(Video) Sankshepa Ramayanam Class 10 Anand V

मूलश्लोकः-46
तेन तत्रैव वसता जनस्थाननिवासिनी। विरूपिता शूर्पणखा राक्षसी कामरूपिणी।। 46।।
________________________________________
श्लोकान्वयः –
तत्र एव वसता तेन जनस्थाननिवासिनी कामरूपिणी राक्षसी शूर्पणखा विरूपिता।।46।।

मूलश्लोकः-47-48
तत: शूर्पणखावाक्यादुद्युक्तान्‌ सर्वराक्षसान्‌। खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्‌।। 47।। निजघान रणे रामस्तेषां चैव पदानुगान्‌।। 48।।
________________________________________
श्लोकान्वयः –
तत: शूर्पणखावाक्याद् उद्युक्तान्‌ सर्वराक्षसान्‌ (तत्र विशिष्टं) खरं त्रिशिरसं दूषणं च राक्षसं तेषां पदानुगान्‌ च रणे एव राम: निजघान।। 47-48।।

मूलश्लोकः-48-49
वने तस्मिन्निवसता जनस्थाननिवासिनाम्‌।।48।।रक्षसां निहतान्यासन्‌ सहस्राणि चतुर्दश।।49।।
________________________________________
श्लोकान्वयः –
तस्मिन्‌ वने निवसता (रामेण) जनस्थाननिवासिनां रक्षसां चतुदश-सहस्राणि निहतानि आसन्‌।।48-49।।

मूलश्लोकः-49-50
ततो ज्ञातिवधं श्रुत्वा रावण: क्रोधमूर्छित:।।49।। सहायं वरयामास मारीचं नाम राक्षसम्‌ ।।50।।
________________________________________
श्लोकान्वयः –
तत: ज्ञातिवधं श्रुत्वा रावण: क्रोधमूर्छित: (अभवत्‌)। (स:) मारीचं नाम राक्षसं सहायं वरयामास।।49-50।।

मूलश्लोकः-50-52
वार्यमाण: सुबहुशो मारीचेन स रावण:।। 50।। न विरोधो बलवता क्षमो रावण तेन ते। अनादृत्य तु तद्वाक्यं रावण: कालचोदित:।।51।। जगाम सहमारीचस्तस्याश्रमपदं तदा।।52।।
________________________________________
श्लोकान्वयः –
रावण ! बलवता तेन ते विरोध: न क्षम: (इत्येवं) मारीचेन सुबहुश: वार्यमाण: स: रावण: कालचोदित: (सन्‌) तद्वाक्यम्‌ अनादृत्य तदा सहमारीच: तस्य आश्रमपदं जगाम।।50-52।।

(Video) Sankshepa Ramayanam – 8 – Anand

मूलश्लोकः-30-32
गुहेन सहितो रामो लक्ष्मणेन च सीतया । ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदका:।। 30।। चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्‌ । रम्यमावसथं कृत्वा रममाणा वने त्रय:।। 31।। देवगन्धर्वसङ्काशास्तत्र ते न्यवसन्‌ सुखम्‌ ।।32।।
श्लोकान्वयः –
गुहेन लक्ष्मणेन सीतया च सहित: राम: वनेन वनं गत्वा बहूदका: नदी: तीर्त्वा भरद्वाजस्य शासनात्‌ चित्रकूटमनुप्राप्य वने रम्यम्‌ आवसथं कृत्वा देवगन्धर्वसङ्काशा: ते त्रय: रममाणा: सुखं न्यवसन्‌।।30-32।।
________________________________________
मूलश्लोकः-32-33
चित्रकूटं गते रामे पुत्रशोकातुरस्तथा।।32।। राजा दशरथ: स्वर्गं जगाम विलपन्‌ सुतम्‌।। 33।।
श्लोकान्वयः –
रामे चित्रकूटं गते पुत्रशोकातुर: राजा दशरथ: सुतं विलपन्‌ स्वर्गं जगाम।।32-33।।
मूलश्लोकः-33-34
गते तु तस्मिन्‌ भरतो वसिष्ठप्रमुखैर्द्वजै:।।33।। नियुज्यमानो राज्याय नैच्छद्राज्यं महाबल:। स जगाम वनं वीरो रामपादप्रसादक:।।34।।
श्लोकान्वयः –
तस्मिन्‌ दशरथे गते तु वसिष्ठप्रमुखै: द्विजै: राज्याय नियुज्यमान: महाबल: भरत: राज्यं न ऐच्छत्‌ (किन्तु) रामपादप्रसादक: स: वीर: वनं जगाम।।33-34।।
मूलश्लोकः-35-36
गत्वा तु स महात्मानं रामं सत्यपराक्रमम्‌। अयाचद् भ्रातरं राममार्यभावपुरस्कृत:।। 35।। त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत्‌।। 36।।
श्लोकान्वयः –
आर्यभावपुरस्कृत: स: (भरत:) गत्वा महात्मानं सत्यपराक्रमं भ्रातरं रामम्‌ अयाचत्‌। त्वम्‌ एव राजा धर्मज्ञ: इति वच: रामम्‌ अब्रवीत्‌।।35-36।।

