Naarada Bhakti Sootram

  • नारदभक्तिसूत्रम्
  • Naarada-Bhakti-Sootram
  • Maharshi Narada’s Aphorisms on Devotion
  • Recitation & Explanation in Sanskrit by Smt. Vidhya Ramesh

 

  • नारदस्तुतिः

जयति जगति मायां यस्य कायाधवस्ते वचनरचनमेकं केवलं चाकलय्य ।

ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽयं सकलकुशलपात्रं ब्रह्मपुत्रं नतोऽस्मि ॥

नारदस्तुतिः

जगति कायाधवः (प्रह्लादः) यस्य ते केवलं वचन-रचनम् एकम् आकलय्य मायां जयति,
यत् कृपातः ध्रुवः ध्रुव-पदं च अपि यातः, अयं सकल-कुशल-पात्रं ब्रह्म-पुत्रं नतः अस्मि ।

  • अथातो भक्तिं व्याख्यास्यामः ॥ १ ॥
  • सा त्वस्मिन् परमप्रेमरूपा ॥ २ ॥

का नाम भक्तिः (१ – ६)

  • अथ अतः भक्तिं व्याख्यास्यामः ॥ १ ॥
  • सा तु अस्मिन् परम-प्रेम-रूपा ॥ २ ॥

 

  • अमृतस्वरूपा च ॥ ३ ॥
  • यल्लब्ध्वा पुमान् सिद्धो भवति अमृतो भवति तृप्तो भवति ॥ ४ ॥

का नाम भक्तिः (१ – ६)

  • अमृत-स्वरूपा च ॥ ३ ॥
  • यत् लब्ध्वा पुमान् सिद्धः भवति, अमृतः भवति, तृप्तः भवति ॥ ४ ॥

 

  • यत्प्राप्य न किञ्चित् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति ॥ ५ ॥
  • यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति ॥ ६ ॥

का नाम भक्तिः (१ – ६)

  • यत् प्राप्य न किञ्चित् वाञ्छति, न शोचति, न द्वेष्टि, न रमते, न उत्साही भवति ॥ ५ ॥
  • यत् ज्ञात्वा मत्तः भवति, स्तब्धः भवति, आत्मा-आरामः भवति ॥ ६ ॥

 

  • सा न कामयमाना निरोधरूपत्वात् ॥ ७ ॥
  • निरोधस्तु लोकवेदव्यापारन्यासः ॥ ८ ॥

निष्कामभक्तिः (७ – ११)

  • सा न कामयमाना निरोध-रूपत्वात् ॥ ७ ॥
  • निरोधः तु लोक-वेद-व्यापार-न्यासः ॥ ८ ॥

 

  • तस्मिन्ननन्यता तद्विरोधिषूदासीनता च ॥ ९ ॥
  • अन्याश्रयाणां त्यागोऽनन्यता ॥ १० ॥

निष्कामभक्तिः (७ – ११)

  • तस्मिन् अनन्यता तद्-विरोधिषु उदासीनता च ॥ ९ ॥
  • अन्य-आश्रयाणां त्यागः अनन्यता ॥ १० ॥

 

  • लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता ॥ ११ ॥

निष्कामभक्तिः (७ – ११)

  • लोक-वेदेषु तद्-अनुकूल-आचरणं तद्-विरोधिषु उदासीनता ॥ ११ ॥

 

  • भवतु निश्चयदार्ढ्यादूर्ध्वं शास्त्ररक्षणम् ॥ १२ ॥
  • अन्यथा पातित्यशङ्कया ॥ १३ ॥

भक्त्युदयात् पूर्वं परं च (१२ – १४)

  • भवतु निश्चय-दार्ढ्याद् ऊर्ध्वं शास्त्र-रक्षणम् ॥ १२ ॥
  • अन्यथा पातित्य-शङ्कया ॥ १३ ॥

 

  • लोकोऽपि तावदेव भोजनादिव्यापारस्त्वाशरीरधारणावधि ॥ १४ ॥

भक्त्युदयात् पूर्वं परं च (१२ – १४)

  • लोकः अपि तावद् एव ।
    भोजन-आदि-व्यापारः तु आ-शरीर-धारण-अवधि ॥ १४ ॥

 

  • तल्लक्षणानि वाच्यन्ते नानामतभेदात् ॥ १५ ॥
  • पूजादिष्वनुराग इति पाराशर्यः ॥ १६ ॥

