Raghuvamsham – Sarga 4

Notes prepared by Smt. Muthulakshmi Rao!

The formatted content is available as a downloadable word file here  –> Raghuvamsham Sarga 4 Slokas and anvaya

॥ रघुवंशं सर्गः ४ कालिदासकृतम् ॥

अथ प्राप्तराज्यस्य रघो:कीदृशी शोभा आसीदिति तामेवाह-

स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ ।

दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ ४-१॥

पदच्छेद:

स:, राज्यम्, गुरुणा, दत्तम् प्रतिपद्य, अधिकम्, बभौ,

दिनान्ते, निहितम्, तेजः,सवित्रा, इव, हुताशनः।

अन्वयः

स: गुरुणा दत्तं  राज्यं प्रतिपद्य दिनान्ते  सवित्रा निहितं तेजः (प्रतिपद्य) हुताशनः इव अधिकं बभौ।

तात्पर्यम्

स्वपित्रा दिलीपेन विसृष्टं राष्ट्रमण्डलं प्राप्य रघुस्तथा  शुशुभे यथा

सायङ्काले सूर्येऽस्तंगते वह्निः अत्यन्तं प्रकाशते।

अथ रघो राज्येऽवस्थानं श्रुत्वा शत्रूणां हृदि सन्तापाधिक्यं बभूवेत्याह-

दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् ।

पूर्वं प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः ॥ ४-२॥

पदच्छेद:

दिलीपानन्तरम्, राज्ये, तम्,निशम्य, प्रतिष्ठितम् ,

पूर्वं, प्रधूमितो, राज्ञाम्, हृदये,अग्नि इव उत्थितः।

अन्वयः

दिलीपानन्तरं राज्ये तं प्रतिष्ठितं निशम्य

पूर्वं राज्ञां हृदये  प्रधूमितः अग्निः उत्थितः इव। (अभूत्)।

तात्पर्यम्

दिलीपराज्यसमये य:महीपालानां मनसि धूमयुक्त: सन्तापाग्निः

आसीत् स रघुं राज्ये प्रतिष्ठितं श्रुत्वा प्रज्वालित:इव अभूत्।

अथ रघुं राज्ये अवस्थितं दृष्ट्वा सर्वा अपि प्रजाः प्रसन्ना बभूवुरित्याह-

पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः  ।

नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥ ४-३॥

पदच्छेद:

पुरुहूत-ध्वजस्य,इव, तस्य, उन्नयन-पङ्क्तयः,

नव-अभ्युत्थान-दर्शिन्यः, ननन्दुः, सप्रजाः, प्रजाः ।

अन्वयः

पुरुहूत-ध्वजस्य इव तस्य  नव-अभ्युत्थान-दर्शिन्यः  

उन्नयन-पङ्क्तयः  सप्रजाः प्रजाः ननन्दुः।

तात्पर्यम्

यथा सन्तानै: सह वर्तमाना: जना: इन्द्रस्य  ध्ववजस्य अभ्युत्थानं   दृष्टवा प्रसन्ना: भवन्ति  तथैव रघोरपि नूतनम् अभ्युदयं अवलोक्य अनन्दन्।

अथ रघो: सिंहासनारूढक्षण  एव शत्रुमण्डलमपि पदाक्रान्तमभूदित्याह-

सममेव समाक्रान्तं द्वयं द्विरदगामिना ।

तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ॥ ४-४॥

पदच्छेद:

समम्, एव, समाक्रान्तम्, द्वयम्,द्विरद-गामिना ,तेन, 

सिंहासनम्, पित्र्यम्, अखिलम्, च, अरिमण्डलम्।

अन्वयः

द्विरद-गामिना तेन समम् एव द्वयं समाक्रान्तं पित्र्यं 

सिंहासनम् अखिलम् अरिमण्डलं च ।

तात्पर्यम्

यदा गजगामिना रघुणा  पित्र्यं सिंहासन प्राप्तं तदा एव

सम्पूर्णं शत्रूणां राष्ट्रमणडलम् अपि तेन समाक्रान्तः कृतः।

अथ सिंहासनारोहणानन्तरं तस्य लक्ष्मीसन्निधानमाह-

छायामण्डललक्ष्येण तमदृश्या किल स्वयम् ।

पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥ ४-५॥

पदच्छेद:

छायामण्डल-लक्ष्येण, तम्, अदृश्या, किल, स्वयम्,

पद्मा, पद्मातपत्रेण, भेजे, साम्राज्य-दीक्षितम् ।

अन्वयः। 

पद्मा स्वयम् अदृश्या किल छाया-मण्डल-लक्ष्येण 

पद्म-आतपत्रेण साम्राज्य-दीक्षितं तं भेजे ।

तात्पर्यम्

सिंहासनारूढं रघुम् अवलोक्य तस्य तेजोविशेषेण स्वयं सन्निहितया लक्ष्म्या कान्तिपुञ्जानुमेयेन कमलच्छत्रेण तं सेवितम्।

(लक्ष्मया छत्रधारणं कृतमिति उत्प्रेक्षते)

सम्प्रति सरस्वतीसान्निध्यमाह-

परिकल्पितसान्निध्या काले काले च वन्दिषु

स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥ ४-६॥

पदच्छेदः

परिकल्पित-सान्निध्या, काले, काले, च, वन्दिषु,

स्तुत्यम्, स्तुतिभिः, अर्थ्याभि:, उपतस्थे, सरस्वती। 

अन्वयः

सरस्वती  च काले काले वन्दिषु परिकल्पित-सान्निध्या (सती)

स्तुत्यं (तम्)अर्थ्याभिः स्तुतिभिः उपतस्थे।

तात्पर्यम्

वाग्देवता सरस्वती अपि  योग्यसमयेषु स्तुतिपाठकेषु वर्त्तिनी भूत्वा

स्तोतुं अर्हं तं रघुं शोभनार्थै: स्तोत्रैः सेवितवती।

अब रघोरनन्यपूर्वमिव पृथ्वीशासनमासीदित्याह-

मनुप्रभृतिर्मान्यैर्भुक्ता यद्यपि राजभिः ।

तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुन्धरा ॥ ४-७॥

पदच्छेदः

मनुप्रभृतिः,मान्यैः, भुक्ता, यद्यपि, राजभिः, 

तथापि, अनन्यपूर्वा, इव, तस्मिन्, आसीत्, वसुन्धरा।

अन्वयः

 मनुप्रभृतिः मान्यैः राजभिः यद्यपि भुक्ता

तथापि तस्मिन् अनन्यपूर्वा इव आसीत् ।

तात्पर्यम्

पृथिवी वैवस्वतमन्वादिभिः मान्यैः नृपैः यद्यपि उपभुक्ता

तथापि रघौ सा वसुन्धरा  अनुरक्ता अभवत् यत: अभुक्तपूर्वा अतिनवा प्रतिभाति स्म ।तस्मिन् प्रथम-पतिकेव अनुरक्तवती इति अर्थ:।

अत्र कारण माह-

स हि सर्वस्य लोकस्य युक्तदण्डतया मनः।

आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥ ४-८॥

पदच्छेदः

सः, हि, सर्वस्य, लोकस्य ,युक्तदण्डतया, मनः , 

आददे, न अतिशीतोष्णः,  नभस्वान् ,इव, दक्षिणः ।

अन्वयः

हि सः युक्तदण्डतया सर्वस्य लोकस्य मनः

नातिशीतोष्णः दक्षिणः नभस्वान् इव आददे।

तात्पर्यम्

यथा दक्षिणदिग्भवो वायुः मलयानिलव इव समशीतोष्णः सन् सर्वेषां मनो वशीकरोति तथैव नातिमृदुना नातिकठिनेन दण्डेन (यथापराधदण्डत्वेन) रघुरपि सर्वेषां मनो वशीचकार।

अथ रघोः सुप्रबन्धेन प्रजावर्गस्य दिलीपकतृकसुप्रबन्धस्य विस्मरणमाह-

मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ ।

फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ॥ ४-९॥

पदच्छेदः

मन्दोत्कण्ठाः, कृताः, तेन, गुणाधिकतया, गुरौ,

फलेन, सहकारस्य, पुष्पोद्गमे, इव प्रजाः ।

अन्वयः

तेन  प्रजाः गुरौ सहकारस्य फलेन पुष्पोद्गमे इव गुणाधिकतया मन्दोत्कण्ठाः कृताः ।

तात्पर्यम्

यथा जना आम्रस्य फलं  प्राप्य तत्कलिकायां न्यूनादारा भवन्ति तथैव रघो: दयादाक्षिण्यादि  गुणान् अवलोक्य दिलीपं प्रति स्वल्पौत्सुक्या बभूवु:।गुणोत्तरश्च उत्तरो विषय: पूर्वं विषयं विस्मारयति इति भाव:।

अथ रघोः सदसतोर्मध्ये सदेवाभिमतमासीदित्याह-

नयविद्भिर्नवे राज्ञि सदसच्चोपदर्शितम् ।

पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः ॥ ४-१०॥

पदच्छेदः

नयविद्भिः,नवे, राज्ञि ,सद्, असद्, च,उपदर्शितम् ,

पूर्व ,एव,अभवत्, पक्षः, तस्मिन्, न, अभवत्, उत्तरः।

अन्वयः

नयविद्भि:  नवे राज्ञि सद्  असद् च उपदर्शितम्।तस्मिन् पूर्व:  पक्ष: एव अभवत् उत्तरः न अभवत्।

तात्पर्यम्

नीतिशास्त्ररहस्यवेत्तार: मन्त्रिप्रभृतय: रघो: अग्रे धर्मयुद्धं कूटयुद्धं च प्रदर्शितवन्त:।परन्तु रघुणा केवलं धर्मयुद्धपक्ष एव आश्रित: न तु कूटयुद्धपक्ष:।तत्र सदसदो: मध्ये सदेव अभिमतं न असत्।

अथ रधोः राज्ये द्रव्येषु गुणानां गन्धादीनामुत्कर्षमाह-

पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः ।

नवे् तस्मिन्महीपाले सर्वं नवमिवाभवत् ॥ ४-११॥

पदच्छेदः

पञ्चानाम्, अपि, भूतानाम्, उत्कर्षम्, पुपुषुः गुणाः,

नवे, तस्मिन्, महीपाले, सर्वम्, नवम् , इव,अभवत् ।

अन्वयः

पञ्चानाम् अपि  भूतानां  गुणाः उत्कर्षं पुपुषुः। तस्मिन्

नवे महीपाले  सति‌  सर्वं नवं इव अभवत् ।

तात्पर्यम्

यदा रघुः राजा अभवत् तदा एव पृथिव्यप्तेजोवाय्वाकाशानां पन्चमहाभूतानामपि गन्ध-रस-रूप-स्पर्श-शब्दाख्या गुणाः उत्कर्षम् आपुः | नूतनं महीपाले सर्वमपि वस्तु नूतनं यथा अभवत् ।

अथ रघुरन्वर्थो राजाऽभूदित्याह-

यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा ।

तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥ ४-१२॥

पदच्छेदः

यथा, प्रह्लादनात् ,चन्द्रः ,प्रतापाद्, तपन:, यथा,

तथा, एव, स:, अभूत्, अन्वर्थ: ,राजा ,प्रकृतिरञ्जनात्। 

अन्वयः

यथा  चन्द्रः  प्रह्लादनात् अन्वर्थ: अभूत्   यथा तपन: प्रतापाद् अन्वर्थ:

