Bhagavad Gita – Chapter 17

श्रीमद्भगवद्गीता – सप्तदशोध्यायः – श्रद्धात्रयविभागयोगः

अर्जुन उवाच

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।

तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १ ॥

पदच्छेदः

ये शास्त्रविधिम् उत्सृज्य यजन्ते श्रद्धया अन्विताः तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः ॥ १ ॥

अन्वयः

कृष्ण ! ये शास्त्रविधिम् उत्सृज्य श्रद्धया अन्विताः यजन्ते तेषां निष्ठा तु का ? सत्त्वम् आहो रजः तमः ।

पदपरिचयः

  • सम्बोधनपदम् = कृष्ण!
  • प्रथमवाक्यम्
    • “ये” वाक्यांश:
      • क्रियापदम् = यजन्ते
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = उत्सृज्य
        • कर्मपदम् = शास्त्रविधिम्
      • कर्तृपदम् = ये
      • वाक्यांश:
        • (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= अन्विताः
        • (कर्मणि) कर्तृपदम् = श्रद्धया
      • “तेषाम्” वाक्यांश:
        • क्रियापदम् = (भवति)
        • प्रश्नवाचक-कर्तृपदम् = का
        • कर्तृपदम् = निष्ठा
        • सम्बन्ध-पदम् = तेषाम्
        • अवधारणम् = तु
      • द्वितीयवाक्यम्
        • क्रियापदम् = (भवति)
        • प्रश्नवाचक-पदम् = (वा)
        • वाक्यांश:
          • कर्तृपदम् = सत्त्वम्
          • कर्तृपदम् = रजः
          • कर्तृपदम् = तमः
          • संयोजकपदम् = आहो

श्रीभगवानुवाच

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।

सात्त्विकी राजसी चैव तामसी चेति तां श्रुणु ॥ २ ॥

पदच्छेदः

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा सात्त्विकी राजसी च एव तामसी च इति तां श्रुणु ॥ २ ॥

अन्वयः

देहिनां स्वभावजा (या) श्रद्धा सा सात्त्विकी राजसी तामसी च इति त्रिविधा भवति, तां शृणु ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “(या)” वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • कर्तृपदम् = (या)
      • कर्तृविशेषणम् = श्रद्धा
      • वाक्यांश:
        • कर्तृविशेषणम् = स्वभावजा
        • सम्बन्ध-पदम् = देहिनाम्
      • “सा” वाक्यांश:
        • क्रियापदम् = भवति,
        • कर्तृविशेषणम् = त्रिविधा
        • वाक्यांश:
          • कर्तृपदम् = सात्त्विकी
          • कर्तृपदम् = राजसी
          • कर्तृपदम् = तामसी
          • संयोजकपदम् = च
          • संयोजकपदम् = इति
        • कर्तृविशेषणम् = सा
      • समुच्चय-वाक्यम्
        • क्रियापदम् = शृणु
        • कर्मपदम् = ताम्
        • कर्तृपदम् = (त्वम्)

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ ३ ॥

पदच्छेदः

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामयः अयं पुरुषः यः यत् श्रद्धः सः एव सः ॥

अन्वयः

भारत ! सर्वस्य सत्त्वानुरूपा श्रद्धा भवति । अयं पुरुषः श्रद्धामयः । यः यत् श्रद्धः सः सः एव ।

पदपरिचयः

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • क्रियापदम् = भवति
    • कर्तृ-विशेषण-सूचक-पदम् = सत्त्वानुरूपा
    • वाक्यांश:
      • कर्तृपदम् = श्रद्धा
      • सम्बन्ध-पदम् = सर्वस्य
    • द्वितीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = श्रद्धामयः
      • कर्तृपदम् = पुरुषः
      • कर्तृविशेषणम् = अयम्
    • तृतीयवाक्यम्
      • “यः” वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • वाक्यांश:
          • कर्तृ-विशेषण-सूचक-पदम् = श्रद्धः
          • कर्मपदम् = यत्
        • कर्तृपदम् = यः
      • “सः” वाक्यांश:
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = सः
        • अवधारणम् = एव
        • कर्तृपदम् = सः

