]

  • अप्रतिद्वन्द्वम् = अप्रतिभटम्
  • पौरुषम् = पराक्रमः

[तात्पर्यम्]

विरोधिरहितः पराक्रमः यस्य सः श्रीरामः, तस्य सम्बुद्धिः ।

त्र्यम्बक-समधिक-घोरास्त्राडम्बर !

[प्रतिपदार्थः]

  • त्रि-अम्बकः = त्रीणि अम्बकानि / नेत्राणि यस्य सः
  • समधिकः = अत्यधिकः
  • घोर-अस्त्र-आडम्बरः = प्रतिपक्षभयानकस्य अस्त्रस्य संरम्भः / वेगः

[तात्पर्यम्]

त्रिनेत्रापेक्षया अपि समधिकः अस्त्रस्य वेगः यस्य सः श्रीरामः, तस्य सम्बुद्धिः ।

रघुवीरगद्ये – रामरावणयोर्युद्धम्

सारथि-हृत-रथ-सत्रप-शात्रव-सत्यापित-प्रताप !

 [प्रतिपदार्थः]

  • सारथिहृतरथः = सारथिना सूतेन हृतः (नीतः) रथः यस्य सः
  • सत्रपः = सलज्जः
  • शात्रवः = शत्रुः
  • सत्यापितः = शपथपूर्वतया स्थापितः
  • प्रतापः = पराभिभावुकं तेजः यस्य सः

[तात्पर्यम्]

सारथिना नीतरथः रावणः । तेन कारणेन लज्जानुभूतेन शत्रुणा रावणेन अपि सङ्कीर्तितः प्रतापः यस्य सः श्रीरामः, तस्य सम्बुद्धिः ।

रघुवीरगद्ये – रावणवधः

शितशरकृतलवणदशमुमुखदशकनिपतनपुनरुदयदरगलितजनितदरतरलहरिहयनयननलिनवनरुचिखचितखतलनिपतितसुरतरुकुसुमविततिसुरभितरथ-पथ !

 [प्रतिपदार्थः] शितः = तीक्ष्णः । शरः = बाणः । कृतलवणम् = कृतं छेदनम् । दशमुखः = रावणः । मुखदशकम् = वदनदशकम् । निपतनम् = अधःपतनम् । पुनरुदयः = पुनः आरोहः ।
दरगलितम् = क्रमादीषदवगतम् । जनितम् = पुनरुत्पन्नम् । दरः = भयम् । तरलः = चञ्चलः ।
हरिहयनः = महेन्द्रः । नयनम् = नेत्रम् । नलिनम् = पद्मम् । वनम् = समूहः । रुचिः = प्रभा ।
खचितः = सम्मिलितः । खतलम् = नभस्तलम् । निपतितम् = गलितम् ।
सुरतरुः = देवानां वृक्षः । कुसुमम् = पुष्पम् । विततिः = विस्तारः । सुरभितः = सुगन्धीकृतः । रथपथः = स्यन्दनमार्गः यस्य सः ।

[तात्पर्यम्] तीक्ष्णैः रामबाणैः दशमुखस्य दशशिरांसि क्रमशः पतन्तः सन्ति | पतितस्य स्थाने अन्यदुद्भवदस्ति, एवं नष्टानि पुनरुद्भूतानि च शरांसि दृष्ट्वा ईषद्भयेन इन्द्रस्य पद्मतुल्यानि नयनानि सञ्चलितानि, तेषां पद्मानां कान्त्या खचितानि सम्मिलितानि कल्पवृक्षस्य पुष्पाणि आकाशात् पतितानि | तेषां कल्पतरोः पुष्पाणां विस्तारेण सुगन्धितः रथस्य मार्गः यस्य सः श्रीरामः, तस्य सम्बुद्धिः ।

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः

विशेषःवाल्मीकिरामायणम् –  6.100.55, 56

अद्य पश्यन्तु रामस्य रामत्वं मम संयुगे ।
त्रयो लोकाः सगन्धर्वाः सिद्धगन्धर्वचारणाः ॥

अद्य कर्म करिष्यामि यल्लोकाः सचराचराः ।
सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः

विशेषःवाल्मीकिरामायणम्6.100.62

विकीर्यमाणः शरजालवृष्टिः महात्मनां दीप्तधनुष्मतार्दितः ।

भयात्प्रदुद्राव समेत्य रावणो यथाऽनिलेनाभिहतो बलाकः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः

विशेषःवाल्मीकिरामायणम् 6.101.15

देशे देशे कलत्राणि देशे देशे च बान्धवाः ।

तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥

 रामभक्तः हनूमान्

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः

विशेषःवाल्मीकिरामायणम्6.102.14, 15, 16

सहस्राक्षेण काकुत्स्थ रथोयं विजयाय ते । दत्तस्तव महासत्त्व श्रीमान् शत्रुनिबर्हणः ॥