तथा एव स: राजा प्रकृतिरञ्जनात् अन्वर्थ: अभूत्।

तात्पर्यम्

चन्दयति आह्लादयति इति चन्द्रः | यथा आह्लादकारकत्वात् चन्द्रः चद्रपदवाच्यः, थथा सन्तापजननात् तपनः तपनशब्दवाच्यः, तथा एव प्रजायाः स्वस्मिन् अनुरागजननात् रघुः अपि राजा इति शब्दवाच्यः अनुगतार्थः एव अभूत् | स राजा सार्थक राजशब्दोऽभूत् | 

अर्थ चक्षुष्मतोऽपि रघोर्लोचनं शास्त्रमेवासीदित्याह-

कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने ।

चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना ॥ ४-१३॥

पदच्छेदः

कामम्, कर्णान्तविश्रान्ते, विशाले, तस्य, लोचने,

चक्षुष्मत्ता, तु, शास्त्रेण, सूक्ष्मकार्यार्थदर्शिना।

अन्वयः

विशाले तस्य लोचने कामं कर्णान्तविश्रान्ते (आस्ताम् ) तु

चक्षुष्मत्ता सूक्ष्मकार्यार्थदर्शिना शास्त्रेण एव (आसीत्) ।

तात्पर्यम्

विस्तृते रघोः नेत्रे अत्यन्तं श्रोत्रयोः प्रान्तौ गते अतिसुन्दरे आस्ताम् | किन्तु सः केवलं ताभ्यामेव नेत्रवान् न अभूत् | अपितु अप्रत्यक्षान् पदार्थान् शस्त्ररूपलोचनेन एव अवलोकयन् लोचनशोभाशाली आसीत् |

अथ रघोः दिग्विजय योग्यः समयः शरदृतुः प्राप्त इत्याह-

लब्धप्रशमनस्वस्थमथैनं समुपस्थिता ।

पार्थिवश्रीर्द्वितीयेव शरत्पङ्कजलक्षणा ॥ ४-१४॥

पदच्छेदः

लब्धप्रशमनस्वस्थम्, अथ, एनम्, समुपस्थिता      

पार्थिवश्री:, र्द्वितीया,  इव , शरद् पङ्कजलक्षणा।

अन्वयः

अथ  लब्धप्रशमनस्वस्थम्  एनं   पङ्कजलक्षणा शरद्  र्द्वितीया पार्थिवश्री: इव समुपस्थिता।

तात्पर्यम्

सिंहासनारोहनानन्तरं सः रघुः यदा राज्यं प्राप्तवान् तदैवे सर्वत्र शान्तिं विधाय स्वस्थः अभवत् | एवं च शरदृतुः विकसितकमलव्याजेन अपरा राजलक्ष्मीः इव तं सिषेवे ।

अथ शरदृतोः गुणान् वर्णयन् कविरादौ सूर्यस्य रघोश्च साम्यस्थितिमाह-

निर्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा सुदुःसहः ।

प्रतापस्तस्य भानोश्च युगपद्व्यानशे दिशः ॥ ४-१५॥

पदच्छेदः

निर्वृष्टलघुभि: ,मेघै:, र्मुक्तवर्त्मा, सुदुःसहः,

प्रताप:, तस्य ,भानो:,च,युगपत्, व्यानशे, दिशः

अन्वयः

 निर्वृष्टलघुभि: मेघै: र्मुक्तवर्त्मा अत एव सुदुःसहः

तस्य भानो: च प्रताप:  युगपत् दिशः व्यानशे।

तात्पर्यम्

यथा वर्षणानन्तरं धवलजलदेः परित्यक्तमार्ग: रविः स्वतीव्रकिरणैः लोकं सन्तप्तं करोति तथैव तस्य रघोरपि राज्ञः प्रतापः सर्वासु दिक्षु प्रसृतः  ।

अथेन्द्रस्य वार्षिकधनुः संहारानन्तरं रघोर्जैत्रधनुर्धारणमाह-

वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ ।

प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ॥ ४-१६॥

पदच्छेदः

वार्षिकम्, संजहार, इन्द्र:, धनु: , जैत्रं, रघु:, दधौ,

प्रजार्थसाधने, तौ, हि, पर्यायोद्यतकार्मुकौ

अन्वयः

इन्द्र: वार्षिकं धनु: संजहार  रघु:  जैत्रं धनु: दधौ हि

तौ प्रजार्थसाधने पर्यायोद्यतकार्मुकौ आस्ताम्।

तात्पर्यम्

इन्द्रः शरदृतौ वर्षाकालिकं शरासनं संहृतवान् | राजा रघुः जयशीलं स्वचापं लोकविजयाय गृहीत्वान् | इन्द्ररघू क्रमशः स्वं स्वं घनुः गृहीत्वा प्रजायाः अर्थसाधने वृष्टिरूपेण दिग्विजयेन च सर्वदा तत्परौ आस्ताम् |

अथ शरदृकर्तुकं रघो राजचिह्नस्य छत्रचामररूपस्य सानुकरणमाह-

पुण्डरीकातपत्रस्तं विकसत्काशचामरः ।

ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥ ४-१७॥

पदच्छेदः

पुण्डरीकातपत्र:,तम्,  विकसत्काशचामरः,

ऋतु:, विडम्बयामास, न ,पुनः, प्राप, तच्छ्रियम् 

अन्वयः

पुण्डरीकातपत्र: विकसत्काशचामरः ऋतु: तम् विडम्बयामास, पुनः तच्छ्रियम्  न प्राप। 

तात्पर्यम्

शरदृतुना घवलकमलरूपेण छत्रेण प्रस्फुरितकाशतृणरूपेण चामरेण सहितेन च रघोः अनुकरणं कृतम् | किन्तु रघोः या शोभा आसीत् सा कथमपि न प्राप्नोत् |

अथ सर्वासां प्रजानां तस्मिन् रघौ पूर्णतमा प्रीतिरासीदित्याह-

प्रसादसुमुखे तस्मिंश्चन्द्रे च विशदप्रभे ।

तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः ॥ ४-१८॥

पदच्छेदः

प्रसादसुमुखे, तस्मिन्, चन्द्रे, च, विशदप्रभे,

तदा ,चक्षुष्मताम्, प्रीति:,आसीत्, समरसा, द्वयोः

अन्वयः

प्रसादसुमुखे तस्मिन् विशदप्रभे चन्द्रे च द्वयोः तदा चक्षुष्मताम् प्रीति: समरसा आसीत्।

तात्पर्यम्

यथा जनाः शरदि निर्मलं चन्द्रमसं दृष्टवा हृष्टा बभूवुः तथैव, चारुकान्तिमन्तं रघुं दृष्ट्वा अपि ते प्रसन्ना जाताः |

अथ रघुवंशसां धवलिमवर्णनमाह-

हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु ।

विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥ ४-१९॥

पदच्छेदः

हंसश्रेणीषु, तारासु ,कुमुद्वत्सु, च, वारिषु ,

विभूतय:, तदीयानाम्, पर्यस्ता, यशसाम्, इव ।

अन्वयः

हंसश्रेणीषु तारासु कुमुद्वत्सु वारिषु  च: तदीयानाम् यशसाम्  विभूतय: पर्यस्ता: इव ।

तात्पर्यम्

शरदि हंसश्रेणीषु तारासु कुमुदयुक्तेषु सरोवरादिषु च रघुसंबन्धिनां यशसां संपत्तयः एव धवलिमसमृद्धिः प्रसारिताः इव आसीत् किम् | अत्र उत्प्रेक्षा | अन्यथा कथमेषां धवलतेति भावः |

ग्रामीणस्त्रियोऽपि रघुयशोगानपरायणा आसन्नित्याह-

इक्षुच्छायनिषादिन्य स्तस्य गोप्तुर्गुणोदयम् ।

आकुमारकथोद्धातं शालिगोप्यो जगुर्यशः ॥ ४-२०॥

पदच्छेदः

इक्षुच्छायनिषादिन्य:,तस्य, गोप्तु:, गुणोदयम्,

आकुमारकथोद्धातम्, शालिगोप्य:, जगु, यशः।

अन्वयः

इक्षुच्छायनिषादिन्य: शालिगोप्य: गोप्तु: तस्य गुणोदयं,

आकुमारकथोद्धातम् यशः जगु:।

तात्पर्यम्

इक्षूणां छायासु समुपविष्टाः शस्यपालिकाः रघोः कौमारादारभ्य शौर्यादिगुणयुक्तं कीर्तिं गायन्ति स्म ।

अथ रघोः प्रतापोदयेन निजाभिभवशङ्कया शत्रूणां मनः क्षुभितं बभूवेत्याह-

प्रससादोदयादम्भः कुम्भयोनेर्महौजसः ।

रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः॥ ४-२१॥

पदच्छेदः

प्रससाद, उदयात्, अम्भः, कुम्भयोने:, महौजसः,

रघो:, अभिभवाशङ्कि, चुक्षुभे, द्विषताम्, मनः।

अन्वयः

महौजसः कुम्भयोने: उदयात् अम्भः प्रससाद।

महौजसः रघो उदयात् अभिभवाशङ्कि द्विषताम् मनः चुक्षुभे।

तात्पर्यम्

अगस्त्यनक्षत्रस्य प्रादुर्भावात् कर्दमयुक्तं जलं विमलं बभूव |  बलशालिनः दिलीपकुमारस्य रघोः विजयप्रस्थानम् आकर्ण्य शत्रूणां चित्तं पराभवशङ्काया क्षोभयुक्तं बभूव |

अथ रघोर्महोक्षवच्छौर्यमासीदित्याह-

मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः ।

लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम्॥ ४-२२॥

पदच्छेदः

मदोदग्राः, ककुद्मन्तः, सरिताम्, कूलमुद्रुजाः,

लीलाखेलम्,  अनुप्रापु: महोक्षा:, तस्य, विक्रमम्।

अन्वयः

मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः महोक्षा: लीलाखेलम् तस्य विक्रमम् अनुप्रापु:।

तात्पर्यम्

उत्साहसमृद्धि युक्तस्य वपुष्मतः परदमनशीलस्य रघोः शौर्यस्य, मदेन उन्मत्तः महाककुदः वृषभाः नदीतटमुत्पाटय स्वशृङ्गैः अनुकरणं विदधुः।

अथ रघोः सैन्ये मदोन्मत्ता गजेन्द्रा आसन्नित्याह-

प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः ।

असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः॥ ४-२३॥

पदच्छेदः

प्रसवैः, सप्तपर्णानां, मदगन्धिभि:, आहताः,

असूयया, इव, तन्नागाः, सप्तधा, एव, प्रसुस्रुवुः।

अन्वयः

मदगन्धिभि: सप्तपर्णानां प्रसवैः आहताः तन्नागाः असूयया इव सप्तधा एव

प्रसुस्रुवुः।

तात्पर्यम्

रघोः सेनायां वर्तमाना गजाः सप्तपर्णकुसुमानां गन्धं घ्रात्वा अयं वन्यगजामदगन्ध इति स्पर्धया इव करकटादिभ्यः स्वयमपि सप्तस्थानेभ्यः मदं ववृषुः।

