Sri Vidyaranya Swami’s Panchadasi – Full Text – 10th Chapter – Naataka Deepa

पञ्चदशी

Invocatory Prayer Opening Verse of the Pañcadaśī

नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने । सविलासमहामोहग्राहग्रासैककर्मणे ॥ १ ॥
नमः श्री–शङ्करानन्द–गुरु–पाद–अम्बुजन्मने | सविलास–महामोह–ग्राह–ग्रास–एक–कर्मणे |

श्री–शङ्करानन्द–गुरु–पाद–अम्बुजन्मने नमः (अस्तु) | सविलास–महामोह–ग्राह–ग्रास–एक–कर्मणे नमः (अस्तु) |

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्तु) [ अस् “अस भुवि” पर. लोट्. प्रपु. एक. ]
    • कर्तृपदम् = नमः [ अव्ययम् ]
    • सम्प्रदानपदम् = श्री–शङ्करानन्द–गुरु–पाद–अम्बुजन्मने [ न. पुं. च. एक. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्तु)
    • कर्तृपदम् = नमः [ अव्ययम् ]
    • सम्प्रदानपदम् = सविलास–महामोह–ग्राह–ग्रास–एक–कर्मणे [ न. पुं. च. एक. ]

नाटकदीपोनाम – दशमः परिच्छेदः ।

The Theater Lamp Pañcadaśī Chapter 10

परमात्माद्वयानन्दपूर्णः पूर्वं स्वमायया । स्वयमेव जगद्भूत्वा प्राविशज्जीवरूपतः ॥ १ ॥

परमात्मा अद्वय+आनन्द-पूर्णः पूर्वं स्व-मायया । स्वयम् एव जगत् भूत्वा प्राविशत् जीवरूपतः ॥ १ ॥

पूर्वं अद्वय+आनन्द-पूर्णः परमात्मा, स्वयम् एव जगत् भूत्वा, स्व-मायया जीवरूपतः प्राविशत् ॥ १ ॥

  • प्रथमवाक्यम्
    • क्रियापदम् = प्राविशत्
    • क्रियाविशेषणम् = जीवरूपतः
    • करणवाचकपदम् = स्व-मायया
    • कालवाचकपदम् = पूर्वम्
    • वाक्यांश:
      • प्राक्कालिकक्रिया = भूत्वा
      • क्रियाविशेषणम् = स्वयम्
      • अवधारणम् = एव
      • कर्मपदम् = जगत्
    • कर्तृपदम् = परमात्मा
    • कर्तृविशेषणम् = अद्वय+आनन्द-पूर्णः

विष्ण्वाद्युत्तमदेहेषु प्रविष्टो देवताभवत् । मर्त्याद्यधमदेहेषु स्थितो भजति मर्त्यताम् ॥ २ ॥

विष्णु+आदि+उत्तम+देहेषु प्रविष्टः देवता अभवत् । मर्त्य+आदि+अधम+देहेषु स्थितः भजति मर्त्यताम् ॥ २ ॥

विष्णु+आदि+उत्तम+देहेषु प्रविष्टः देवता अभवत् । मर्त्य+आदि+अधम+देहेषु स्थितः मर्त्यताम् भजति |

  • प्रथमवाक्यम्
    • क्रियापदम् = अभवत्
    • कर्तृविधेयविशेषणम् = देवता
    • वाक्यांश:
      • कर्तृपदम् = प्रविष्टः
      • देशाधिकरणम् = विष्णु+आदि+उत्तम+देहेषु
    • द्वितीयवाक्यम्
      • क्रियापदम् = भजति
      • कर्मपदम् = मर्त्यताम्
      • वाक्यांश:
        • कर्तृपदम् = स्थितः
        • देशाधिकरणम् = मर्त्य+आदि+अधम+देहेषु

अनेकजन्मभजनात्स्वविचारं चिकीर्षति । विचारेण विनष्टायां मायायां शिष्यते स्वयम् ॥ ३ ॥

अनेक+जन्म+भजनात् स्व+विचारं चिकीर्षति । विचारेण विनष्टायां मायायां शिष्यते स्वयम् ॥

अनेक+जन्म+भजनात् स्व+विचारं चिकीर्षति ।  विचारेण मायायां विनष्टायां (सत्यां) स्वयं शिष्यते ॥