(Video) Sankshepa Ramayanam – 6 – Anand

 

मूलश्लोकः-16-19
सर्वदाभिगत: सद्भि: समुद्र इव सिन्धुभि:। आर्य: सर्वसमश्चैव सदैव प्रियदर्शन:।। 16।।
स च सर्वगणोपेतः कौसल्यानन्दवर्धन:। समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव।। 17।।
विष्णुना सदृशो वीर्ये सोमवत्‌ प्रियदर्शन:। कालाग्निसदृश: क्रोधे क्षमया पृथिवीसम:।। 18।। धनदेन समस्त्यागे सत्ये धर्म इवापर:।
श्लोकान्वयः –
(राम:) सर्वदा सिन्धुभि: समुद्र: इव सद्भि: अभिगत: (भवति)। (स:) आर्य: सर्वसम: सदा एव प्रियदर्शन: च (अस्ति)। सर्वगुणोपेत: स: कौसल्यानन्दवर्धन: च (अपि अस्ति)। गाम्भीर्ये (स:) समुद्र: इव, धैर्येण हिमवान्‌ इव, वीर्ये विष्णुना सदृश: सोमवत्‌ प्रियदर्शन: ( च अस्ति)। क्रोधे कालाग्निसदृश:, क्षमया पृथिवीसम:, त्यागे धनदेन सम: सत्ये अपर: धर्म: इव (च अस्ति)।।16-19।।

मूलश्लोकः-19-21
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम्‌।। 19।।
ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथ: सुतम्‌ । प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया।। 20।।
यौवराज्येन संयोक्तुमैच्छत्‌ प्रीत्या महीपति:।। 21।।

श्लोकान्वयः –
महीपति: दशरथ: तम्‌ एवंगुणसम्पन्नं सत्यपराक्रमं प्रकृतीनां हितै: युक्तं ज्येष्ठगुणै: युक्तं ज्येष्ठं सुतं रामं प्रकृतिप्रियकाम्यया प्रीत्या (च) यौवराज्येन संयोक्तुम्‌ ऐच्छत्‌।। 19-21।।

The link to all the sessions are available here….

(Video) Sankshepa Ramayanam – Anand

 

 

 

Leelavathi Class – by Sri V. Anand – Video Recording

Link to the Playlist in YouTube https://www.youtube.com/watch?v=h-85zbG9vwU&list=PLTWf5ZhGT360-dY9SZRFGf4E6r_oz80vW
Video recording of the class #11 https://www.youtube.com/watch?v=OljnN4lSGOo
Presentation material #11
Video recording of the class #10 https://www.youtube.com/watch?v=3zO4BrIe-E0
Presentation material #10  लीलावती_०१०_परिकर्माष्टकम्-पुनरवलोकनम्
Video recording of the class #9 https://www.youtube.com/watch?v=qjtNLIJk0KM
Presentation material #9  लीलावती_००९_घनमूलम्
Video recording of the class #8 https://www.youtube.com/watch?v=g7Lu1Pq68MQ
Presentation material #8  लीलावती_००८_घनः
Video recording of the class #7 https://www.youtube.com/watch?v=7_IDC1B1VPg
Presentation material #7  लीलावती_००७_वर्गमूलम्
Video recording of the class #6 https://www.youtube.com/watch?v=9NLUzKY7Zis
Presentation material #6  लीलावती_००६_भागहारः_वर्गः
Video recording of the class #5 https://www.youtube.com/watch?v=zwMAv_2JIjU
Presentation material #5  लीलावती_००५_गुणनम्
Video recording of the class #4 https://www.youtube.com/watch?v=o0yiJz6mzkQ
Presentation material #4  लीलावती_००४_सङ्कलितव्यवकलिते
Video recording of the class #3 https://www.youtube.com/watch?v=Sax7JrUd4KE
Presentation material #3 लीलावती_००३_परिभाषा
Video recording of the class #2 https://www.youtube.com/watch?v=Mi7kkEZLydA#t=33
Presentation material #2 लीलावती_००२_संख्याप्रतिरूपम्
Video recording of the class https://www.youtube.com/watch?v=h-85zbG9vwU
Presentation material  Leelavathi-Class#1

