Paripaalayamaam Sri Padmanaabha – Swathi Tirunaal kriti

Paripaalaya maam – Swathi Tirunaal – Reeti gowlai – Roopakam

परिपालय माम् इति स्वातितिरुणाल्महाराजस्य एका संस्कृतकृतिः |

पल्लवि

परिपालय मां श्रीपद्मनाभ मुरारे

(हे) श्रीपद्मनाभ | (हे) मुरारे |  (त्वं) मां परिपालय |
त्वं मां रक्षतु इति अर्थः |

अनुपल्लवि

शरणागत-भरणोत्सुक शारद-सोम-समानन विरिञ्चि-सुरेश्वर-सेव्य

(हे) शरणागत-भरणोत्सुक | (हे) शारद-सोम-समानन | (हे) विरिञ्चि-सुरेश्वर-सेव्य | (मां परिपालय) |
  • शरणागत-भरणोत्सुकः
    • भरणं = रक्षणं , पालनपोषणे च ।
    • शरणागतभरणम् = शरणागतानां भरणम् |
    • शरणागत-भरणोत्सुकः = शरणागतभरणम्,  तस्मिन् वा तस्य वा उत्सुकः ।
  • शारदसोमसमाननः
    • शरत् = शरद् ऋतुः  |
    • शारदसोमः  = शरदृतौ सोमः |
    • शारदसोमसमाननः = शारदसोमेन समः आननः यस्य सः |
  • विरिञ्चि-सुरेश्वर-सेव्यः
    • विरिञ्चिः = ब्रह्मा
    • सुरेश्वरः = इन्द्रः
    • विरिञ्चिसुरेश्वरसेव्यः = विरिञ्चिना सुरेश्वरेण च सेव्यः ।

चरणम्

तामरसायतलोचन चारुतनो धरणीधरधर वनधामविराजित दारुणदनुभवघनविपिनदहन

(हे) तामरसायतलोचन | (हे) चारुतनो | (हे) धरणीधरधर | (हे) वनधामविराजित | (हे) दारुणदनुभव-घनविपिनदहन | (मां परिपालय) |
  • तामरसायतलोचनः
    • तामरसम् = कमलम् |
    • आयत = दीर्घ (विशेषणपदम्) |
    • तामरसायतलोचनः = तामरसे इव आयतलोचने यस्य सः |
  • चारुतनुः
    • चारुतनुः = चारु तनुः यस्य सः |
  • धरणीधरधरः
    • धरणीधरः = धरणीं धरति = पर्वतः |
    • धरणीधरधरः  = धरणीधरं धरति  |
  • वनधामविराजितः
    • वनं चासौ धाम च = वनधाम |
    • वनधामविराजितः = वनधाम्नि विराजितः |
  • दारुणदनुभव-घनविपिनदहनः
    • दारुणदनुभवाः = दारुणाः दनुभवाः  = क्रूराः असुराः |
    • घनविपिनम् = घनं चासौ विपिनं च |
    • घनविपिनदहनः  = घनविपिनस्य दहनः |
    • दारुणदनुभव-घनविपिनदहनः = दारुणदनुभवानां घनविपिनदहनः नाशकः |

दानमतङ्गजचारुविलासगते तपनीयवसन मुनिमानसतामरसालय मणिमयमकुटपरिलसित

(हे) दानमतङ्गज-चारु-विलास-गते | (हे) तपनीय-वसन | (हे) मुनि-मानस-तामरसालय | (हे) मणिमय-मकुट-परिलसित |(मां परिपालय) |

