Ramayana Shlokas with Anvaya for KSOU MA
For KSOU MA second year students, some selected verses, from Sundarakandam of Valmiki Ramayanam until Canto 22, are listed here along with anvaya. The main source is ValmikiRamayan.net. Changes and correction have been done where required. A reference to the year and question number is also mentioned in this format [2010.01]. Refer other posts in this blog with more details and additional shlokas. https://nivedita2015.wordpress.com/2015/09/29/valmiki-ramayana-sundarakandam-selected-verses-till-sarga-21/
५-१-१ ततो रावणनीतायाः सीतायाः शत्रुकर्शनः
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः | इयेष पदमन्वेष्टुं चारणाचरिते पथि ||५-१-१
तत: शत्रुकर्शनः रावण-नीतायाः सीतायाः पदम् अन्वेष्टुं चारणाचरिते पथि इयेष |
[Samkshepa 1]
५-१-१८ स महासत्त्वसंनादः
स महासत्त्वसंनादः शैलपीडानिमित्तजः | पृथिवीं पूरयामास दिशश्चोपवनानि च ||५-१-१८
स: शैल+पीडा+निमित्तजः महा+सत्त्व+संनादः पृथिवीं दिशः च उपवनानि च पूरयामास |
2010.01
५-१-३३ आनुपूर्व्येण वृत्तं च
आनुपूर्व्येण वृत्तं च लाङ्गूलं लोमभिश्चितम् | उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ||५-१-३३
उत्पतिष्यन् (सः), आनुपूर्व्येण वृत्तं, लोमभि: चितं च, लाङ्गूलं, पक्षिराज: उरगम् इव, विचिक्षेप |
2011.01
५-१-३९ यथा राघवनिर्मुक्तश्शरः
यथा राघवनिर्मुक्तश्शरः श्वसनविक्रमः | गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् || ५-१-३९
यथा राघव+निर्मुक्तः श्वसन+विक्रमः शरः गच्छेत् तद्वत् रावण+पालितां लङ्कां गमिष्यामि ||
[samkshepa 2]
५-१-४७ ऊरुवेगोद्धता
ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः |प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः || ५-१-४७
ऊरु+वेग+उद्धता: वृक्षा: कपिं मुहूर्तम् अन्वयुः | दीर्घमध्वानं प्रस्थितं स्वबन्धुं बान्धवाः इव |
2008.01, [Dushyant]
५-१-५७ पिबन्निव बभौ
पिबन्निव बभौ चापि सोर्मिमालं महार्णवम् || ५-१-५७ पिपासुरिव चाकाशं ददृशे स महाकपिः |
स: महाकपिः, स+ऊर्मि+मालं महा+आर्णवम्, पिबन् इव, बभौ च | आकाशं पिपासु: इव अपि च ददृशे |
2011.02
५-१-६१ लाङ्गूलं च
लाङ्गूलश्च समाविद्धं प्लवमानस्य शोभते ||५-१-६१अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः |
अम्बरे प्लवमानस्य, वायुपुत्रस्य, समाविद्धं, लाङ्गूलं, उच्छ्रितः शक्र+ध्वजः इव, शोभते च |
2012.1
५-१-१०६ जातरूपमयैः
जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयंप्रभैः || ५-१-१०६ आदित्यशतसङ्काशः सोऽभवद्गिरिसत्तमः|
स: गिरिसत्तमः, जातरूपमयैः, स्वयं+प्रभैः भ्राजमानैः, शृङ्गैः, आदित्य+शत+सङ्काशः अभवत् |
2012.2
५-१-१६९ प्रविष्टोऽस्मि हि ते
प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते |गमिष्ये यत्र वैदेही सत्यश्चासीद्वरस्तव || ५-१-१६९
दाक्षायणि | ते वक्त्रं प्रविष्टः अस्मि हि | ते नमः अस्तु | यत्र वैदेही (तत्र अहं) गमिष्ये | तव वर: सत्यं आसीत् च |
2007.01 [ Nochur ]
५-१-१९८ यस्य त्वेतानि चत्वारि
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव || ५-१-१९८ स्मृतिर्धृतिर्मतिर्दाक्ष्यं (\धृतिर्दृष्टिर्मतिर्दाक्ष्यं) स कर्मसु न सीदति |
वानरेन्द्र | यस्य धृति: दृष्टि: मति: दाक्ष्यं इति एतानि चत्वारि (सन्ति) यथा तव (सन्ति), स: कर्मसु न सीदति |
[2013.01]
५-२-५ स तु वीर्यवतां श्रेष्ठः
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः | जगाम वेगवाल्लँङ्कां लङ्घयित्वा महोदधिम् || ५-२-५
वीर्यवतां श्रेष्ठः, प्लवतां अपि उत्तमः च, वेगवान् स: तु, महा+उदधिं लङ्घयित्वा, लङ्कां जगाम |
2010.02
५-२-२७ न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि
