Swamini Svatmavidyananda – Full Text – Amruta Bindu Upanishad

Amrita Bindu Upanishad from the Atharva Veda

Taught by Swamini Svatmavidyananda during Feb-March 2016.

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ।

॥ अमृतबिन्दूपनिषत् ॥ or ॥ ब्रह्मबिन्दु-उपनिषत् ॥

1.

मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च ।
अशुद्धं कामसङ्कल्पं शुद्धं कामविवर्जितम् ॥ १ ॥

मन: हि द्विविधं प्रोक्तं शुद्धं च अशुद्धम् एव च ।
अशुद्धं कामसङ्कल्पं शुद्धं कामविवर्जितम् ॥ १ ॥

शुद्धं च अशुद्धम् च इति मन: द्विविधं प्रोक्तम् अस्ति | अशुद्धं मन: काम-सङ्कल्पं भवति | शुद्धं मन: काम-विवर्जितम् भवति |

Manō hi dvividhaṁ prōktaṁ śud’dhaṁ cāśud’dhamēva ca.
Aśud’dhaṁ kāmasaṅkalpaṁ śud’dhaṁ kāmavivarjitam  1

Mind is of two kinds, pure and impure. The impure mind is possessed of desire; the pure mind is free from desire.

2.

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय  विषयासक्तं मुक्तं निर्विषयं स्मृतम् ॥ २ ॥

मनः एव मनुष्याणां कारणं बन्ध-मोक्षयोः ।
बन्धाय विषयासक्तं मुक्तं निर्विषयं स्मृतम् ॥ २ ॥

मनुष्याणां बन्ध-मोक्षयोः कारणं मनः एव भवति । विषय+आसक्तं बन्धाय भवति | निर्विषयं मुक्तं भवति इति स्मृतम् |

Mana ēva manuṣyāṇāṁ kāraṇaṁ bandhamōkṣayōḥ.
Bandhāya viṣayāsaktaṁ muktaṁ nirviṣayaṁ smr̥tam 2

Mind alone is the cause for people’s bondage and liberation. When attached to objects, it leads to bondage. When free from objects, it leads to liberation.

3.

यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते ।
अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा ॥ ३ ॥

यतः निर्विषयस्य अस्य मनसः मुक्तिः इष्यते ।
अतः निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा ॥ ३ ॥

यतः अस्य निर्विषयस्य मनसः मुक्तिः इष्यते, अतः नित्यं निर्विषयं मनः एव मुमुक्षुणा करणीयं कार्यं भवति |

Yatō nirviṣayasyāsya manasō muktiriṣyatē.
Atō nirviṣayaṁ nityaṁ manaḥ kāryaṁ mumukṣuṇā 3

Since liberation depends on the mind being free from objects, the mind should always be made free from objects by one who seeks liberation.

4

निरस्तविषयासङ्गं सन्निरुद्धं मनो हृदि ।
यदाऽऽयात्यात्मनो भावं तदा तत्परमं पदम् ॥ ४ ॥

निरस्त-विषय+आसङ्गं सन्निरुद्धं मनः हृदि ।
यदा आयाति आत्मनः भावं तदा तत्परमं पदम् ॥ ४ ॥

यदा निरस्त-विषय+आसङ्गं, हृदि सन्निरुद्धं, मनः, आत्मनः भावं आयाति,  तदा तत्परमं पदं प्राप्नोति |

Nirastaviṣayāsaṅgaṁ sannirud’dhaṁ manō hr̥di.
Yadā̕̕yātyātmanō bhāvaṁ tadā tatparamaṁ padam. 4.

When the mind is free from attachment to objects, being fully restrained in the heart and thus attains its own state, then the supreme goal (is reached).

