Bharatiya Samskruti – Sanskrit Essay

भारतीयसंस्कृतिः

भारतीयसंस्कृतिः तु भारतीयानां संस्कृतिः भवति । कः भारतीयः इति प्रथमतया ज्ञातव्यम् । भारतस्य अथवा हिन्दुस्थानस्य विषये बार्हस्पत्यसंहितायाम् एवम् उक्तमस्ति “हिमालयात् समारभ्य यावत् इन्दुसरोवरम् । तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते” इति । श्रीविष्णुमहापुराणे तु एवं प्रोक्तम् “उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद् भारतं नाम भारती यत्र सन्ततिः” इति । अतः विविधाः भाषाः वदन्ति चेत् अपि विविधान् वेशान् धरन्ति चेदपि भारतदेशे सर्वे भारतीयाः भवन्ति ।

इदानीं का नाम संस्कृतिः इति ज्ञातव्यम् । मातापितृभ्यां बोधनात् गुरूणां सकाशात् च यः संस्कारः आयाति, ज्येष्ठानां जीवनक्रमं दृष्ट्वा यः संस्कारः उदेति, अध्ययनात् यः संस्कारः आयाति – एते सर्वे आगत्य काचन मानसस्थितिः संपन्ना भवति । सा मानसस्थितिरेव संस्कृतिः । सर्वसंस्कारस्य फलं संस्कृतिः भवति ।

इयं भारतीयसंस्कृतिः तु अतिप्राचीना । आवेदकालात् तस्य परम्परा आगता । भारतीयसंस्कृतेः आधारः वेदः एव । वेदऋषयः अस्माकं जीवनस्य लक्ष्यं किम्, अस्माभिः किं करणीयं, कथं करणीयम् इत्यादिविषयेषु विचारं कृत्वा अस्माभिः सनातनधर्मस्य आचरणं करणीयं इति बोधितवन्तः । अतः भारतं तु लोकगुरुः भवति । “एतद्देशप्रसूतस्य सकाशादग्रजन्मनः। स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवः” इति मनुस्मृत्यां कथितमस्ति । जीवनस्य लक्ष्यं ज्ञातुं च सिद्धिं प्राप्तुं च सर्वे जनाः भारतं प्रति आगच्छन्ति । अपि च अस्माकं संस्कृतिम् आचरन्ति ।

भारतीयसंस्कृतेः वैशिष्ट्यं तस्याः अतीव उदारता । धार्मिकविषये अपि उदारता अस्ति । अनेके देवाः अस्माभिः पूजिताः । तथापि अनेकासां देवतानां एकात्मरूपः परमात्मा एकः एव इति मन्यन्ते । परमात्मनः विविधशक्तयः एव इतराः देवताः । “एकं सत् विप्राः बहुधा वदन्ति” इति तेषाम् अभिप्रायः । अस्माकं संस्कृतेः दृष्ट्या देवतानां मध्ये ज्येष्ठत्व-कनिष्ठत्व-भावः नास्ति । मानवानां कृते अपि भेदभावना न ।  सर्वजीवराशिष्वपि आत्मा समानः एव इति मन्यन्ते । सूत्ररूपेण अस्य भारतीयसंस्कृतेः सङ्ग्रहः एवं कर्तुं शक्यते – “वैविध्ये एकता” अथवा  “विविधतायाम् एकता” इति ।

भारतीयसंस्कृत्यां विविधोत्सवाः आचर्यमाणाः सन्ति । ते वैयक्तिकस्तरः सामाजिकस्तरः इति स्तरद्वये माहात्म्यं भजन्ते । वैयक्तिकस्तरे गृहे सर्वे मिलित्वा देवपूजनं कुर्वन्ति । तदनन्तरं सामाजिकस्तरे पश्यामश्चेत् सर्वे मित्रबान्धवैः मिलित्वा, उत्सवस्य शुभसंदेशं दत्त्वा, ज्येष्ठानां नमस्कारादिकं कृत्वा, भक्षणानि संविभज्य प्रत्युपकारभावेन आनन्देन च उत्सवान् आचरन्ति ।

 

प्रकृत्यनुरोधेन एव भवति अस्माकं भारतीयसंस्कृतिः । न तु प्रकृतिविरोधेन । महिलाः गृहं परितः रङ्गवल्ली इति रसात्मकं चित्रं यत् लिखन्ति तेन तेषां आनन्दः भवति । तत् क्षुद्रजन्तूनां भोजनमपि भवति । एतादृशम् आत्मोद्धरणाय अन्येषां हिताय च क्रियमाणानि कार्याणि भारतीयसंस्कृत्यां अन्तर्भवन्ति ।

“अतिथि देवो भव” इति न केवलं भारतीयानां कृते, परन्तु अन्यदेशीयानां कृते अपि मित्रभावं संदर्शयन्ति । “वसुदैव कुदुम्बकम्” इति विचारः भारतीयानां उदारतां प्रदर्शयति । “माता च पार्वती देवी पिता देवो महेश्वरः। बान्धवा: शिवभक्ताश्च स्वदेशो भुवनत्रयम्” इति सर्वलोकसमत्वं प्रतिपादितम् ।

एतादृशोन्नतसंस्कृतियुक्तदेशः अस्माकं भारतदेशः । अत्र भारतदेशे जन्म प्राप्तिः अस्माकं सौभाग्यमेव । वन्दे भारतमातरम् ।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s