असौ शरदृतुः दिग्विजयाय रधुं प्रथमं प्रेरयामासेत्याह–

सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् ।

यात्रायै चोदयामास तं शक्तेः प्रथमं शरत्॥ ४-२४॥

पदच्छेदः

सरितः, कुर्वती, गाधाः, पथ:, च, आश्यानकर्दमान्,

यात्रायै, चोदयामास, तम्, शक्तेः, प्रथमम्, शरद्।

अन्वयः

सरितः गाधाः कुर्वती पथ: च आश्यानकर्दमान् कुर्वती

शरद् तं शक्तेः प्रथमम् यात्रायै चोदयामास।

तात्पर्यम्

शरद्काले नद्यः सुप्रतराः सम्पन्नाः | मार्गाश्च पङ्करहिताः जाताः | एवं शरदृतु तं रघुम् उत्साहशक्तेः प्रथमं विजययात्रायै प्रेरयामास।

अथ रघोर्यात्रासमये शुभशकुनं सूचयन् वह्निः प्रदक्षिणार्चिबभूवेत्याह-

तस्मै सम्यग्घुतो वह्निर्वाजिनीराजनाविधौ ।

प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ॥ ४-२५॥

पदच्छेदः

तस्मै, सम्यग् , हुत:, वह्नि:  वाजि-नीराजनाविधौ, 

प्रदक्षिणार्चि-र्व्याजेन, हस्तेन, इव, जयम्, ददौ।

अन्वयः

वाजि-नीराजनाविधौ सम्यग् हुत: वह्नि: प्रदक्षिणार्चि-र्व्याजेन हस्तेन  इव   तस्मै जयं ददौ

तात्पर्यम्

यदा रघुः धोटकानां नीराजनाख्यशान्तिकर्म यथाशास्त्रं कुर्वन् वह्नौ हवनीयं द्रव्यं तर्पितः, तदैव वह्निः प्रदक्षिणाज्वालया तस्मै स्वकरेणेव विजयं प्रदत्तवान् | अत्र वाजि-नीराजनविधौ इति वाजिग्रहणं गजादीनामपि उपलक्षणं तेषामपि नीराजनाविधानात् |

स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः ।

षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया॥ ४-२६॥

पदच्छेदः

स:, गुप्त-मूल-प्रत्यन्तः, शुद्ध-पार्ष्णि:, अयान्वितः,

षड्विधम्, बलम्, आदाय, प्रतस्थे, दिग्जिगीषया।

अन्वयः

गुप्त-मूल-प्रत्यन्तः शुद्ध-पार्ष्णि: अयान्वितः स: षड्विधम् बलम् आदाय mkदिग्जिगीषया प्रतस्थे।

तात्पर्यम्

स्वराष्ट्रप्रबन्धं सम्पाद्य पृष्ठशत्रुं च व्यापाद्य मङ्गलाचारपूर्वकः शुभावहविधियुक्तः षट्विधं सेनां गृहीत्वा  रघुः जेतुमिच्छया दिग्विजयं कर्तुं प्रतस्थे  |

अथ दिग्विजयाय प्रस्थितस्य तस्य रघोरुपरि पौरवृद्धाङ्गनानां लाजप्रक्षेपमाह-

अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः ।

पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम्॥ ४-२७॥

पदच्छेदः

अवाकिरन्, वयोवृद्धा: ,तम्,लाजैः, पौरयोषितः, 

पृषतै,मन्दरोद्धूतै:,क्षीरोर्मय:, इव,अच्युतम्।

अन्वयः

वयोवृद्धा: पौरयोषितः तं लाजैः मन्दरोद्धूतै: पृषतै: क्षीरोर्मय: अच्युतम्

इव अवाकिरन्।

तात्पर्यम्

दिग्विजयार्थं गच्छतः रघोरुपरि वयोवृद्धाः पौरयोषितः लाजैः ववृषुः, यथा समुद्रमन्थनसमये अच्युतस्य उपरि क्षीरसागरवीजयः मन्द्राजलादुत्पन्नैः जलबिन्दुभिः ववृषुः |

अथ युग्मेन प्रथमं रघोः प्राच्यां दिशि गमनमभूदित्याह-

स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा ।

अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः॥ ४-२८॥

पदच्छेदः

स:, ययौ, प्रथमम्, प्राचीम्, तुल्यः, प्राचीनबर्हिषा,

अहितान्, अनिलोद्धूतै:, तर्जयन्, इव, केतुभिः।

अन्वयः

प्राचीनबर्हिषा तुल्यः स: अनिलोद्धूतै केतुभिः अहितान्

तर्जयन् इव प्रथमम्ं प्राचीं ययौ।

तात्पर्यम्

इन्द्रतुल्यपराक्रमः स रघुः पवनेन उत्क्षिप्तः स्वकीयैः सेनाघ्वजैः शत्रून् भर्त्सयन् इव प्रथमं पूर्वां दिशं प्रतस्थे | 

अथ कवी रघोः सैन्य बाहुल्यं द्योतयन्नाह- 

रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः ।

भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्॥ ४-२९॥

पदच्छेदः

रजोभिः, स्यन्दनोद्धूतै:,र्गजै: ,च, घनसंनिभैः,

भुवस्तलम्,इव, व्योम, कुर्वन्, व्योम, इव, भूतलम् ।

अन्वयः

स्यन्दनोद्धूतै: रजोभिः घनसंनिभैः र्गजै: च व्योम भुवस्तलम् इव

भूतलम् व्योम इव कुर्वन् ययौ।

 

तात्पर्यम्

राजा रघुः स्वकीयैः सैन्यगजैः, भूतलं घनयुक्तं व्योम इव तथा रथैः उत्थापितानि घूलिभिः, आकाशं घूलियुक्तं पृथिवीतलं इव कुर्वन् जगाम |

अथ रघोः सैन्यगमनं वर्णयन्नाह-

प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् ।

ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः॥ ४-३०॥

पदच्छेदः

प्रताप:, अग्रे, ततः ,शब्दः, पराग: तदनन्तरम् ,

ययौ ,पश्चाद् ,रथादि, इति, चतुःस्कन्धा, इव, सा, चमूः।

अन्वयः

अग्रे प्रताप:  ततः शब्दः तदनन्तरं पराग: पश्चाद् रथादि इति चतुःस्कन्धा, इव, सा, चमूः ययौ।

तात्पर्यम्

प्रथमं तेजः, ततः सेनाकोलाहलः, तस्यानन्तरं रथधूलिः, ततः स्यन्दनादयः, एवं व्यूहचतुष्टयवती रघोः सेना दिग्विजयार्थं पूर्वं प्राचीमुद्दिश्य प्रस्थिता | 

अय रघोः शक्ति उत्कर्षात् जले

स्थलेऽपि च सर्वत्र सुखेन गमनमासीदित्याह-

मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः ।

विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः॥ ४-३१॥

पदच्छेदः

मरुपृष्ठानि, उदम्भांसि, नाव्याः, सुप्रतरा:, नदीः ,

विपिनानि, प्रकाशानि, शक्तिमत्त्वात्, चकार ,सः।

अन्वयः

सः शक्तिमत्त्वात् मरुपृष्ठानि उदम्भांसि चकार नाव्याः नदीः सुप्रतरा: चकार विपिनानि प्रकाशानि चकार।

तात्पर्यम्

सर्वसामर्थ्यशालिना रघुणा स्वविजययात्रासमये मरुप्रदेशाः जलयुक्ताः कृताः | नावातरनयोग्या नद्यः सुरवतारणयोग्याः कृताः ! वनानि च वृक्षच्छेदादिना प्रकाशयुक्तानि कृतानि | शक्तिमत्वात् तस्य किमपि असाध्यं नास्ति इति भावः। 

अथ पूर्वीयसि्न्धुतटमुद्दिश्य गच्छन्तीं महतीं सेनां नयनो रघोः शोभां वर्णयन्नाह-

स सेनां महतीं कर्षन्पूर्वसागरगामिनीम् ।

बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः॥ ४-३२॥

पदच्छेदः

स:,सेनाम्, महतीम्, कर्षन्, पूर्वसागरगामिनीम्, बभौ, हरजटाभ्रष्टाम्, गङ्गाम्, इव, भगीरथः।

अन्वयः

पूर्वसागरगामिनीं महतीं सेनां कर्षन् हरजटाभ्रष्टां (पूर्वसागरगामिनीम्) गङ्गां  कर्षन् भगीरथः इव बभौ।

तात्पर्यम्

दिग्विजयार्थं प्राचीं प्रस्थितः रघुः स्वसेनां पूर्वसागरपर्यन्तं नयन्, शिवस्य कपर्दात् निर्गलितां गङ्गां पूर्वसागरं नयन् भगीरथः इव शोभामुवाह |

अथ रघोः सैन्यमार्गः प्रतिबन्धरहित आसीदित्याह

त्यााजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः ।

तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः॥ ४-३३॥

पदच्छेदः

त्यााजितैः , फलम्, उत्खातै:, भग्नैश्च, बहुधा , नृपैः,

तस्य, आसीत्, उल्बण:, मार्गः ,पादपै:,इव, दन्तिनः।

अन्वयः

फलम् त्यााजितैः उत्खातै: बहुधा भग्नैश्च नृपैः पादपै: दन्तिनः इव तस्य

मार्गः उल्बण: आसीत्।

तात्पर्यम्

यथा कश्चित् बलिष्ठः गजः मार्गे वर्तमानान् वृक्षान् फलरहितान् विधाय कांश्चित् च उन्मूलितान् कृत्वा उपशंस्तु चूर्णीकृत्य स्वपथं निष्प्रतिबन्धं करोति तथैव रघुणापि कांश्चित् राज्ञः लाभरहितान् कृत्वा कांश्चित् च पदभ्रष्टान् विधाय कांश्चित् च युद्धे हत्वा स्वमार्गः कण्टकशून्यः स्पष्टः कृतः |

अथ दिग्विजय कुर्वतो रघोः पूर्वसमुद्रतटसमीपप्राप्तिमाह-

पौरस्त्यानेवमाक्रामंस्तांस्ताञ्जनपदाञ्जयी ।

प्राप तालीवनश्याममुपकण्ठं महोदधेः॥ ४-३४॥

पदच्छेदः

पौरस्त्यान्, एवम्, आक्रामन्, तान्, तान् , जनपदान्, जयी , प्राप  तालीवनश्यामम्, उपकण्ठम्, महोदधेः। 

अन्वयः

जयी एवम् पौरस्त्यान्  तान् तान् जनपदान् आक्रामन् तालीवनश्यामम्  महोदधेः उपकण्ठम् प्राप।

तात्पर्यम्

जयनशीलः रघु इत्थं पूर्वदिग्भवान् तान् तान् दिशान् आक्रामन्, सर्वत्र विजयं कुर्वन्,् तालवृक्षाणां काननैः कृष्णं सागरस्य तटसमीपं प्राप्नोत् |