5

तावदेव निरोद्धव्यं यावद्धृदि गतं क्षयम् ।
एतज्ज्ञानं च ध्यानं च शेषो न्यायश्च विस्तरः ॥ ५ ॥

तावत् एव निरोद्धव्यं यावत् हृदि गतं क्षयम् ।
एतत् ज्ञानं च ध्यानं च शेषः न्यायः च विस्तरः ॥ ५ ॥

यावत् हृदि क्षयं गतं भवति, तावत् एव निरोद्धव्यं । एतत् ज्ञानं च ध्यानं च भवति | शेषः, विस्तरः न्यायः एव भवति |

Tāvadēva nirōd’dhavyaṁ yāvad’dhr̥di gataṁ kṣayam
Ētajjñānaṁ ca dhyānaṁ ca śēṣō n’yāyaśca vistaraḥ 5

The mind should be restrained to the extent that it resolves in the heart. This is wisdom and meditation. All else is but mere logic.

6

नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च ।
पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा ॥ ६ ॥

न एव चिन्त्यं न च अचिन्त्यं न चिन्त्यं चिन्त्यम् एव च ।
पक्षपात+विनिर्मुक्तं ब्रह्म संपद्यते तदा ॥ ६ ॥

ब्रह्म न एव चिन्त्यम् | ब्रह्म न च अचिन्त्यम् | ब्रह्म न चिन्त्यम् अस्ति चेत् अपि चिन्त्यम् एव च । यदा चिन्त्यं कृतं तदा पक्षपात+विनिर्मुक्तं ब्रह्म संपद्यते |

Naiva cintyaṁ na cācintyaṁ na cintyaṁ cintyamēva ca
Pakṣapātavinirmuktaṁ brahma sampadyatē tadā 6

It (Brahman) is not conceivable, nor is it inconceivable. Though inconceivable, it should be inquired into. Then Brahman, free from all concepts, can be attained.

7

स्वरेण सन्धयेद्योगमस्वरं भावयेत्परम् ।
अस्वरेणानुभावेन भावो नाभाव इष्यते ॥ ७ ॥

स्वरेण सन्धयेत् योगम् अस्वरं भावयेत्  परम् ।
अस्वरेण अनुभावेन न अभावः भावः इष्यते ॥ ७ ॥

स्वरेण सन्धयेत् योगम् | (ततः) अस्वरं परं भावयेत्  ।  अस्वरेण अनुभावेन भावः अभावः न इष्यते |

Svarēṇa sandhayēdyōgamasvaraṁ bhāvayētparam
Asvarēṇānubhāvēna bhāvō nābhāva iṣyatē 7

With sound, one should practice meditation. (Then) without sound, one should meditate on the transcendent (brahman). By meditation without sound, the existent cannot remain absent.

8

तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् ।
तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म सम्पद्यते ध्रुवम् ॥ ८ ॥

तत् एव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् ।
तत् ब्रह्म अहम् इति ज्ञात्वा ब्रह्म सम्पद्यते ध्रुवम् ॥ ८ ॥

तत् एव निष्कलं निर्विकल्पं निरञ्जनम् ब्रह्म । “तत् ब्रह्म अहम्” इति ज्ञात्वा, ब्रह्म ध्रुवम् सम्पद्यते |

Tadēva niṣkalaṁ brahma nirvikalpaṁ nirañjanam
Tadbrahmāhamiti jñātvā brahma sampadyatē dhruvam 8

That indeed is Brahman – part-less, beyond concepts, untainted. Knowing “I am that Brahman,” Brahman is certainly attained.

9

निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् ।
अप्रमेयमनादिं च यज्ज्ञात्वा मुच्यते बुधः ॥ ९ ॥

निर्विकल्पम् अनन्तं च हेतुदृष्टान्तवर्जितम् |
अप्रमेयम् अनादिं च यत् ज्ञात्वा मुच्यते बुधः ॥ ९ ॥

यत् निर्विकल्पम् अनन्तं हेतु-दृष्टान्त-वर्जितम्  अप्रमेयं अनादिं च  अस्ति, तत् ज्ञात्वा, बुधः मुच्यते |

Nirvikalpamanantaṁ ca hētudr̥ṣṭāntavarjitam
Apramēyamanādiṁ ca yajjñātvā mucyatē budhaḥ 9

Beyond concepts, limitless, beyond reason and analogy… beyond inference, causeless – knowing this (Brahman), the wise one becomes free.

