Bhagavad Gita – Chapter 1

श्रीमद्भगवद्गीता – प्रथमोध्यायः – अर्जुनविषादयोगः

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।

मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥१॥

पदच्छेदः

धर्मक्षेत्रे, कुरुक्षेत्रे, समवेताः, युयुत्सवः, मामकाः, पाण्डवाः, च, एव, किम्, अकुर्वत, सञ्जय

अन्वयः

सञ्जय ! धर्मक्षेत्रे कुरुक्षेत्रे समेवेताः युयुत्सवः मामकाः पाण्डवाः च एव किम् अकुर्वत ?

पदपरिचय:

  • सम्बोधनपदम् = सञ्जय!
  • प्रथमवाक्यम्
    • क्रियापदम् = अकुर्वत
    • प्रश्नवाचक-कर्म-पदम् = किम्
    • वाक्यांश:
      • कर्तृविशेषणम् = समेवेताः
      • अधिकरणपदम् = कुरुक्षेत्रे
      • अधिकरण-विशेषणम् = धर्मक्षेत्रे
    • कर्तृविशेषणम् = युयुत्सवः
    • वाक्यांश:
      • कर्तृपदम् = मामकाः
      • कर्तृपदम् = पाण्डवाः
      • संयोजकपदम् = च
    • कर्तृ-विशेषण-सूचक-पदम् = एव

सञ्जय उवाच –

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।

आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥२॥

पदच्छेदः

सञ्जयः उवाच – दृष्ट्वा, तु, पाण्डवानीकम्, व्यूढम्, दुर्योधनः, तदा, आचार्यम्, उपसङ्गम्य, राजा, वचनम्, अब्रवीत्

अन्वयः

तदा तु व्यू्ढं पाण्डवानीकं दृष्ट्वा राजा दुर्योधनः आचार्यम् उपसङ्गम्य वचनम् अब्रवीत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अब्रवीत्
    • कर्मपदम् = वचनम्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = उपसङ्गम्य
      • कर्मपदम् = आचार्यम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = दृष्ट्वा
      • कर्मपदम् = पाण्डवानीकम्
      • कर्मविशेषणम् = व्यू्ढम्
    • कालवाचकपदम् = तदा
    • कालवाचक-विशेषण-सूचक-पदम् = तु
    • कर्तृपदम् = दुर्योधनः
    • कर्तृविशेषणम् = राजा

पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् ।

व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥

पदच्छेदः

पश्य, एताम्, पाण्डुपुत्राणाम्, आचार्य, महतीम्, चमूम् । व्यूढाम्, द्रुपदपुत्रेण, तव, शिष्येण, धीमता ॥

अन्वयः

आचार्य ! तव धीमता शिष्येण द्रुपदपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य ।

पदपरिचय:

  • सम्बोधनपदम् = आचार्य!
  • प्रथमवाक्यम्
    • क्रियापदम् = पश्य
    • वाक्यांश:
      • कर्मपदम् = चमूम्
      • कर्मविशेषणम् = एताम्
      • कर्मविशेषणम् = महतीम्
      • सम्बन्ध-पदम् = पाण्डुपुत्राणाम्
      • कर्मविशेषण-वाक्यांश:
        • क्रिया-गर्भ-कर्मपदम्= व्यूढाम्
        • (कर्मणि) कर्तृपदम् = द्रुपदपुत्रेण
        • वाक्यांश:
          • (कर्मणि) कर्तृविशेषणम् = शिष्येण
          • (कर्मणि) कर्तृविशेषणम् = धीमता
          • सम्बन्ध-पदम् = तव

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।

युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४॥

पदच्छेदः

अत्र, शूराः, महेष्वासाः, भीमार्जुनसमाः, युधि । युयुधानः, विराटः, च, द्रुपदः, च, महारथः ॥४॥

अन्वयः

अत्र महेष्वासाः युधि भीमार्जुनसमाः शूराः युयुधानाः च विराटः च महारथः दृपदः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • अधिकरणपदम् = अत्र
    • कर्तृपदम् = महेष्वासाः
    • वाक्यांश:
      • कर्तृपदम् = भीमार्जुनसमाः
      • अधिकरणपदम् = युधि
    • कर्तृपदम् = शूराः
    • कर्तृपदम् = युयुधानाः
    • कर्तृपदम् = विराटः
    • कर्तृपदम् = महारथः
    • कर्तृपदम् = दृपदः
    • संयोजकपदम् = च

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।

पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५॥

पदच्छेदः

धृष्टकेतुः, चेकितानः, काशिराजः, च, वीर्यवान् । पुरुजित्, कुन्तिभोजः, च, शैब्यः, च, नरपुङ्गवः ॥ ५ ॥

अन्वयः

च धृष्टकेतुः चेकितानः च वीर्यवान् काशिराजः पुरुजित् कुन्तिभोजः च नरपुङ्गवः शैब्यः….. ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृपदम् = धृष्टकेतुः
    • कर्तृपदम् = चेकितानः
    • वाक्यांश:
      • कर्तृपदम् = काशिराजः
      • कर्तृविशेषणम् = काशिराजः
    • कर्तृपदम् = पुरुजित्
    • कर्तृपदम् = कुन्तिभोजः
    • वाक्यांश:
      • कर्तृपदम् = शैब्यः
      • कर्तृविशेषणम् = नरपुङ्गवः
    • संयोजकपदम् = च

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।

सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥

पदच्छेदः

युधामन्युः, च, विक्रान्तः, उत्तमौजाः, च, वीर्यवान् । सौभद्रः, द्रौपदेयाः, च, सर्वे, एव, महारथाः ॥६॥

अन्वयः

च विक्रान्तः युधामन्युः च वीर्यवान् उत्तमौजाः सौभद्रः च द्रौपदेयाः सर्वे एव महारथाः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्यांश:
      • कर्तृपदम् = युधामन्युः
      • कर्तृविशेषणम् = विक्रान्तः
    • वाक्यांश:
      • कर्तृपदम् = उत्तमौजाः
      • कर्तृविशेषणम् = वीर्यवान्
    • कर्तृपदम् = सौभद्रः
    • कर्तृपदम् = द्रौपदेयाः
    • कर्तृ-विशेषण-वाक्यांश:
      • कर्तृपदम् = महारथाः
      • कर्तृविशेषणम् = सर्वे
      • कर्तृ-विशेषण-सूचक-पदम् = एव

