Bhagavad Gita – Chapter 16

श्रीमद्भगवद्गीता – षोडशोध्यायः – दैवासुरसंपद्विभागयोगः

श्रीभगवानुवाच –

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ २ ॥

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ ३ ॥

पदच्छेदः

अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः दानं दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् ॥

अहिंसा सत्यम् अक्रोधः त्यागः शान्तिः अपैशुनम् दया भूतेषु अलोलुप्त्वं मार्दवं ह्रीः अचापलम् ॥

तेजः क्षमा धृतिः शौचम् अद्रोहः न अतिमानिता भवन्ति सम्पदं दैवीम् अभिजातस्य भारत ॥

अन्वयः

भारत ! दैवीं सम्पदम् अभिजातस्य अभयं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः दानं दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् अहिंसा सत्यम् अक्रोधः त्यागः शान्तिः अपैशुनम् भूतेषु दया अलोलुप्त्वं मार्दवं ह्रीः अचापलं तेजः क्षमा धृतिः शौचम् अद्रोहः नातिमानिता च भवन्ति ।

पदपरिचय:

  • सम्बोधनपदम् = भारत !
  • प्रथमवाक्यम्
    • क्रियापदम् = भवन्ति
    • वाक्यांश:
      • कर्तृपदम् = सम्पदम्
      • कर्तृविशेषणम् = दैवीम्
      • सम्बन्ध-पदम् = अभिजातस्य
    • कर्तृ-विशेषण-सूचक-पदम् = अभयम्
    • कर्तृ-विशेषण-सूचक-पदम् = सत्त्वसंशुद्धिः
    • कर्तृ-विशेषण-सूचक-पदम् = ज्ञानयोगव्यवस्थितिः
    • कर्तृ-विशेषण-सूचक-पदम् = दानम्
    • कर्तृ-विशेषण-सूचक-पदम् = दमः
    • कर्तृ-विशेषण-सूचक-पदम् = यज्ञः
    • कर्तृ-विशेषण-सूचक-पदम् = स्वाध्यायः
    • कर्तृ-विशेषण-सूचक-पदम् = तपः
    • कर्तृ-विशेषण-सूचक-पदम् = आर्जवम्
    • कर्तृ-विशेषण-सूचक-पदम् = अहिंसा
    • कर्तृ-विशेषण-सूचक-पदम् = सत्यम्
    • कर्तृ-विशेषण-सूचक-पदम् = अक्रोधः
    • कर्तृ-विशेषण-सूचक-पदम् = त्यागः
    • कर्तृ-विशेषण-सूचक-पदम् = शान्तिः
    • कर्तृ-विशेषण-सूचक-पदम् = अपैशुनम्
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = दया
      • अधिकरणपदम् = भूतेषु
    • कर्तृ-विशेषण-सूचक-पदम् = अलोलुप्त्वम्
    • कर्तृ-विशेषण-सूचक-पदम् = मार्दवम्
    • कर्तृ-विशेषण-सूचक-पदम् = ह्रीः
    • कर्तृ-विशेषण-सूचक-पदम् = अचापलम्
    • कर्तृ-विशेषण-सूचक-पदम् = तेजः
    • कर्तृ-विशेषण-सूचक-पदम् = क्षमा
    • कर्तृ-विशेषण-सूचक-पदम् = धृतिः
    • कर्तृ-विशेषण-सूचक-पदम् = शौचम्
    • कर्तृ-विशेषण-सूचक-पदम् = अद्रोहः
    • कर्तृ-विशेषण-सूचक-पदम् = नातिमानिता
    • सम्योजकपदम् = च

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।

अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ४ ॥

पदच्छेदः

दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च अज्ञानं च अभिजातस्य पार्थ सम्पदम् आसुरीम् ॥ ४ ॥

अन्वयः

पार्थ ! आसुरीं सम्पदम् अभिजातस्य दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च भवन्ति ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • क्रियापदम् = भवन्ति
    • वाक्यांश:
      • कर्तृपदम् = सम्पदम्
      • कर्तृविशेषणम् = आसुरीम्
      • सम्बन्ध-पदम् = अभिजातस्य
    • कर्तृ-विशेषण-सूचक-पदम् = दम्भः
    • कर्तृ-विशेषण-सूचक-पदम् = दर्पः
    • कर्तृ-विशेषण-सूचक-पदम् = अभिमानः
    • कर्तृ-विशेषण-सूचक-पदम् = क्रोधः
    • कर्तृ-विशेषण-सूचक-पदम् = पारुष्यम्
    • अवधारणम् = एव
    • सम्योजकपदम् = च