10

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ १० ॥

न निरोधः न च उत्पत्तिः न बद्धः न च साधकः ।
न मुमुक्षुः न वै मुक्तः इति एषा परमार्थता ॥ १० ॥

तत् ज्ञात्वा, मुच्यस्य बुधस्य मनसः निरोधः न भवति | मनसः उत्पत्तिः च  न | सः बद्धः न | सः साधकः च न भवति । सः मुमुक्षुः न भवति | न वै मुक्तः भवति इति एषा परम+अर्थता |

Na nirōdhō na cōtpattirna bad’dhō na ca sādhakaḥ
Na mumukṣurna vai mukta ityēṣā paramārthatā 10

(Then for the wise one who is free) there is neither restraint nor activity (of the mind), nor is he in bondage or engaged in practice. Nor is he a seeker of liberation or liberated. Thus is the highest truth.

11

एक एवाऽऽत्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु ।
स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते ॥ ११ ॥

एक एव आत्मा मन्तव्यः जाग्रत्-स्वप्न-सुषुप्तिषु  |
स्थान-त्रय-व्यतीतस्य पुनः जन्म न विद्यते |

जाग्रत्-स्वप्न-सुषुप्तिषु  एक एव आत्मा मन्तव्यः | स्थान-त्रय-व्यतीतस्य पुनः जन्म न विद्यते |

Ēka ēvā̕̕tmā mantavyō jāgratsvapnasuṣuptiṣu
Sthānatrayavyatītasya punarjanma na vidyatē 11

Atma should be known to be the same in waking, dream, and sleep. For one who has transcended these three states, there is no rebirth.

12

एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृष्यते जलचन्द्रवत् ॥ १२ ॥

एकः एव हि भूत+आत्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा च एव दृष्यते जल+चन्द्र+वत् ॥ १२ ॥

भूते भूते व्यवस्थितः भूत+आत्मा एकः एव हि । जल+चन्द्र+वत् एकधा बहुधा च एव दृष्यते ।

Ēka ēva hi bhūtātmā bhūtē bhūtē vyavasthitaḥ
Ēkadhā bahudhā caiva dr̥ṣyatē jalacandravat 12

The one essence of all is present in every being. Though one, it appears as many, like the moon reflected in (many pots of) water.

13

घटसंवृतमाकाशं नीयमाने घटे यथा ।
घटो नीयेत नाऽकाशः तथा जीवो नभोपमः ॥ १३ ॥

घट+संवृतं आकाशं नीयमाने घटे यथा ।
घटः नीयेत न आकाशः तद्धात् जीवः नभ+उपमः ॥ १३ ॥

यथा घटे नीयमाने (सति) घट+संवृतं आकाशं, घटः नीयेत | आकाशः न | तद्धात् जीवः नभ+उपमः |

Ghaṭasanvr̥tamākāśaṁ nīyamānē ghaṭē yathā
Ghaṭō nīyēta nā̕kāśaḥ tathā jīvō nabhōpamaḥ 13

When a pot that contains space is moved, it is the pot that moves, not the space within. Thus it is for a person (whose consciousness) is like space.

14

घटवद्विविधाकारं भिद्यमानं पुनः पुनः ।
तद्भग्नं न च जानाति स जानाति च नित्यशः ॥ १४ ॥

घटवत् विविधाकारं भिद्यमानं पुनः पुनः ।
तत् भग्नं न च जानाति स जानाति च नित्यशः ॥ १४ ॥

घटवत् पुनः पुनः विविधाकारं भिद्यमानं तत् भग्नं च न जानाति | सः नित्यशः जानाति च |

Ghaṭavadvividhākāraṁ bhidyamānaṁ punaḥ punaḥ
Tadbhagnaṁ na ca jānāti sa jānāti ca nityaśaḥ 14

Like the pot, (one’s body) gains various forms and gets destroyed again and again. (One’s body) does not know of its destruction. That (atma) knows continually.