इदमैन्द्रं महच्चापं कवचं चाग्निसन्निभम् । शराश्चादित्यसङ्काशाः शक्तिश्च विमला शिवा ॥

आरुह्येनं रथं वीर राक्षसं जहि रावणम् । मया सारथिना देव महेन्द्र इव दानवान् ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः – आदित्यहृदयस्तोत्रम्

विशेषःवाल्मीकिरामायणम्

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्‌ ।

रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्‌ ॥1॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्‌ ।

उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥2॥

युद्धकाण्डे मुख्यः घट्टः – रामरावणयोर्युद्धम्

विशेषः भवभूतेः उत्तररामचरितम्

गगनं गगनाकारं सागरः सागरोपमः ।

रामरावणयोर्युद्धं रामरावणयोरिव ॥

(*अनन्वयाङ्कारः)

Session #40

रघुवीरगद्ये मन्दोदर्याः विलापः

अखिलजगदधिकभुजबलवरबलदशलपनलपनदशकलवनजनितकदनपरवशरजनिचरपतियुवतिविलपनवचनसमविषयनिगमशिखरनिकरमुखरमुखमुनिवरपरिपणित !

 [प्रतिपदार्थः] अखिल-जगद्-अधिकम् = निखिले प्रपञ्चे सर्वापेक्षया समधिकम् । भुजबलम् = बाहुबलम् । वरबलम् = वरप्राप्त्या सिद्धं बलम् । दशलपनः = दशमुखः । लपनदशकम् = मुखदशकम् । लवनम् = छेदनम् । जनितम् = उत्पादितम् । कदनम् =हिंसा । परवशम् = उत्तेजितम् । रजनिचर-पति-युवतिः = राक्षसेश्वर-पत्नी । विलपनवचनानि = शोके उक्तानि वचनानि । समविषयः = तुल्यविषयः । निगम-शिखर-निकर-मुखरः = उपनिशद्-वाक्य-समूहः । मुख-मुनिवरः = मुनिश्रेष्टानां वचनम्  । परिपणितः = सङ्कीर्तितः ।

[तात्पर्यम्] सर्वजितः भुजबलवरबलसंयुक्तस्य दशमुखस्य दशशिरश्चेदनेन जनितहिंसया राक्षसाधिपतेः धर्मपत्न्या पट्टमहिष्या मन्दोदर्या स्वभर्त्रुः मरणात् जनितशोकातिशयेन उक्तैः, मुनिवरैः उक्तोपनिशद्वचनतुल्यैः वचनैः, सम्पूजितः श्रीरामः, तस्य सम्बुद्धिः ।

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः

विशेषःवाल्मीकिरामायणम्6.111.3

ननु नाम महाबाहो तव वैश्रवणानुज ।

क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरन्दरः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः

विशेषःवाल्मीकिरामायणम्6.111.4, 5

ऋषयश्च महान्तोऽपि गन्धर्वाश्च यशस्विनः ।

ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः ॥

स त्वं मानुषमात्रेण रामेण युधि निर्जितः ।

न व्यपत्रपसे राजन् किमिदं राक्षसेश्वर ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः

विशेषःवाल्मीकिरामायणम्6.111.11

महाबलं महावीर्यं देवशत्रुं महौजसम् ।

व्यक्तमेष महायोगी परमात्मा सनातनः ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः

विशेषःवाल्मीकिरामायणम्6.111.12 – 14

अनादिमध्यनिधनो महतः परमो महान् ।

तमसः परमो धाता शङ्खचक्रगदाधरः ॥

श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ।

मानुषं रूपमास्थाय विष्णुः सत्यपराक्रमः ॥

सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः ।

सर्वलोकेश्वरः श्रीमान् लोकानां हितकाम्यया ॥

यं एव एषः वॄणुते तेन लभ्यः

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः

विशेषःवाल्मीकिरामायणम्6.111.25, 26

अवश्यमेव लभते फलं पापस्य कर्मणः ।

भर्तः पर्यागते काले कर्ता नास्त्यत्र संशयः ॥

शुभकृच्छुभमाप्नोति पापकृत्पापमश्नुते ।

विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम् ॥

विशेषः चाटुश्लोकः

यस्माच्च येन च यथा च यदा च यच्च यावच्च यत्र च शुभाशुभमात्मकर्म ।

तस्माच्च तेन च तथा च तदा च तच्च तावच्च तत्र च विधातृवशादुपैति ॥

श्रीमद्रामायणे युद्धकाण्डे मुख्यः घट्टः

विशेषःवाल्मीकिरामायणम्6.111.28

न कुलेन न रूपेण न दाक्षिण्येन मैथिली ।

मयाधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे ॥