Sanskrit Essay – Ramayana – Smt. Harini

रामायणस्य महत्वम्। by Smt. Harini  TO BE UPDATED

रामस्य अयनम् चरितम् वा रामायणम्। एतत् सीताया: महच्चरितम् इत्यपि वक्तुं शक्यते। भारतीयेतिहासे संस्कृतसाहित्ये च रामायणवत् अत्यन्तलोकप्रियः प्रसिद्धः  च अन्यग्रन्थ: नास्त्येव।

रामायणम् आदिकाव्यम् इति प्रसिद्धम्। तस्य कर्ता वाल्मीकि: आदिकवि: इति विख्यातः । वाल्मीकि: पूर्वं रत्नाकरनामा कश्चन तस्कर: आसीत्। नारदमहर्षे: उपदेशात् स: रत्नाकर: रामनामजपं तप: च अकरोत्। तपोशक्तिवशात् रत्नाकर: वामीकिमहर्षि: अभवत्।

एकदा एकस्य निषादस्य दुष्कर्मनः क्रौञ्चद्वन्द्ववियोग: सम्भवति। वाल्मीके: शोक: एव श्लोकतया परिणत:। तदनंतरं स: अतिसरलसंस्कृतभाषायां चतुर्विंशतिसहस्रान् श्लोकान् व्यरचयत्। बालकाण्डम् अयोध्याकाण्डम् आरण्यकाण्डं किष्किन्धाकाण्डं युद्धकाण्डम् उत्तरकाण्डम् चेति सप्तकाण्डानि सन्ति।

रामायणे प्रकृतिसौन्दर्यवर्णनम् उपमाद्यलड़्काराणाम् उपयोगः च अत्युत्तमम्। यद्यपि अस्मिन् काव्ये करुणारसशोकस्थायीभावयो: प्राधान्यमस्ति तथापि शृङ्गाररसोऽपि दृश्यते।

रामायणं केवलं मनोरञ्जनोपयोगिकथा नास्ति एतत् धर्मशास्त्रम्। राज्यपरिपालनस्य पितृपुत्रपतिव्रतादीनां धर्मस्य सद्वृत्तस्य च विषये अयम् आदर्शभूत: ग्रन्थ:। राज्यपरिपालनं, पितृपुत्रपतिव्रतादीनां धर्मः, सद्वृत्तिः इत्यादिषु विषयेषु अयम् ग्रन्थ: आदर्शभूत: ।

रामायणम् सर्वकालोपयोगि नीतिग्रन्थ:।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s