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।

प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ ४ ॥

पदच्छेदः

यजन्ते सात्त्विकाः देवान् यक्षरक्षांसि राजसाः प्रेतान् भूतगणान् च अन्ये यजन्ते तामसाः जनाः ॥

अन्वयः

सात्त्विकाः देवान् यजन्ते, राजसाः यक्षरक्षांसि, अन्ये तामसाः जनाः प्रेतान् भूतगणान् च यजन्ते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = यजन्ते
    • कर्मपदम् = देवान्
    • कर्तृपदम् = सात्त्विकाः
  • द्वितीयवाक्यम्
    • क्रियापदम् = यजन्ते
    • कर्मपदम् = यक्षरक्षांसि
    • कर्तृपदम् = राजसाः
  • तृतीयवाक्यम्
    • क्रियापदम् = यजन्ते
    • वाक्यांश:
      • कर्मपदम् = प्रेतान्
      • कर्मपदम् = भूतगणान्
      • संयोजकपदम् = च
    • कर्तृपदम् = जनाः
    • कर्तृविशेषणम् = तामसाः
    • कर्तृविशेषणम् = अन्ये
    • संयोजकपदम् = च

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।

दम्भाहारसंयुक्ताः कामरागबलान्विताः ॥ ५ ॥

कर्शयन्तः शरीरस्थं भूतग्राममचेतसः ।

मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ ६ ॥

पदच्छेदः

अशास्त्रविहितं घोरं तप्यन्ते ये तपः जनाः दम्भाहारसंयुक्ताः कामरागबलान्विताः ॥

कर्शयन्तः शरीरस्थं भूतग्रामम् अचेतसः मां च एव अन्तः शरीरस्थं तान् विद्धि आसुरनिश्चयान् ॥

अन्वयः

दम्भाहारसंयुक्ताः कामरागबलान्विताः अचेतसः शरीरस्थं भूतग्रामम् अन्तः शरीरस्थं मां च एव कर्शयन्तः ये जनाः अशास्त्रविहितं घोरं तपः तप्यन्ते तान् आसुरनिश्चयान् विद्धि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “ये” वाक्यांश:
      • क्रियापदम् = तप्यन्ते
      • कर्मपदम् = तपः
      • कर्मविशेषणम् = घोरम्
      • कर्मविशेषणम् = अशास्त्रविहितम्
      • कर्तृपदम् = जनाः
      • कर्तृविशेषणम् = ये
      • कर्तृविशेषणम् = दम्भाहारसंयुक्ताः
      • कर्तृविशेषणम् = कामरागबलान्विताः
      • कर्तृविशेषणम् = अचेतसः
      • कर्तृ-विशेषण-वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= कर्शयन्तः
        • वाक्यांश:
          • वाक्यांश:
            • कर्मपदम् = भूतग्रामम्
            • कर्मविशेषणम् = शरीरस्थम्
          • वाक्यांश:
            • कर्मपदम् = माम्
            • कर्मविशेषणम् = अन्तःशरीरस्थम्
            • अवधारणम् = एव
          • संयोजकपदम् = च
        • “तान्” वाक्यांश:
          • क्रियापदम् = विद्धि
          • कर्मपदम् = तान्
          • कर्मविशेषणम् = आसुरनिश्चयान्
          • कर्तृपदम् = (त्वम्)

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।

यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ ७ ॥

पदच्छेदः

आहारः तु अपि सर्वस्य त्रिविधः भवति प्रियः यज्ञः तपः तथा दानं तेषां भेदम् इमं शृणु ॥