  • प्रथमवाक्यम्
    • क्रियापदम् = चिकीर्षति
    • कर्मपदम् = स्व+विचारम्
    • हेतुवाचकपदम् = अनेक+जन्म+भजनात्
    • कर्तृपदम् = (सः)
  • द्वितीयवाक्यम्
    • क्रियापदम् = शिष्यते
    • कर्मपदम् = स्वयम्
    • वाक्यांश:
      • ज्ञापक-क्रियापदम् = विनष्टायाम्
      • क्रिया-आश्रय-कर्मपदम् = मायायाम्
      • सतिसप्तमि-पदम् = (सत्याम्)
      • हेतुवाचकपदम् = विचारेण

अद्वयानन्दरूपस्य सद्वयत्वं च दुःखिता । बन्धः प्रोक्तः स्वरूपेण स्थितिर्मुक्तिरितीर्यते ॥ ४॥

अद्वयानन्द-रूपस्य सद्वयत्वं च दुःखिता । बन्धः प्रोक्तः स्व-रूपेण स्थितिः मुक्तिः इति  ईर्यते ॥ ४ ॥

अद्वय+आनन्द-रूपस्य सद्वयत्वं दुःखिता भवति । (तत्) बन्धः (इति) प्रोक्तः | स्व-रूपेण स्थितिः मुक्तिः इति  ईर्यते ॥ ४ ॥

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृविधेयविशेषणम् = दुःखिता
    • वाक्यांश:
      • कर्तृपदम् = सद्वयत्वम्
      • सम्बन्धिपदम् = अद्वय+आनन्द-रूपस्य
    • समुच्चयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • वाक्यांश:
        • क्रियागर्भकर्तृपदम् = प्रोक्तः
        • कर्मवाक्यम्
          • कर्तृविधेयविशेषणम् = बन्धः
          • कर्तृपदम् = (तत्)
          • संयोजकपदम् = (इति)
        • द्वितीयवाक्यम्
          • (कर्मणि) क्रियापदम् = ईर्यते
          • (कर्मणि) कर्मविधेयविशेषणम् = मुक्तिः
          • वाक्यांश:
            • (कर्मणि) कर्मपदम् = स्थितिः
            • हेतुवाचकपदम् / करणवाचकपदम् = स्व-रूपेण
          • संयोजकपदम् = इति

अविचारकृतो बन्धो विचारेण निवर्तते । तस्माज्जीवपरात्मानौ सर्वदैव विचारयेत् ॥ ५॥

अ-विचारकृतः बन्धः विचारेण निवर्तते । तस्मात् जीव-पर+आत्मानौ सर्वदा एव  विचारयेत् ॥ ५ ॥

अविचारकृतः बन्धः विचारेण निवर्तते । तस्मात् सर्वदा एव  जीवपरात्मानौ विचारयेत् |

  • प्रथमवाक्यम्
    • क्रियापदम् = निवर्तते [ नि + वृत् “वृतु वर्तने” आत्. लट्. प्रपु. एक. ]
    • करणवाचकपदम् = विचारेण [ अ. पुं. तृ. एक. ]
    • कर्तृपदम् = बन्धः [ अ. पुं. प्र. एक. ]
    • कर्तृविशेषणम् = अविचारकृतः [ अ. पुं. प्र. एक. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = विचारयेत् [ वि + चर् “चर गतौ” पर. लट्. प्रपु. एक. ]
    • कर्मपदम्= जीवपरात्मानौ [ न. पुं. द्वि. द्वि. ]
    • कालवाचकपदम् = सर्वदा [अव्ययम्]
    • अवधारणम् = एव [अव्ययम्]
    • हेतुवाचकपदम् = तस्मात् [अव्ययम्]

अहमित्यभिमन्ता यः कर्तासौ तस्य साधनम् । मनस्तस्य क्रिये अन्तर्बहिर्वृत्ती क्रमोत्थिते ॥ ६॥

अहम् इति अभिमन्ता यः कर्ता असौ तस्य साधनम् । मनः तस्य क्रिये अन्तः+बहिः+वृत्ती क्रम+उत्थिते ॥ ६ ॥

यः अहम् इति अभिमन्ता, असौ कर्ता भवति | मनः तस्य साधनं भवति | तस्य क्रिये क्रमोत्थिते अन्तर्बहिर्वृत्ती भवतः  |