आगत्यापीह हरयो भविष्यन्ति निरर्थकाः | न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि || ५-२-२७
इह आगत्यापी, हरयः, निरर्थकाः भविष्यन्ति | सुरैः अपि युद्धेन वै लङ्का जेतुं न शक्या हि |
2014.14 [Dushyant]
५-३-३३ द्रक्ष्यामि नगरीं लङ्काम्
द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम् | इत्यर्थमिह सम्प्राप्तः परं कौतूहलं हि मे || ५-३-३३
साट्ट+प्राकार+तोरणां नगरीं लङ्कां द्रक्ष्यामि इत्यर्थम् इह सम्प्राप्तः | मे परं कौतूहलं हि |
2010.03 [Nochur]
५-३-४५ अहं तु नगरी लङ्का
अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम || ५-३-४५ निर्जिताहं त्वया वीर विक्रमेण महाबल |
प्लवङ्गम | अहं तु स्वयं एव लङ्का नगरी | वीर | महाबल | अहं विक्रमेण त्वया निर्जिता |
2007.02
५-४-२ प्रविश्य नगरीं लङ्काम्
प्रविश्य नगरीं लङ्कां कपिराजहितम्करः || ५-४-२ चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि |
सः कपि+राज+हितम्करः, लङ्कां नगरीं प्रविश्य, अथ, सव्यं पादं तु, शत्रूणां मूर्धनि, चक्रे |
2009.01 [Dushyant] [Nochur] [samkshepa 3]
५-५-१० मत्तप्रमत्तानि समाकुलानि
मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसङ्कुलानि | वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि || ५-५-१०
सः वीरः धीमान् कपिः, मत्तप्रमत्तानि समाकुलानि रथ+अश्व+भद्र+आसन+सङ्कुलानि, श्रिया च अपि समाकुलानि, कुलानि, ददर्श |
2012.4
५-६-१६ गृहाद् गृहं राक्षसानाम्
गृहाद्गृहम् राक्षसानामुद्यानानि च वानरः | वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः || ५-६-१६
सः असंत्रस्तः वानरः, राक्षसानाम् गृहात् गृहम्, उद्यानानि च, प्रासादान् च, वीक्षमाण: हि, चचार |
2008.02
५-१०-५४ आश्पोटयामास
आश्पोटयामास चुचुम्ब पुच्छम् | ननन्द चिक्रीड जगौ जगाम |
स्तम्भान् अरोहन् निपपात भूमौ | निदर्शयन् स्वां प्रकृतिं कपीनाम् || ५-१०-५४
आश्पोटयामास | पुच्छम् चुचुम्ब | ननन्द | चिक्रीड | जगौ जगाम | कपीनाम् स्वां प्रकृतिं निदर्शयन्, स्तम्भान् अरोहन्, भूमौ निपपात |
2011.04 [Nochur]
५-११-२, ५-११-३ न रामेण वियुक्ता सा
न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी || ५-११-२ न भोक्तुं नाप्यलङ्कर्तुं न पानमुपसेवितुम् |
नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् | न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि || ५-११-३
अन्येयमिति निश्चित्य पानभूमौ चचार सः |
रामेण वियुक्ता, भामिनी, सा, स्वप्तुम् न अर्हति, न भोक्तुं, न अपि अलङ्कर्तुं, न पानम् उपसेवितुम् | सुराणाम् ईश्वरम् अपि च, अन्यं नरम् उपस्थातुं न (अर्हति) | त्रिदशेषु अपि रामसमः कश्चित् न हि विद्यते | इयम् अन्या इति निश्चित्य, पानभूमौ, सः चचार |
2014.02
५-११-४३ मनो हि हेतुः
मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने || ५-११-४३ शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् |
शुभ+अशुभासु अवस्थासु सर्वेषाम् इन्द्रियाणाम् प्रवर्तने मनः हि हेतुः | तत् च मे (मनः) सुव्यवस्थितम् |
2007.03 [Nochur]
५-१२-६ वृथा जातो मम श्रमः
दृष्टम् अन्तःपुरम् सर्वम् दृष्ट्वा रावण योषितः | न सीता दृश्यते साध्वी वृथा जातो मम श्रमः || ५-१२-६
अन्तःपुरम् सर्वं दृष्टम् | रावण-योषितः दृष्ट्वा साध्वी सीता न दृश्यते | मम श्रमः वृथा जातः |
[Samkshepa 4]
५-१२-१६ स विचचार महा कपिः
प्रविशन् निष्पतमः च अपि प्रपतन्न् उत्पतन्न् अपि |सर्वमप्यवकाशं स विचचार महाकपिः || ५-१२-१६
प्रविशन्, निष्पतमः च अपि, प्रपतन्न्, उत्पतन्न् अपि, सः महाकपिः सर्वम् अपि अवकाशम् विचचार || [samkshepa 5]
५-१३-१२ अदुष्टा दुष्ट भावाभिः
अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा || ५-१३-१२ अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति |
अथवा, असित+ईक्षणा, अदुष्टा, सा, दुष्ट+भावाभि:, राक्षस+इन्द्रस्य पत्नीभि:, भक्षिता भविष्यति |
2009.02 Part 1
५-१३-१३ सम्पूर्णचन्द्रप्रतिमम्
सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् || ५-१३-१३ रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता |
सम्पूर्ण+चन्द्र+प्रतिमं पद्म+पत्र+निभ+ईक्षणं, रामस्य वक्त्रं ध्यायती, कृपणा, पञ्चत्वं गता |
2009.02. Part 2
५-१३-१८ निवेद्यमाने दोषः
निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने || ५-१३-१८ कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे |
निवेद्यमाने दोषः स्यात् | अनिवेदने दोषः स्यात् | कथं नु खलु कर्तव्यम् ? मे विषमं प्रतिभाति |
2008.03
५-१३-५५ न हि इयम् विचिता मया
अशोक वनिकाचेयं दृश्यते या महाद्रुमा (\अशोकवनिका च अपि महती इयम् महा द्रुमा) || ५-१३-५५ इमाम् अभिगमिष्यामि न हीयम् विचिता मया |
महती महाद्रुमा च अपि इयम् अशोकवनिका | इमाम् अभिगमिष्यामि | इयम् मया न हि विचिता |
[Samkshepa 6]
५-१४-११ पुष्पावकीर्णः शुशुभे
पुष्पावकीर्णः शुशुभे हनुमान् मारुतात्मजः | अशोकवनिकामध्ये यथा पुष्पमयो गिरिः || ५-१४-११
यथा पुष्पमयः गिरिः, पुष्प+अवकीर्णः, मारुत+आत्मजः, हनुमान्, अशोक+वनिका+मध्ये, शुशुभे |
2009.03
५-१५-१८ ततो मलिनसम्वीताम्
ततो मलिनसम्वीतां राक्षसीभिः समावृताम् || ५-१५-१८ उपवासकृशां दीनां निःस्वसन्तीं पुनः पुनः |
ततः मलिन+सम्वीतां, राक्षसीभिः समावृताम्, उपवास+कृशाम्, दीनाम्, पुनः पुनः निःस्वसन्तीं (ददर्श) |
[Nochur] [Samkshepa 7]
५-१५-१९ ददर्श शुक्लपक्षादौ
ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् || ५-१५-१९
शुक्ल+पक्ष+आदौ, अमलां चन्द्र+रेखाम्, इव, ददर्श |
[Nochur] [Samkshepa 8 ]
५-१५-२६ तां समीक्ष्य विशालाक्षीमधिकम्
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् || ५-१५-२६ तर्कयामास सीतेति कारणैरुपपादिभिः |
विशाल+अक्षीम्, अधिकं मलिनां, कृशां, ताम्, समीक्ष्य, उपपादिभिः कारणैः, सीता इति तर्कयामास |
[ Samkshepa 9]
५-१५-५२ अस्या देव्या मनः तस्मिन्
अस्या देव्या मनः तस्मिन् मनः तस्य च अस्याम् प्रतिष्ठितम् | तेन इयम् स च धर्म आत्मा मुहूर्तम् अपि जीवति || ५-१५-५२
अस्या देव्या मनः तस्मिन् मनः तस्य च अस्याम् प्रतिष्ठितम् | तेन इयम् स च धर्म आत्मा मुहूर्तम् अपि जीवति |
[Nochur] [Samkshepa 10]
५-१५-५४ जगाम मनसा रामम्
एवम् सीताम् तदा दृष्ट्वा हृष्टः पवन सम्भवः | जगाम मनसा रामम् प्रशशंस च तम् प्रभुम् || ५-१५-५४
तदा एवम् सीताम् दृष्ट्वा हृष्टः पवनसम्भवः तम् प्रभुम् रामम् मनसा जगाम, प्रशशंस च |
[Samkshepa 11]
५-१६-१८ धर्मज्ञस्य कृतज्ञस्य
धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः | इयं सा दयिता भार्या राक्षसीवशमागता || ५-१६-१८
इयम्, सा, धर्मज्ञस्य कृतज्ञस्य विदित+आत्मनः रामस्य दयिता भार्या, राक्षसी वशम् आगता |
2007.04
५-१६-२६ भर्ता नाम परम्
भर्ता नाम परं नार्या भूषणं भूषणादपि | एषा हि रहिता तेन शोभनार्हा (\भूषणार्हा) न शोभते || ५-१६-२६
भूषणात् अपि नार्याः परं भूषणं भर्ता नाम | तेन रहिता, शोभन+अर्हा हि, एषा, न शोभते |
2009.04, 2010.04, 2012.03
५-१९-१४ पद्मिनीमिव
पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव |प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम् || ५-१९-१४
विध्वस्तां पद्मिनीम् इव, हतशूरां चमूम् इव, तमोध्वस्तां प्रभां इव, उपक्षीणाम् अपगाम् इव (सीता आसीत्) |
2011.03
५-२२-२१ नापहर्तुमहं शक्या
नापहर्तुमहं शक्या तस्य (/त्वया) रामस्य धीमतः |विधिस्तव वधार्थाय विहितो नात्र संशयः || ५-२२-२१
धीमतः रामस्य अहं, त्वया अपहर्तुम् शक्या न | तव वधार्थाय विधिः विहितः | अत्र संशयः न |
2008.04