Kumaaree Stotram

कुमारी-स्तोत्रम्

kumārī-stotram On devī kanyākumārī
Sung by Smt. Harini Agaram

https://nivedita2015.wordpress.com/KumaareeStotram

जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरूपिणि ।

पूजां गृहाण कौमारि जगन्मातर्नमोऽस्तु ते ॥ १ ॥

(हे) जगत्-पूज्ये ! (हे) जगत्-वन्द्ये ! (हे) सर्व-शक्ति-स्वरूपिणि ! (त्वं) पूजां गृहाण । (हे) कौमारि ! (हे) जगत्-मातः ! ते नमः अस्तु ।

त्रिपुरां त्रिपुराधारां त्रिवर्गज्ञानरूपिणीम्‌ ।

त्रैलोक्यवन्दितां देवीं त्रिमूर्तिं पूजयाम्यहम्‌ ॥ २ ॥

अहं त्रिपुरां त्रिपुर-आधारां त्रिवर्ग-ज्ञान-रूपिणीं त्रैलोक्य-वन्दितां देवीं त्रिमूर्तिं पूजयामि ।

कलात्मिकां कलातीतां कारुण्यहृदयां शिवाम्‌ ।

कल्याणजननीं देवीं कल्याणीं पूजयाम्यहम्‌ ॥ ३ ॥

अहं कला-आत्मिकां कला-अतीतां कारुण्य-हृदयां शिवां कल्याण-जननीं देवीं कल्याणीं पूजयामि ।

अणिमादिगुणाधाराम् अकाराद्यक्षरात्मिकाम्‌ ।

अनन्तशक्तिकां लक्षमीं रोहिणीं पूजयाम्यहम्‌ ॥ ४ ॥

अहं अणिमा-आदि-गुण-आधाराम् अकार-आदि-अक्षर-आत्मिकाम् अनन्त-शक्तिकां लक्षमीं रोहिणीं पूजयामि ।

कामचारीं शुभां कान्तां कालचक्रस्वरूपिणीम्‌ ।

कामदां करुणोदारां कालिकां पूजयाम्यहम्‌ ॥ ५ ॥

अहं काम-चारीं शुभां कान्तां काल-चक्र-स्वरूपिणीम्‌ । काम-दां करुणा-उदारां कालिकां पूजयामि ।

चण्डवीरां चण्डमायां चण्डमुण्डप्रभञ्जिनीम्‌ ।

पूजयामि सदा देवीं चण्डिकां चण्डविक्रमाम्‌ ॥ ६ ॥

(अहं) चण्ड-वीरां चण्ड-मायां चण्ड-मुण्ड-प्रभञ्जिनीं चण्डिकां चण्ड-विक्रमां देवीं सदा पूजयामि ।

सदानन्दकरीं शान्तां सर्वदेवनमस्कृताम्‌ ।

सर्वभूतात्मिकां लक्ष्मीं शाम्भवीं पूजयाम्यहम्‌ ॥ ७ ॥

अहं सदा-आनन्दकरीं शान्तां सर्व-देव-नमस्कृतां सर्व-भूत-आत्मिकां लक्ष्मीं शाम्भवीं पूजयामि ।

दुर्गमे दुस्तरे कार्ये भवदुःखविनाशिनीम्‌ ।

पूजयामि सदा भक्त्या दुर्गां दुर्गार्तिनाशिनीम्‌ ॥ ८ ॥

(अहं) दुर्गमे दुस्तरे कार्ये भव-दुःख-विनाशिनीं दुर्गां दुर्ग-आर्ति-नाशिनीं सदा भक्त्या पूजयामि ।

सुन्दरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीम्‌ ।

सुभद्राजननीं देवीं सुभद्रां पूजयाम्यहम्‌ ॥ ९ ॥

अहं सुन्दरीं स्वर्ण-वर्ण-आभां सुख-सौभाग्य-दायिनीं सुभद्रा-जननीं देवीं सुभद्रां पूजयामि ।

Inspired by — the Video in Sri Raghavashram YouTube Channel;
Sung by: Smt. Anuradha ; Music by: Chi. Kashyap ;     

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s