अन्वयः

आहारः तु अपि सर्वस्य त्रिविधः प्रियः भवति तथा यज्ञः तपः दानम् । तेषाम् इमं भेदं शृणु ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = भवति
    • कर्तृ-विशेषण-सूचक-पदम् = त्रिविधः
    • वाक्यांश:
      • कर्तृपदम् = आहारः
      • अवधारणम् = तु
      • कर्तृविशेषणम् = प्रियः
      • अवधारणम् = अपि
      • सम्बन्ध-पदम् = सर्वस्य
    • समुच्चय-वाक्यम्
      • क्रियापदम् = (भवन्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = (त्रिविधः)
      • कर्तृपदम् = यज्ञः
      • कर्तृपदम् = तपः
      • कर्तृपदम् = दानम्
      • संयोजकपदम् = (च)
      • संयोजकपदम् = तथा
    • द्वितीयवाक्यम्
      • क्रियापदम् = शृणु
      • वाक्यांश:
        • कर्मपदम् = भेदम्
        • कर्मविशेषणम् = इमम्
        • सम्बन्ध-पदम् = तेषाम्
      • कर्तृपदम् = (त्वम्)

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।

रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ ८ ॥

पदच्छेदः

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विकप्रियाः ॥

अन्वयः

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विकप्रियाः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = सात्त्विकप्रियाः
    • कर्तृपदम् = आहाराः
    • कर्तृविशेषणम् = आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः
    • कर्तृविशेषणम् = रस्याः
    • कर्तृविशेषणम् = स्निग्धाः
    • कर्तृविशेषणम् = स्थिराः
    • कर्तृविशेषणम् = हृद्याः

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।

आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ ९ ॥

पदच्छेदः

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः आहाराः राजसस्य इष्टा दुःखशोकामयप्रदाः ॥

अन्वयः

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः दुःखशोकामयप्रदाः आहारा राजसस्य इष्टाः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = इष्टाः
      • सम्बन्ध-पदम् = राजसस्य
    • कर्तृपदम् = आहारा
    • कर्तृविशेषणम् = कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः
    • कर्तृविशेषणम् = दुःखशोकामयप्रदाः

यातयामं गतरसं पूति पर्युषितं च यत् ।

उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥

पदच्छेदः

यातयामं गतरसं पूतिः पर्युषितं च यत् उच्छिष्टम् अपि च अमेध्यं भोजनं तामसप्रियम् ॥ १० ॥

अन्वयः

यातयामं गतरसं पूति पर्युषितं च उच्छिष्टम् अपि च अमेध्यं च यत् भोजनं तत् तामसप्रियम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
    • क्रियापदम् = (भवति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = यातयामम्
      • कर्तृ-विशेषण-सूचक-पदम् = गतरसम्
      • कर्तृ-विशेषण-सूचक-पदम् = पूति
      • कर्तृ-विशेषण-सूचक-पदम् = पर्युषितम्
      • कर्तृ-विशेषण-सूचक-पदम् = उच्छिष्टम्
      • संयोजकपदम् = अपि
      • संयोजकपदम् = च
    • कर्तृपदम् = भोजनम्
    • “तत्” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = तामसप्रियम्
      • कर्तृपदम् = तत्

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।

यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ ११ ॥

पदच्छेदः

अफलाकाङ्क्षिभिर्यज्ञः विधिदृष्टः यः इज्यते यष्टव्यम् एव इति मनः समाधाय सः सात्त्विकः ॥

अन्वयः

अफलाकाङ्क्षिभिः यष्टव्यम् एव इति मनः समाधाय विधिदृष्टः यः यज्ञः इज्यते सः सात्त्विकः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • (कर्मणि) क्रियापदम् = इज्यते
      • (कर्मणि) कर्मपदम् = यः
      • (कर्मणि) कर्मविशेषणम् = यज्ञः
      • (कर्मणि) कर्मविशेषणम् = विधिदृष्टः
      • (कर्मणि) कर्तृपदम् = अफलाकाङ्क्षिभिः
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = समाधाय
        • कर्मपदम् = मनः
      • कर्मविशेषण-वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • कर्तृपदम् = यष्टव्यम्
        • अवधारणम् = एव
        • संयोजकपदम् = इति
      • “सः” वाक्यांश:
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = सात्त्विकः
        • कर्तृपदम् = सः

