Short Answers – Practice for Gita Pravesha exam (Chapter 10 to 18)

गीता-प्रवेश-परीक्षा दशमोऽध्यायतः अष्टादशोऽध्यायः पर्यन्तं प्रश्नोत्तराणि

Answers need to be simplified further!

टिप्पणीं लिखत । (६-८ वाक्यै:)

भगवतः आत्मविभूतिविषये लिखत । 10.xx 

  • भगवतः विभूतीनाम् अन्तः नास्ति ।
  • भगवान् सर्वप्राणिहृदयस्थितः आत्मा अस्ति |
  • सः प्राणिनां मूलं मध्यभागः अन्तः च अस्ति ।
  • सर्वभूतानां यत् बीजम् अस्ति तत् अपि भगवान् एव | भगवन्तं विना यत्किञ्चिदपि स्थावरजमं नैव भवितुम् अर्हति । न विद्यते एव ।वेदानां साम वेदः | यज्ञानां जपयज्ञः | मासानां मार्गशीर्षः | नक्षत्राणां शशी | इन्द्रियाणां मनः च भगवान् अस्ति |
  • नास्त्यन्तो विस्तरस्य मे ॥ १९ ॥ नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ॥ ४० ॥ अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।  अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥ यच्चापि सर्वभूतानां बीजं तदहमर्जुन न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥

अर्जुनाय दर्शितं परमं ऐश्वरं रूपं (अनेकवक्त्रनयनं इति………) वर्णयत ।10-11.22

  • अर्जुनाय दर्शितं परमं ऐश्वरं रूपम् अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणं दिव्यानेकोद्यतायुधं आसीत् |
  • तत् रूपं दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनं सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् आसीत् ।
  • यदि दिवि सूर्यसहस्रस्य भाः युगपत् उत्थिता भवेत् सा महात्मनः तस्य भासः सदृशी स्यात् ।
  • देवदेवस्य तत्र शरीरे अनेकधा प्रविभक्तं कृत्स्नं जगत् एकस्थम् आसीत् ।
  • भगवतः देहे सर्वान् देवान् तथा भूतविशेषसङ्घान् कमलासनस्थं ब्रह्माणम् ईशं सर्वान् ऋषीन् च दिव्यान् उरगान् चआसन् |

अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता यदि भाः सदृशी सा स्यात्भासस्तस्य महात्मनः ॥ १२ ॥

पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥
————
“निमित्तमात्रं भव सव्यसाचिन्” ! एतस्य आदेशस्य सन्दर्भं वर्णयत । 11.xx

  • यदा भगवान् श्रीकृष्णः तस्य विश्वरूपम् अर्जुनाय दर्शयति तदा अर्जुनः पृच्छति “उग्ररूपः भवान् कः” इति |
  • तस्मै भगवान् वदति – “अहं सर्वान् लोकान् संहर्तुं प्रवृद्धः कालोऽस्मि । प्रतिपक्षसैन्येषु ये योधाः सन्ति भीष्मद्रोणप्रभृतयः तान् त्वं न मारयसि चेदपि अवश्यं मया ते मारिताः भविष्यन्ति ।“
  • भगवान् अग्रे वदति – “तस्मात् हे अर्जुन ! त्वम् उत्तिष्ठ, कीर्तिं प्राप्नुहि । अरीन् विजित्य निष्कण्टकम् आधिपत्यम् अनुभव । एते मया इतः पूर्वमेव विनाशिताः । त्वं निमित्तमात्रं भव ।“

———-

“यो मद्भक्तः स मे प्रियः” इति वचनस्य आशयं वर्णयत । 12.xx

  • यः सर्वजन्तुषु अवैरी, स्निग्धः, दयालुः, ममताशून्यः, अहङ्कारवर्जितः, क्लेशसन्तोषयोः समानः, तितिक्षुः, सदा सन्तृप्तः, समाहितचित्तः, नियतमनस्कः, निश्चलबुद्धिः, मयि निवेशितचित्तवृत्तिः, भक्तः सः पुरुषः मम इष्टः ।
  • यस्मात् पुरुषात् लोकः उद्वेगं न गच्छति, यः च पुरुषः लोकात् न उद्वेगं प्राप्नोति, यश्च सन्तोषासूया – त्रासक्षोभैः रहितः सः पुरुषः मम प्रियः ।
  • यः पुरुषः निःस्पृहः शुद्धः चतुरः तटस्थः अपगतभयः सर्वेषां कर्मणां फलं त्यजन् भगवद्भक्तः च वर्तते सः मम अभीष्टः ।
  • यः इष्टप्राप्तौ न मोदते, अनिष्टप्राप्तौ द्वेषं न करोति, प्रियवियोगे दुःखं न अनुभवति, अप्राप्तं न अभिलषति, इष्टानिष्टकर्मत्यागी, भक्तियुक्तः सः मम प्रियः ।
  • अरौ च मित्रे च समानः तथा पूजातिरस्कारयोः शीतोष्णयोः सुखदुःखयोश्च समानः, विषयासक्तिरहितः, दूषणश्लाघनयोः समानः, नियतवाक्, येन केनापि फलेन सन्तृप्तः, अनिवासः, निश्चलमनस्कः भक्तः मम इष्टः ।
  • ये तु भक्तिमन्तः, विश्वासयुक्ताः, मन्निष्ठाः, यथाप्रतिपादितं धर्मयुक्तं सुधासमानम् इदं च आचरन्ति ते पुरुषाः मम अत्यन्तम् अभीष्टाः ।

