Sanskrit Essay – Greatness of Vedas

वेदानां महत्त्वम्

Intro…. TO BE INCLUDED    Vid ….

वेदस्य महत्त्वं अत्र वेदे गोपतब्राह्मणे एवं दृश्यते – “श्रेष्ठोहि वेद तपसा अधिजातः ब्रह्मज्ञानां हृदये संबभूव” | श्रेष्ठतमज्ञानम् वेदे एव अस्ति | वेदाः ऋषीणां हृदयगोचराः अभवन् | वेदाः अपौरुषेयाः | अस्माकं ऋषिभिः, मनसा अन्तश्चक्षुषा च, श्रुतः दृष्टः च वेदः | अतः ते ऋषयः मन्त्रद्रष्टारः | न तु मन्त्रकर्तारः | अतः ऋषिभिः श्रुताः एते वेदाः श्रुतिः  इति कथ्यन्ते |

वेदः स्वतप्रामाण्यग्रन्थः | यत् वेदे अस्ति तत् सत्यम् एव | तत् शब्दप्रामाणं भवति | अस्माकं पुराणेषु उच्यते यत् वेदस्य साहाय्येन एव ब्रह्मा सृष्टिकार्यं करोति इति | वेदस्य आदिः नास्ति | वेदः अनादिः इति उच्यते | वेदस्य अन्तः अपि नास्ति | अनन्ताः वै वेदाः इति कथितम् (वेदेषु एव)  |

महर्षिणा वेदव्यासेन द्वापरयुगे वेदस्य विभाजनं कृतम् | ते ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्वणवेदः चेति चत्वारः सन्ति | प्रतिवेदं संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषद् चेति चत्वारः भागाः सन्ति | संहिताः वृक्षाः इति चिन्तयामश्चेत्, ब्राह्मणानि अत्र पुष्पाणि भवन्ति, आरण्यकानि अपक्वफलानि, उपनिषदः तु पक्वफलानि भवन्ति | एतदतिरिच्य आयुर्वेद-धनुर्वेद-गन्‍धर्ववेद-स्थापत्यवेदाख्याः चत्‍वारः उपवेदाः अपि सन्ति | अस्माकं संस्कृतेः स्वरूपम् एव एते उपवेदाः | नास्ति वेदात् परं शास्त्रम् इति लोकोक्तिः | सर्वविज्ञानविषयाः अपि तत्र विद्यन्ते | ते सर्वे संस्कृतभाषया एव निबद्धाः |

वेदे, विशेषतः यजुर्वेदे, यज्ञस्य प्राधान्यम् अस्ति | कः यज्ञः इति द्रष्टव्यः | “ज्ञ” इति अक्षरम् ज्ञानं सूचयति, यथा प्रकृष्टरूपेण यः जानाति सः प्रज्ञः | “य” इति अक्षरम् आश्रयं सूचयति | अस्माकं सृष्टेः आश्रयः परमात्मा एव | आश्रयस्य स्वरूपज्ञानम् एव यज्ञाचरणस्य उद्देश्यः | अतः यज्ञः इति पदम् आत्मज्ञानम् एव सूचयति | आत्मज्ञानेन जीवनस्य साफल्यं भवति |

वेदस्य अध्ययनं मौखिकरूपेण एव अभवत् | तत्र दोषवर्जनाय वेदाध्ययने एको नियमः विहितः | चतुर्वेदैः सह षडङ्गानाम् अध्ययनम् अपि करणीयम् इति | वेदानां सम्यग्ज्ञानाय एतेषां षडङ्गानां ज्ञानं अनिवार्यम् । तानि षडङ्गानि  शिक्षा, छन्दस्, व्याकरणम्, निरुक्तम्, ज्योतिषम्, कल्पम् चेति <quote… >| वेदाध्ययनाय कानिचन विद्यास्थानानि भवन्ति | वेदस्य संपूर्णावगमनार्थं एतानि चतुर्वेदाः, षड्वेदाङ्गानि, मीमांसा, न्यायविस्तरः, पुराणम्, धर्मशास्त्रम्, उपवेदाः च वेदितव्यानि |

सर्वेषु शास्त्रेषु वेदाः एव श्रेष्ठाः | नदीनां वैशिष्ट्यकथनसमये ताः गाङ्गासदृश्यः इति उच्यते | क्षेत्राणां वैशिष्ट्यं वक्तुं प्रभवामश्चेत् तानि काशीसदृशानि इति वदामः | तादृशं किमपि ग्रन्थस्य अथवा ज्ञानस्य वैशिष्ट्यं वक्तव्यञ्चेत् तत् वेद इव अस्ति इत्येव वदन्ति | अस्माकं देशस्य द्वौ इतिहासौ स्तः रामायणं महाभारतं च | महाभारतम् पञ्चमो वेदः इति प्रसिद्धः | प्रचेतसपुत्रेण वाल्मीकिना विरचितस्य रामायणस्य विषये अपि उच्यते – वेदवेद्ये परे पुंसि जाते दशरथात्मजे | वेदः प्राचेतसादासीत् साक्षाद् रामायणात्मना – इति |

वेदानां महत्त्वं वक्तुम् एका घटना अपि उच्यते | कुमरिलभट्टः इति एकः पूर्वमीमाम्सकः आसीत् | एकदा कुमरील भट्टस्य रिपवः तं एकस्मात् पर्वतात् पातितवन्तः | तदा सः उत्क्तवान् यदि वेदः सत्यम् अस्ति, तर्हि मम किमपि हानिः न भविष्यति इति | उन्नतात् पर्वतात् पतनानन्तरमपि सः जीवितवान् | परन्तु तस्य एकं नयनं गतम् | किमर्थं इति चेत् तेन “यदि वेदाः सत्यं तर्हि” इति उक्तम् | अत्र किञ्चित् संशयः दृश्यते | तेन दृढनिश्चयेन “वेदाः सत्यम् | अतः” इति वक्तव्यम् आसीत् |

वेदशब्दाः आकाशे सर्वत्र सर्वदा व्याप्ताः | अस्माकं भारतीयसंस्कृतिः वेदप्रामाण्यात् वेदसंस्कृतिः इति प्रसिद्धा अस्ति | वेदोक्तयज्ञाचरणमेव अस्माकं संस्कृतिः | भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा | यद्यपि वयं वेदमन्त्राणं अर्थं न जानीमः, केवलं मन्त्रश्रवणेन एव शुभं प्राप्नुमः | यावत् पर्यन्तम् अस्माभिः वेदस्य रक्षणं क्रियते तावत् अस्माकं भारतदेशस्य समृद्धिः संरक्ष्यते | भारतं लोकगुरुः भूत्वा सर्वान् सन्मार्गे नयेत् |

Advertisements

One thought on “Sanskrit Essay – Greatness of Vedas

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s