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।

इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥

पदच्छेदः

अभिसन्धाय तु फलं दम्भार्थम् अपि च एव यत् इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२ ॥

अन्वयः

भरतश्रेष्ठ ! फलं तु अभिसन्धाय दम्भार्थम् अपि च एव यत् इज्यते तं यज्ञं राजसं विद्धि ।

पदपरिचयः

  • सम्बोधनपदम् = भरतश्रेष्ठ
  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • (कर्मणि) क्रियापदम् = इज्यते
      • (कर्मणि) कर्मपदम् = यत्
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = अभिसन्धाय
        • कर्मपदम् = फलम्
        • अवधारणम् = तु
      • वाक्यांश:
        • कारणवाचकपदम् = दम्भार्थम्
        • अवधारणम् = अपि
        • अवधारणम् = एव
        • संयोजकपदम् = च
      • “तम्” वाक्यांश:
        • क्रियापदम् = विद्धि
        • कर्मविशेषण-सूचक-पदम् = राजसम्
        • कर्मपदम् = तम्
        • कर्मविशेषणम् = यज्ञम्
        • कर्तृपदम् = (त्वम्)

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।

श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १३ ॥

पदच्छेदः

विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणम् श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१७.१३॥

अन्वयः

विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणं श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = परिचक्षते
    • कर्मविशेषण-सूचक-पदम् = तामसम्
    • कर्मपदम् = यज्ञम्
    • कर्मविशेषणम् = विधिहीनम्
    • कर्मविशेषणम् = असृष्टान्नम्
    • कर्मविशेषणम् = मन्त्रहीनम्
    • कर्मविशेषणम् = अदक्षिणम्
    • कर्मविशेषणम् = श्रद्धाविरहितम्

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।

ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १४ ॥

पदच्छेदः

देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवम् ब्रह्मचर्यम् अहिंसा च शारीरं तपः उच्यते ॥

अन्वयः

देवद्विजगुरुप्राज्ञपूजनं शौचम् आर्जवं ब्रह्मचर्यम् अहिंसा च शारीरं तपः उच्यते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते
    • (कर्मणि) कर्म-वाक्यम्
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-वाक्यांश:
        • कर्तृपदम् = तपः
        • कर्तृविशेषणम् = शारीरम्
      • वाक्यांश:
        • कर्तृपदम् = देवद्विजगुरुप्राज्ञपूजनम्
        • कर्तृपदम् = शौचम्
        • कर्तृपदम् = आर्जवम्
        • कर्तृपदम् = ब्रह्मचर्यम्
        • कर्तृपदम् = अहिंसा
        • संयोजकपदम् = च
        • संयोजकपदम् = (इति)

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।

स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १५ ॥

पदच्छेदः

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् स्वाध्यायाभ्यसनं च एव वाङ्मयं तपः उच्यते ॥

अन्वयः

अनुद्वेगकरं सत्यं प्रियहितं च यत् वाक्यं स्वाध्यायाभ्यसनं च एव वाङ्मयं तपः (इति) उच्यते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = उच्यते
    • कर्म-वाक्यम्
      • “यत्” वाक्यांश:
        • कर्तृपदम् = यत्
        • कर्तृविशेषणम् = वाक्यम्
        • कर्तृ-विशेषण-सूचक-पदम् = अनुद्वेगकरम्
        • कर्तृ-विशेषण-सूचक-पदम् = सत्यम्
        • कर्तृ-विशेषण-सूचक-पदम् = प्रियहितम्
        • कर्तृ-विशेषण-सूचक-पदम् = स्वाध्यायाभ्यसनम्
        • संयोजकपदम् = च
      • “(तत्)” वाक्यांश:
        • कर्तृपदम् = (तत्)
        • वाक्यांश:
          • कर्तृ-विशेषण-सूचक-पदम् = तपः
          • कर्तृविशेषणम् = वाङ्मयम्
        • संयोजकपदम् = (इति)

मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।

भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥

पदच्छेदः

मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः भावसंशुद्धिः इत्येतत् तपः मानसम् उच्यते ॥

अन्वयः

मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः भावसंशुद्धिः इति एतत् मानसं तपः (इति) उच्यते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = उच्यते
    • कर्म-वाक्यम्
      • क्रियापदम् = (भवति)
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = तपः
        • कर्तृविशेषणम् = मानसम्
        • कर्तृपदम् = एतत्
      • वाक्यांश:
        • कर्तृविशेषणम् = मनःप्रसादः
        • कर्तृविशेषणम् = सौम्यत्वम्
        • कर्तृविशेषणम् = मौनम्
        • कर्तृविशेषणम् = आत्मविनिग्रहः
        • कर्तृविशेषणम् = भावसंशुद्धिः
        • संयोजकपदम् = इति
      • संयोजकपदम् = (इति)

श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः ।

अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७ ॥

पदच्छेदः

श्रद्धया परया तप्तं तपः तत् त्रिविधं नरैः अफलाकाङ्क्षिभिः युक्तैः सात्त्विकं परिचक्षते ॥

अन्वयः

परया श्रद्धया तप्तं तत् तपः त्रिविधं भवति । अफलाकाङ्क्षिभिः युक्तैः नरैः तप्तं तपः सात्त्विकं परिचक्षते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = भवति
    • कर्तृ-विशेषण-सूचक-पदम् = त्रिविधम्
    • कर्तृपदम् = तपः
    • कर्तृविशेषणम् = तत्
    • वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= तप्तम्
      • (कर्मणि) कर्तृपदम् = श्रद्धया
      • (कर्मणि) कर्तृविशेषणम् = परया
    • द्वितीयवाक्यम्
      • (कर्मणि) क्रियापदम् = परिचक्षते
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = सात्त्विकम्
      • वाक्यांश:
        • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= तप्तम्
        • (कर्मणि) कर्तृपदम् = नरैः
        • (कर्मणि) कर्तृविशेषणम् = युक्तैः
        • (कर्मणि) कर्तृविशेषणम् = अफलाकाङ्क्षिभिः
      • संयोजकपदम् = (इति)

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।

क्रियते तदिह प्रोक्तंराजसं चलमध्रुवम् ॥ १८ ॥

पदच्छेदः

सत्कारमानपूजार्थं तपः दम्भेन च एव यत् क्रियते तत् इह प्रोक्तं राजसं चलम् अध्रुवम् ॥

अन्वयः

सत्कारमानपूजार्थं दम्भेन च एव यत् तपः क्रियते तत् इह राजसं चलम् अध्रुवं प्रोक्तम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= प्रोक्तम्
    • (कर्मणि) कर्म-वाक्यम्
      • “यत्” वाक्यांश:
        • (कर्मणि) क्रियापदम् = क्रियते
        • (कर्मणि) कर्मपदम् = तपः
        • (कर्मणि) कर्मविशेषणम् = यत्
        • कारणवाचकपदम् = सत्कारमानपूजार्थम्
        • करणवाचकपदम् = दम्भेन
        • संयोजकपदम् = च
        • अवधारणम् = एव
      • “तत्” वाक्यांश:
        • क्रियापदम् = (भवति)
        • कर्तृपदम् = तत्
        • अधिकरणपदम् = इह
        • कर्तृ-विशेषण-सूचक-पदम् = राजसम्
        • कर्तृ-विशेषण-सूचक-पदम् = चलम्
        • कर्तृ-विशेषण-सूचक-पदम् = अध्रुवम्
      • संयोजकपदम् = (इति)

