Sukti – Let Noble Thoughts come to us…

Let noble thoughts come to us from every side!

सूक्तिः  – आ नो भद्रा: क्रतवो यन्तु विश्वत:

पदच्छेदः – आ नः भद्रा: क्रतवः यन्तु विश्वत:

अन्वयः – भद्राः क्रतवः विश्वतः नः आयन्तु ।

अर्थः – शुभविचाराः सर्वतः / सर्वात् विश्वात् अस्माकम् समीपे आगच्छन्तु । विश्वे यः कोऽपि मङ्गलमयः विचारः वर्तते, सः अस्माकम् समीपे आगच्छतु, वयं तं स्वीकृत्य शुद्धाः पवित्राः च भवितुम् इच्छामः – इति आशयः ।

अन्वयक्रमः

  • आयन्तु
    • कुतः ? विश्वतः
    • के ? क्रतवः
      • कीदृशाः ते ? भद्राः
    • कुत्र ? नः (अस्माकं समीपे)

पदपरिचयः

  • भद्राः क्रतवः = शुभविचाराः ।
    • भद्र = शुभम्, मङ्गलम् । पुल्लिन्गबहुवचने भद्राः|
    • क्रतु = इच्छा, चिन्तनम्, विचारः । बहुवचने क्रतवः |
  • विश्वतः = विश्वात् |
  • नः = अस्मान् (इत्युक्ते अस्माकं समीपे)
  • आयन्तु = आगच्छन्तु
    • यन्तु = गच्छन्तु ।”इण् गतौ” इत्यस्य लोट्लकारस्य प्रथमपुरुषबहुवचनम् ।
    • “आ” इति उपसर्गः, अस्य अन्वयः “यन्तु” अनेन सह कर्तव्यः । “व्यवहिताश्च” 1.4.82 अनेन पाणिनिसूत्रेण वेदेषु उपसर्ग-धातोः मध्ये व्यवधानं (obstruction) द्रष्टुं शक्यते ।

 

Advertisements

One thought on “Sukti – Let Noble Thoughts come to us…

  1. Beautiful Sookti. So much filled in such a short sentence. We need to pray God to give us that broad-mindedness to be able to keep our hearts open to receive good things from any corner of the world or from a person of any age group – be it a child or an aged person. We need to have the wisdom to recognise that goodness!
    Namaste n dhanyavaadaH.

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s