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।

मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ ५ ॥

पदच्छेदः

दैवी सम्पत् विमोक्षाय निबन्धाय आसुरी मता मा शुचः सम्पदं दैवीम् अभिजातः असि पाण्डव ॥

अन्वयः

पाण्डव ! दैवी सम्पत् विमोक्षाय आसुरी निबन्धाय मता । मा शुचः । दैवीं सम्पदम् अभिजातः असि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • सम्बोधनपदम् = पाण्डव!
    • प्रथमवाक्यम्
      • क्रियापदम् = (भवति)
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = मता
        • सम्प्रदानपदम् = विमोक्षाय
        • कर्तृपदम् = सम्पत्
        • कर्तृविशेषणम् = दैवी
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = मता
        • सम्प्रदानपदम् = निबन्धाय
        • कर्तृपदम् = सम्पत्
        • कर्तृविशेषणम् = आसुरी
      • द्वितीयवाक्यम्
        • क्रियापदम् = (भव)
        • वाक्यांश:
          • कर्तृ-विशेषण-सूचक-पदम् = शुचः
          • प्रतिषेधपदम् = मा
        • कर्तृपदम् = (त्वम्)
      • तृतीयवाक्यम्
        • क्रियापदम् = असि
        • वाक्यांश:
          • कर्तृ-विशेषण-सूचक-पदम् = अभिजातः
          • कर्मपदम् = सम्पदम्
          • कर्मविशेषणम् = दैवीम्
        • कर्तृपदम् = (त्वम्)

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।

दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ ६ ॥

पदच्छेदः

द्वौ भूतसर्गौ लोके अस्मिन् दैवः आसुरः एव च दैवः विस्तरशः प्रोक्तः आसुरं पार्थ मे शृणु ॥

अन्वयः[

पार्थ ! अस्मिन् लोके दैवः आसुरः एव च (इति) द्वौ भूतसर्गौ । दैवः विस्तरशः प्रोक्तः आसुरं मे शृणु ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • क्रियापदम् = (स्थः)
    • वाक्यांश:
      • कर्तृविशेषणम् = भूतसर्गौ
      • कर्तृविशेषणम् = द्वौ
    • वाक्यांश:
      • कर्तृपदम् = दैवः
      • कर्तृपदम् = आसुरः
      • अवधारणम् = एव
      • सम्योजकपदम् = च
    • द्वितीयवाक्यम्
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = प्रोक्तः
      • क्रियाविशेषणम् = विस्तरशः
    • कर्तृपदम् = दैवः
  • तृतीयवाक्यम्
    • क्रियापदम् = शृणु
    • सम्बन्ध-पदम् = मे
    • कर्मपदम् = आसुरम्
    • कर्तृपदम् = (त्वम्)

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।

न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ ७ ॥

पदच्छेदः

प्रवृत्तिं च निवृत्तिं च जनाः न विदुः आसुराः न शौचं न अपि च आचारः न सत्यं तेषु विद्यते ॥ ७ ॥

अन्वयः

आसुराः जनाः प्रवृत्तिं च निवृत्तिं च न विदुः । तेषु शौचं न विद्यते । आचारः अपि न, सत्यम् अपि न।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विदुः
    • प्रतिषेधपदम् = न
    • वाक्यांश:
      • कर्मपदम् = प्रवृत्तिम्
      • कर्मपदम् = निवृत्तिम्
      • सम्योजकपदम् = च
    • कर्तृपदम् = जनाः
    • कर्तृविशेषणम् = आसुराः
  • द्वितीयवाक्यम्
    • क्रियापदम् = विद्यते
    • प्रतिषेधपदम् = न
    • कर्तृपदम् = शौचम्
    • अधिकरणपदम् = तेषु
    • समुच्चय-वाक्यम्
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = आचारः
      • अवधारणम् = अपि
    • समुच्चय-वाक्यम्
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = सत्यम्
      • अवधारणम् = अपि

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।

अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ ८ ॥

पदच्छेदः

असत्यम् अप्रतिष्ठं ते जगदाहुः अनीश्वरम् अपरस्परसम्भूतं किम् अन्यत् कामहैतुकम् ॥ ८ ॥

अन्वयः

ते जगत् असत्यम् अप्रतिम् अनीश्वरम् आहुः । अपरस्परसम्भूतं कामहैतुकम् अन्यत् किम् इति आहुः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = आहुः
    • कर्मविशेषण-सूचक-पदम् = असत्यम्
    • कर्मविशेषण-सूचक-पदम् = अप्रतिम्
    • कर्मविशेषण-सूचक-पदम् = अनीश्वरम्
    • कर्मपदम् = जगत्
    • कर्तृपदम् = ते
  • द्वितीयवाक्यम्
    • क्रियापदम् = आहुः
    • कर्म-वाक्यम्
      • क्रियापदम् = (अस्ति)
      • प्रश्नवाचक-कर्म-पदम् = किम्
      • कर्मविशेषणम् = अन्यत्
      • कर्मविशेषणम् = कामहैतुकम्
      • कर्मविशेषणम् = अपरस्परसम्भूतम्
      • सम्योजकपदम् = इति
    • कर्तृपदम् = (ते)