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।

परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १९ ॥

पदच्छेदः

मूढग्राहेण आत्मनः यत् पीडया क्रियते तपः परस्य उत्सादनार्थं वा तत् तामसम् उदाहृतम् ॥

अन्वयः

मूढग्राहेण आत्मनः पीडया परस्य उत्सादनार्थं वा यत् तपः क्रियते तत् तामसम् उदाहृतम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • “(कर्मणि)” क्रियापदम् = क्रियते
      • “(कर्मणि)” कर्मपदम् = तपः
      • “(कर्मणि)” कर्मविशेषणम् = यत्
      • वाक्यांश:
        • वाक्यांश:
          • करणवाचकपदम् = पीडया
          • सम्बन्ध-पदम् = आत्मनः
        • वाक्यांश:
          • कारणवाचकपदम् = उत्सादनार्थम्
          • सम्बन्ध-पदम् = परस्य
        • करणवाचकपदम् = मूढग्राहेण
        • संयोजकपदम् = वा
      • “तत्” वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • “(कर्मणि)” क्रिया-गर्भ-कर्तृपदम्= उदाहृतम्
        • “(कर्मणि)” कर्तृपदम् = तामसम्
        • “(कर्मणि)” कर्तृविशेषणम् = तत्

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।

देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ २० ॥

पदच्छेदः

दातव्यम् इति यत् दानं दीयते अनुपकारिणे देशे काले च पात्रे च तत् दानं सात्त्विकं स्मृतम् ॥ २० ॥

अन्वयः

देशे काले च पात्रे च (मया) दातव्यम् इति (विचिन्त्य) अनुपकारिणे यत् दानं दीयते तत् दानं सात्त्विकं स्मृतम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = दीयते
      • कर्मपदम् = दानम्
      • कर्मविशेषणम् = यत्
      • सम्प्रदानपदम् = अनुपकारिणे
      • अधिकरणपदम् = देशे
      • अधिकरणपदम् = काले
      • अधिकरणपदम् = पात्रे
      • संयोजकपदम् = च
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = (विचिन्त्य)
        • कर्म-वाक्यम्
          • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = दातव्यम्
          • कर्तृपदम् = (मया)
          • संयोजकपदम् = इति
        • “तत्” वाक्यांश:
          • क्रियापदम् = (अस्ति)
          • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= स्मृतम्
          • (कर्मणि) कर्म-वाक्यांश:
            • कर्तृ-विशेषण-सूचक-पदम् = सात्त्विकम्
            • कर्तृपदम् = दानम्
            • कर्तृविशेषणम् = तत्
            • संयोजकपदम् = (इति)

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।

दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ २१ ॥

पदच्छेदः

यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः दीयते च परिक्लिष्टं तत् दानं राजसं स्मृतम् ॥

अन्वयः

यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः परिक्लिष्टं च दीयते तत् दानं राजसं स्मृतम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • (कर्मणि) क्रियापदम् = दीयते
      • (कर्मणि) कर्मपदम् = यत्
      • अवधारणम् = तु
      • वाक्यांश:
        • कारणवाचकपदम् = प्रत्युपकारार्थम्
        • ल्यबन्त-वाक्यांश:
          • ल्यबन्तपदम् = उद्दिश्य
          • कर्मपदम् = फलम्
        • संयोजकपदम् = वा
      • अवधारणम् = पुनः
      • क्रियाविशेषणम् = परिक्लिष्टम्
      • संयोजकपदम् = च
    • “तत्” वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= स्मृतम्
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = राजसम्
      • (कर्मणि) कर्मपदम् = दानम्
      • (कर्मणि) कर्मविशेषणम् = तत्

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।

असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ २२ ॥

पदच्छेदः

अदेशकाले यत् दानम् अपात्रेभ्यः च दीयते असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥ २२ ॥