अथ रघोः सकाशात्  सुह्मदेशीयानां नृपाणां पादप्रणत्या आत्मसंरक्षणमाह-

अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव ।

आत्मा संरक्षितः सुह्मैर्वृत्तिमाश्रित्य वैतसीम्॥ ४-३५॥

पदच्छेदः

अनम्राणाम्, समुद्धर्तु:,तस्मात्,सिन्धुरयात्, इव,

आत्मा ,संरक्षितः ,सुह्मै:, र्वृत्तिम्, आश्रित्य , वैतसीम्।

अन्वयः

अनम्राणाम् समुद्धर्तु: तस्मात् सिन्धुरयात् इव सुह्मै: वैतसीं

र्वृत्तिम् आश्रित्य आत्मा ,संरक्षितः

तात्पर्यम्

यथा समुद्रस्य वेगात् वेतसा नम्रीभूय स्वरक्षा क्रियते, तथैव सुहमदेशीयैः क्षत्रियैः रघुपादयोः प्रणतिं कृत्वा स्वरक्षा कृता| “बलीयसाभियुक्तः दुर्बलः सर्वत्र अनुप्रणतः वेतसधर्मम् आतिष्ठेत्” – कौटिल्यः |

अथ रघुकर्तृकं वङ्गदेशीयानां राज्ञां पराभवमाह-

वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् ।

निचखान जयस्तम्भान् गङ्गास्रोतोन्तरेषु  सः॥ ४-३६॥

पदच्छेदः

वङ्गान्,उत्खाय, तरसा, नेता ,नौसाधनोद्यतान् ,

निचखान ,जयस्तम्भान्,

गङ्गास्रोतोन्तरेषु,सः।

अन्वयः

नेता सः नौसाधनोद्यतान् वङ्गान् 

तरसा उत्खाय गङ्गास्रोतोन्तरेषु

जयस्तम्भान् निचखान।

तात्पर्यम्

नौकारूपयुद्धसाधनसन्नद्धान् वङ्गदेशीयान् राज्ञः बलेन विजित्य नायकः रघुः गङ्गाप्रवाहमध्यस्थेषु द्वीपेषु स्वविजयस्मारकान् जयस्तम्भान् स्थापितवान् |

अथ रघोः समीपे विजितवङ्गदेशीयराजकतृकमुपहारस्वरूपधनार्पणमाह-

आपादपद्मप्रणताः कलमा इव ते रघुम् ।

फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः॥ ४-३७॥

पदच्छेदः

आपादपद्मप्रणताः, कलमाः, इव ,ते ,रघुम् ,

फलैः,संवर्धयामासु: ,उत्खातप्रतिरोपिताः।

अन्वयः

आपादपद्मप्रणताः ‘अत एव’

उत्खातप्रतिरोपिताः ते कलमाः

इव रघुम् फलैः संवर्धयामासु:।

तात्पर्यम्

यथा कलमाख्याः शालिविशेषाः पूर्वम् उत्पाट्य पश्चात् प्रतिशेपिताः सस्यसमृद्धिं वर्धयन्ति, तथैव पूर्वं स्वस्थानात् च्याविताः पश्चात् प्रतिष्ठापिताः वङ्गीयाः रघुं घनादिभिः संवर्धयामासुः |

अथ रघुर्वङगान्विजित्य कलिङ्गाभिमुखो ययावित्याह-

स तीर्त्वा कपिशां सैन्यैर्बद्धद्विरदसेतुभिः ।

उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ॥ ४-३८॥

पदच्छेदः 

 सः तीर्त्वा, कपिशाम्, सैन्यै:, 

बद्ध-द्विरद-सेतुभिः, 

उत्कला-दर्शित-पथः ,कलिङ्गा-भिमुखो, ययौ।

अन्वयः

सः बद्ध-द्विरद-सेतुभिः सैन्यैः कपिशां तीर्त्वा उत्कला-दर्शित-पथः कलिङ्गा-भिमुखो ययौ।

तात्पर्यम्

सः रघुः स्वसेनागजैः एव सेतुं निर्माय कपिशा नाम्नीं तीर्त्वा उत्कलदेशीयैः राजभिः प्रदर्शित मार्गः सन् कलिङ्गदेशं लक्ष्यीकृत्य जगाम |  

अथ रघोः प्रतापो महेन्द्रपर्वतशिखरे व्याप्तो बभूवेत्याह-

स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् ।

अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः॥ ४-३९॥

पदच्छेदः

सः, प्रतापम्, महेन्द्रस्य, मूर्ध्नि ,तीक्ष्णम्, न्यवेशयत्, अङ्कुशम् द्विरदस्य, इव, यन्ता, गम्भीरवेदिनः, प्रतिजग्राह ।

अन्वयः

 सः महेन्द्रस्य मूर्ध्नि‌ तीक्ष्णं‌ प्रतापं ‌यन्ता गम्भीरवेदिनःद्विरदस्य मूर्ध्नि‌ तीक्ष्णम् अङ्कुशम् इव न्यवेशयत्।

तात्पर्यम्

यथा हस्तिपकः गम्भीर वेदिनः गजस्य शिरसि तीव्रम् अङ्कुशं निवेशयति, तथैव रघुणापि महेन्द्राचलस्य शिरवरे स्वतेजः निवेशयामास | (प्रतिष्ठापीतवान्)

अथ कलिङ्गदेशाधिपो युद्धार्थं 

रघोरभिमुखो बभूवेत्याह-

प्रतिजग्राह  कालिङ्गस्तमस्त्रैर्गजसाधनः ।

पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः॥ ४-४०॥

पदच्छेदः

प्रतिजग्राह, कालिङ्गः, तम्, अस्त्रैः, गजसाधनः, पक्ष-च्छेदोद्यतम्,

शक्रम्, शिला-वर्षी, इव, पर्वतः।

अन्वयः

गजसाधनः कालिङ्गः अस्त्रैः तंपक्षच्छेदोद्यतमं शक्रं शिला-वर्षी

पर्वतः इव प्रतिजग्राह।

तात्पर्यम्

यथा कश्चित् पर्वतः स्वपक्षाणां छेदे उद्युक्तं शक्रं शिलावर्षैः प्रतिरोध, तथैव गजसाधनवान् कलिङ्गदेशीयः राजा आयुधैः रघुं प्रत्याभियुक्तवान् |

अथ रघोर्विजयलाभो बभूवेत्याह-

द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनम् ।

सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥ ४-४१॥

पदच्छेदः

द्विषाम्, विषह्य ,काकुत्स्थ:, तत्र ,नाराच-दुर्दिनम् ,

सन्मङ्गल-स्नात, इव, प्रतिपेदे ,जयश्रियम्।

अन्वयः

काकुत्स्थ: तत्र द्विषां नाराच-दुर्दिनं  विषह्य

सन्मङ्गल-स्नातः इव जयश्रियं प्रतिपेदे।

तात्पर्यम्

काकुस्थस्य गोत्रापत्यं पुमान् काकुस्थः रघुः तत्र महेन्द्राद्रौ शत्रूणां शरवर्षणं सहित्वा यथा अस्त्रं सन्मङ्गलाभिषिक्तः इव (माङ्गलिकसर्वोषध्यादिभिः कृता अभिषेकम् इव) विजयं प्राप | 

अथ महेन्द्राद्रौ रघुसैनिका विजयमहोत्सवं चक्रूरित्याह-

ताम्बूलीनां दलैस्तत्र रचितापानभूमयः ।

नारिकेलासवं योधाः शात्रवं च पपुर्यशः ॥ ४-४२॥

पदच्छेदः

ताम्बूलीनाम्, दलै:, तत्र, रचिता-पानभूमयः,

नारिकेला-सवम्, योधाः, शात्रवम्, च, पपु:, यशः।

अन्वयः

तत्र योधाः रचितापानभूमयः नारिकेलासवं ताम्बूलीनां दलै: पपु:, शात्रवं यशः च पपु:।

तात्पर्यम्

तत्र महेन्द्राद्रौ रघोः योधाः आपानभूमिं विरचय्य नागवल्लीनां पत्रैः नारिकेलमद्यम् अपिबन्, शत्रुसम्बन्धि यशः च पपुः  | 

अथ रधुर्महेन्द्रनाथं कालिङ्गं विजित्य पुनरपि तं राजासने स्थापयामासेत्याह-

गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः ।

श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥ ४-४३॥

पदच्छेदः

गृहीत-प्रतिमुक्तस्य, स:, धर्मविजयी, नृपः,

श्रियम्, महेन्द्रनाथस्य, जहार, न, तु, मेदिनीम् ।

अन्वयः

धर्मविजयी स: नृपः गृहीत-प्रतिमुक्तस्य महेन्द्रनाथस्य श्रियं जहार मेदिनीं

 तु न जहार।

 तात्पर्यम्

धर्मविजयशीलेन रघुणा पूर्वं विजित्य प्रतिबद्धस्य पश्चात् कृपया परित्यक्तस्य महेन्द्राधिपस्य राज्यलक्ष्मीः एव अपहृता न तु पृथिवीं जहार | 

अथ पू्र्वदिशातो दक्षिणादिशं  

रघुर्ययावित्याह-

ततो वेलातटेनैव फलवत्पूगमालिना ।

अगस्त्याचरितामाशामनाशास्यजयो ययौ ॥ ४-४४॥

पदच्छेदः

तत: वेला-तटेन, एव, फलवत्-पूग-मालिना,

अगस्त्याचरिताम्, आशाम्, अनाशास्यजय:, ययौ।

अन्वयः

तत: फलवत्-पूग-मालिना वेला-तटेन एव अगस्त्याचरिताम् आशाम् अनाशास्यजय: ‘सन्’ ययौ।

तात्पर्यम्

प्राचीविजयानन्तरं फलयुक्तक्रमुकश्रेणीमता सुशोभिता समुद्रतटमार्गेणैव अगस्त्येन अधिष्ठितां दक्षिणां दिशं प्रतस्थे | 

“अगस्त्यः दक्षिणमाशाम् आश्रित्य नभसि स्थितः।” ब्रह्मपुराणे  | 

अथ दक्षिणां दिशं गच्छन् रघुः मार्गे ‌कावेरीं प्रापेत्याह- 

स सैन्यपरिभोगेण गजदानसुगन्धिना ।

कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत् ॥ ४-४५॥

पदच्छेदः

स:, सैन्यपरिभोगेण, गजदानसुगन्धिना,

कावेरीम्, सरिताम्, पत्युः, शङ्कनीयाम्, इव अकरोत्।

अन्वयः

स: गजदानसुगन्धिना सैन्यपरिभोगेण कावेरीं सरितां पत्युःशङ्कनीयाम् इव अकरोत्।

तात्पर्यम्

सः रघुः गजानां मदेन सुरभितेन सैन्यपरिभोगेण कावेशी नदी शोभानगन्धवती तथा जाता यथा समुद्रस्य परपुरुष-उपभुक्ता इव अविश्वसनीया अभूत्  |

अथ मार्गे रघुसैन्यं मलयाचलोपत्यकासु निवसति स्मेत्याह-

बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः ।

मारीचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः ॥ ४-४६॥

पदच्छेदः

बलैः,अध्युषिताः,तस्य, विजिगीषोः गताध्वनः 

मारीचो-द्भ्रान्तहारीता:, मलयाद्रेः, उपत्यकाः।

अन्वयः

विजिगीषो: गताध्वनः तस्य बलै: मारीचोद्भ्रान्तहारीता: मलयाद्रे: 