15

शब्दमायावृतो नैव तमसा याति पुष्करे ।
भिन्ने तमसि चैकत्वमेक एवानुपश्यति ॥ १५ ॥

शब्दमाया+आवृतः न एव तमसा याति पुष्करे ।
भिन्ने तमसि च एकत्वम् एकः एव अनुपश्यति ॥ १५ ॥

तमसा शब्दमाया+आवृतः, पुष्करे न एव याति । भिन्ने तमसि (सति) च एकः एकत्वम् एव अनुपश्यति |

Śabdamāyāvr̥tō naiva tamasā yāti puṣkarē
Bhinnē tamasi caikatvamēka ēvānupaśyati 15

Enveloped by the delusion of words due to ignorance, one cannot reach the lotus (atma). When ignorance is destroyed, the one (atma) perceives only oneness.

16

शब्दाक्षरं परं ब्रह्म तस्मिन्क्षीणे यदक्षरम् ।
तद्विद्वानक्षरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः ॥ १६ ॥

शब्द+अक्षरं परं ब्रह्म तस्मिन् क्षीणे यत् अक्षरम् ।
तत् विद्वान् अक्षरं ध्यायेत् यदि इच्छेत् शान्तिम् आत्मनः ॥ १६ ॥

शब्द+अक्षरं परं ब्रह्म | तस्मिन् क्षीणे यत् अक्षरम् (अस्ति), विद्वान् तत् अक्षरं ध्यायेत् , यदि आत्मनः शान्तिम् इच्छेत् |

Śabdākṣaraṁ paraṁ brahma tasminkṣīṇē yadakṣaram
Tadvidvānakṣaraṁ dhyāyēdyadīcchēcchāntimātmanaḥ 16

(First) the syllable om is (meditated upon as) brahman. Then when it has faded, the imperishable Brahman (remains). A wise one should meditate on that imperishable if he desires the peace of atma.

17

द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७ ॥

द्वे विद्ये वेदितव्ये तु शब्द-ब्रह्म परं च यत् ।
शब्द-ब्रह्मणि निष्णातः परं ब्रह्म अधिगच्छति ॥ १७ ॥

द्वे विद्ये तु वेदितव्ये, शब्द-ब्रह्म च यत् परं च | शब्द-ब्रह्मणि निष्णातः परं ब्रह्म अधिगच्छति |

Dvē vidyē vēditavyē tu śabdabrahma paraṁ ca yat
Śabdabrahmaṇi niṣṇātaḥ paraṁ brahmādhigacchati 17

Two kinds of meditation are to be practiced – meditation on Om and on Brahman. One skilled in meditation on Om reaches Brahman.

18

ग्रन्थमभ्यस्य मेधावी ज्ञानवीज्ञानतत्परः ।
पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ १८ ॥

ग्रन्थम् अभ्यस्य मेधावी ज्ञान+वीज्ञान+तत्परः ।
पलालम् इव धान्यार्थी त्यजेत् ग्रन्थं अशेषतः ॥ १८ ॥

मेधावी ज्ञान+वीज्ञान+तत्परः ग्रन्थम् अभ्यस्य,  ग्रन्थं अशेषतः त्यजेत्, धान्यार्थी पलालम् इव |

Granthamabhyasya mēdhāvī jñānavījñānatatparaḥ
Palālamiva dhān’yārthī tyajēdgranthamaśēṣataḥ 18

After studying the scriptures, an intelligent person intent on gaining knowledge and liberation should discard the scriptures altogether, like one who desires grain discards the husk.