अन्वयः

अदेशकाले असत्कृतम् अवज्ञातं च अपात्रेभ्यः यत् दानं दीयते तत् (दानम्) तामसम् उदाहृतम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = दीयते
      • कर्मपदम् = दानम्
      • कर्मविशेषणम् = यत्
      • सम्प्रदानपदम् = अपात्रेभ्यः
      • क्रियाविशेषणम् = असत्कृतम्
      • क्रियाविशेषणम् = अवज्ञातम्
      • संयोजकपदम् = च
      • कालवाचकपदम् = अदेशकाले
    • “तत्” वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= उदाहृतम्
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = तामसम्
      • (कर्मणि) कर्मपदम् = (दानम्)
      • (कर्मणि) कर्मविशेषणम् = तत्

ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।

ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३ ॥

पदच्छेदः

ॐ तत् सत् इति निर्देशः ब्रह्मणः त्रिविधः स्मृतः ब्राह्मणाः तेन वेदाः च यज्ञाः च विहिताः पुरा ॥

अन्वयः

ॐ तत् सत् इति त्रिविधः निर्देशः ब्रह्मणः स्मृतः । तेन ब्राह्मणाः वेदाः च यज्ञाः च पुरा विहिताः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • वाक्यांश:
      • कर्तृपदम् = स्मृतः
      • सम्बन्ध-पदम् = ब्रह्मणः
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = निर्देशः
      • कर्तृविशेषणम् = त्रिविधः
      • वाक्यांश:
        • कर्तृपदम् = ॐ
        • कर्तृपदम् = तत्
        • कर्तृपदम् = सत्
        • संयोजकपदम् = इति
      • द्वितीयवाक्यम्
        • क्रियापदम् = (भवन्ति)
        • (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= विहिताः
        • कालवाचकपदम् = पुरा
        • (कर्मणि) कर्मपदम् = ब्राह्मणाः
        • कर्मपदम् = वेदाः
        • कर्मपदम् = यज्ञाः
        • संयोजकपदम् = च
        • (कर्मणि) कर्तृपदम् = तेन

स्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।

प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ २४ ॥

पदच्छेदः

तस्मात् ओम् इति उदाहृत्य यज्ञदानतपःक्रियाः प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥

अन्वयः

तस्मात् ब्रह्मवादिनां विधानोक्ताः यज्ञदानतपःक्रियाः ओम् इति उदाहृत्य सततं प्रवर्तन्ते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = प्रवर्तन्ते
    • कालवाचकपदम् = सततम्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = उदाहृत्य
      • वाक्यांश:
        • कर्मपदम् = ओम्
        • संयोजकपदम् = इति
      • कर्तृपदम् = यज्ञदानतपःक्रियाः
      • वाक्यांश:
        • कर्तृविशेषणम् = विधानोक्ताः
        • सम्बन्ध-पदम् = ब्रह्मवादिनाम्
      • कारणवाचकपदम् = तस्मात्

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।

दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ २५ ॥

पदच्छेदः

तत् इति अनभिसन्धाय फलं यज्ञतपःक्रियाः दानक्रियाः च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥

अन्वयः

मोक्षकाङ्क्षिभिः तत् इति (उदाहृत्य) फलम् अनभिसन्धाय विविधाः यज्ञतपःक्रियाः दानक्रियाः च क्रियन्ते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = क्रियन्ते
    • वाक्यांश:
      • वाक्यांश:
        • (कर्मणि) कर्मपदम् = यज्ञतपःक्रियाः
        • कर्मविशेषणम् = विविधाः
      • (कर्मणि) कर्मपदम् = दानक्रियाः
      • संयोजकपदम् = च
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = अनभिसन्धाय
      • कर्मपदम् = फलम्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = (उदाहृत्य)
      • वाक्यांश:
        • कर्मपदम् = तत्
        • संयोजकपदम् = इति
      • (कर्मणि) कर्तृपदम् = मोक्षकाङ्क्षिभिः