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • कर्तृपदम् = यः
      • वाक्यांश:
        • क्रियागर्भकर्तृविधेयविशेषणम् = अभिमन्ता
          • कर्मवाक्यम्
            • कर्तृपदम् = अहम्
            • संयोजकपदम् = इति
          • “असौ” वाक्यांश:
            • क्रियापदम् = (भवति)
            • कर्तृविधेयविशेषणम् = कर्ता
            • कर्तृपदम् = असौ
          • द्वितीयवाक्यम्
            • क्रियापदम् = (भवति)
            • वाक्यांश:
              • कर्तृविधेयविशेषणम् = साधनम्
              • सम्बन्धिपदम् = तस्य
            • कर्तृपदम् = मनः
          • तृतीयवाक्यम्
            • क्रियापदम् = (भवतः)
              • वाक्यांश:
                • कर्तृविधेयविशेषणम् = अन्तर्बहिर्वृत्ती
                • कर्तृविशेषणम् = क्रमोत्थिते
              • वाक्यांश:
                • कर्तृपदम् = क्रिये
                • सम्बन्धिपदम् = तस्य

अन्तर्मुखाहमित्येषा वृत्तिः कर्तारमुल्लिखेत् । बहिर्मुखेदमित्येषा बाह्यं वस्त्विदमुल्लिखेत् ॥ ७॥

अन्तर्मुखा अहम् इति एषा वृत्तिः कर्तारम् उल्लिखेत् । बहिर्मुखा इदम्  इति एषा बाह्यं वस्तु इदम् उल्लिखेत् ॥ ७॥

अहम् इति एषा अन्तर्मुखा वृत्तिः कर्तारम् उल्लिखेत् । इदम्  इति एषा बहिर्मुखा इदम् (वृत्तिः), बाह्यं वस्तु उल्लिखेत् |

  • प्रथमवाक्यम्
    • क्रियापदम् = उल्लिखेत्
    • कर्मपदम् = कर्तारम्
    • कर्तृपदम् = वृत्तिः
    • कर्तृविशेषणम् = अन्तर्मुखा
    • कर्तृविशेषणम् = एषा
    • कर्तृविशेषणवाक्यम्
      • कर्तृपदम् = अहम्
      • संयोजकपदम् = इति
    • द्वितीयवाक्यम्
      • क्रियापदम् = उल्लिखेत्
      • वाक्यांश:
        • कर्मपदम् = वस्तु
        • कर्मविशेषणम् = बाह्यम्
        • कर्मविशेषणम् = इदम्
      • कर्तृपदम् = वृत्तिः
      • कर्तृविशेषणम् = बहिर्मुखा
      • कर्तृविशेषणम् = एषा
      • कर्तृविशेषणवाक्यम्
        • कर्तृपदम् = इदम्
        • संयोजकपदम् = इति

 

इदमो ये विशेषाः स्युर्गन्धरूपरसादयः । असाङ्कर्येण तान्भिद्याद्घ्राणादीन्द्रियपञ्चकम् ॥ ८ ॥

इदमः ये विशेषाः स्युः  गन्ध-रूप-रसादयः । असाङ्कर्येण तान् भिद्यात् घ्राणादि+इन्द्रिय-पञ्चकम् ॥ ८ ॥

ये गन्ध-रूप-रसादयः इदमः विशेषाः स्युः, असाङ्कर्येण तान् घ्राणादि+इन्द्रिय-पञ्चकम् भिद्यात् |

  • प्रथमवाक्यम्
    • “ये” वाक्यांश:
      • क्रियापदम् = स्युः
      • वाक्यांश:
        • कर्तृपदम् = विशेषाः
        • सम्बन्धिपदम् = इदमः
      • कर्तृविशेषणम् = गन्ध-रूप-रसादयः
      • कर्तृविशेषणम् = ये
    • “तान्” वाक्यांश:
      • क्रियापदम् = भिद्यात्
      • भावसूचकतृतियान्तम् = असाङ्कर्येण
      • कर्मपदम् = घ्राणादि+इन्द्रिय-पञ्चकम्
      • कर्मविशेषणम् = तान्

कर्तारं च क्रियां तद्वद्व्यावृत्तविषयानपि । स्फोरयेदेकयत्नेन योऽसौ साक्ष्यत्र चिद्वपुः ॥ ९॥

कर्तारं च क्रियां तद्वत् व्यावृत्त+विषयान् अपि । स्फोरयेत् एक-यत्नेन यः असौ साक्षि अत्र चिद्वपुः ।