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।

प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ ९ ॥

पदच्छेदः

एतां दृष्टिम् अवष्टभ्य नष्टात्मानः अल्पबुद्धयः प्रभवन्ति उग्रकर्माणः क्षयाय जगतः हिताः ॥

अन्वयः

एतां दृष्टिम् अवष्टभ्य नष्टात्मानः अल्पबुद्धयः उग्रकर्माणः अहिताः जगतः क्षयाय प्रभवन्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = प्रभवन्ति
    • वाक्यांश:
      • सम्प्रदानपदम् = क्षयाय
      • सम्बन्ध-पदम् = जगतः
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = अवष्टभ्य
      • कर्मपदम् = दृष्टिम्
      • कर्मविशेषणम् = एताम्
    • कर्तृपदम् = अहिताः
    • कर्तृविशेषणम् = नष्टात्मानः
    • कर्तृविशेषणम् = अल्पबुद्धयः
    • कर्तृविशेषणम् = उग्रकर्माणः

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।

मोहाद् गृहीत्वाऽसद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १० ॥

पदच्छेदः

कामम् आश्रित्य दुष्पूरं दम्भमानमदान्विताः मोहाद् गृहीत्वा असद्ग्राहान् प्रवर्तन्ते अशुचिव्रताः ॥

अन्वयः

दुष्पूरं कामम् आश्रित्य दम्भमानमदान्विताः मोहात् असद्ग्राहान् गृहीत्वा अशुचिव्रताः प्रवर्तन्ते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = प्रवर्तन्ते
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = गृहीत्वा
      • कर्मपदम् = असद्ग्राहान्
    • अपादानपदम् = मोहात्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = आश्रित्य
      • कर्मपदम् = कामम्
      • कर्मविशेषणम् = दुष्पूरम्
    • कर्तृ-विशेषण-सूचक-पदम् = अशुचिव्रताः
    • कर्तृपदम् = दम्भमानमदान्विताः

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।

कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११ ॥

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।

ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १२ ॥

पदच्छेदः

चिन्ताम् अपरिमेयां च प्रलयान्ताम् उपाश्रिताः कामोपभोगपरमाः एतावत् इति निश्चिताः ॥

आशापाशशतैः बद्धाः कामक्रोधपरायणाः ईहन्ते कामभोगार्थम् अन्यायेन अर्थसञ्चयान् ॥

अन्वयः

अपरिमेयां प्रलयान्तां चिन्तां च उपाश्रिताः कामोपभोगपरमाः एतावत् इति निश्चिताः आशापाशशतैः बद्धाः कामक्रोधपरायणाः कामभोगार्थम् अन्यायेन अर्थसञ्चयान् ईहन्ते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = ईहन्ते
    • कर्मपदम् = अर्थसञ्चयान्
    • करणवाचकपदम् = अन्यायेन
    • कारणवाचकपदम् = कामभोगार्थम्
    • वाक्यांश:
      • (कर्मणि) कर्तृविशेषणम् = बद्धाः
      • (कर्मणि) कर्तृपदम् = आशापाशशतैः
    • वाक्यांश:
      • कर्तृविशेषणम् = निश्चिताः
      • वाक्यांश:
        • कर्मपदम् = एतावत्
        • सम्योजकपदम् = इति
      • वाक्यांश:
        • कर्तृविशेषणम् = उपाश्रिताः
        • कर्मपदम् = चिन्ताम्
        • कर्मविशेषणम् = प्रलयान्ताम्
        • कर्मविशेषणम् = अपरिमेयाम्
        • सम्योजकपदम् = च
      • कर्तृपदम् = कामक्रोधपरायणाः

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।

इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥

असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।

ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।

यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १५ ॥

अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।

प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६ ॥

पदच्छेदः

इदम् अद्य मया लब्धम् इमं प्राप्स्ये मनोरथम् इदम् अस्ति इदम् अपि मे भविष्यति पुनर्धनम् ॥

असौ मया हतः शत्रुः हनिष्ये च अपरान् अपि ईश्वरः अहम् अहं भोगी सिद्धः अहं बलवान् सुखी ॥ १४ ॥

आढ्यःअभिजनवान् अस्मि कः अन्यः अस्ति सदृशः मया यक्ष्ये दास्यामि मोदिष्ये इति अज्ञानविमोहिताः ॥

