Yaadavaabhyudayam 1.63

63. श्लोकः

मूलपाठः

त्वदेकशरणानां त्वं शरणागतजीवनः ।
विपदं नः क्षिप क्षिप्रं तमिस्रामिव भास्करः ॥ ६३ ॥

पदच्छेदः

त्वदेकशरणानाम्, त्वम्, शरणागतजीवनः, विपदम्, नः, क्षिप, क्षिप्रम्, तमिस्राम्, इव, भास्करः ।

अन्वयरचना

  • क्षिप
    • कः क्षिप ? त्वम्
      • कीदृशः त्वम् ? शरणागतजीवनः
    • कां क्षिप ? विपदम्
      • केषां विपदम् ? नः
        • कीदृशानां  नः ? त्वदेकशरणानाम्
    • कथं क्षिप ? क्षिप्रम्
    • कथम् इव क्षिप ?तमिस्रां भास्करः इव

अन्वयः

शरणागतजीवनः त्वं त्वदेकशरणानां नः विपदं, तमिस्रां भास्करः इव                        क्षिप्रं क्षिप  ।

तात्पर्यम्

आश्रितरक्षकः भवान् सूर्यः अन्धकारम् इव रक्षकान्तर-रहितानाम् उपायान्तर-रहितानाम् च अस्माकम् आपदं तूर्णम् अपहरतु ।

पदार्थः

  • शरणागतजीवनः त्वम् =
  • त्वदेकशरणानां नः =
  • विपदम् =
  • तमिस्रां भास्करः इव =
  • क्षिप्रं क्षिप =

विशेषः

  • त्वदेकशरणानाम् = शरणम् = उपायः ।

उपायान्तरविहीनानाम्

भक्तत्राणप्रतिज्ञा भगवतः श्रीकृष्णस्य –  

  • क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
    कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ गीता 9.31 ॥

 

पदविवरणम्

  • शरणागतजीवनः  =
  • त्वदेकशरणानां नः =
  • तमिस्रा =
  • भास्करः =

 

अलङ्कारः

  • उपमा  

उत्प्रेक्षालङ्कारः

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।

पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥

 प्रकृते अप्रकृत-गुण-क्रियादि-सम्बन्धात् अप्रकृतत्वेन प्रकृतस्य सम्भावनम् उत्प्रेक्षा ।

                                                        रुय्यकप्रणीते अलङ्कारसर्वस्वे  

 हिमालयः – प्रकृतवस्तु

मानदण्डः – अप्रकृतवस्तु

उभयसमुद्र-व्याप्ति-साम्यम् इति सम्बन्धात्

 पृथिव्याः मानदण्डः इति अप्रकृतत्वेन सम्भावनम् ।

==================

“सम्भावना स्यादुत्प्रेक्षा ।” 

  • निश्चयभिन्नं सन्देहभिन्नं च ज्ञानं सम्भावना ।
  • किञ्चन वस्तु अन्यवस्त्वात्मना सम्भाव्यते उत्प्रेक्ष्यते । (गुणधर्माणां समत्वात्) ।                                                कुवलयानन्दः – १२

उदाः धूमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम् ।

प्रकृतवस्तु – तमः

अप्रकृतवस्तु – कोकीविरहाग्नेः धूमराशिः

प्रकृतवस्तुनः (तमसः) वस्त्वन्तरेण (धूमस्तोमेन) तादात्म्यसम्भावनम् (तादात्म्यम् – अभेदत्वम्)

  • इव, मन्ये, ध्रुवम्, प्रायः, नूनम् इत्यादयः उत्प्रेक्षाद्योतकाः ।

उत्प्रेक्षायाः प्रभेदाः –

अवस्तुनः वस्तुभावेन सम्भावना वस्तूत्प्रेक्षा

अहेतोः हेतुभावेन सम्भावना हेतूत्प्रेक्षा

अफलस्य फलत्वेन सम्भावना फलोत्प्रेक्षा

  • अवस्तुनः वस्तुभावेन सम्भावना वस्तूत्प्रेक्षा

धूमस्तोमं तमः शङ्के कोकीविरहशुष्मणाम्

तमः = प्रकृतवस्तु ।   विरहाग्नेः धूमस्तोमः = अप्रकृतवस्तुत्वेन उत्प्रेक्ष्यते ।

  • अहेतोः हेतुभावेन सम्भावना हेतूत्प्रेक्षा

रक्तौ तवाङ्घ्री मृदुलौ भुवि विक्षेपणाद् ध्रुवम्

पादयोः रक्तत्वं स्वतः सिद्धम् । विक्षेपणं न हेतुः । तथापि तस्य हेतुत्वसम्भावनात् हेतूत्प्रेक्षा ।

  • अफलस्य फलत्वेन सम्भावना फलोत्प्रेक्षा

प्रायोब्जं त्वत्पदेनैक्यं प्राप्तुं तोये तपस्यति ।

        प्रायः अब्जं त्वत्पादेनैक्यं प्राप्तुं तोये तपस्यति ।

कमलस्य जले वासः स्वाभाविकः  ।  तथापि तस्य जलवासः तपस्त्वेन अध्यवस्य (identified)  त्वत्पादेन ऐक्यप्राप्तिः इति फलम् उत्प्रेक्ष्यते ।

====================

यादवाभ्युदयप्रथमसर्गे उत्प्रेक्षा

नरेन्द्राः पृथिवीचक्रे नामचिह्नैरलङ्कृताः
जङ्गमास्तस्य वीरस्य जयस्तम्भा इवाभवन् ॥१४॥

नहुषेण जिताः राजानः तस्य नाम्ना अङ्कितानि चिह्नानि धरन्ति स्म ।  तथा चिह्नधारिणः ते राजानः भूमण्डले नहुषस्य सञ्चारिणः दिग्जयस्तम्भाः इव आसन् ।

अत्र नरेन्द्राणां नामचिह्नत्वरूपगुण-निमित्तेन जङ्गम-जयस्तम्भ-भावनारूपः उत्प्रेक्षालङ्कारः ।

कालातिबलः कंसः कालनेमिरनेहसा

सर्वदैतेयसत्त्वानां समाहार इवोदितः ३६

प्राग् भगवता विष्णुना हतः कालनेमिनामा महासुरः एव कंसरूपेण अखिलदैत्यबल-समुच्चयः इव उत्पन्नः । अतः एव तस्मिन् ईदृशी स्वसृबन्धनादिनृशंसता ।

कंसस्य सर्वदेतेय-सत्त्व-समाहार-रूपत्वस्य उत्प्रेक्षणम् ।

जगदाह्लादनो जज्ञे मनसस्तस्य चन्द्रमाः

परिपालयितव्येषु प्रसाद इव मूर्तिमान् १०

भगवता रक्षणीयेषु प्रदर्श्यमानः प्रसादः शरीरमास्थाय समागतः इव भगवतः मानसात् उत्पन्नः लोकाह्लादनकरः चन्द्रः समुत्पन्नः ।

चन्द्रस्य जगदाह्लादनत्वादि-निमित्तेन भगवन्मनःप्रसाद-तादात्म्य-सम्भावनात् उत्प्रेक्षा ।

============================================

One thought on “Yaadavaabhyudayam 1.63

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s