19

गवामनेकवर्णानां क्षीरस्याप्येकवर्णता ।
क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा ॥ १९ ॥

गवाम् अनेक-वर्णानां क्षीरस्य अपि एक-वर्णता ।
क्षीरवत् पश्यते ज्ञानं लिङ्गिनः तु गवां यथा ॥ १९ ॥

अनेक-वर्णानां गवाम्  अपि क्षीरस्य एक-वर्णता (भवति) ।  क्षीरवत्  ज्ञानं पश्यते, यथा गवां (सदृशाः) लिङ्गिनः तु  (भवन्ति) |

Gavāmanēkavarṇānāṁ kṣīrasyāpyēkavarṇatā
Kṣīravatpaśyatē jñānaṁ liṅginastu gavāṁ yathā 19

Cows of different colors have milk of one color. Knowledge is like the milk and scriptures are like the cows.

20

घृतमिव पयसि निगूढं भूते भूते वसति विज्ञानम् ।
सततं मन्थयितव्यं  मनसा मन्थानभूतेन ॥ २० ॥

घृतम् इव पयसि निगूढं भूते भूते वसति विज्ञानम् ।
सततं मन्थयितव्यं  मनसा मन्थानभूतेन ॥ २० ॥

पयसि निगूढं घृतम् इव, भूते भूते विज्ञानं वसति । मन्थान-भूतेन मनसा सततं मन्थयितव्यं  |

Ghr̥tamiva payasi nigūḍhaṁ bhūtē bhūtē vasati vijñānam
Satataṁ manthayitavyaṁ manasā manthānabhūtēna 20

Like butter hidden in milk, consciousness dwells in every being. It should be constantly churned by the mind with the churning rod of the mind.

21

ज्ञाननेत्रं समाधाय चोद्धरेद्वह्निवत्परम् ।
निष्कलं निश्चलं शान्तं तद्ब्रह्माहमिति स्मृतम् ॥ २१ ॥

ज्ञाननेत्रं समाधाय उद्धरेत् वह्निवत् परम् ।
निष्कलं निश्चलं शान्तं तत् ब्रह्म अहम् इति स्मृतम् ॥ २१ ॥

ज्ञाननेत्रं समाधाय वह्निवत् परम् उद्धरेत् । निष्कलं निश्चलं शान्तं तत् ब्रह्म अहम् इति स्मृतम् |

Jñānanētraṁ samādhāya cōd’dharēdvahnivatparam
Niṣkalaṁ niścalaṁ śāntaṁ tadbrahmāhamiti smr̥tam 21

Grasping the rope of knowledge, one should bring out Brahman like (churning a stick to make) fire. I am that part-less, unchanging, silent Brahman, thus it should be remembered.

22

सर्वभूताधिवासं यद्भूतेषु च वसत्यपि ।
सर्वानुग्राहकत्वेन तदस्म्यहं वासुदेवः तदस्म्यहं वासुदेव इति ॥ २२ ॥

सर्वभूताधिवासं यत् भूतेषु च वसति अपि ।
सर्व+अनुग्राहकत्वेन तत् अस्मि अहं वासुदेवः तत् अस्मि अहं वासुदेवः इति ॥ २२ ॥

यत् सर्वभूताधिवासं,  यत् भूतेषु सर्व+अनुग्राहकत्वेन च वसति अपि, अहं तत् वासुदेवः अस्मि अहं तत् वासुदेवः अस्मि इति |

Sarvabhūtādhivāsaṁ yadbhūtēṣu ca vasatyapi
Sarvānugrāhakatvēna tadasmyahaṁ vāsudēvaḥ tadasmyahaṁ vāsudēva iti 22

In whom all beings reside, and who resides in all beings as the source of all blessings  – I am that Vasudeva.

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ।

॥ इति ब्रह्मबिन्दूपनिषत्समाप्ता ॥

Iti brahmabindūpaniṣatsamāptā

The class notes are available here – https://nivedita2015.wordpress.com/category/gyan-swamini-svatmavidyananda/

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s