यः कर्तारं च क्रियां तद्वत् व्यावृत्त+विषयान् अपि एक-यत्नेन स्फोरयेत्, असौ अत्र साक्षि चिद्वपुः (भवति) ।

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = स्फोरयेत्
      • वाक्यांश:
        • कर्मपदम् = कर्तारम्
        • समुच्चयपदम् = च
        • कर्मपदम् = क्रियाम्
        • कर्मविशेषणम् = तद्वत्
        • कर्मपदम् = व्यावृत्त+विषयान्
        • अवधारणम् = अपि
      • करणवाचकपदम् = एक-यत्नेन
      • कर्तृपदम् = यः
    • “असौ” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृविधेयविशेषणम् = चिद्वपुः
      • कर्तृपदम् = साक्षि
      • कर्तृविशेषणम् = असौ
      • विषयाधिकरणम् = अत्र

 

ईक्षे शृणोमि जिघ्रामि स्वादयामि स्पृशाम्यहम् । इति भासयते सर्वं नृत्यशालास्थदीपवत् ॥ १० ॥

ईक्षे शृणोमि जिघ्रामि स्वादयामि स्पृशामि अहम् | इति भासयते सर्वं नृत्य-शाला-स्थ-दीपवत् |

अहम् ईक्षे शृणोमि जिघ्रामि स्वादयामि स्पृशामि  इति सर्वं (साक्षि) नृत्य-शाला-स्थ-दीपवत् भासयते |

  • प्रथमवाक्यम्
    • क्रियापदम् = भासयते
    • कर्मपदम् = सर्वम्
    • कर्मवाक्यम्
      • क्रियापदम् = ईक्षे
      • कर्तृपदम् = अहम्
      • समुच्चयवाक्यम्
        • क्रियापदम् = शृणोमि
      • समुच्चयवाक्यम्
        • क्रियापदम् = जिघ्रामि
      • समुच्चयवाक्यम्
        • क्रियापदम् = स्वादयामि
      • समुच्चयवाक्यम्
        • क्रियापदम् = स्पृशामि
      • संयोजकपदम् = इति
    • कर्तृपदम् = (साक्षि)
    • कर्तृविशेषणम् = नृत्य-शाला-स्थ-दीपवत्

 

नृत्यशालास्थितो दीपः प्रभुं सभ्यांश्च नर्तकीम् । दीपयेद्विशेषेण तदभावेऽपि दीप्यते ॥ ११ ॥

नृत्य-शाला-स्थितः  दीपः प्रभुं सभ्यान् च नर्तकीम् | दीपयेत् विशेषेण तत्+अभावे अपि दीप्यते ॥

नृत्य-शाला-स्थितः  दीपः प्रभुं सभ्यान् नर्तकीं  च विशेषेण दीपयेत् | तदभावे अपि दीप्यते |

  • प्रथमवाक्यम्
    • क्रियापदम् = दीपयेत्
    • भावसूचकतृतियान्तम् = विशेषेण
    • वाक्यांश:
      • कर्मपदम् = प्रभुम्
      • कर्मपदम् = सभ्यान्
      • कर्मपदम् = नर्तकीम्
      • समुच्चयपदम् = च
    • कर्तृपदम् = दीपः
    • कर्तृविशेषणम् = नृत्य-शाला-स्थितः
  • द्वितीयवाक्यम्
    • क्रियापदम् = दीप्यते
    • कालाधिकरणम् = तदभावे
    • अवधारणम् = अपि
    • कर्तृपदम् = (दीपः)

अहङ्कारं धियं साक्षी विषयानपि भासयेत् । अहङ्काराद्यभावेऽपि स्वयं भात्येव पूर्ववत् ॥ १२ ॥

अहङ्कारं धियं साक्षी विषयान् अपि भासयेत् । अहङ्कार+आदि+अभावे अपि स्वयं भाति एव पूर्ववत् |

साक्षी अहङ्कारं धियं विषयान् अपि भासयेत् । अहङ्कार+आदि+अभावे अपि पूर्ववत् स्वयं भाति एव |