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १३ ॥

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १४ ॥

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १६ ॥

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १७ ॥

समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १९ ॥

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ २० ॥

——

प्रकृतिं पुरुषं च वर्णयत । 13.xx

  • देहेन्द्रियादयः प्रकृतेः जन्याः विकाराः, सुखदुःखादयश्च सत्त्वादिगुणानां परिणामाः इति जानीहि ।
  • इयं प्रकृतिः कार्यरूपस्य शरीरस्य कारणभूतस्य च इन्द्रियस्य तदाकारेण परिणामे हेतुः भवति । यद्यपि प्रकृतिः जडा इति हेतोः तस्यां हेतुत्वं न सम्भवति जडस्य क्रियाजनकत्वाभावात् तथापि पुरुषस्य सन्निधानात् जडेऽपि पदार्थे क्रियाजनकत्वं सम्भवतीति नास्ति असतिः । पुरुषः प्रकृतिजन्यानां सुखदुःखादीनां गुणानां भोक्तृत्वे हेतुः । यद्यपि अयम् असः निर्लेपश्च तथापि प्रकृतिसन्निधानात् इदं भोक्तृत्वं सम्भवतीति बोद्धव्यम् ।
  • शरीरं प्रकृतेः परिणामः । तदभिन्नतया स्थितः पुरुषः प्रकृतिस्थसत्त्वादिगुणानां कार्यभूतान् सुखदुःखादीन् अनुभवति । सः कदाचित् देवादिषु साधुयोनिषु जातः सत्त्वगुणस्य फलं सुखम् अनुभवति। कदाचित् पश्वादिषु असाधुयोनिषु जातः तमोगुणस्य फलं दुःखम् अनुभवति । कदाचित् साध्वसाधु-योनिषु मनुष्येषु जातः रजोगुणफलं सुखदुःखमिश्रम् अनुभवति । एवं सत्त्वादिगुणस्य सुखदुःखमोहानाम् अनुभवे कारणं तस्य पुरुषस्य शब्दादिषु विषयेषु तज्ज्ञानसाधनेषु वा इन्द्रियेषु आसक्तिः । सा आसक्तिः अत्र गुणसशब्देन उच्यते ।
  • शरीरे स्थितः यः समीपे स्थित्वा सर्वं पश्यन्निव अस्ति, यः सन्निधिमात्रेण अनुग्राहक इव वर्तते, यः शरीरादिकं धारयन् इव भासते, यः सुखदुःखादीन् अनुभवति, यः स्वतन्त्रत्वात् महान् ईश्वरः सः परमात्मा इति शब्देन श्रुतौ प्रतिपादितः । सः प्रकृतिभिन्नोऽपि प्रकृतिपरिणामे शरीरे वसन् पुरुषः इत्युच्यते ।

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥

कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ २० ॥

पुरुषः प्रकृतिस्थो हि भुङ्क्तेप्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ २२ ॥

——–

गुणत्रयाणां (सत्वरजोतमसां) स्वरूपं देहदेहिनॊः सम्बन्धविषये च लिखत । 14.xx

  • अर्जुन! सत्त्वं रजः तमः इति प्रकृतेः स्वरूपभूताः गुणाः । ते च प्रकृतितः जाताः इव भासमानाः शरीरे आत्मानं बध्नन्ति ।
  • तेषु त्रिषु गुणेषु स्वच्छत्वात् भासकं निरुपद्रवं सत्त्वं सुखं जनयति ज्ञानं च ।
  • अप्राप्ते वस्तुनि अभिलाषः तृष्णा, प्राप्ते वस्तुनि अभिलाषः सङ्गः । आभ्यां यो रागः सम्भवति तदात्मकः अयं रजोगुणः । अयं च आत्मानं कर्मसु प्रवर्तयति । प्रवृत्तश्च सः तत्र बद्धो भवति ।
  • गुणेषु यत् तृतीयं तमः अज्ञानात् सम्भवति । इदं च तमः सर्वेषां प्राणिनां भ्रान्तिं जनयति । अनेन गुणेन सर्वेषाम् अनवधानं जाड्यं निद्रा च सम्भवति । एवमिदं तमः पुरुषं संसारे बध्नाति ।