  • दानमतङ्गज-चारु-विलास-गतिः
    • दानम् = rut-fluid which flows from an elephant’s temples
    • दानमतङ्गजः = a furious elephant (emitting rut-fluid)  दानसहितमतङ्गजः or दानयुतमतङ्गजः  (मध्यमपदलोपी-समासः)
    • दानमतङ्गजचारुविलासगतिः = दानमतङ्गजस्य इव चारुविलासः गतिः यस्य सः ।
  • तपनीय-वसनः
    • तपनीय-वसनः = तपनीयं वसनं यस्य सः |
  • मुनि-मानस-तामरसालयः
    • मानस-तामरसम् = हृदय-कमलम् |
    • मुनि-मानस-तामरसम् = मुनीनां मानसतामरसम्
    • मुनि-मानस-तामरसालयः = मुनीनां मानसतामरसमेव आलयः यस्य सः ।
  • मणिमय-मकुट-परिलसितः
    • परिलसितः = प्रकाशितः अथवा प्रकाशते इत्यर्थः |
    • मणिमयमकुटपरिलसितः = मणिमयेन मकुटेन परिलसितः |

नीलघनोपमसुन्दरदेहरुचे निखिलामरभयहर शैलसुताधवसन्नुत शमय मम सकलगदमिह

(हे) नीलघनोपमसुन्दरदेहरुचे | (हे) निखिलामरभयहर  | (हे) शैलसुताधवसन्नुत | मम सकल-गदम् इह (त्वं) शमय|
  • नीलघनोपमसुन्दरदेहरुचिः
    • नीलघनः  = नीलः च असौ घनः = नीलमेघः
    • सुन्दरदेहः = सुन्दरः च असौ देहः
    • सुन्दरदेहरुचिः = सुन्दरदेहस्य रुचिः = सुन्दरदेहकान्तिः
    • नीलघनोपमसुन्दरदेहरुचिः = नीलघनस्य उपमा सुन्दरदेहरुचिः यस्य सः ।
  • निखिलामरभयहरः
    • निखिलानाम् समस्तानां अमराणां भयं हरति इति निखिलामरभयहरः ।
  • शैलसुताधवसन्नुतः
    • शैलसुता = पार्वती |
    • शैलसुताधवः = शङ्करः (माधववत्) |
    • शैलसुताधवसन्नुतः  = शैलसुताधवेन सन्नुतः वन्दितः |
  • गदः = रोगः |
  • इह = अत्र |
  • शमय = शम् [शमुँ उपशमे] लोट्लकारः मद्यमपुरुषः, लट्लकारे शामयति | शान्तिं कुरु इति अर्थः |

Thanks to Sri V. Anand for the above explanation.

(हे) श्रीपद्मनाभ | (हे) मुरारे | (त्वं) मां परिपालय |
You protect परिपालय me माम्, O Shree Padmanaabha (श्रीपद्मनाभ), O Murari (मुरारि) |

(हे) शरणागत-भरणोत्सुक | (हे) शारद-सोम-समानन | (हे) विरिञ्चि-सुरेश्वर-सेव्य | (मां परिपालय) |
O one who is eager (उत्सुक) in protecting (भरण) those who came seeking refuge (शरण-आगत) | O one whose face (आनन) is similar (सम) to the autumnal moon, (शारद-सोम) | O one who deserves to be served (सेव्य) by Brahma (विरिञ्चि) and Indra, the Lord of the Devas (सुर-ईश्वर) | You protect me |

(हे) तामरसायतलोचन | (हे) चारुतनो | (हे) धरणीधरधर | (हे) वनधामविराजित | (हे) दारुणदनुभव-घनविपिनदहन | (मां परिपालय) | O one whose lengthy (आयत) eyes (लोचन) are like the lotus (तामरस) ! O one having an attractive (चारु) body (तनु) ! O one who supported (धर) the Mandara mountain, which holds (धर) the earth (धरणी)! O one who shone brightly (विराजित) in the forest abode (वन-धाम) !  O one who is like the destroying fire (दहन) of the dense forest (घन-विपिन) for the cruel (दारुण) Asuras, born of Kashyapa’s wife Dhanu (दनु-भव) ! You protect me |

References

http://www.sangeetasudha.org/othercomposers/swati5.html – meaning in English by Sri Damodara Rao Dasu

 

 

 

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s