Practice for Gita Pravesha exam (Chapter 16-18)

गीता-प्रवेश-परीक्षा प्रश्नोत्तराणि अभ्यासः श्रीमद्भगवद्गीता – अध्यायः १६-१८

एक वाक्येन उत्तरत ।

  1. दैवीसंपत् आसुरी सम्पच्च कस्मै भवति ?
    दैवी सम्पत् विमोक्षाय आसुरी निबन्धाय भवति | दैवी सम्पत् संसाररूपं बन्धनं नाशयति, आसुरी तु तदेव बन्धनं जनयति ।
    दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
    मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ 16.५ ॥
  2. आसुराः जनाः किम् न जानन्ति, तेषु किम् न विद्यते ?
    असुरगुणसम्पन्नाः जनाः धर्मे प्रवृत्तिं न जानन्ति, अधर्मात् च निवृत्तिम् । कायिकं वाचिकं मानसिकं चेति यत् त्रिविधं शौचं तत् तेषु न सम्भवति । नापि च यथार्थवादित्वम्
    प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
    न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ 16.७ ॥
  3. कीदृशाः अशुचौ नरके पतन्ति ?
    स्वच्छन्दं कथयन्तः अविवेकेन भ्रान्ताः, नानाविषयेषु मनसः सञ्चारात् मूढाः, रागरूपजालेन आवृताः, विषयोपभोगे आसक्ताः च अनर्थकारिणि नरके निपतन्ति।
    अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
    प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ 16.१६ ॥
  4. क्रूरान् नराधमान् अशुभान् श्रीकृष्णः किं करोति ?
    ये श्रीकृष्णं द्विषन्ति, क्रूराः अशुभाश्च सन्ति आसुरगुणसम्पन्नाः तादृशान् नरापसदान् श्रीकृष्णः सर्वदा संसारे एव पातयति, तत्रापि आसुरस्वभावेषु एव जन्म कल्पयति
    तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
    क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ 16.१९ ॥
  5. कीदृशं दानं तामसं भवति ?
    अयोग्ये देशे काले च शमविद्यादिगुणरहिताय अनादरेण तिरस्कारेण च यत् दानं क्रियते तत् तामसमिति मण्यते ।
    अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
    असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ 17.२२ ॥
  6. नरकस्य त्रिविधं द्वारं किं किम् ?
    कामः क्रोधः तथा लोभः इदम् आत्मनः नाशनं नरकस्य त्रिविधं द्वारम् ।
    त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
    कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ १६.२१ ॥
  7. यज्ञदानकर्म केन कारणेन न त्याज्यम् ?
    यज्ञः दानं तपश्च इति एतत् कर्मत्रयं न सर्वथा वर्जनीयम् । तत् अवश्यं कर्तव्यम् । यतः तत् त्रिविधं कर्म मनीषिणां शुद्धिकरम्
    यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
    यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ 18.५ ॥
  8. कः त्यागी इति अभिधीयते?
    न हि केनापि पुरुषेण सर्वाणि कर्माणि त्यक्तुं शक्यन्ते । यदि त्यज्यन्ते तर्हि जीवनमेव दुष्करं भवति। तस्मात् कर्मणां फलं यः त्यजति स एव त्यागी, नान्यः इति निर्णयः युक्तः ।
    न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
    यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ 18.११ ॥
  9. स्वभावजं वैश्यकर्म शूद्रकर्म च किम् ?
    कृषिः, गवादिरक्षणम्, क्रयविक्रयश्च वैश्यानां स्वभावात् जातं कर्म । एतेषां त्रयाणामपि साहाय्याचरणं शूद्रस्य स्वभावात् जातं कर्म ।
    कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
    परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ 18.४४ ॥
  10. ईश्वरः सर्वभूतानां हृद्देशे कथं तिष्ठति ?
    अर्जुन! सर्वेषामपि प्राणिनां हृदये ईश्वरो वर्तते । सः तानि सर्वाणि भूतानि यन्त्रारूढानि इव सम्यक् भ्रामयति
    ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
    भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ 18.६१ ॥
  11. यत्र योगेश्वरः कृष्नः धनुर्धरः पार्थः च तत्र किं भवति ?
    यत्र योगेश्वरः कृष्णः वर्तते यत्र च धनुर्धरः पार्थः वर्तते, तत्र सम्पत्तिः जयः ऐश्वर्यं धर्मः च अवश्यं भवति इति मम मतिः ।
    यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
    तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 18.७८ ॥
  • रिक्तस्थानं पूरयत ।
    • दय़ा भूतेष्वलोलुप्त्वम् र्दवं ह्रीरचापलम्16.२ ॥
    • त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा17.२ ॥
    • काम्यानां कर्मणां न्यासं सन्न्यासंकवयो विदुः 18.२ ॥