भक्तेः लक्षणानि, उदाहरणानि च (१५ – २४)

  • तत्-लक्षणानि वाच्यन्ते नाना-मत-भेदात् ॥ १५ ॥
  • पूजा-आदिषु अनुरागः इति पाराशर्यः ॥ १६ ॥

 

  • कथादिष्विति गर्गः ॥ १७ ॥
  • आत्मरत्यविरोधेनेति शाण्डिल्यः ॥ १८ ॥

भक्तेः लक्षणानि, उदाहरणानि च (१५ – २४)

  • कथा-आदिषु इति गर्गः ॥ १७ ॥
  • आत्मरति अविरोधेन इति शाण्डिल्यः ॥ १८ ॥

 

  • नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति ॥ १९ ॥
  • अस्त्येवमेवम् ॥ २० ॥

भक्तेः लक्षणानि, उदाहरणानि च (१५ – २४)

  • नारदः तु तद्-अर्पित-अखिल-आचारता तद्-विस्मरणे परम-व्याकुलता इति ॥१९॥
  • अस्ति एवम् एवम् ॥ २० ॥

 

  • यथा व्रजगोपिकानाम् ॥ २१ ॥
  • न तत्रापि माहात्म्यज्ञानविस्मृत्यपवादः ॥ २२ ॥

भक्तेः लक्षणानि, उदाहरणानि च (१५ – २४)

  • यथा व्रज-गोपिकानाम् ॥ २१ ॥
  • न तत्र अपि माहात्म्य-ज्ञान-विस्मृति-अपवादः ॥ २२ ॥

 

  • तद्विहीनं जाराणामिव ॥ २३ ॥
  • नास्त्येव तस्मिंस्तत्सुखसुखित्वम् ॥ २४ ॥

भक्तेः लक्षणानि, उदाहरणानि च (१५ – २४)

  • तद्-विहीनं जाराणाम् इव ॥ २३ ॥
  • न अस्ति एव तस्मिन् तत्-सुख-सुखित्वम् ॥ २४ ॥

 

  • सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा ॥ २५ ॥
  • फलरूपत्वात् ॥ २६ ॥

भक्तेः फलरूपत्वम् (२५ – ३३)

  • सा तु कर्म-ज्ञान-योगेभ्यः अपि अधिकतरा ॥ २५ ॥
  • फल-रूपत्वात् ॥ २६ ॥

 

  • ईश्वरस्याप्यभिमानद्वेषित्वाद् दैन्यप्रियत्वात् ॥ २७ ॥
  • तस्या ज्ञानमेव साधनमित्येके ॥ २८ ॥

भक्तेः फलरूपत्वम् (२५ – ३३)

  • ईश्वरस्य अपि अभिमान-द्वेषित्वाद् दैन्य-प्रियत्वात् ॥ २७ ॥
  • तस्याः ज्ञानम् एव साधनम् इति एके ॥ २८ ॥

 

  • अन्योन्याश्रयत्वमित्यन्ये ॥ २९ ॥
  • स्वयं फलरूपतेति ब्रह्मकुमारः ॥ ३० ॥

भक्तेः फलरूपत्वम् (२५ – ३३)

  • अन्योन्य-आश्रयत्वम् इति अन्ये ॥ २९ ॥
  • स्वयं फल-रूपता इति ब्रह्मकुमारः ॥ ३० ॥

 

  • राजगृहभोजनादिषु तथैव दृष्टत्वात् ॥ ३१ ॥
  • न तेन राजपरितोषः क्षुच्छान्तिर्वा ॥ ३२ ॥

भक्तेः फलरूपत्वम् (२५ – ३३)

  • राज-गृह-भोजन-आदिषु तथा एव दृष्टत्वात् ॥ ३१ ॥
  • न तेन राज-परितोषः क्षुत्-शान्तिः वा ॥ ३२ ॥ [*पाठभेदः – क्षुधाशान्तिः]

 

  • तस्मात् सैव परिग्राह्या मुमुक्षुभिः ॥ ३३ ॥

भक्तेः फलरूपत्वम् (२५ – ३३)

  • तस्मात् सा एव परिग्राह्या मुमुक्षुभिः ॥ ३३ ॥

 

  • तस्याः साधनानि गायन्त्याचार्याः ॥ ३४ ॥

भक्तेः साधनानि (३४ – ३८)