उपत्यकाः अध्युषिता:।

तात्पर्यम्

विजेतुमिच्छोः रघोः कियद्दूरं गतस्य सेनापुरुषैः मारीचवचनेषु परिभ्रान्ताः हरिताख्या पक्षिबाहुल्यवतीषु मलयाद्रेः आसन्नभूमिषु वासम् अकल्पयत् | 

अथ मलयाद्रेरुपत्यकाभूमिं 

वर्णयन् तत्र एलालतानां प्राचुर्यमासीदित्याह-

ससञ्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः ।

तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ॥ ४-४७॥

पदच्छेदः

ससञ्जुः,अश्व-क्षुण्णानाम्, एलानाम्, उत्पतिष्णवः,

तुल्यगन्धिषु,मत्तेभ-कटेषु, फल-रेणवः ।

अन्वयः

अश्व-क्षुण्णानाम् एलानाम् उत्पतिष्णवः फल-रेणवः तुल्यगन्धिषु, मत्तेभ-कटेषु

ससञ्जुः।

तात्पर्यम्

घोटकैः चूर्णितानां एलालतानाम् ऊर्ध्वगमनशीलाः फलानां धूलिकणाः स्वसमानगन्धयुक्तेषु सेनागजगण्डस्थलेषु पवनवशात् संसक्ताः |

अथ मलयतरुषु बद्धान् सेनागजान्वर्णयन्नाह-

भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ।

नास्रसत्करिणां ग्रैवं त्रिपदीच्छेदिनामपि ॥ ४-४८॥

पदच्छेदः

भोगि-वेष्टन-मार्गेषु,चन्दनानाम् ,समर्पितम्,

न, अस्रस‌त्, करिणाम्, ग्रैवम्, त्रिपदी-च्छेदिनाम्,अपि।

अन्वयः

चन्दनानां भोगि-वेष्टन-मार्गेषु 

समर्पितं त्रिपदी-च्छेदिनाम् अपि करिणाम् ग्रैवं न अस्रस‌त्।

तात्पर्यम्

चन्दनवृक्षेषु सर्पवेष्टनेन सञ्जातरेखासु अघोरणैः निबद्धानां पादबन्धन छेदकारिणामपि गजानां कण्ठबन्धनानि शिथिलानि न बभूवुः |

अथ रघोः प्रतापं पाण्डुदेशाधिपतयो न विषेहिर इत्याह-

दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।

तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥ ४-४९॥

पदच्छेदः

दिशि, मन्दायते, तेजः, दक्षिणस्याम्, रवेः,अपि,

तस्याम्, एव, रघोः, पाण्ड्याः प्रतापम् ,न ,विषेहिरे ।

अन्वयः

दक्षिणस्यां दिशि रवेः अपि

तेजः मन्दायते (तथापि)तस्याम् एव पाण्ड्याः रघोः प्रतापं न विषेहिरे।

तात्पर्यम्

दक्षिणस्यां काष्ठायां दिशि सूर्यस्य अपि प्रतापः मन्दं भवति  | तस्यामेव दक्षिणस्यां दिशि पाण्ड्यै: रघोः प्रतापः न सोढवन्तः | सूर्यविजयिनः अपि रघुः विजितवान् इति महान् उत्कर्षः गम्यते |

अथ रघवे पराजितानां पाण्डुदेशाधिपतीनामुपहारस्वरूपमुक्ताफलार्पणमाह-

ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः ।

ते निपत्य ददुस्तस्मै यशः स्वमिव संचितम् ॥ ४-५०॥

पदच्छेदः

ताम्रपर्णी-समेतस्य, मुक्तासारम् ,महोदधेः,

ते ,निपत्य ,ददु:, तस्मै, यशः, स्वम् , इव, यशः, सञ्चितम्।

अन्वयः

  ते महोदधेः ताम्रपर्णी-समेतस्स्य सञ्चितं मुक्तासारं स्वं सञ्चितं

यशः इव तस्मै निपत्य ददुः।

तात्पर्यम्

पराजिताः पाण्ड्याः ताम्रपर्णानामकनद्या  सङ्गगतस्य महासागरस्य सम्बन्धि सञ्चितं मुक्तसारं स्वकीयं सञ्चितं यश इव तस्मै रघवे नमस्कृत्य समर्पितवन्तः | [ताम्रपर्णी संगमे मौक्तिकोत्पति इति प्रसिद्धम्] यशसः शुभ्रत्वात् औपम्यम् |

अथ रघुर्मलयदर्दुरपर्वतयोर्यथेच्छं निवासं कृत्वा सह्याद्रिमलङ्घयदिति युग्मेनाह-

स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ ।

स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ ॥ ४-५१॥

असह्यविक्रमः सह्यं दूरान्मुक्तमुदन्वता 

नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ॥ ४-५२॥

पदच्छेदः

स:,निर्विश्य, यथाकामम्, तटेषु, आलीन-चन्दनौ,

स्तनाौ, इव, दिश:, तस्याः, शैलौ, मलयदर्दुरौ, असह्यविक्रमः,सह्यम्,

दूरात्, मुक्तम्, उदन्वता, नितम्बम्, इव, मेदिन्याः, स्रस्तं-अंशुकम्, अलङ्घयत्। 

अन्वयः

असह्यविक्रमः स: तटेषु आलीन-चन्दनौ तस्याः दिश: स्तनाौ इव “स्थितौ” मलय-दर्दुरौ शैलौ, यथाकामं निर्विश्य, उदन्वता दूरात् मुक्तं स्रस्तं-अंशुकं

मेदिन्याः नितम्बम्  इव  “स्थितं” सह्यम्  अलङ्घयत्।

तात्पर्यम्

असह्यविक्रमः स: रघु: दक्षिणस्या: दिश: स्तनयोरिव स्थितयो: मलय-दर्दुरपर्वतयो: यथेच्छं विहारं कृतवान्। तदनन्तरं पृथिव्या: दूरात् समुद्रे  परित्यक्तम्,  अत एव विलासवत्या: विगलित-वस्त्रं नितम्बभागमिव 

स्थितं सह्याद्रिं, यथाकामं उपभुज्य तथैव प्रस्थित:।यथा कश्चित् कामी

कामुक्या: चन्दनानुलेप-व्याप्त-पीवर-कुचयो: सम्मर्दनं कृत्वा निर्वस्त्रं नितम्बम् उपभुज्य अन्यत: याति।

सम्प्रति प्रतीचीं दिशमभिययावित्याह-

तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः ।

रामास्त्रोत्सारितोऽप्यासीत्सह्यलग्न इवार्णवः ॥ ४-५३॥

पदच्छेदः

तस्य,अनीकैः,विसर्पद्भिः,अपरान्त-जयोद्यतैः,रामा-स्त्रोत्सारित:, अपि, आसीत्,  सह्य-लग्नः, इव,अर्णवः।

अन्वयः

अपरान्त-जयोद्यतैः विसर्पद्भिः

तस्य,अनीकैः अर्णवः रामा-स्त्रोत्सारितः अपि सह्य-लग्नः इव आसीत्।

तात्पर्यम्

सह्याद्रेः पश्चिमदेशं गच्छन्त्या विपुलया रघुसेनया परशुरामस्य अस्त्रै: दूरीकृतः अपि समुद्रः पुनः सह्यपर्वते संसक्तः इव लक्ष्यते स्म | आ पर्वतात् समुद्रं यावत् सेनाविस्तार आसीत् इति भावः | सैन्यं द्वितीयोऽर्णव इव दृश्यतेति भावः |

अथ रघोर्महत् सैन्यं दृष्ट्वा भीताः सत्यः केरलयोषितः पलायिता आसन्नित्याह-

भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् ।

अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः ॥ ४-५४॥

पदच्छेदः

भयोत्सृष्ट-विभूषाणाम्, तेन , केरल-योषिताम् ,

अलकेषु ,चमू-रेणुः, चूर्ण-प्रतिनिधीकृतः।

अन्वयः

तेन भयोत्सृष्ट-विभूषाणांकेरल-योषितां अलकेषु चमू-रेणुः

चूर्ण-प्रतिनिधीकृतः।

तात्पर्यम्

रघोः सकाशात् उत्पन्नेन भयेन यदा केरलप्रान्तस्त्रियः आभूषणादिकं परित्यज्य पलायिताः तदा तासां चूर्णकुन्तलेषु सेनायाः रेणुना कुंकुम-पूर्णलेपः संपादितः | (एतेन, योषितां पलायनं चमूनां च तदनुधावनं ध्वन्यते |)

अथ रघोः सैन्यं नदीं प्रापेत्याह-

मुरलामारुतोद्धूतमगमत्कैतकं रजः ।

तद्योधवारबाणानामयत्नपटवासताम् ॥ ४-५५॥

पदच्छेदः

मुरला-मारुतो-द्धूतम्, अगमत्,  कैतकम्, रजः, 

तद्योध-वारबाणानाम्, अयत्न-पट-वासताम् ।

अन्वयः

मुरला-मारुतो-द्धूतं कैतकं रजः तद्योध-वारबाणानाम् अयत्न-पट-वासताम्

अगमत्।

तात्पर्यम्

मुरला नाम्नी नद्याः पवनेन समुत्थापीतं केतकीपुष्परजसा रघोः भटानां कुञ्चुकेषु प्रयासं विना एव वस्त्र-सुरभी-करणकार्यम् अकारि | (मुरलानाम केरलदेशेषु काचिन्नदी |)

अथ पथि गच्छतो रघोर्वाहानां राजतालीवनमध्ये प्रवेशमाह-

अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः ।

वर्मभिः पवनोद्धूतराजतालीवनध्वनिः ॥ ४-५६॥

पदच्छेदः

अभ्यभूयत, वाहानाम्, चरताम्, गात्र-शिञ्जितैः, 

वर्मभिः, पवनो-द्धूत-राजताली-वनध्वनिः।

अन्वयः

चरतां वाहानाम्  गात्र-शिञ्जितैः वर्मभिः पवनो-द्धूत-राजताली-वनध्वनिः अभ्यभूयत।

तात्पर्यम्

रघोः गच्छतां वाजिनां शरीरेषु शब्दमानैः कवचैः पवनेन कम्पितानि तालपत्रध्वनिः तिरस्कृतः | (“वाजिवाहार्वगन्धर्वहयसैन्धव सप्तयः”)

   अथ मदस्राविणां रघुसेनागजानां गण्डस्थले पुन्नागतरुवनाद्भ्रमराणां निपतनमाह-

खर्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु ।

कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः ॥ ४-५७॥

पदच्छेदः

खर्जूरी-स्कन्ध-नद्धानाम्, मदो-द्गार-सुगन्धिषु ,

कटेषु, करिणाम् ,पेतुः, पुंनागेभ्यः, शिलीमुखाः,

अन्वयः

खर्जूरी-स्कन्ध-नद्धानां करिणां मदो-द्गार-सुगन्धिषु कटेषु

पुंनागेभ्यः शिलीमुखाः पेतुः।

तात्पर्यम्

भ्रमराः पुन्नागपुष्पाणि विहाय रवर्जूरी-स्कन्धेषु निबद्धानां सेनागजानां मदस्त्रावेण सुगन्धिषु गण्डस्थलेषु न्यपतन् |