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।

नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥

पदच्छेदः

अस्माकम्, तु, विशिष्टाः, ये, तान्, निबोध, द्विजोत्तम । नायकाः, मम, सैन्यस्य, संज्ञार्थम्, तान्, ब्रवीमि, ते ॥ ७ ॥

अन्वयः

द्विजोत्तम ! अस्माकं तु ये विशिष्टाः तान् निबोध । मम सैन्यस्य (ये) नायकाः तान् ते संज्ञार्थं ब्रवीमि ।

पदपरिचय:

  • सम्बोधनपदम् = द्विजोत्तम!
  • प्रथमवाक्यम्
    • “ये” वाक्यांश:
      • क्रियापदम् = (सन्ति)
      • कर्तृविशेषणम् = विशिष्टाः
      • वाक्यांश:
        • कर्तृपदम् = ये
        • सम्बन्ध-पदम् = अस्माकम्
        • सम्बन्ध-विशेषण-पदम् = तु
      • “तान्” वाक्यांश:
        • क्रियापदम् = निबोध
        • कर्मपदम् = तान्
        • कर्तृपदम् = (त्वम्)
      • द्वितीयवाक्यम्
        • “(ये)” वाक्यांश:
          • क्रियापदम् = (सन्ति)
          • कर्तृ-विशेषण-सूचक-पदम् = नायकाः
          • कर्तृपदम् = (ये)
        • “तान्” वाक्यांश:
          • क्रियापदम् = ब्रवीमि
          • क्रियाविशेषणम् = संज्ञार्थम्
          • सम्प्रदानपदम् = ते
          • कर्मपदम् = तान्
          • कर्तृपदम् = (अहम्)

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥

पदच्छेदः

भवान्, भीष्मः, च, कर्णः, च, कृपः, च, समितिञ्जयः । अश्वत्थामा, विकर्णः, च, सौमदत्तिः, तथा, एव, च ॥८॥

अन्वयः

भवान् भीष्मः कर्णः समितिञ्जयः च कृपः अश्वत्थामा विकर्णः तथा एव सौमदत्तिः (सन्ति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृपदम् = भवान्
    • कर्तृपदम् = भीष्मः
    • कर्तृपदम् = कर्णः
    • कर्तृपदम् = समितिञ्जयः
    • कर्तृपदम् = कृपः
    • कर्तृपदम् = अश्वत्थामा
    • कर्तृपदम् = विकर्णः
    • वाक्यांश:
      • क्रियाविशेषणम् = तथा
      • क्रियाविशेषण-सूचक-पदम् = एव
      • कर्तृपदम् = सौमदत्तिः
    • संयोजकपदम् = च

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥

पदच्छेदः

अन्ये, च, बहवः, शूराः, मदर्थे, त्यक्तजीविताः । नानाशस्त्रप्रहरणाः, सर्वे, युद्धविशारदाः ॥९॥

अन्वयः

नानाशस्त्रप्रहरणाः शूराः सर्वे युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = त्यक्तजीविताः
      • कर्तृविशेषणम् = बहवः
      • कर्तृविशेषणम् = अन्ये
      • संयोजकपदम् = च
      • कारण-सूचक-अधिकरणपदम् = मदर्थे
    • कर्तृविशेषणम् = नानाशस्त्रप्रहरणाः
    • कर्तृविशेषणम् = शूराः
    • कर्तृपदम् = सर्वे
    • कर्तृविशेषणम् = युद्धविशारदाः

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥

पदच्छेदः

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१०॥

अन्वयः

अस्माकं भीष्माभिरक्षितं तद् बलम् अपर्याप्तम् । इदं तु एतेषां भीमाभिरक्षितं बलं पर्याप्तम् (अस्ति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अपर्याप्तम्
    • कर्तृपदम् = बलम्
    • कर्तृविशेषणम् = तद्
    • कर्तृविशेषणम् = भीष्माभिरक्षितम्
    • सम्बन्ध-पदम् = अस्माकम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = पर्याप्तम्
    • कर्तृपदम् = बलम्
    • कर्तृविशेषणम् = भीमाभिरक्षितम्
    • सम्बन्ध-पदम् = एतेषाम्
    • कर्तृविशेषणम् = इदम्
    • कर्तृ-विशेषण-सूचक-पदम् = तु

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।

भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥

पदच्छेदः

अयनेषु च सर्वेषु यथाभागम् अवस्थिताः । भीष्मम् एव अभिरक्षन्तु भवन्तः सर्व एव हि ॥

अन्वयः

सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे भीष्मम् एव अभिरक्षन्तु ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अभिरक्षन्तु
    • कर्मपदम् = भीष्मम्
    • कर्मविशेषण-सूचक-पदम् = एव
    • कर्तृपदम् = सर्वे
    • कर्तृविशेषणम् = भवन्तः
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= अवस्थिताः
      • क्रियाविशेषणम् = यथाभागम्
      • अधिकरणपदम् = अयनेषु
      • अधिकरण-विशेषणम् = सर्वेषु

तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः ।

सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥

पदच्छेदः

तस्य, सञ्जनयन्, हर्षम्, कुरुवृद्धः, पितामहः । सिंहनादम्, विनद्य, उच्चैः, शङ्खम्, दध्मौ, प्रतापवान् ॥

अन्वयः

प्रतापवान् कुरुवृद्धः पितामहः तस्य हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = दध्मौ
    • क्रियाविशेषणम् = उच्चैः
    • कर्मपदम् = शङ्खम्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = विनद्य
      • कर्मपदम् = सिंहनादम्
    • कर्तृपदम् = पितामहः
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= सञ्जनयन्
      • कर्मपदम् = हर्षम्
      • सम्बन्ध-पदम् = तस्य
    • कर्तृविशेषणम् = कुरुवृद्धः
    • कर्तृविशेषणम् = प्रतापवान्

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥

पदच्छेदः

ततः, शङ्खाः, च, भेर्यः, च, पणवानकगोमुखाः । सहसा, एव, अभ्यहन्यन्त, सः, शब्दः, तुमुलः, अभवत् ॥

अन्वयः

ततः शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त । सः शब्दः तुमुलः अभवत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अभ्यहन्यन्त
    • क्रियाविशेषणम् = सहसा
    • क्रियाविशेषण-सूचक-पदम् = एव
    • कर्तृपदम् = शङ्खाः
    • कर्तृपदम् = भेर्यः
    • कर्तृपदम् = पणवानकगोमुखाः
    • संयोजकपदम् = च
  • द्वितीयवाक्यम्
    • क्रियापदम् = अभवत्
    • कर्तृ-विशेषण-सूचक-पदम् = तुमुलः
    • कर्तृपदम् = शब्दः
    • कर्तृविशेषणम् = सः