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥

रजो रागात्मकं विद्धि तृष्णासङ्गसमुवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥

———-

गुणातीतस्य लक्षणं आचरणं च वर्णयत । 14.xx

  • सत्त्वादीनां त्रयाणां यानि कार्याणि सुखप्रवृत्तिमोहादीनि तेषु प्राप्तेषु सत्सु यः प्रातिकूल्य-बुद्ध्या न द्वेषं याति, निवृत्तेषु आनुकूल्यबुद्ध्या पुनः न आकाङ्क्षां करोति,
  • यः उदासीनवत् तिष्ठन् गुणकार्यैः सुखदुःखमोहैः विचालयितुं न शक्यते,
  • यः गुणाः स्वकार्येषु एव वर्तन्ते न तैः मम कोऽपि सम्बन्धः इति न प्रतिकर्तुम् इच्छति,
  • यः सुखदुःखयोः मृत्पिण्डपाषणसुवर्णेषु हिताहितयोः श्लाघनप्रशंसयोः मानापमानयोः मित्रशत्रुपक्षयोश्च समानः वर्तते,
  • यश्च निष्कामबुद्ध्या कर्म करोति सः गुणत्रयम् अतीतः इति जानीहि ।

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥

उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ २३ ॥

समदुःखसुखस्वस्थः समलोष्टाश्मकाञ्चनः। तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ २५ ॥

————

  • त्रिविधं दानं तपश्च वर्णयत । 17.xx
    • दातव्यम् इति यत् दानं दीयते अनुपकारिणे देशे काले च पात्रे च तत् दानं सात्त्विकं |
    • यत् प्रत्युपकारार्थं, फलम् उद्दिश्य, परिक्लिष्टं च दीयते तत् दानं राजसं ।
    • अदेशकाले असत्कृतम् अवज्ञातं च अपात्रेभ्यः यत् दानं दीयते तत् (दानम्) तामसम्।
    • तपः शारीरं वाङ्मयं मानसं इति त्रिविधं भवति ।
    • अफलाकाङ्क्षिभिः युक्तैः नरैः परया श्रद्धया तप्तं तपः सात्त्विकं भवति ।
    • सत्कारमानपूजार्थं दम्भेन यत् तपः क्रियते तत् राजसं चलम् अध्रुवं भवति ।
    • मूढग्राहेण आत्मनः पीडया परस्य उत्सादनार्थं वा यत् तपः क्रियते तत् तामसम् भवति ।

श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७ ॥

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तंराजसं चलमध्रुवम् ॥ १८ ॥

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १९ ॥

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ २० ॥

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ २१ ॥

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ 17.२२ ॥

————-

आसुरि जनानां लक्षणं आचरणं च वर्णयत । 16.xx

  • आसुरीं सम्पदम् अभिजातस्य दम्भः दर्पः अभिमानः क्रोधः पारुष्यं च भवन्ति ।
  • आसुराः जनाः प्रवृत्तिं च निवृत्तिं च न जानन्ति । तेषु शौचं न विद्यते । आचारः अपि न, सत्यम् अपि न।
  • ते नष्टात्मानः अल्पबुद्धयः उग्रकर्माणः अहिताः जगतः क्षयाय प्रभवन्ति ।
  • दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ४ ॥
  • प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ ७ ॥
  • एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १६.९ ॥

———-

नैश्कर्मसिद्धिः प्राप्तिः अनन्तरं ब्रह्मप्राप्तिश्च कथं भवति ?  18.xx

  • मानवः यतः भूतानां प्रवृत्तिः, येन इदं सर्वं ततम् तं स्वकर्मणा अभ्यर्च सिद्धिं विन्दति ।
  • सर्वत्र असक्तबुद्धिः जितात्मा विगतस्पृहः सन्न्यासेन परमां नैष्कर्म्यसिद्धिम् अधिगच्छति ।
  • एवं नैष्कर्म्यसिद्धिं प्राप्तः पुरुषः परमात्मानं प्राप्नोति । तत्परमात्मनः प्राप्तिः नाम ज्ञानस्य परिसमाप्तिः ।
  • विशुद्धया बुद्ध्या युक्तः धृत्या आत्मानं नियम्य च शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ व्युदस्य च विविक्तसेवी लघ्वाशी यतवाक्कायमानसः नित्यं ध्यानयोगपरः वैराग्यं समुपाश्रितः अहारं बलं दर्पं कामं क्रोधं परिग्रहं विमुच्य शान्तः निर्ममः ब्रह्मभूयाय कल्पते ।
  • यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च सिद्धिं विन्दति मानवः ॥ 18.४६ ॥
  • असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥ ४९ ॥
  • सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥
  • बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ ५१ ॥
  • विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ ५२ ॥
  • अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ ५३ ॥

 

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s