अथ पश्चिमदेशीया राजानो रघवे करं ददुरित्याह-

अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ ।

अपरान्तमहीपालव्याजेन रघवे करम् ॥ ४-५८॥

पदच्छेदः

अवकाशम्, किल, उदन्वान्, रामाय, अभ्यर्थित:,ददौ,

अपरान्त-महीपाल-व्याजेन, रघवे, करम् ।

अन्वयः

उदन्वान् रामाय अभ्यर्थित: अवकाशं ददौ किल रघवे अपरान्त-महीपाल-व्याजेन करम् ददौ।

तात्पर्यम्

उदधिः परशुरामाय प्रार्थित: सन् मार्गं अदात् इति प्रसिद्धः किल | तस्मादेवऱ् समुद्रात् रघुः समुद्र-मध्यदेश-नृपति-व्याजेन प्रार्थनां विना एव करं लेभे (करदानं च भीत्या न तु याच्ञया इति रामात् रघोः उत्कर्षः | 

अथ रघोर्जयस्तम्भस्त्रिकूटाद्रिरभूदित्याह-

मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् ।

त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः ॥ ४-५९॥

पदच्छेदः

मत्तेभ-रदनो-त्कीर्ण-व्यक्त-विक्रम-लक्षणम्,

त्रिकूटम्,  एव, तत्र, उच्चै:, जय-स्तम्भम्, चकार, सः।

अन्वयः

तत्र सः मत्तेभ-रदनो-त्कीर्ण-व्यक्त-विक्रम-लक्षणं त्रिकूटं एव

उच्चै:  जय-स्तम्भं चकार।

तात्पर्यम्

तत्र पस्चिमदिशि (केरलदेशे) सः रघुः मत्तानाम् इभानां दन्तैः क्षतानि अत एव स्फुटानि पराक्रम-चिह्नयुक्तं त्रिकूटनामकं पर्वतमेव उन्नतं जयस्तम्भम्  अकरोत् |

अथ रघोः पारसीकाञ्जेतुं प्रस्थानमाह-

पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना ।

इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी ॥ ४-६०॥

पदच्छेदः

पारसीकान् , तत:, जेतुम्, प्रतस्थे, स्थलवर्त्मना, 

बइन्द्रियाख्यान्, इव, रिपून्, तत्त्वज्ञानेन, संयमी।

अन्वयः

तत: (स: रघु:) संयमी तत्त्वज्ञानेन इन्द्रियाख्यान्  रिपून् इव

पारसीकान् जेतुं स्थलवर्त्मना प्रतस्थे।

तात्पर्यम्

यथा कश्चित् योगी इन्द्रियरूपिणः शत्रून् तत्त्वज्ञानेन जेतुं प्रयतते तथैव सः रघुरपि पारसादेशीयान् भूपतीन् जेतुं स्थलमार्गेण प्रवृत्तः |

अथ रघुर्यवनस्त्रीमुखानां मधुनो मदरागं न सेह इत्याह-

यवनीमुखपद्मानां सेहे मधुमदं न सः ।

बालातपमिवाब्जानामकालजलदोदयः  ॥ ४-६१॥

पदच्छेदः

यवनी-मुख-पद्मानाम्, सेहे, मधु-मदम्, न , सः 

बालातपम्, इव, अब्जानाम्, अकाल-जलदोदयः ।

अन्वयः

सः यवनी-मुख-पद्मानां मधु-मदं अकाल-जलदोदयः अब्जानाम्

बालातपम् इव न सेहे।

तात्पर्यम्

यथा वर्षातिरिक्तसमये मेघस्य उदयः कमलानां विकसकारी प्रातःकालीनातपं न सहते, तथैव रघुरपि पारसीक-यवनाङ्गनानां मुरवकमलानां मदिरापान-जनित-रागं न सोढवान् | (ताः पतिवियुक्ताः चक्रे |)

अथ पारसीकैः सह रघोस्तुमुलं युद्धं बभूवेत्याह-

सङ्ग्रामस्तुमुलस्तस्य पाश्चात्यैरश्वसाधनैः ।

शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥ ४-६२॥

पदच्छेदः

सङ्ग्राम:, तुमुल:, तस्य, पाश्चात्यै:, अश्वसाधनैः, 

शार्ङ्ग-कूजित-विज्ञेय-प्रतियोधे ,रजसि, अभूत् ।

अन्वयः

तस्य अश्वसाधनैः पाश्चात्यै (सह) शार्ङ्ग-कूजित-विज्ञेय-प्रतियोधे

रजसि तुमुल: सङ्ग्राम: अभूत्।

तात्पर्यम्

रघोः घोटक-सेना-बाहुलयवद्भिः पाश्चात्ययवनै: सह धनुष्टंकार- जनितशब्दै: विज्ञातुं योग्याः प्रतिभटाः यस्मिन् तस्मिन् रजसि, घोरः संग्रामः (युद्धम्) अभूत् | (रजसि उभयदलयोः स्व-पर-विज्ञानं धनुष्टंकार-जनित-शब्दैः एव विज्ञेयाः आसीत् इति घोर-सङ्ग्राम सम्पतिः |)

अथ रघुः स्वबाणाच्छिन्नैः पारसीकानां शिरोभिः पृथ्वीं छादयामासेत्याह-

भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् ।

तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ॥ ४-६३॥

पदच्छेदः

भल्लापवर्जितै:, तेषाम्, शिरोभिः, श्मश्रुलै:,महीम् 

तस्तार , सरघाव्याप्तैः, स:, क्षौद्रपटलै:, इव।

अन्वयः

स: भल्लापवर्जितै: श्मश्रुलै: तेषां शिरोभिः सरघाव्याप्तैः क्षौद्रपटलै:

इव महीं तस्तार।

तात्पर्यम्

सः रघुः प्रवृद्ध-मुरव-रोमवद्भिः पारसीकानां भल्ला नामक बाणविशेषैः कर्तितैः शिशेभिः यथा मधुमक्षिका-युक्तैः क्षौद्रसञ्जयैः (क्षुद्रभिः कृतानि क्षौद्राणि (मधूनि) क्षौद्राणां पटलानि, तैः) इव पृथ्वीं छादयामास (आच्छादितवान्)।

अथ हतावशिष्टाः पारसीका राजानस्तं रघुं शरणं ययुरित्याह-

अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः ।

प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥ ४-६४॥

पदच्छेदः

अपनीत-शिरस्त्राणाः ,शेषा:,तम् ,शरणम्, ययुः 

प्रणिपातप्रतीकारः ,संरम्भ:, हि, महात्मनाम् ।

अन्वयः

शेषा: अपनीत-शिरस्त्राणाः तं शरणं ययुः हि, महात्मनाम्

संरम्भ: प्रणिपात-प्रतीकारः (भवति)।

तात्पर्यम्

ये तु हतावशिष्टाः आसन्, ते स्व-शिरस्त्राणम् उत्तार्य रघुं शरणं गता बभूवुः | रघुनापी ते मुक्ताः। यतः महात्मानां कोपः प्रणिपातेन एव शान्तिः भवति |

अथ रघोयोंधानां विजयश्रमनिवारणार्थं

मद्यपानमाह-

विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् ।

आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥ ४-६५॥

पदच्छेदः

विनयन्ते, स्म ,तद्योधा:, मधुभि:,विजयश्रमम्, 

आस्तीर्णा-जिनरत्नासु, द्राक्षा-वलय-भूमिषु।

अन्वयः

तद्योधा: द्राक्षा-वलय-भूमिषु मधुभि: विजयश्रमम् 

विनयन्ते, स्म ।

तात्पर्यम्

 रघोः भटाः द्राक्षावलयानां भूमिषु चर्मश्रेष्ठानि आस्तीर्य द्राक्षानिर्मितमद्यं पीत्वा युद्धश्रमं दूरीकृतवन्तः | विनयन्ते स्म=अपनीतवन्त:, भूतार्थे लट् |

अथ रघोर्दिग्विजयार्थमुदीचीं 

दिशामुद्दिश्य प्रस्थानमभूदित्याह-

ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् ।

शरैरुस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव ॥ ४-६६॥

पदच्छेदः

प्रतस्थे,कौबेरीम् ,भास्वान् , इव,रघु:, दिशं,शरै:, उस्रैः,इव, उदीच्यान्, उद्धरिष्यन्, रसान्,इव।

अन्वयः

ततः रघु: भास्वान् इव शरै: उस्रै इव उदीच्यान् रसान् इव

उद्धरिष्यन् कौबेरीं दिशं प्रतस्थे।

तात्पर्यम्

पारसविजयोत्तरं यथा सूर्यः स्वतीक्ष्णकिरणैः जलानि शोषयितुं उत्तरस्यां दिशि प्रसरति (उत्तरायणकाल इत्यर्थः) तथैव रघुरपि उत्तरदेशस्थान् राज्ञः विजेतुं कौबेरीं (कुबेरसम्बन्धिनी दिशम्), उदीचीं दिशं प्रति प्रतस्थे (प्रचचाल)।

अथ उदीचीं दिशं प्रस्थितस्य रघोः 

सेनासम्बन्धिनोऽश्वान् वर्णयन्नाह-

विनीताध्वश्रमास्तस्य सिन्धुतीरविचेष्टनैः ।

दुधुवुर्वाजिनः स्कन्धांल्लग्नकुङ्कुमकेसरान् ॥ ४-६७॥

पदच्छेदः

विनीता-ध्वश्रमा-स्तस्य सिन्धु-तीर-विचेष्टनैः 

दुधुवु-र्वाजिनः ,स्कन्धां-ल्लग्न-कुङ्कुम-केसरान् ।

अन्वयः

सिन्धु-तीर-विचेष्टनैः विनीता-ध्वश्रमाः तस्य वाजिनः

लग्न-कुङ्कुम-केसरान् स्कन्धान् दुधुवुः।

तात्पर्यम्

सिन्धुनदस्य तीरे अङ्कपरिवर्तनेन(sleeping to the side and stretching) मार्गस्य खेदं दूरीकृत्य रघोः सेनाश्वाः कुङ्कुम-केसर-संसक्तिमतः स्कन्धान् कम्पयन्ति स्म। धूञ् कम्पने।

अथ रधुर्हूणान् युधि जितवानित्याह-

तत्र हूणावरोधानां भर्तृषु व्यक्तविक्रमम् ।

कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥ ४-६८॥

पदच्छेदः

तत्र, हूणा-वरोधानाम्, भर्तृषु, व्यक्त-विक्रमम् ,

कपोल-पाटलादेशि, बभूव, रघु-चेष्टितम्

अन्वयः

तत्र भर्तृषु व्यक्त-विक्रमं रघु-चेष्टितं हूणा-वरोधानां कपोल-पाटलादेशि

बभूव।

तात्पर्यम्

रघुः तत्र उदीच्यां दिशि हूणान्तःपुरस्त्रीणां स्वामिनः हत्वा स्वपराक्रमं विस्तारयन् तासां कपोलप्रदेशान् ताडनादिकृत-आरुण्यांश्चकार (कपोलपाटलादेशि)।शोक विलापे वक्षः कपोलौ च ताडयन्ति तत्रत्या: स्त्रियः |