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।

माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥

पदच्छेदः

ततः, श्वेतैः, हयैः, युक्ते, महति, स्यन्दने, स्थितौ । माधवः, पाण्डवः, च, एव, दिव्यौ, शङ्खौ, प्रदध्मतुः ॥

अन्वयः

ततः माधवः पाण्डवशः च श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = प्रदध्मतुः
    • कर्तृपदम् = शङ्खौ
    • कर्तृविशेषणम् = दिव्यौ
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= स्थितौ
      • अधिकरणपदम् = स्यन्दने
      • अधिकरण-विशेषणम् = महति
    • वाक्यांश:
      • क्रिया-गर्भ-अधिकरण-विशेषणम् = युक्ते
      • (कर्मणि) कर्तृपदम् = हयैः
      • (कर्मणि) कर्तृविशेषणम् = श्वेतैः
    • कर्तृपदम् = माधवः
    • कर्तृपदम् = पाण्डवशः
    • संयोजकपदम् = च
    • संयोजकपदम् = ततः

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।

नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥

पदच्छेदः

पाञ्चजन्यम्, हृषीकेशः, देवदत्तम्, धनञ्जयः । पौण्ड्रम्, दध्मौ, महाशङ्खम्, भीमकर्मा, वृकोदरः ॥

अनन्तविजयम्, राजा, कुन्तीपुत्रः, युधिष्ठिरः । नकुलः, सहदेवः, च, सुघोषमणिपुष्पकौ ॥

अन्वयः

हृषीकेशः पाञ्चजन्यं धनञ्जयः देवदत्तं भीमकर्मा वृकोदरः महाशङ्खं पौण्ड्रं कुन्तीपुत्रः राजा युधिष्ठिरः अनन्तविजयं नकुलः सहदेवः च सुघोषमणिपुष्पकौ दध्मौ ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = दध्मौ
    • वाक्यांश:
      • कर्तृपदम् = हृषीकेशः
      • कर्मपदम् = पाञ्चजन्यम्
    • वाक्यांश:
      • कर्तृपदम् = धनञ्जयः
      • कर्मपदम् = देवदत्तम्
    • वाक्यांश:
      • कर्तृपदम् = वृकोदरः
      • कर्तृविशेषणम् = भीमकर्मा
      • कर्मपदम् = पौण्ड्रम्
      • कर्मविशेषणम् = महाशङ्खम्
    • वाक्यांश:
      • कर्तृपदम् = युधिष्ठिरः
      • कर्तृविशेषणम् = राजा
      • कर्तृविशेषणम् = कुन्तीपुत्रः
      • कर्मपदम् = अनन्तविजयम्
    • वाक्यांश:
      • कर्तृपदम् = नकुलः
      • कर्तृपदम् = सहदेवः
      • संयोजकपदम् = च
      • कर्मपदम् = सुघोषमणिपुष्पकौ

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १७ ॥

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।

सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १८ ॥

पदच्छेदः

काश्यः, च, परमेष्वासः, शिखण्डी, च, महारथः । धृष्टद्युम्नः, विराटः, च, सात्यकिः, च, अपराजितः ॥ द्रुपदः, द्रौपदेयाः, च, सर्वशः पृथिवीपते । सौभद्रः, च, महाबाहुः, शङ्खान्, दध्मुः, पृथक्, पृथक् ॥

अन्वयः

पृथिवीपते ! परमेष्वासः काश्यः, महारथः शिखण्डी, धृष्टद्युम्नः, विराटः, अपराजितः सात्यकिः, द्रुपदः, द्रौपदेयाः, महाबाहुः सौभद्रः च सर्वशः पृथक् पृथक् शङ्खान् दध्मुः ।

पदपरिचय:

  • सम्बोधनपदम् = पृथिवीपते!
  • प्रथमवाक्यम्
    • क्रियापदम् = दध्मुः
    • क्रियाविशेषणम् = सर्वशः
    • वाक्यांश:
      • कर्मपदम् = शङ्खान्
      • कर्मविशेषण-सूचक-पदम् = पृथक्
    • वाक्यांश:
      • कर्तृपदम् = काश्यः,
      • कर्तृविशेषणम् = परमेष्वासः
    • वाक्यांश:
      • कर्तृपदम् = शिखण्डी,
      • कर्तृविशेषणम् = महारथः
    • कर्तृपदम् = धृष्टद्युम्नः,
    • कर्तृपदम् = विराटः,
    • वाक्यांश:
      • कर्तृपदम् = सात्यकिः,
      • कर्तृविशेषणम् = अपराजितः
    • कर्तृपदम् = द्रुपदः,
    • कर्तृपदम् = द्रौपदेयाः,
    • वाक्यांश:
      • कर्तृपदम् = सौभद्रः
      • कर्तृपदम् = महाबाहुः
    • संयोजकपदम् = च

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ १९ ॥

पदच्छेदः

सः, घोषः, धार्तराष्ट्राणाम्, हृदयानि, व्यदारयत् । नभः, च, पृथिवीम्, च, एव, तुमुलः, व्यनुनादयन् ॥

अन्वयः

सः तुमुलः घोषः नभः पृथिवीं च व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = व्यदारयत्
    • वाक्यांश:
      • कर्मपदम् = हृदयानि
      • सम्बन्ध-पदम् = धार्तराष्ट्राणाम्
    • कर्तृपदम् = घोषः
    • कर्तृविशेषणम् = सः
    • कर्तृविशेषणम् = तुमुलः
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= व्यनुनादयन्
      • कर्मपदम् = नभः
      • कर्मपदम् = पृथिवीम्
      • संयोजकपदम् = च

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।

प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ २० ॥

हृषीकेशं तदा वाक्यम् इदमाह महीपते ।

पदच्छेदः

अथ, व्यवस्थितान्, दृष्ट्वा, धार्तराष्ट्रान्, कपिध्वजः । प्रवृत्ते, शस्त्रसम्पाते, धनुः, उद्यम्य, पाण्डवः ॥ हृषीकेशम्, तदा, वाक्यम्, इदम्, आह, महीपते ।

अन्वयः

महीपते ! अथ व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा कपिध्वजः पाण्डवः शस्त्रसम्पाते प्रवृत्ते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह ।

पदपरिचय:

  • सम्बोधनपदम् = महीपते!
  • प्रथमवाक्यम्
    • क्रियापदम् = आह
    • कर्मपदम् = वाक्यम्
    • कर्मविशेषणम् = इदम्
    • सम्प्रदान-सूचक-कर्मपदम् = हृषीकेशम्
    • कालवाचक-वाक्यांश: तदा
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = उद्यम्य
      • कर्मपदम् = धनुः
    • कालवाचक-वाक्यांश:
      • क्रिया-आश्रय-कर्तृपदम् = प्रवृत्ते
      • ज्ञापक-क्रियापदम् = शस्त्रसम्पाते
      • सतिसप्तमि-पदम् = (सति)
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = दृष्ट्वा
      • कर्मपदम् = धार्तराष्ट्रान्
      • कर्मपदम् = व्यवस्थितान्
      • कालवाचकपदम् = अथ
    • कर्तृपदम् = पाण्डवः
    • कर्तृविशेषणम् = कपिध्वजः

अर्जुन उवाच

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥

पदच्छेदः

सेनयोः, उभयोः, मध्ये, रथम्, स्थापय, मे, अच्युत ॥

अन्वयः

अच्युत ! सेनयोः उभयोः मध्ये मे रथं स्थापय ।

पदपरिचय:

  • सम्बोधनपदम् = अच्युत!
  • प्रथमवाक्यम्
    • क्रियापदम् = स्थापय
    • वाक्यांश:
      • कर्मपदम् = रथम्
      • सम्बन्ध-पदम् = मे
    • वाक्यांश:
      • अधिकरणपदम् = मध्ये
      • सम्बन्ध-पदम् = सेनयोः
      • सम्बन्ध-विशेषण-पदम् = उभयोः

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।

कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ २२ ॥

पदच्छेदः

यावत्, एतान्, निरीक्षे, अहम्, योद्धुकामान्, अवस्थितान् । कैः, मया, सह, योद्धव्यम्, अस्मिन्, रणसमुद्यमे ॥

अन्वयः

यावत् अहम् अस्मिन् रणसमुद्यमे कैः सह मया योद्धव्यम् (इति ज्ञातुम्) अवस्थितान् एतान् योद्धुकामान् निरीक्षे  (तावत् रथं स्थापय) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यावत्” वाक्यांश:
      • क्रियापदम् = निरीक्षे
      • कर्तृपदम् = अहम्
      • कर्मपदम् = योद्धुकामान्
      • कर्मविशेषणम् = एतान्
      • वाक्यांश:
        • तुमुनन्तपदम् = (ज्ञातुम्)
        • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= योद्धव्यम्
        • (कर्मणि) कर्तृपदम् = मया
        • करणवाचकपदम् = कैः
        • संयोजकपदम् = सह
        • अधिकरणपदम् = रणसमुद्यमे
        • अधिकरण-विशेषणम् = अस्मिन्
        • संयोजकपदम् = (इति)
      • संयोजकपदम् = यावत्
    • “(तावत्)” वाक्यांश:
      • क्रियापदम् = (स्थापय)
      • कर्मपदम् = (रथम्)
      • कर्तृपदम् = (त्वम्)
      • संयोजकपदम् = (तावत्)

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।

धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥

पदच्छेदः

योत्स्यमानान्, अवेक्षे, अहम्, ये, एते, अत्र, समागताः । धार्तराष्ट्रस्य, दुर्बुद्धेः, युद्धे, प्रियचिकीर्षवः ॥

अन्वयः

दुर्बुद्धेः धार्तराष्ट्रस्य युद्धे प्रियचिकीर्षवः ये एते अत्र समागताः (तान्) योत्स्यमानान् अहम् अवेक्षे ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “ये” वाक्यांश:
      • क्रियापदम् = (सन्ति)
      • कर्तृपदम् = समागताः
      • अधिकरणपदम् = अत्र
      • अधिकरण-विशेषणम् = युद्धे
      • वाक्यांश:
        • कर्तृविशेषणम् = प्रियचिकीर्षवः
        • सम्बन्ध-पदम् = धार्तराष्ट्रस्य
        • सम्बन्ध-विशेषण-पदम् = दुर्बुद्धेः
      • कर्तृविशेषणम् = एते
      • कर्तृविशेषणम् = ये
    • “(तान्)” वाक्यांश:
      • क्रियापदम् = अवेक्षे
      • कर्तृपदम् = अहम्
      • कर्मपदम् = योत्स्यमानान्
      • कर्मविशेषणम् = (तान्)

एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।

सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।

उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥ २५ ॥

पदच्छेदः

एवम्, उक्तः, हृषीकेशः, गुडाकेशेन, भारत । सेनयोः, उभयोः, मध्ये, स्थापयित्वा, रथोत्तमम् ॥

भीष्मद्रोणप्रमुखतः, सर्वेषाम्, च, महीक्षिताम् । उवाच, पार्थ, पश्य, एतान्, समवेतान्, कुरून्, इति ॥

अन्वयः

भारत ! एवं गुडाकेशेन उक्तः हृषीकेशः सेनयोः उभयोः मध्ये भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षितां (प्रमुखतः) रथोत्तमं स्थापयित्वा पार्थ ! एतान् समवेतान् कुरून् पश्य’ इति उवाच ।

पदपरिचय:

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • क्रियापदम् = उवाच
    • कर्तृपदम् = हृषीकेशः
    • कर्तृ-विशेषण-वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= उक्तः
      • क्रियाविशेषणम् = एवम्
      • (कर्मणि) कर्तृपदम् = गुडाकेशेन
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = स्थापयित्वा
      • कर्मपदम् = रथोत्तमम्
      • वाक्यांश:
        • अधिकरणपदम् = मध्ये
        • सम्बन्ध-पदम् = सेनयोः
        • सम्बन्ध-विशेषण-पदम् = उभयोः
      • वाक्यांश:
        • क्रियाविशेषणम् = भीष्मद्रोणप्रमुखतः
        • वाक्यांश:
          • क्रियाविशेषणम् = (प्रमुखतः)
          • सम्बन्ध-पदम् = महीक्षिताम्
          • सम्बन्ध-विशेषण-पदम् = सर्वेषाम्
          • संयोजकपदम् = च
        • कर्म-वाक्यम्
          • सम्बोधनपदम् = पार्थ!
          • क्रियापदम् = पश्य
          • कर्मपदम् = एतान्
          • कर्मविशेषणम् = समवेतान्
          • कर्मविशेषणम् = कुरून्
          • संयोजकपदम् = इति

तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ।

आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ २६ ॥

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।

पदच्छेदः

तत्र, अपश्यत्, स्थितान्, पार्थः, पितॄन्, अथ, पितामहान् । आचार्यान्, मातुलान्, भ्रातॄन्, पुत्रान्, पौत्रान्, सखीन्, तथा ॥ श्वशुरान्, सुहृदः, च, एव, सेनयोः, उभयोः, अपि ।

अन्वयः

अथ पार्थः तत्र स्थितान् पितॄन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् श्वशुरान् सुहृदः च उभयोः अपि सेनयोः अपश्यत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अपश्यत्
    • वाक्यांश:
      • अधिकरणपदम् = सेनयोः
      • सम्बन्ध-पदम् = उभयोः
      • अवधारणम् = अपि
    • वाक्यांश:
      • कर्मपदम् = पितॄन्
      • कर्मपदम् = पितामहान्
      • कर्मपदम् = आचार्यान्
      • कर्मपदम् = मातुलान्
      • कर्मपदम् = भ्रातॄन्
      • कर्मपदम् = पुत्रान्
      • कर्मपदम् = पौत्रान्
      • कर्मपदम् = सखीन्
      • कर्मपदम् = श्वशुरान्
      • कर्मपदम् = सुहृदः
      • संयोजकपदम् = च
    • वाक्यांश:
      • कर्मविशेषणम् = स्थितान्
      • अधिकरणपदम् = तत्र
    • संयोजकपदम् = अथ
    • कर्तृपदम् = पार्थः

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ।

कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥

पदच्छेदः

तान्, समीक्ष्य, सः, कौन्तेयः, सर्वान्, बन्धून्, अवस्थितान् । कृपया, परया, आविष्टः विषीदन्, इदम्, अब्रवीत् ॥

अन्वयः

परया कृपया आविष्टः सः कौन्तेयः तान् सर्वान् अवस्थितान् बन्धून् समीक्ष्य विषीदन् इदम् अब्रवीत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अब्रवीत्
    • कर्मपदम् = इदम्
    • कर्तृपदम् = सः
    • कर्तृविशेषणम् = कौन्तेयः
    • वाक्यांश:
      • कर्तृविशेषणम् = आविष्टः
      • करणवाचकपदम् = कृपया
      • करणविशेषणम् = परया
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = समीक्ष्य
      • कर्मपदम् = बन्धून्
      • कर्मविशेषणम् = तान्
      • कर्मविशेषणम् = सर्वान्
      • कर्मविशेषणम् = अवस्थितान्
    • कर्तृविशेषणम् = विषीदन्

दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ।

सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥ २८ ॥

पदच्छेदः

दृष्ट्वा, इमम्, स्वजनम्, कृष्ण, युयुत्सुम्, समुपस्थितम् । सीदन्ति, मम, गात्राणि, मुखम्, च, परिशुष्यति ॥

अन्वयः

कृष्ण ! युयुत्सुं समुपस्थितम् इमं स्वजनं दृष्ट्वा मम गात्राणि सीदन्ति, मुखं च परिशुष्यति ।

पदपरिचय:

  • सम्बोधनपदम् = कृष्ण!
  • प्रथमवाक्यम्
    • क्रियापदम् = सीदन्ति
    • कर्मपदम् = गात्राणि
    • सम्बन्ध-पदम् = मम
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = दृष्ट्वा
      • कर्मपदम् = स्वजनम्
      • कर्मविशेषणम् = इमम्
      • कर्मविशेषणम् = समुपस्थितम्
      • कर्मविशेषणम् = युयुत्सुम्
    • समुच्चय-वाक्यम्
      • क्रियापदम् = परिशुष्यति
      • कर्तृपदम् = मुखम्
      • संयोजकपदम् = च

सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।

वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥

गाण्डीवं स्रंसते हस्तात् त्वक्चैव परिदह्यते ।

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ३० ॥

पदच्छेदः

सीदन्ति, मम, गात्राणि, मुखम्, च, परिशुष्यति । वेपथुः, च, शरीरे, मे, रोमहर्षः, च, जायते ॥

वेपथुः, च, शरीरे, मे, रोमहर्षः, च, जायते ॥ गाण्डीवम्, स्रंसते, हस्तात्, त्वक्, च, एव, परिदह्यते । न, च, शक्नोमि, अवस्थातुम्, भ्रमति, इव, च, मे, मनः ॥

अन्वयः

वेपथुः रोमहर्षः च मे शरीरे जायते । हस्तात् गाण्डीवं स्रंसते । त्वक् च एव परिदह्यते । अवस्थातुं न शक्नोमि । मे मनः भ्रमति इव ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = जायते
    • कर्तृपदम् = वेपथुः
    • कर्तृपदम् = रोमहर्षः
    • संयोजकपदम् = च
    • अधिकरणपदम् = शरीरे
    • सम्बन्ध-पदम् = मे
  • द्वितीयवाक्यम्
    • क्रियापदम् = स्रंसते
    • कर्तृपदम् = गाण्डीवम्
    • अपादानपदम् = हस्तात्
  • तृतीयवाक्यम्
    • क्रियापदम् = परिदह्यते
    • कर्तृपदम् = त्वक्
    • अवधारणम् = एव
    • संयोजकपदम् = च
  • चतुर्थवाक्यम्
    • क्रियापदम् = शक्नोमि
    • प्रतिषेधपदम् = न
    • तुमुनन्तपदम् = अवस्थातुम्
    • कर्तृपदम् = (अहम्)
  • पञ्चमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • वाक्यांश:
      • क्रियाविशेषणम् = भ्रमति
      • संयोजकपदम् = इव
    • कर्तृपदम् = मनः
    • सम्बन्ध-पदम् = मे

निमित्तानि च पश्यामि विपरीतानि केशव ।

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥

पदच्छेदः

निमित्तानि, च, पश्यामि, विपरीतानि, केशव । न, च, श्रेयः, अनुपश्यामि, हत्वा, स्वजनम्, आहवे ॥

अन्वयः

केशव ! विपरीतानि च निमित्तानि पश्यामि । आहवे स्वजनं हत्वा श्रेयः च न अनुपश्यामि ।

पदपरिचय:

  • सम्बोधनपदम् = केशव!
  • प्रथमवाक्यम्
    • क्रियापदम् = पश्यामि
    • कर्मपदम् = निमित्तानि
    • कर्मविशेषणम् = विपरीतानि
    • कर्तृपदम् = (अहम्)
    • संयोजकपदम् = च
  • द्वितीयवाक्यम्
    • क्रियापदम् = अनुपश्यामि
    • प्रतिषेधपदम् = न
    • कर्मपदम् = श्रेयः
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = हत्वा
      • कर्मपदम् = स्वजनम्
      • अधिकरणपदम् = आहवे
    • संयोजकपदम् = च

न काङ्क्षे विजयं कृष्ण ! न च राज्यं सुखानि च ।

किं नो राज्येन गोविन्द ! किं भोगैर्जीवितेन वा ॥ ३२ ॥

पदच्छेदः

न, काङ्क्षे, विजयम्, कृष्ण, न, च, राज्यम्, सुखानि, च । किम्,नः, राज्येन, गोविन्द, किम्, भोगैः, जीवितेन, वा ॥

अन्वयः

कृष्ण ! विजयं राज्यं सुखानि च न काङ्क्षे । गोविन्द ! राज्येन भोगैः जीवितेन वा नः किम् ?