  • प्रथमवाक्यम्
    • क्रियापदम् = भासयेत्
    • वाक्यांश:
      • कर्मपदम् = अहङ्कारम्
      • कर्मपदम् = धियम्
      • कर्मपदम् = विषयान्
      • समुच्चयपदम् = अपि
    • कर्तृपदम् = साक्षी
  • द्वितीयवाक्यम्
    • क्रियापदम् = भाति
    • अवधारणम् = एव
    • क्रियाविशेषणम् = स्वयम्
    • क्रियाविशेषणम् = पूर्ववत्
    • वाक्यांश:
      • कालाधिकरणम् = अहङ्कार+आदि+अभावे
      • अवधारणम् = अपि

 

निरन्तरं भासमाने कूटस्थे ज्ञप्तिरूपतः । तद्भासा भास्यमानेयं बुद्धिर्नृत्यत्यनेकधा ॥ १३ ॥

निरन्तरं भासमाने कूटस्थे ज्ञप्तिरूपतः । तत्+भासा भास्यमाना इयं बुद्धिः नृत्यति अनेकधा |

निरन्तरं भासमाने कूटस्थे ज्ञप्तिरूपतः  तद्भासा भास्यमाना इयं बुद्धिः अनेकधा नृत्यति |

  • प्रथमवाक्यम्
    • क्रियापदम् = नृत्यति
    • क्रियाविशेषणम् = अनेकधा
    • कर्तृपदम् = बुद्धिः
    • कर्तृविशेषणम् = इयम्
    • वाक्यांश:
      • कर्तृविशेषणम् = भास्यमाना
      • करणवाचकपदम् = तद्भासा
    • हेतुवाचकपदम् = ज्ञप्तिरूपतः
    • वाक्यांश:
      • देशाधिकरणम् = कूटस्थे
      • वाक्यांश:
        • अधिकरणविशेषणम् = भासमाने
        • कालवाचकपदम् = निरन्तरम्

अहङ्कारः प्रभुः सभ्या विषया नर्तकी मतिः । तालादिधारिण्यक्षाणि दीपः साक्ष्यवभासकः ॥ १४ ॥

अहङ्कारः प्रभुः सभ्याः विषयाः नर्तकी मतिः । ताल+आदि+धारिणि अक्षाणि दीपः साक्षि+अवभासकः ॥ १४ ॥

अहङ्कारः प्रभुः  | विषयाः सभ्याः | मतिः नर्तकी । अक्षाणि तालादिधारिणि | साक्ष्यवभासकः दीपः |

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृविधेयविशेषणम् = प्रभुः
    • कर्तृपदम् = अहङ्कारः
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृविधेयविशेषणम् = सभ्याः
    • कर्तृपदम् = विषयाः
  • तृतीयवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृविधेयविशेषणम् = नर्तकी
    • कर्तृपदम् = मतिः
  • चतुर्थवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृविधेयविशेषणम् = तालादिधारिणि
    • कर्तृपदम् = अक्षाणि
  • पञ्चमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृविधेयविशेषणम् = दीपः
    • कर्तृपदम् = साक्ष्यवभासकः

स्वस्थानसंस्थितो दीपः सर्वतो भासयेद्यथा । स्थिरस्थायी तथा साक्षी बहिरन्तः प्रकाशयेत् ॥ १५ ॥

स्व-स्थान-संस्थितः दीपः सर्वतः भासयेत् यथा । स्थिर-स्थायी तथा साक्षी बहिः अन्तः प्रकाशयेत् ॥ १५ ॥

यथा स्व-स्थान-संस्थितः दीपः सर्वतः भासयेत्, तथा स्थिर-स्थायी साक्षी बहिः अन्तः प्रकाशयेत् ।

  • प्रथमवाक्यम्
    • “यथा” वाक्यांश:
      • क्रियापदम् = भासयेत्
      • क्रियाविशेषणम् = सर्वतः
      • क्रियाविशेषणम् = यथा
      • कर्तृपदम् = दीपः
      • कर्तृविशेषणम् = स्व-स्थान-संस्थितः
    • “तथा” वाक्यांश:
      • क्रियापदम् = प्रकाशयेत्
      • क्रियाविशेषणम् = तथा
      • कर्मपदम् = बहिः
      • कर्मपदम् = अन्तः
      • समुच्चयपदम् = (च)
      • कर्तृपदम् = साक्षी
      • कर्तृविशेषणम् = स्थिर-स्थायी

बहिरन्तर्विभागोऽयं देहापेक्षो न साक्षिणि । विषया बाह्यदेशस्था देहस्यान्तरहङ्कृतिः ॥ १६ ॥