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।

प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ २६ ॥

पदच्छेदः

सद्भावे साधुभावे च सत् इति एतत् प्रयुज्यते प्रशस्ते कर्मणि तथा सत् शब्दः पार्थः युज्यते ॥

अन्वयः

पार्थ ! सद्भावे साधुभावे च सत् इति एतत् प्रयुज्यते तथा प्रशस्ते कर्मणि सत् शब्दः युज्यते ।

पदपरिचयः

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • “(यथा)” वाक्यांश:
      • (कर्मणि) क्रियापदम् = प्रयुज्यते
      • (कर्मणि) कर्तृपदम् = एतत्
      • वाक्यांश:
        • कर्तृविशेषणम् = सत्
        • संयोजकपदम् = इति
      • अधिकरणपदम् = सद्भावे
      • अधिकरणपदम् = साधुभावे
      • संयोजकपदम् = च
      • संयोजकपदम् = (यथा)
    • “तथा” वाक्यांश:
      • क्रियापदम् = युज्यते
      • कर्मपदम् = शब्दः
      • कर्मविशेषणम् = सत्
      • कालवाचक-वाक्यांश:
        • ज्ञापक-क्रियापदम् = प्रशस्ते
        • क्रिया-आश्रय-कर्तृपदम् = कर्मणि
        • सतिसप्तमि-पदम् = (सति)
      • संयोजकपदम् = तथा

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।

कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥

पदच्छेदः

यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते कर्म च एव तदर्थीयं सत् इति एव अभिधीयते ॥

अन्वयः

यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते । तदर्थीयं कर्म च एव सत् इति एव अभिधीयते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = उच्यते
    • वाक्यांश:
      • कर्मविशेषण-सूचक-पदम् = सत्
      • संयोजकपदम् = इति
    • वाक्यांश:
      • कर्तृपदम् = स्थितिः
      • अधिकरणपदम् = यज्ञे
      • अधिकरणपदम् = तपसि
      • अधिकरणपदम् = दाने
      • संयोजकपदम् = च
    • संयोजकपदम् = च
  • द्वितीयवाक्यम्
    • क्रियापदम् = अभिधीयते
    • वाक्यांश:
      • कर्मविशेषण-सूचक-पदम् = सत्
      • संयोजकपदम् = इति
    • अवधारणम् = एव
    • वाक्यांश:
    • कर्तृपदम् = कर्म
    • कर्तृविशेषणम् = तदर्थीयम्
    • संयोजकपदम् = च
    • अवधारणम् = एव

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।

असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २८ ॥

पदच्छेदः

अश्रद्धया हुतं दत्तं तपः तप्तं कृतं च यत् असत् इति उच्यते पार्थ न च तत् प्रेत्य न इह ॥ २८ ॥

अन्वयः

पार्थ ! अश्रद्धया हुतं दत्तं तपः तप्तं कृतं च यत् असत् इति उच्यते तत् प्रेत्य न इह नो ।

पदपरिचयः

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = उच्यते
      • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = असत्
      • संयोजकपदम् = इति
      • कर्तृविशेषणम् = यत्
      • वाक्यांश:
        • कर्तृपदम् = हुतम्
        • कर्तृपदम् = दत्तम्
        • वाक्यांश:
          • कर्तृपदम् = तपः
          • कर्तृविशेषणम् = तप्तम्
        • कर्तृपदम् = कृतम्
        • संयोजकपदम् = च
      • “तत्” वाक्यांश:
        • क्रियापदम् = (भवति)
        • वाक्यांश:
          • स्थानवाचकपदम् = प्रेत्य
          • प्रतिषेधपदम् = न
        • वाक्यांश:
          • स्थानवाचकपदम् = इह
          • प्रतिषेधपदम् = नो
        • कर्तृपदम् = तत्

References –

  1. 13 Feb 2016 दिनाङ्के नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6wa  श्रद्धात्रयविभागयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwas, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s