पदपरिचय:

  • सम्बोधनपदम् = कृष्ण!
  • प्रथमवाक्यम्
    • क्रियापदम् = काङ्क्षे
    • प्रतिषेधपदम् = न
    • कर्तृपदम् = (अहम्)
    • कर्मपदम् = विजयम्
    • कर्मपदम् = राज्यम्
    • कर्मपदम् = सुखानि
    • संयोजकपदम् = च
  • सम्बोधनपदम् = गोविन्द!
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवति)
    • वाक्यांश:
      • प्रश्नवाचक-कर्म-पदम् = किम्
      • सम्बन्ध-पदम् = नः
    • करणवाचकपदम् = राज्येन
    • करणवाचकपदम् = भोगैः
    • करणवाचकपदम् = जीवितेन
    • संयोजकपदम् = वा

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।

इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥

आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।

मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ ३४ ॥

पदच्छेदः

येषाम्, अर्थे, काङ्क्षितम्, नः, राज्यम्, भोगाः, सुखानि, च । ते, इमे, अवस्थिताः, युद्धे, प्राणान्, त्यक्त्वा, धनानि, च ॥

आचार्याः, पितरः, पुत्राः, तथा, एव, च, पितामहाः । मातुलाः, श्वशुराः, पौत्राः, श्यालाः, सम्बन्धिनः, तथा ॥

अन्वयः

येषाम् अर्थे राज्यं भोगाः सुखानि च नः काङ्क्षितं ते इमे आचार्याः पितरः पुत्राः तथा एव पितामहाः मातुलाः श्वशुराः पौत्राः श्यालाः तथा सम्बन्धिनः प्राणान् धनानि च त्यक्त्वा युद्धे अवस्थिताः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “येषाम्” वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= काङ्क्षितम्
      • सम्बन्ध-पदम् = नः
      • वाक्यांश:
        • कारणवाचकपदम् = अर्थे
        • सम्बन्ध-पदम् = येषाम्
      • (कर्मणि) कर्मपदम् = राज्यम्
      • (कर्मणि) कर्मपदम् = भोगाः
      • (कर्मणि) कर्मपदम् = सुखानि
      • संयोजकपदम् = च
    • “ते” वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= अवस्थिताः
      • अधिकरणपदम् = युद्धे
      • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = त्यक्त्वा
      • कर्मपदम् = प्राणान्
      • कर्मपदम् = धनानि
      • संयोजकपदम् = च
      • कर्तृविशेषणम् = ते
      • कर्तृविशेषणम् = इमे
      • कर्तृपदम् = आचार्याः
      • कर्तृपदम् = पितरः
      • कर्तृपदम् = पुत्राः
      • वाक्यांश:
        • कर्तृपदम् = पितामहाः
        • अवधारणम् = एव
        • संयोजकपदम् = तथा
      • कर्तृपदम् = मातुलाः
      • कर्तृपदम् = श्वशुराः
      • कर्तृपदम् = पौत्राः
      • कर्तृपदम् = श्यालाः
      • वाक्यांश:
        • कर्तृपदम् = सम्बन्धिनः
        • संयोजकपदम् = तथा

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।

अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ ३५ ॥

पदच्छेदः

एतान्, न, हन्तुम्, इच्छामि, घ्नतः, अपि, मधुसूदन । अपि, त्रैलोक्यराज्यस्य, हेतोः, किम्,नु, महीकृते ॥

अन्वयः

मधुसूदन ! त्रैलोक्यराज्यस्य हेतोः घ्नतः अपि एतान् हन्तुं न इच्छामि । किं नु महीकृते ?

पदपरिचय:

  • सम्बोधनपदम् = मधुसूदन!
  • प्रथमवाक्यम्
    • क्रियापदम् = इच्छामि
    • प्रतिषेधपदम् = न
    • तुमुनन्तपदम् = हन्तुम्
    • कर्मपदम् = एतान्
    • कर्तृपदम् = (अहम्)
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= घ्नतः
      • अवधारणम् = अपि
    • वाक्यांश:
      • कारणवाचकपदम् = हेतोः
      • सम्बन्ध-पदम् = त्रैलोक्यराज्यस्य
    • द्वितीयवाक्यम्
      • प्रश्नवाचक-कर्तृपदम् = किम्
      • संयोजकपदम् = नु
      • कारणवाचकपदम् = महीकृते

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।

पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥ ३६ ॥

पदच्छेदः

निहत्य, धार्तराष्ट्रान्, नः, का, प्रीतिः, स्यात्, जनार्दन । पापम्, एव, आश्रयेत्, अस्मान्, हत्वा, एतान्, आततायिनः ॥

अन्वयः

जनार्दन ! धार्तराष्ट्रान् निहत्य (स्थितानाम्) नः का प्रीतिः स्यात् ? (प्रत्युत) आततायिनः एतान् हत्वा स्थितान् अस्मान् पापम् एव आश्रयेत् ।

पदपरिचय:

  • सम्बोधनपदम् = जनार्दन!
  • प्रथमवाक्यम्
    • क्रियापदम् = स्यात्
    • प्रश्नवाचक-कर्तृपदम् = का
    • कर्तृपदम् = प्रीतिः
    • सम्बन्ध-पदम् = नः
      • वाक्यांश:
        • अधिकरण-विशेषणम् = (स्थितानाम्)
        • ल्यबन्त-वाक्यांश:
          • ल्यबन्तपदम् = निहत्य
          • कर्मपदम् = धार्तराष्ट्रान्
        • द्वितीयवाक्यम्
          • क्रियापदम् = आश्रयेत्
          • कर्तृपदम् = पापम्
          • अवधारणम् = एव
          • कर्मपदम् = अस्मान्
          • कर्मविशेषणम् = स्थितान्
          • क्त्वान्त-वाक्यांश:
            • क्त्वान्तपदम् = हत्वा
            • कर्मपदम् = एतान्
            • कर्मविशेषणम् = आततायिनः

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।

स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७ ॥

पदच्छेदः

तस्मात्, न, अर्हाः, वयम्, हन्तुम्, धार्तराष्ट्रान्, स्वबान्धवान् । स्वजनम्, हि, कथम्, हत्वा, सुखिनः, स्याम, माधव ॥

अन्वयः

माधव ! तस्मात् वयं स्वबान्धवान् धार्तराष्ट्रान् हन्तुं न अर्हाः । स्वजनं हि हत्वा कथं सुखिनः स्याम ?