बहिः अन्तः विभागः अयं देह+अपेक्षः न साक्षिणि । विषयाः बाह्य-देश-स्थाः देहस्य अन्तः अहङ्कृतिः ॥ १६ ॥

बहिः अन्तः च इति अयं विभागः देहापेक्षः, न साक्षिणि । विषयाः बाह्यदेशस्थाः, देहस्य अन्तः अहङ्कृतिः ।

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृविधेयविशेषणम् = देहापेक्षः
    • कर्तृपदम् = विभागः
    • कर्तृविशेषणम् = अयम्
    • वाक्यांश:
      • कर्तृपदम् = बहिः
      • कर्तृपदम् = अन्तः
      • समुच्चयपदम् = च
      • संयोजकपदम् = इति
    • समुच्चयवाक्यम्
      • क्रियापदम् = (भवति)
      • क्रियाविशेषणम् = न
      • कर्तृपदम् = विभागः
      • विषयाधिकरणम् = साक्षिणि
    • द्वितीयवाक्यम्
      • क्रियापदम् = (भवन्ति)
      • कर्तृविधेयविशेषणम् = बाह्यदेशस्थाः
      • कर्तृपदम् = विषयाः
    • तृतीयवाक्यम्
      • क्रियापदम् = (भवति)
      • कर्तृविधेयविशेषणम् = अन्तः
      • सम्बन्धिपदम् = देहस्य
      • कर्तृपदम् = अहङ्कृतिः

अन्तस्था धीः सहैवाक्षैर्बहिर्याति पुनः पुनः । भास्यबुद्धिस्थचाञ्चल्यं साक्षिण्यारोप्यते वृथा ॥ १७ ॥

अन्तस्था धीः सह एव अक्षै: बहि: याति पुनः पुनः । भास्य-बुद्धि-स्थ-चाञ्चल्यं साक्षिणि आरोप्यते वृथा ॥ १७ ॥

अन्तस्था धीः अक्षै: सह एव पुनः पुनः बहि: याति । भास्यबुद्धिस्थचाञ्चल्यं साक्षिणि आरोप्यते वृथा ।

  • प्रथमवाक्यम्
    • क्रियापदम् = याति
    • क्रियाविशेषणम् = पुनः
    • क्रियाविशेषणम् = बहि:
    • वाक्यांश:
      • सहयोगतृतीयान्तम् = अक्षै:
      • संयोजकपदम् = सह
      • अवधारणम् = एव
    • कर्तृपदम् = धीः
    • कर्तृविशेषणम् = अन्तस्था
  • द्वितीयवाक्यम्
    • क्रियापदम् = आरोप्यते
    • क्रियाविशेषणम् = वृथा
    • देशाधिकरणम् = साक्षिणि
    • कर्तृपदम् = भास्यबुद्धिस्थचाञ्चल्यम्

 

गृहान्तरगतः स्वल्पो गवाक्षादातपोऽचलः । तत्र हस्ते नर्त्यमाने नृत्यतीवातपो यथा ॥ १८ ॥

गृह-अन्तर-गतः स्वल्पः गवाक्षात् आतपः अचलः । तत्र हस्ते नर्त्यमाने नृत्यति इव आतपः यथा ॥ १८ ॥

यथा गवाक्षात् गृह-अन्तर-गतः स्वल्पः अचलः आतपः  तत्र हस्ते नर्त्यमाने सति नृत्यति इव … |

  • प्रथमवाक्यम्
    • “यथा” वाक्यांश:
      • क्रियापदम् = नृत्यति
      • उपमावाचकपदम् = इव
      • क्रियाविशेषणम् = यथा
      • वाक्यांश:
        • ज्ञापक-क्रियापदम् = नर्त्यमाने
        • क्रिया-आश्रय-कर्तृपदम् = हस्ते
        • सतिसप्तमि-पदम् = सति
      • कर्तृपदम् = आतपः
      • कर्तृविशेषणम् = अचलः
      • कर्तृविशेषणम् = स्वल्पः
      • वाक्यांश:
        • कर्तृविशेषणम् = गृह-अन्तर-गतः
        • अपादानपदम् = गवाक्षात्

निजस्थानस्थितः साक्षी बहिरन्तर्गमागमौ । अकुर्वन्बुद्धिचाञ्चल्यात्करोतीव तथा तथा ॥ १९ ॥