अथ रघुः कम्बोजदेशवासिनो राज्ञोऽपि विजितवानित्याह-

काम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः ।

गजालानपरिक्लिष्टैरक्षोटैः सार्धमानताः ॥ ४-६९॥

पदच्छेदः

काम्बोजाः, समरे, सोढुम्, तस्य, वीर्यम्,अनीश्वराः 

गजालान-परिक्लिष्टै: अक्षोटैः, सार्धम्, आनताः ।

अन्वयः

काम्बोजाः समरे तस्य वीर्यं सोढुं अनीश्वराः गजालान-परिक्लिष्टैः

अक्षोटैः सार्धम् आनताः।

तात्पर्यम्

कम्बोजदेशवासिनो राजानो युद्धे रघुप्रभावं सहनं कर्तुम् असमर्थाः सन्तः | ते राजानः गजानां बन्धनेन परिक्लिष्टैः अक्षोटवृक्षैः सहैव नम्रा बभूवुः |

अथ रघवे कम्बोजाः पराजिताः सन्तोऽश्व धनादिकमुपायनं ददुरित्याह-

तेषां

तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः ।

उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम् ॥ ४-७०॥

पदच्छेदः

तेषाम्, सदश्व-भूयिष्ठा-स्तुङ्गा:, द्रविण-राशय:,

उपदा:, विविशुः, शश्वत् ,न, उत्सेकाः, कोसलेश्वरम्।

अन्वयः

तेषां सदश्व-भूयिष्ठा: तुङ्गा: द्रविण-राशय: उपदा:   कोसलेश्वरः , शश्वत्   विविशुः उत्सेकाः  न विविशुः।

तात्पर्यम्

रघुना पराजिताः कम्बोजदेशराजानः कोसलाधिपतिं रघुं स्वदेशोत्पन्न-अश्वबहुलान् उन्नत-हिरण्य-राशीन् उपहाररूपेण प्राविशन्। किन्तु तान् आप्यापि रघुः गर्वं न कृत्वान् |

अथ कम्बोजविजयानन्तरं लघोः हिमालयपर्वतारोहणमाह-

ततो गौरीगुरुं शैलमारुरोहाश्वसाधनः ।

वर्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः ॥ ४-७१॥

पदच्छेदः

तत:,गौरीगुरुम्, शैलम्, आरुरोह, अश्व-साधनः,

वर्धयन्,इव, तत्कूटान्, उद्धूतै:, धातु-रेणुभिः ।

अन्वयः

तत: अश्व-साधनः गौरीगुरुं शैलं उद्धूतै: धातु-रेणुभिः तत्कूटान् 

वर्धयन् इव आरुरोह।

तात्पर्यम्

काम्बोजविजयानन्तरं रघुः वाजिसैन्य-सहायवान् सन् उत्तरदिशि वर्तमानान् नृपतीन् विजेतुकाम: अश्वखुरोत्थापितैः धातुरेणुभिः हिमालयस्य शैलशिखराणि वर्धयन्  इव हिमाचलम् आरुरोह | उत्थापित घूलीदर्शनाद् गिरिशिखरवृद्धिभ्रमो जायत इति भावः |

अथ हिमालयपर्वतगह्वरेषु सुप्तान् सिंहान् वर्णयत्राह-

शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसंभ्रमम् ।

गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥ ४-७२॥

पदच्छेदः

शशंस, तुल्यसत्त्वानाम्, सैन्यघोषे, अपि, असंभ्रमम् ,

गुहाशयानाम् ,सिंहानाम् ,परिवृत्य, अवलोकितम् ।

अन्वयः

तुल्यसत्त्वानां गुहाशयानां सिंहानां परिवृत्य अवलोकितं सैन्यघोषे

अपि असंभ्रमं शशंस।

तात्पर्यम्

सैन्य-समान-बलशालिनो हिमालयगुहासु शयानाः  सिंहाः सेनापुरुषाणां कलकले सति अपि केवलं ग्रीवभङ्गेन एव अवलोकयन्तः स्वभयराहित्यं सूचयन्ति स्म | नहि समबलः समबलाद् बिभेति इति भावः | (तुल्यसत्वानां- सैन्यैः समानबलानाम्)।

अथ हिमालयमारोहतो रघोः पथि गङ्गाऽम्बुकणोपेतः पवनोऽववावित्याह-

भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः ।

गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे ॥ ४-७३॥

पदच्छेदः

भूर्जेषु, मर्मरीभूताः, कीचक-ध्वनि-हेतवः, 

गङ्गा-शीकरिण:, मार्गे ,मरुत:,तम्, सिषेविरे।

अन्वयः

भूर्जेषु मर्मरीभूताः कीचक-ध्वनि-हेतवः गङ्गा-शीकरिण: मरुत: मार्गे तं सिषेविरे।

तात्पर्यम्

पर्वतारोहणसमये रघोः श्रमं शुष्कभूर्जपत्रेषु मर्मरशब्दवन्तः कीचकाख्य-वेणुषु कर्णाभिरामं ध्वनिं जनयन्तः गङ्गाशीकरिण: शीतला वायवः अपनीतवन्तः |

अथ रघोः सैनिका मृगमदवासितशिलातलेषु 

मार्गश्रमापनयनार्थं निवासं चक्ररित्याह-

विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः ।

दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः ॥ ४-७४॥

पदच्छेदः

विशश्रमु:,नमेरूणाम् ,छायासु,अध्यास्य ,सैनिकाः, 

दृषदो, वासितो-त्सङ्गा:, निषण्ण-मृग-नाभिभिः।

अन्वयः

सैनिकाः नमेरूणां छायासु निषण्ण-मृग-नाभिभिः वासितो-त्सङ्गा: दृषद:

अध्यास्य विशश्रमु:।

तात्पर्यम्

रघोः सेनापुरुषैः सुरपन्नागानां छायासु कस्तूरी-मृगनाभि-प्रेदेशैः सुरभिताः तलभागेषु प्रस्तरेषु अधिष्ठाय पर्वतारोहणजनितः श्रमः दूरीकृताः |

अथ हिमवति रघोर्दीपकार्यं रात्रौ ज्योतिर्लताविशेषा एव कुर्वन्ति स्मेत्याह-

सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः।

आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः ॥ ४-७५॥

पदच्छेदः

सरला-सक्त-मातङ्ग-ग्रैवेय-स्फुरित-त्विषः

आसन्, ओषधय:, नेतु:,नक्तम्, अस्नेहदीपिकाः

अन्वयः

सरला-सक्त-मातङ्ग-ग्रैवेय-स्फुरित-त्विषः ओषधय:

नक्तमं नेतु: अस्नेहदीपिकाः आसन्।

तात्पर्यम्

हिमालयशिखरस्थस्य सैन्यसहितस्य रघोः रात्रिसमये ज्योतिर्लताविशेषा एव तैलनिरपेक्षाः प्रदीपा अभूवन्, येषां प्रभा सरलाख्यवृक्षेषु बद्धानां गजानां कण्ठशृङ्खलासु प्रतिफलिता आसीत् |

अथ रघोः सेनागजानामौन्नत्यं देवदारुस्कन्धवल्कलक्षतैः किराता

 जानन्ति स्मेत्याह-

तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः ।

गजवर्ष्म किरातेभ्यः शशंसुर्देवदारवः ॥ ४-७६॥

पदच्छेदः

तस्य, उत्सृष्ट-निवासेषु, कण्ठ-रज्जु-क्षत-त्वचः,

गज-वर्ष्म, किरातेभ्यः, शशंसु:, देवदारवः। 

अन्वयः

तस्य उत्सृष्ट-निवासेषु  कण्ठ-रज्जु-क्षत-त्वचः

देवदारवः किरातेभ्यः गज-वर्ष्म  शशंसु:।

तात्पर्यम्

रघुणा परित्यक्तेषु वासभूमि प्रदेशेषु किराताः देवदारुवृक्षेषु निबद्ध-गज-कण्ठ-बन्धनीभूत-शृङ्खला-कर्षण-कारणेन भिन्न-त्वक्षु तदीय-गजशरीर-औन्नत्यम् अजानन् (औन्नत्यम् अनुमीयत इति अर्थः। )

अथ रघोः पर्वतीयैर्म्लेच्छजातीयैः किरातादिभिः सह घोरं युद्धमभूदित्याह-

तत्र जन्यं रघोर्घोरं पर्वतीयैर्गणैरभूत् ।

नाराच-क्षेपणीयाश्मनिष्पेषोत्पतितानलम्॥ ४-७७॥

पदच्छेदः

तत्र, जन्यम्, रघो:, घोरम्, पर्वतीयै:,गणै:, अभूत् ,

नाराच-क्षेपणीया-श्म-निष्पेषो-त्पतिता-नलम्

अन्वयः

तत्र रघो: पर्वतीयै: गणै: नाराच-क्षेपणीया-श्म-निष्पेषो-त्पतिता-नलम्

घोरं जन्यं अभूत्।

तात्पर्यम्

हिमालयपर्वते रघोः उत्सवसङ्केताख्यगणैः सह भयानकं युद्धम् अभूत् | यत्र प्रयुक्तैः बाणविशेषैः (नाराचैः) भिन्दिपालैः प्रस्तरैश्च अन्योन्य संघर्षेण वह्निः उत्पन्नः अभूत् | (भीम युद्धम् अभूत्) |

अथ पर्वतीयगणाविजयिनो रघोर्यशोगानं तत्र किन्नरगणाश्चक्रुरित्याह-

शरैरुत्सवसंकेतान्स कृत्वा विरतोत्सवान् ।

जयोदाहरणं बाह्वोर्गापयामास किन्नरान् ॥ ४-७८॥

पदच्छेदः

शरै:,उत्सव-संकेतान्, स:,  कृत्वा, विरत-उत्सवान्,

जय-उदाहरणम् ,बाह्वो:,गापयामास, किन्नरान् ।

अन्वयः

स: शरै: उत्सव-संकेतान् विरत-उत्सवान् कृत्वा बाह्वो: जय-उदाहरणम्

किन्नरान् गापयामास।

तात्पर्यम्

रघुः उत्सवसङ्केताख्यान् गणान् विजित्य हतहर्षाश्च तान् कृत्वा स्वविजयख्यापकं प्रबन्धं गन्धर्वान् गापयामास | (गानं कारयामास)।

अथ पराजितानां पर्वतीयगणानां रघवे उपहारस्वरूपमणिगणाद्यर्पणमाह-

परस्परेण विज्ञातस्तेषूपायनपाणिषु ।

राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ॥ ४-७९

पदच्छेदः

परस्परेण, विज्ञात:, तेषु, उपायन-पाणिषु,

राज्ञा, हिमवतः, सार:, राज्ञ:, सार:, हिमाद्रिणा।

अन्वयः

तेषु उपायन-पाणिषु परस्परेण  राज्ञा हिमवतः सार: हिमाद्रिणा

(च) राज्ञ: सार: विज्ञात:।

तात्पर्यम्

यदा पराभूताः उत्सवसङ्केताख्यगणाः हस्तेषु उपायनानि आदाय रघो: सम्मुखमागताः, तदा रघुणा हिमालयस्य घनरूपा समृद्धिः विज्ञाता | हिमवता अपि युद्धक्रियया रघोः बलं विज्ञातम्।