पदपरिचय:

  • सम्बोधनपदम् = माधव!
  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्तृपदम्= अर्हाः
    • प्रतिषेधपदम् = न
    • तुमुनन्तपदम् = हन्तुम्
    • कर्मपदम् = धार्तराष्ट्रान्
    • कर्मविशेषणम् = स्वबान्धवान्
    • कर्तृपदम् = वयम्
    • कारणवाचकपदम् = तस्मात्
  • द्वितीयवाक्यम्
    • क्रियापदम् = स्याम
    • प्रश्नवाचकपदम् = कथम्
    • कर्तृ-विशेषण-सूचक-पदम् = सुखिनः
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = हत्वा
      • कर्मपदम् = स्वजनम्
      • अवधारणम् = हि

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।

कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।

कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥

पदच्छेदः

यद्यपि, एते, न, पश्यन्ति, लोभोपहतचेतसः । कुलक्षयकृतम्, दोषम्, मित्रद्रोहे, च, पातकम् ॥

कथम्, न, ज्ञेयम्, अस्माभिः, पापात्, अस्मात्, निवर्तितुम् । कुलक्षयकृतम्, दोषम्, प्रपश्यद्भिः, जनार्दन ॥

अन्वयः

जनार्दन ! यद्यपि एते लोभोपहतचेतसः कुलक्षयकृतं दोषं मित्रद्रोहे पातकं च न पश्यन्ति (तथापि) कुलक्षयकृतं दोषं प्रपश्यिः अस्माभिः अस्मात् पापात् निवर्तितुं कथं न ज्ञेयम् ?

पदपरिचय:

  • सम्बोधनपदम् = जनार्दन!
  • प्रथमवाक्यम्
    • “यद्यपि” वाक्यांश:
      • क्रियापदम् = पश्यन्ति
      • प्रतिषेधपदम् = न
      • वाक्यांश:
        • कर्मपदम् = दोषम्
        • कर्मविशेषणम् = कुलक्षयकृतम्
      • वाक्यांश:
        • कर्मपदम् = पातकम्
        • अधिकरणपदम् = मित्रद्रोहे
        • संयोजकपदम् = च
      • कर्तृपदम् = एते
      • कर्तृविशेषणम् = लोभोपहतचेतसः
      • संयोजकपदम् = यद्यपि
    • “(तथापि)” वाक्यांश:
      • (कर्मणि) क्रियापदम् = ज्ञेयम्
      • प्रतिषेधपदम् = न
      • प्रश्नवाचक-कर्तृपदम् = कथम्
      • वाक्यांश:
        • तुमुनन्तपदम् = निवर्तितुम्
        • अपादानपदम् = पापात्
        • अपादानविशेषणम् = अस्मात्
      • कर्तृपदम् = अस्माभिः
      • वाक्यांश:
        • कर्तृविशेषणम् = प्रपश्यिः
        • कर्मपदम् = दोषम्
        • कर्मविशेषणम् = कुलक्षयकृतम्
      • संयोजकपदम् = (तथापि)

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।

धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥४०॥

पदच्छेदः

कुलक्षये, प्रणश्यन्ति, कुलधर्माः, सनातनाः । धर्मे, नष्टे, कुलम्, कृत्स्नम्, अधर्मः, अभिभवति, उत ॥

अन्वयः

कुलक्षये सनातनाः कुलधर्माः प्रणश्यन्ति । धर्मे नष्टे कृत्स्नम् उत कुलम् अधर्मः अभिभवति ।।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = प्रणश्यन्ति
    • कर्तृपदम् = कुलधर्माः
    • कर्तृविशेषणम् = सनातनाः
    • अधिकरणपदम् = कुलक्षये
  • द्वितीयवाक्यम्
    • क्रियापदम् = अभिभवति
    • कर्मपदम् = कुलम्
    • कर्मविशेषणम् = कृत्स्नम्
    • अवधारणम् = उत
    • कर्तृपदम् = अधर्मः
    • कालवाचक-वाक्यांश:
      • क्रिया-आश्रय-कर्तृपदम् = धर्मे
      • ज्ञापक-क्रियापदम् = नष्टे
      • सतिसप्तमि-पदम् = (सति)

अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ४१ ॥

पदच्छेदः

अधर्माभिभवात्, कृष्ण, प्रदुष्यन्ति, कुलस्त्रियः । स्त्रीषु, दुष्टासु, वार्ष्णेय, जायते, वर्णसङ्करः ॥

अन्वयः

कृष्ण ! अधर्माभिभवात् कुलस्त्रियः प्रदुष्यन्ति । वार्ष्णेय ! स्त्रीषु दुष्टासु वर्णसङ्करः जायते ।

पदपरिचय:

  • सम्बोधनपदम् = कृष्ण!
  • प्रथमवाक्यम्
    • क्रियापदम् = प्रदुष्यन्ति
    • कर्तृपदम् = कुलस्त्रियः
    • कारणवाचकपदम् = अधर्माभिभवात्
  • सम्बोधनपदम् = वार्ष्णेय!
  • द्वितीयवाक्यम्
    • क्रियापदम् = जायते
    • कर्तृपदम् = वर्णसङ्करः
    • कालवाचक-वाक्यांश:
      • क्रिया-आश्रय-कर्तृपदम् = स्त्रीषु
      • ज्ञापक-क्रियापदम् = दुष्टासु
      • सतिसप्तमि-पदम् = सत्सु

सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ ४२ ॥

पदच्छेदः

सङ्करः, नरकाय, एव, कुलघ्नानाम्, कुलस्य, च । पतन्ति, पितरः, हि, एषाम्, लुप्तपिण्डोदकक्रियाः ॥

अन्वयः

सङ्करः कुलघ्नानाम् कुलस्य च नरकाय एव भवति । एषां पितरः लुप्तपिण्डोदकक्रियाः पतन्ति हि ॥