निज-स्थान-स्थितः साक्षी बहि:+अन्त:+ गम+आगमौ ।  अकुर्वन् बुद्धि-चाञ्चल्यात् करोति इव तथा तथा ॥ १९ ॥

तथा निज-स्थान-स्थितः साक्षी बहि:+अन्त:+ गम+आगमौ अकुर्वन् बुद्धि-चाञ्चल्यात् करोति इव ।

  • प्रथमवाक्यम्
    • “तथा” वाक्यांश:
      • क्रियापदम् = करोति
      • क्रियाविशेषणम् = इव
      • क्रियाविशेषणम् = तथा
      • हेतुवाचकपदम् = बुद्धि-चाञ्चल्यात्
      • वाक्यांश:
        • क्रियागर्भकर्तृविशेषणम् = अकुर्वन्
        • कर्मपदम् = बहि:+अन्त:+गम+आगमौ
      • कर्तृपदम् = साक्षी
      • कर्तृविशेषणम् = निज-स्थान-स्थितः

 

न बाह्यो नान्तरः साक्षी बुद्धेर्देशौ हि तावुभौ । बुद्ध्याद्यशेषसंशान्तौ यत्र भात्यस्ति तत्र सः ॥ २० ॥

न बाह्यः न अन्तरः साक्षी बुद्धेः देशौ हि तौ उभौ । बुद्धि+आदि+अशेषसंशान्तौ यत्र भाति अस्ति तत्र सः ॥ २० ॥

बुद्धेः साक्षी न बाह्यः, न अन्तरः | तौ उभौ देशौ बुद्धि+आदि+अशेषसंशान्तौ हि । यत्र भाति तत्र सः अस्ति ।

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • प्रतिषेधपदम् = न
    • कर्तृविधेयविशेषणम् = बाह्यः
    • वाक्यांश:
      • कर्तृपदम् = साक्षी
      • सम्बन्धिपदम् = बुद्धेः
    • समुच्चयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • प्रतिषेधपदम् = न
      • कर्तृविधेयविशेषणम् = अन्तरः
    • द्वितीयवाक्यम्
      • क्रियापदम् = स्तः
      • कर्तृविधेयविशेषणम् = बुद्धि+आदि+अशेषसंशान्तौ
      • कर्तृपदम् = देशौ
      • कर्तृविशेषणम् = उभौ
      • कर्तृविशेषणम् = तौ
    • तृतीयवाक्यम्
      • “यत्र” वाक्यांश:
        • क्रियापदम् = भाति
        • स्थानवाचकपदम् = यत्र
      • “तत्र” वाक्यांश:
        • क्रियापदम् = अस्ति
        • स्थानवाचकपदम् = तत्र
        • कर्तृपदम् = सः

देशः कोऽपि न भासेत यदि तर्ह्यस्त्वदेशभाक् । सर्वदेशप्रक्लृप्त्यैव सर्वगत्वं न तु स्वतः ॥ २१ ॥

देशः कः अपि न भासेत यदि तर्हि अस्तु अदेशभाक् । सर्व-देश-प्रक्लृप्त्या  एव सर्व-गत्वं न तु स्वतः ॥ २१ ॥

यदि देशः कः अपि न भासेत, तर्हि अदेशभाक् अस्तु । सर्व-देश-प्रक्लृप्त्या  एव सर्व-गत्वम् | स्वतः तु न |

  • प्रथमवाक्यम्
    • “यदि” वाक्यांश:
      • क्रियापदम् = भासेत,
      • प्रतिषेधपदम् = न
      • कर्तृविधेयविशेषणम् = कः
      • अवधारणम् = अपि
      • कर्तृपदम् = देशः
      • संयोजकपदम् = यदि
    • “तर्हि” वाक्यांश:
      • क्रियापदम् = अस्तु
      • कर्तृपदम् = अदेशभाक्
      • संयोजकपदम् = तर्हि
    • द्वितीयवाक्यम्
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = सर्व-गत्वम्
      • हेतुवाचकपदम् = सर्व-देश-प्रक्लृप्त्या
      • अवधारणम् = एव
      • समुच्चयवाक्यम्
        • क्रियापदम् = (भवति)
        • प्रतिषेधपदम् = न
        • हेतुवाचकपदम् = स्वतः
        • अवधारणम् = तु

 

अन्तर्बहिर्वा सर्वं वा यं देशं परिकल्पयेत् । बुद्धिस्तद्देशगः साक्षी तथा वस्तुषु योजयेत् ॥ २२ ॥