 

प्रीतिं भक्तजनस्य यो जनयते विघ्नं विनिघ्नन् स्मृतम् |
तं वृन्दारकवृन्दवन्दितपदं नत्वामतङ्गाननम् |
पाटीं सद्गणितस्य वच्मि चतुरप्रीतिप्रदां प्रस्फुटाम् |
संक्षिप्ताक्षरकोमलामलपदैर्लालित्यलीलावतीम् ||१||

(Video) Sankshepa Ramayanam – Shloka 1

रामायणम्

तप:स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्‌ । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्‌ ॥

पदच्छेदः

तप:स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्‌ नारदं परिपप्रच्छ वाल्मीकिः मुनिपुङ्गवम्‌ ।

अन्वयः

तपस्वी वाल्मीकि: तप:स्वाध्यायनिरतं वाग्विदां वरं मुनिपुङ्गवं नारदं परिपप्रच्छ ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = परिपप्रच्छ [ परि + प्रच्छ “प्रच्छ ज्ञीप्सायाम्” पर. लिट्. प्रपु. एक. ]
    • कर्मपदम् = नारदम् [ अ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = मुनिपुङ्गवम् [ अ. पुं. द्वि. एक. ]
    • वाक्यांश:
      • कर्मविशेषणम् = वरम् [ अ. पुं. द्वि. एक. ]
      • सम्बन्ध-पदम् = वाग्विदाम् [ त. पुं. ष. बहु. ]
    • कर्मविशेषणम् = तप:स्वाध्यायनिरतम् [ अ. पुं. द्वि. एक. ]
    • कर्तृपदम् = वाल्मीकि: [ इ. पुं. प्र. एक. ]
    • कर्तृविशेषणम् = तपस्वी [ न. पुं. प्र. एक. ]

व्याकरणांशाः

  • सन्धि:
    • वाल्मीकिर्मुनिपुङ्गवम्‌ = वाल्मीकिः मुनिपुङ्गवम्‌ – विसर्ग सन्धि:, रेफादेश: |
  • समासः
    • तपःस्वाध्यायनिरतम्
      • तपःस्वाध्यायौ = तपश्च स्वाध्यायश्च – इतरेतर द्वन्द्वः |
      • तपःस्वाध्यायनिरतम् = तपःस्वाध्याययोः निरतः, तम् – सप्तमी तत्पुरुषः |
    • मुनिपुङ्गवः
      • पुमान् च असौ गौः च इति पुङ्गवः – कर्मदारयः |
      • मुनिषु पुङ्गवः मुनिपुङ्गवः, तम् – सप्तमी तत्पुरुषः |
    • कृदन्तः
      • वाग्विदाम् – वाचं वेत्ति इति वाग्विद् , तेषां । [ वाक् + वित् + क्विप् प्रत्यय ]
    • तद्दितान्तः
      • तपस्वी
        • तपस्वी = तपस् + विनि प्रत्ययः | तपः अस्य अस्मिन् वा अस्ति इति |
        • 5-2-121 अस्मायामेधास्रजो विनिः | काशिका — असन्तात् प्रातिपदिकात्, माया मेधा स्रजित्येतेभ्यश्च विनिः प्रत्ययो भवति मत्वर्थे। मतुप् सर्वत्र समुच्चीयते एव। असन्तात् तावत् यशस्वी, पयस्वी। मायावी। मेधावी। स्रग्वी। मायाशब्दाद् व्रीह्यादिषु पाठातिनिठनौ अपि भवतः। मायी, मायिकः।

तात्पर्यम्

तपस्वी महर्षिः वाल्मीकिः वर्तनीयमादिषु वेदाध्ययनाध्यापनादिषु च सततं तत्परं  ज्ञानिनां  वरिष्ठं मुनिषु श्रेष्ठं देवर्षिं नारदं पृष्टवान् |

सन्दर्भाः 

  1. Jan 24, 2016 दिनांके आनन्दमहोदयेन पाठितः श्लोकः
  2. https://www.youtube.com/watch?v=FciTYvwDroM – Sankshepa Ramayanam – Class 1 – Anand V – Jan 24, 2016
  3. http://sanskrit.uohyd.ac.in/scl/sankshepa_ramayanam/ramayana-interface/index.html

 

Notes:

Sankshepa Ramayanam is not a different work from Valmiki Ramayanam. It is the first sarga or chapter of Valmiki Ramayanam. Listing certain good qualities, Valmiki asks his guru, Narada,  if there is a man with such good qualities. Narada says that Rama is such a person.