  • तस्याः साधनानि गायन्ति आचार्याः ॥ ३४ ॥

 

  • तत्तु विषयत्यागात्सङ्गत्यागाच्च ॥ ३५ ॥
  • अव्यावृत्तभजनात् ॥ ३६ ॥

भक्तेः साधनानि (३४ – ३८)

  • तत् तु विषय-त्यागात् सङ्ग-त्यागात् च ॥ ३५ ॥
  • अव्यावृत्त-भजनात् ॥ ३६ ॥

 

  • लोकेऽपि भगवद्गुणश्रवणकीर्तनात् ॥ ३७ ॥
  • मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद्वा ॥ ३८ ॥

भक्तेः साधनानि (३४ – ३८)

  • लोके अपि भगवद्-गुण-श्रवण-कीर्तनात् ॥ ३७ ॥
  • मुख्यतः तु महत्-कृपया एव भगवत्-कृपा-लेशाद् वा ॥ ३८ ॥

 

  • महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च ॥ ३९ ॥
  • लभ्यतेऽपि तत्कृपयैव ॥ ४० ॥

महतां सङ्गः (३९ – ४२)

  • महत्-सङ्गः तु दुर्लभः, अगम्यः, अमोघः च ॥ ३९ ॥
  • लभ्यते अपि तत्-कृपया एव ॥ ४० ॥

 

  • तस्मिंस्तज्जने भेदाभावात् ॥ ४१ ॥
  • तदेव साध्यतां तदेव साध्यताम् ॥ ४२ ॥

महतां सङ्गः (३९ – ४२)

  • तस्मिन् तत्-जने भेद-अभावात् ॥ ४१ ॥
  • तद् एव साध्यताम् । तद् एव साध्यताम् ॥ ४२ ॥

 

  • दुःसङ्गः सर्वथैव त्याज्यः ॥ ४३ ॥
  • कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशसर्वनाशकारणत्वात् ॥ ४४ ॥

दुःसङ्गस्य त्यागः (४३ – ४५)

  • दुःसङ्गः सर्वथा एव त्याज्यः ॥ ४३ ॥
  • काम-क्रोध-मोह-स्मृतिभ्रंश-बुद्धिनाश-सर्वनाश-कारणत्वात् ॥ ४४ ॥

 

  • तरङ्गायिता अपीमे सङ्गात् समुद्रायन्ति ॥ ४५ ॥

दुःसङ्गस्य त्यागः (४३ – ४५)

  • तरङ्गायिता अपि इमे सङ्गात् समुद्रायन्ति ॥ ४५ ॥

 

  • कस्तरति कस्तरति मायाम् ?
    यस्सङ्गांस्त्यजति, यो महानुभावं सेवते, यो निर्ममो भवति ॥ ४६ ॥

मायां कः तरति (४६ – ५०)

  • कः तरति ? कः तरति मायाम् ?
    यः सङ्गान् त्यजति, यः महानुभावं सेवते, यः निर्ममः भवति ॥ ४६ ॥

 

  • यो विविक्तस्थानं सेवते यो लोकबन्धमुन्मूलयति निस्त्रैगुण्यो भवति
    यो योगक्षेमं त्यजति ॥ ४७ ॥

मायां कः तरति (४६ – ५०)

  • यः विविक्त-स्थानं सेवते, यः लोक-बन्धम् उन्मूलयति, निस्त्रैगुण्यः भवति,
    यः योग-क्षेमं त्यजति ॥ ४७ ॥

 

  • यः कर्मफलं त्यजति कर्माणि संन्यसति ततो निर्द्वन्द्वो भवति ॥ ४८ ॥
  • यो वेदानपि संन्यसति केवलमविच्छिन्नानुरागं लभते ॥ ४९ ॥

मायां कः तरति (४६ – ५०)

  • यः कर्म-फलं त्यजति, कर्माणि संन्यसति, ततः निर्द्वन्द्वः भवति ॥ ४८ ॥
  • यः वेदान् अपि संन्यसति, केवलम् अविच्छिन्न-अनुरागं लभते ॥ ४९ ॥

 

  • स तरति स तरति स लोकांस्तारयति ॥ ५० ॥

मायां कः तरति (४६ – ५०)

  • सः तरति । सः तरति । सः लोकान् तारयति ॥ ५० ॥