अन्तः बहिः वा सर्वं वा यं देशं परिकल्पयेत् । बुद्धिः तत्+देशगः साक्षी तथा वस्तुषु योजयेत् ॥ २२ ॥

अन्तः बहिः वा सर्वं वा बुद्धिः यं देशं परिकल्पयेत्  तत्+देशगः साक्षी तथा वस्तुषु योजयेत् |

  • प्रथमवाक्यम्
    • “यम्” वाक्यांश:
      • क्रियापदम् = परिकल्पयेत्
      • कर्मपदम् = देशम्
      • कर्मविशेषणम् = यम्
      • कर्मविशेषणवाक्यांश:
        • कर्मपदम् = अन्तः
        • कर्मपदम् = बहिः
        • कर्मपदम् = सर्वम्
        • समुच्चयपदम् = वा
      • कर्तृपदम् = बुद्धिः
    • “तत्” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृविधेयविशेषणम् = तत्+देशगः
      • कर्तृपदम् = साक्षी
      • समुच्चयवाक्यम्
        • क्रियापदम् = योजयेत्
        • क्रियाविशेषणम् = तथा
        • विषयाधिकरणम् = वस्तुषु

यद्यद्रूप आदि कल्प्येत बुद्ध्या तत्तत्प्रकाशयन् । तस्य तस्य भवेत्साक्षी स्वतो वाग्बुद्ध्यगोचरः ॥ २३ ॥

यत् यत् रूप आदि कल्प्येत बुद्ध्या तत् तत् प्रकाशयन् । तस्य तस्य भवेत् साक्षी स्वतः वाक्+बुद्धि+अगोचरः ॥ २३ ॥

यत् यत् रूपादि बुद्ध्या कल्प्येत तत् तत् प्रकाशयन् स्वतः वाक्+बुद्धि+अगोचरः तस्य तस्य साक्षी भवेत् ।

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • (कर्मणि) क्रियापदम् = कल्प्येत
      • (कर्मणि) कर्मपदम् = रूपादि
      • (कर्मणि) कर्मविशेषणम् = यत्
      • (कर्मणि) कर्तृपदम् = बुद्ध्या
    • “तत्” वाक्यांश:
      • क्रियापदम् = भवेत्
      • कर्तृपदम् = (सः)
      • वाक्यांश:
        • क्रियागर्भकर्तृविशेषणम् = प्रकाशयन्
        • कर्मपदम् = तत्
      • वाक्यांश:
        • क्रियागर्भकर्तृविशेषणम् = वाक्+बुद्धि+अगोचरः
        • क्रियाविशेषणम् = स्वतः
      • वाक्यांश:
        • कर्तृविधेयविशेषणम् = साक्षी
        • सम्बन्धिपदम् = तस्य

कथं तादृङ्मया ग्राह्यमिति चेन्मैव गृह्यताम् । सर्वग्रहोपसंशान्तौ स्वयमेवावशिष्यते ॥ २४ ॥

कथं तादृक् मया ग्राह्यः इति चेत् मा एव गृह्यताम् । सर्व+ग्रहोपसं+शान्तौ स्वयम् एव अवशिष्यते ॥ २४ ॥

कथं तादृक् मया ग्राह्यः इति चेत् मा एव गृह्यताम् | सर्व+ग्रहोपसं+शान्तौ स्वयम् एव अवशिष्यते ।

TODO

न तत्र मानापेक्षास्ति स्वप्रकाशस्वरूपतः ।

तादृग्व्युत्पत्त्यपेक्षा चेच्छ्रुतिं पठ गुरोर्मुखात् ॥ २५ ॥

TODO

यदि सर्वगृहत्यागोऽशक्यस्तर्हि धियं व्रज ।

शरणं तदधीनोऽन्तर्बहिर्वैषोऽनुभूयताम् ॥ २६॥

TODO

इति नाटकदीपोनाम दशमः परिच्छेदः ॥ १०॥

 

 

Advertisements

One thought on “Sri Vidyaranya Swami’s Panchadasi – Full Text – 10th Chapter – Naataka Deepa

  1. Thank you Niveditaji. These posts help me understand the Sanskrit words. One always wants to know Sanskrit and some one like you make it easy to move in that direction. You have given me inspiration and material to hold on to when I will understand and grasp the grammar rules! I wish I was in near vicinity to actually meet you!

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s