विभज्य सन्धिनाम लिखत ।

  • ह्रीरचापलम् १६.२ = ह्रीः अचापलम् – विसर्गः रेफादेशः |
  • तस्माच्छास्त्रम् १६.२४ = तस्मात् शास्त्रम् – श्चुत्वसन्धिः & छत्वसन्धिः |
    • तस्मात् + शास्त्रम् = तस्माच् + शास्त्रम् – श्चुत्वसन्धिः |
    • तस्माच् + श् + आस्त्रम् = तस्माच् + छ् + आस्त्रम् – छत्वसन्धिः |
  • यच्छ्रद्धः १७.३ = यत् श्रद्धः (समस्तपदम्) – श्चुत्वसन्धिः & छत्वसन्धिः |
    • यत् + श्रद्धः = यच् + श्रद्धः – श्चुत्वसन्धिः |
    • यच् + श् + रद्धः = यच् + छ् + रद्धः – छत्वसन्धिः |
  • भूतगणांश्च १७.४ = भूतगणान् च – सत्वम् |
  • नोपपद्यते १८.७ = न उपपद्यते – गुण सन्धिः |
  • तद्राजसम् १८.२४ = तत् राजसम् – जश्त्वसन्धिः |

विग्रहवाक्यं समासनाम च लिखत ।

  • अल्पबुद्धयः १६.९
    • अल्पा बुद्धिः येषां ते = अल्पबुद्धयः – बहुव्रीहिः |
  • आशापाशशतैः १६.१२
    • आशा एव पाशः = आशापाशः – कर्मधारयः |
    • आशापाशानां शतानि आशापाशशतानि, तैः = आशापाशशतैः – षष्ठीतत्पुरुषः |
  • कार्याकार्यव्यवस्थितौ १६.२४
    • कार्यं च अकार्यं च कार्याकार्ये – द्वन्द्वः |
    • कार्याकार्ययोः व्यवस्थितिः कार्याकार्यव्यवस्थितिः, तस्याम् = कार्याकार्यव्यवस्थितौ – षष्ठीतत्पुरुषः |
  • यक्षरक्षांसि १७.४
    • यक्षाः च रक्षांसि च यक्षरक्षांसि – द्वन्द्वः |
  • स्वकर्मनिरतः १८.४५
    • स्वस्य कर्म स्वकर्म – षष्ठीतत्पुरुषः |
    • स्वकर्मणि निरतः – सप्तमीतत्पुरुषः |
  • यतवाक्कायमानसः १८.५२
    • वाक् च कायश्च मानसं च वाक्कायमानसानि – द्वन्द्वः |
    • यतानि वाक्कायमानसानि येन सः यतवाक्कायमानसः – बहुव्रीहिः |

टिप्पणीं लिखत । (६-८ वाक्यै:)

  • त्रिविधं दानं तपश्च वणयत
  • आसुरि जनानां लक्षणं आचरणं च वर्णयत ।
  • नैश्कर्मसिद्धिः प्राप्तिः अनन्तरं ब्रह्मप्राप्तिश्च कथं भवति ?
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s