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृपदम् = सङ्करः
    • सम्प्रदानपदम् = नरकाय
    • अवधारणम् = एव
    • वाक्यांश:
      • सम्बन्ध-पदम् = कुलघ्नानाम्
      • सम्बन्ध-पदम् = कुलस्य
      • संयोजकपदम् = च
    • द्वितीयवाक्यम्
      • क्रियापदम् = पतन्ति
      • अवधारणम् = हि
      • कर्तृपदम् = लुप्तपिण्डोदकक्रियाः
      • वाक्यांश:
        • कर्तृविशेषणम् = पितरः
        • सम्बन्ध-पदम् = एषाम्

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।

उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥

पदच्छेदः

दोषैः, एतैः, कुलघ्नानाम्, वर्णसङ्करकारकैः । उत्साद्यन्ते, जातिधर्माः, कुलधर्माः, च, शाश्वताः ॥

अन्वयः

कुलघ्नानां वर्णसङ्करकारकैः एतैः दोषैः शाश्वताः जातिधर्माः कुलधर्माः च उत्साद्यन्ते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = उत्साद्यन्ते
    • (कर्मणि) कर्मपदम् = जातिधर्माः
    • (कर्मणि) कर्मविशेषणम् = शाश्वताः
    • (कर्मणि) कर्मपदम् = कुलधर्माः
    • संयोजकपदम् = च
    • (कर्मणि) कर्तृपदम् = दोषैः
    • (कर्मणि) कर्तृविशेषणम् = एतैः
    • (कर्मणि) कर्तृविशेषणम् = वर्णसङ्करकारकैः
    • सम्बन्ध-पदम् = कुलघ्नानाम्

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।

नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥

पदच्छेदः

उत्सन्नकुलधर्माणाम्, मनुष्याणाम् जनार्दन । नरके, अनियतम्, वासः, भवति, इति, अनुशुश्रुम ॥

अन्वयः

जनार्दन ! ‘उत्सन्नकुलधर्माणां मनुष्याणां नरके अनियतं वासः भवति’ इति अनुशुश्रुम ।

पदपरिचय:

  • सम्बोधनपदम् = जनार्दन!
  • प्रथमवाक्यम्
    • क्रियापदम् = अनुशुश्रुम
    • कर्तृपदम् = वयम्
    • कर्म-वाक्यम्
      • क्रियापदम् = भवति
      • क्रियाविशेषणम् = अनियतम्
      • अधिकरणपदम् = नरके
      • कर्तृपदम् = वासः
      • सम्बन्ध-पदम् = मनुष्याणाम्
      • सम्बन्ध-विशेषण-पदम् = उत्सन्नकुलधर्माणाम्
      • संयोजकपदम् = इति

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।

यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥

पदच्छेदः

अहो, बत, महत्, पापम्, कर्तुम्, व्यवसिताः, वयम् । यत्, राज्यसुखलोभेन, हन्तुम्, स्वजनम्, उद्यताः ॥

अन्वयः

अहो बत ! वयं महत् पापं कर्तुं व्यवसिताः यत् राज्यसुखलोभेन स्वजनं हन्तुम् उद्यताः ।

पदपरिचय:

  • उद्घोषणपदम् = अहो बत
  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्तृपदम्= व्यवसिताः
    • तुमुनन्तपदम् = कर्तुम्
    • कर्मपदम् = पापम्
    • कर्मविशेषणम् = महत्
    • कर्तृपदम् = वयम्
    • वाक्यांश:
      • कर्तृविशेषणम् = उद्यताः
      • तुमुनन्तपदम् = हन्तुम्
      • कर्मपदम् = स्वजनम्
      • कारणवाचकपदम् = राज्यसुखलोभेन
      • संयोजकपदम् = यत्

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।

धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥

पदच्छेदः

यदि, माम्, अप्रतीकारम्, अशस्त्रम्, शस्त्रपाणयः । धार्तराष्ट्राः, रणे, हन्युः, तत्, मे, क्षेमतरम्, भवेत् ॥

अन्वयः

यदि धार्तराष्ट्राः शस्त्रपाणयः अशस्त्रम् अप्रतीकारं मां रणे हन्युः तत् मे क्षेमतरं भवेत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यदि” वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= हन्युः
      • कर्तृविशेषणम् = धार्तराष्ट्राः
      • कर्तृविशेषणम् = शस्त्रपाणयः
      • कर्मपदम् = माम्
      • कर्मविशेषणम् = अशस्त्रम्
      • कर्मविशेषणम् = अप्रतीकारम्
      • अधिकरणपदम् = हन्युः
    • “तत्” वाक्यांश:
      • क्रियापदम् = भवेत्
      • कर्तृ-विशेषण-सूचक-पदम् = क्षेमतरम्
      • सम्बन्ध-पदम् = मे
      • कर्तृपदम् = तत्

एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।

विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४७ ॥

पदच्छेदः

एवम्, उक्त्वा, अर्जुनः, सङ्ख्ये, रथोपस्थे, उपाविशत् । विसृज्य, सशरम्, चापम्, शोकसंविग्नमानसः ॥

अन्वयः

सङ्ख्ये एवम् उक्त्वा शोकसंविग्नमानसः अर्जुनः सशरं चापं विसृज्य रथोपस्थे उपाविशत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = उपाविशत्
    • अधिकरणपदम् = रथोपस्थे
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = उक्त्वा
      • कर्मपदम् = एवम्
      • अधिकरणपदम् = सङ्ख्ये
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = विसृज्य
      • कर्मपदम् = चापम्
      • कर्मविशेषणम् = सशरम्
    • कर्तृपदम् = अर्जुनः
    • कर्तृविशेषणम् = शोकसंविग्नमानसः

References –

  1. नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे अन्तिम कक्षायां पाठिता: श्लोका:Gita Pravesha-2 Class group photo
  2. https://sa.wikipedia.org/s/6cl  अर्जुनविषादयोगः
  3. Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

One thought on “Bhagavad Gita – Chapter 1

  1. Dear Gurubahen Niveditaji,

    Pujya Swamiji Dayananda told me in 1998 when I met him for the very first time that I must study Sanskrit! I tried off and on but never understood due to whatever reason. However, now that I have your post of chapter one, may be I will start learning.

    If you don’t mind, I have very simple things first: what is

    पदच्छेदः padparichay, parchhed and avaya means….

    At your spare time let me know. I will try my best to learn now on. Thanks,
    Pratima Shah
    Sent from my iPad

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s