अथ रघुरग्रे कैलासपर्वतमगत्वैव हिमालयशिखरादवततारेत्याह-

तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोह सः ।

पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियम् ॥ ४-८०॥

पदच्छेदः

तत्र, अक्षोभ्यम्, यशो-राशिम्, निवेश्य, अवरुरोह, सः,

पौलस्त्य-तुलितस्य,अद्रे:,आदधान:, इव, ह्रियम्।

अन्वयः

सः तत्र अक्षोभ्यं यशो-राशिं निवेश्य पौलस्त्य-तुलितस्य

अद्रे: ह्रियम् आदधान: इव अवरुरोह।

तात्पर्यम्

सः रघुः तत्र हिमाद्रौ स्थिरं यशोराशिं संस्थापय, रावणेन उत्थापितः अयम् इति विन्दाविचारेण कैलाससमीपम् अगत्वा एव प्रतनिवृत्तः | तेन च कैलासस्य ह्रीः इव उत्पादिता | (कैलासस्य लज्जां जनयन्निव अवततार )नहि शूरा: परेण पराजितम् अभियुज्यन्त इति भाव:।

अथ कामरूपाधिपती रघोर्भयेन कम्पितवानित्याह-

चकम्पे तीर्णलौहित्ये तस्मिन्प्राग्ज्योतिषेश्वरः ।

तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः ॥ ४-८१॥

पदच्छेदः

चकम्पे, तीर्ण-लौहित्ये, तस्मिन्, प्राग्ज्योतिषेश्वरः,

तद्गजा-आलानताम्, प्राप्तैः, सह, कालागुरुद्रुमैः

अन्वयः

तस्मिन् तीर्ण-लौहित्ये (सति) प्राग्ज्योतिषेश्वरः तद्गजा-आलानतां

प्राप्तैः कालागुरुद्रुमैः सह चकम्पे।

तात्पर्यम्

हिमाद्रिविजयानन्तरं लोहिताख्यानदीम् उत्तीर्णेन रघुणा कामरूपाधिपति हृदये तथैव कम्पः कृतः यथा तस्य गजै: स्वबन्धनस्तम्भतां नीतेषु कालागुरुद्रुमेषु | 

अथ कामरूपाधिपो रघो रथमार्गधूलिं दृष्ट्वैव भीतः सन् तेन सह युद्धं न कृतवानित्याह-

न प्रसेहे स रुद्धार्कमधारावर्षदुर्दिनम् ।

रथवर्त्मरजोऽप्यस्य कुत एव पताकिनीम् ॥ ४-८२॥

पदच्छेदः

न, प्रसेहे, स:, रुद्धार्कम्, अ-धारावर्ष-दुर्दिनम् रथवर्त्म-रज:, अपि, अस्य, कुत:, एव ,पताकिनीम्।

अन्वयः

स: रुद्धार्कम् अ-धारावर्ष-दुर्दिनम् अस्य रथवर्त्म-रज: अपि न प्रसेहे

पताकिनीं (तु) कुत: एव ।

तात्पर्यम्

कामरूपदेशाधिपतिः सूर्यमण्डलस्य आवरणकारिणीं वृष्टिं विना दुर्दिवसं कुर्वतीं रघुसेनाधूलिम् अपि दूरतः दृष्ट्वा न सहनं चकार | भीतः इत्यर्थः | सेनां तु कुत एव सोढवान् ! (न कुतोऽपि इत्यर्थः) |  

अथ कामरूपाधिपो गजरात्नमुपायनीकृत्य रघोः शरणागतो बभूवेत्याह-

तमीशः कामरूपाणामत्याखण्डलविक्रमम् ।

भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः ॥ ४-८३॥

पदच्छेदः

तम्, ईशः, कामरूपाणाम् अत्याखण्डल-विक्रमम् ,

भेजे, भिन्न-कटै:,नागै:, अन्यान्, उपरुरोध, यै:।

अन्वयः

कामरूपाणां ईशः अत्याखण्डल-विक्रमं तं भिन्न-कटै: नागै:

भेजे यैः अन्यान् उपरुरोध।

तात्पर्यम्

कामरूपदेशाधिपतिः इन्द्राधिकपराक्रमं रघुं तान् गजान् उपायनीकृत्य शरणं गतः, यैः पूर्वम् अन्यशत्रून् जितवान् |  यैः नागैः अन्यान् शत्रून् जितवान् तान् नागान् दत्त्वा शरणं गत इत्यर्थः | शूराणामपि शूरः रघुः इति भावः | 

अथ कामरुपेश्वरो रघोः पादयोर्निपत्य रत्नान्युपायनीकृतवानित्याह-

कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् ।

रत्नपुष्पोपहारेण छायामानर्च पादयोः ॥ ४-८४॥

पदच्छेदः

कामरूपेश्वर:, तस्य, हेम-पीठ-अधिदेवताम्,रत्न-पुष्प-उपहारेण,

 छायाम्, आनर्च, पादयोः।

अन्वयः

कामरूपेश्वर: हेम-पीठ-अधिदेवतां तस्य पादयोः छायां  रत्न-पुष्प-उपहारेण आनर्च।

तात्पर्यम्

कामरूपाधिपतिः सुवर्णसिंहासनस्य अधिष्ठात्रीं रघोः पादयोः रत्नरूपैः पुष्पैः पूजयामास | (समर्पणभावम्)

अथ रघुः सर्वा दिशो जित्वा दिग्विजयन्निवृत्तोऽभूदित्याह-

इति जित्वा दिशो जिष्णुर्न्यवर्तत रथोद्धतम् ।

रजो विश्रामयन्राज्ञां छत्रशून्येषु मौलिषु ॥ ४-८५॥

पदच्छेदः

इति, जित्वा, दिश:, जिष्णु:, र्न्यवर्तत, रथोद्धतम्, 

रज:, विश्रामयन्, राज्ञां, छत्र-शून्येषु, मौलिषु।

अन्वयः

जिष्णु: इति दिश: जित्वा रथोद्धतं रज: मौलिषु विश्रामयन् र्न्यवर्तत।

तात्पर्यम्

एवं जयशीलः रघुः सर्वाअपि देशो विजित्य पराजितेषु छत्ररहितराजानां किरीटेषु निजसेनोत्थापितां धूलिं सङ्क्रामयन् दिग्विजयान्निवृत्त:।रघो:  एकच्छत्रकत्वादितिभाव:।

अथ रघुर्विश्वजितं यज्ञं कृतवानित्याह-

स विश्वजितमाजह्रे यज्ञं सर्वस्वदक्षिणम् ।

आदानं हि विसर्गाय सतां वारिमुचामिव ॥ ४-८६॥

पदच्छेदः

स: विश्वजितम्, आजह्रे, यज्ञम्, सर्वस्व-दक्षिणम् ,

आदानम्, हि, विसर्गाय, सताम्, वारि-मुचाम् इव। 

अन्वयः

स: सर्वस्व-दक्षिणं विश्वजितं आजह्रे, हि सतां वारि-मुचाम् इव

आदानम् विसर्गाय( भवतीति शेष:)।

तात्पर्यम्

दिग्विजयानन्तरं रघुः विश्वजिन्नामकं यज्ञं कर्तुमारभे, यतः यथा मेघाः समुद्रजलम् आदाय तद्वर्षणेन विश्वहितं कुर्वन्ति तथैव सज्जनानामपि द्रव्यसञ्जयः (ग्रहणं) परहितायैव भवति। (त्यागाय भवति इति भावः | पात्रविनियोगाय इति अर्थः) |

अथ यज्ञान्ते स्वनिदेशायत्तीकृतेभ्यो नृपेभ्यो निजनिजगृहगमनाय रघुराज्ञां ददातीत्याह- 

सत्रान्ते सचिवसखः पुरस्क्रियाभि-

र्गुर्वीभिः शमितपराजयव्यलीकान् ।

काकुत्स्थश्चिरविरहोत्सुकावरोधान्

राजन्यान्स्वपुरनिवृत्तयेऽनुमेने ॥ ४-८७॥

पदच्छेदः

सत्रान्ते, सचिव-सखः, पुरस्क्रियाभि:,गुर्वीभिः,

शमित-पराजय-व्यलीकान्,काकुत्स्थ:, चिर-विरह-उत्सुक-अवरोधान्,राजन्यान्,

स्वपुर-निवृत्तये अनुमेने ।

अन्वयः

काकुत्स्थ: सत्रान्ते सचिव-सखः (सन्) गुर्वीभिः पुरस्क्रियाभि:

शमित-पराजय-व्यलीकान् चिर-विरह-उत्सुक-अवरोधान् राजन्यान्

स्वपुर-निवृत्तये अनुमेने।

तात्पर्यम्

काकुस्थः रघुः विश्वजिन्नामकयज्ञानन्तरम् अमात्यानाम् अनुमत्या पराजयेन खिन्नान् विरहितान्तःपुरान् राज्ञः पुरस्कारदिना विशेषसम्मानितान् कृत्वा स्वनगरगमनं प्रति अनुमतिं ददौ | अनुज्ञातवान् |

अथ स्वपुरं प्रति गमनाय प्राप्तानुज्ञानां राज्ञां प्रयाणकाले रघोः पादयोः प्रणिपतनमाह-

ते रेखाध्वजकुलिशातपत्रचिह्नं

सम्राजश्चरणयुगं प्रसादलभ्यम् ।

प्रस्थानप्रणतिभिरङ्गुलीषु चक्रु-

र्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥ ४-८८॥

पदच्छेदः

ते, रेखा-ध्वज-कुलिशातपत्र-चिह्नम्,

सम्राज:,चरणयुगम्, प्रसादलभ्यम्,

प्रस्थान-प्रणतिभि:, अङ्गुलीषु, चक्रु:

मौलि-स्रक्- च्युत-मकरन्द-रेणु-गौरम्।

अन्वयः

ते रेखा-ध्वज-कुलिशातपत्र-चिह्नम् प्रसादलभ्यम्

सम्राज: चरणयुगं प्रस्थान-प्रणतिभि: अङ्गुलीषु

मौलि-स्रक्- च्युत-मकरन्द-रेणु-गौरम् चक्रु:।

तात्पर्यम्

यज्ञावसाने लब्धगृहगमनानुमतयोः राजानः प्रस्थानकालिकप्रणतिभिः (प्रयाणकालसमये याः नमस्कारा: ताभिः) रघोः चरणयुगलं पस्पृशु:, तदा च तेषां मुकुटस्थमालाभ्यः निपातितैः च्युतपुष्परसैः परागैः च रघुपादाङ्गुल्यः गौरवर्णाः सञ्जाताः |  

इति कालिदासकृतरघुवंशे महाकाव्ये रघुदिग्विजयो नाम चतुर्थः सर्गः।

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ

रघुदिग्विजयो नाम चतुर्थः सर्गः ॥

————————————————————————————————————————————————————

3 thoughts on “Raghuvamsham – Sarga 4

  1. Dear ma’am
    Namaskaram .This website is very useful.Iam vasanthalashmi from Hyderabad. Iam learning sanskrit through sanskritbharathi. can I get Raghuvamsham eighth Sarga notes.i can read only four sargas here
    dhanyavadah

    Like

  2. Dear Madam,
    Your highly selfless ,benevolent gesture at sharing this everlasting text through your knowledgeable teaching is not explicable by mere words. I am extremely grateful to you for sharing very valuable teachings for aspiring learners like me. Please let me have such detailed notes on all other sargas of Raghuvamsham. I know what I am requesting is not an easy task, but not impossible for dedicated & accomplished learned persons like you. Thanks for allowing me to express my gratitude.

    Thanks & regards
    Dr Ravishankar R

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s