अनेकचित्तविभ्रान्ताः मोहजालसमावृताः प्रसक्ताः कामभोगेषु पतन्ति नरके अशुचौ ॥ १६ ॥

अन्वयः

अद्य इदं मया लब्धम्, इमं मनोरथं प्राप्स्ये, इदं धनम् अस्ति, इदम् अपि मे पुनः भविष्यति, असौ शत्रुः मया हतः, अपरान् अपि हनिष्ये । अहम् ईश्वरः, अहं भोगी, अहं सिद्धः बलवान् सुखी । आढ्यः अभिजनवान् अस्मि, मया सदृशः अन्यः कः अस्ति ? यक्ष्ये, दास्यामि, मोदिष्ये इति अज्ञानविमोहिताः अनेकचित्तविभ्रान्ताः मोहजालसमावृताः कामभोगेषु प्रसक्ताः अशुचौ नरके पतन्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = पतन्ति
    • कर्म-वाक्यम्
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-वाक्यांश:
        • (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= लब्धम्
        • (कर्मणि) कर्तृपदम् = मया
      • कर्तृपदम् = इदम्
      • कालवाचकपदम् = अद्य
    • कर्म-वाक्यम्
      • क्रियापदम् = प्राप्स्ये
      • कर्मपदम् = मनोरथम्
      • कर्मविशेषणम् = इमम्
      • कर्तृपदम् = (अहम्)
    • कर्म-वाक्यम्
      • क्रियापदम् = अस्ति
      • कर्तृपदम् = धनम्
      • कर्तृविशेषणम् = इदम्
    • कर्म-वाक्यम्
      • क्रियापदम् = भविष्यति
      • क्रियाविशेषणम् = पुनः
      • कर्तृपदम् = इदम्
      • सम्बन्ध-पदम् = मे
      • अवधारणम् = अपि
    • कर्म-वाक्यम्
      • (कर्मणि) कर्तृ-विशेषण-सूचक-पदम् = हतः
      • (कर्मणि) कर्तृपदम् = मया
      • (कर्मणि) कर्मपदम् = शत्रुः
    • कर्म-वाक्यम्
      • क्रियापदम् = हनिष्ये
      • कर्मपदम् = अपरान्
      • अवधारणम् = अपि
      • कर्तृपदम् = (अहम्)
    • कर्म-वाक्यम्
      • क्रियापदम् = (अस्मि)
      • कर्तृ-विशेषण-सूचक-पदम् = ईश्वरः
      • कर्तृ-विशेषण-सूचक-पदम् = भोगी
      • कर्तृ-विशेषण-सूचक-पदम् = सिद्धः
      • कर्तृ-विशेषण-सूचक-पदम् = बलवान्
      • कर्तृ-विशेषण-सूचक-पदम् = सुखी
      • सम्योजकपदम् = (च)
      • कर्तृपदम् = अहम्
    • कर्म-वाक्यम्
      • क्रियापदम् = अस्मि
      • कर्तृ-विशेषण-सूचक-पदम् = आढ्यः
      • कर्तृ-विशेषण-सूचक-पदम् = अभिजनवान्
      • कर्तृपदम् = (अहम्)
    • कर्म-वाक्यम्
      • क्रियापदम् = अस्ति?
      • प्रश्नवाचक-कर्तृपदम् = कः
      • कर्तृविशेषणम् = अन्यः
      • वाक्यांश:
        • कर्तृविशेषणम् = सदृशः
        • तृतीया-विभक्त्यन्त-पदम् = मया
      • कर्म-वाक्यम्
        • क्रियापदम् = यक्ष्ये
        • कर्तृपदम् = (अहम्)
      • कर्म-वाक्यम्
        • क्रियापदम् = दास्यामि
        • कर्तृपदम् = (अहम्)
      • कर्म-वाक्यम्
        • क्रियापदम् = मोदिष्ये
        • कर्तृपदम् = (अहम्)
      • सम्योजकपदम् = इति
      • कर्तृपदम् = अज्ञानविमोहिताः
      • कर्तृविशेषणम् = अनेकचित्तविभ्रान्ताः
      • कर्तृविशेषणम् = मोहजालसमावृताः
      • वाक्यांश:
        • कर्तृविशेषणम् = प्रसक्ताः
        • अधिकरणपदम् = कामभोगेषु
      • अधिकरणपदम् = नरके
      • अधिकरण-विशेषणम् = अशुचौ

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।

यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७ ॥

अहारं बलं दर्पं कामं क्रोधं च संश्रिताः ।

मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १८ ॥

पदच्छेदः

आत्मसम्भाविताः स्तब्धाः धनमानमदान्विताः यजन्ते नामयज्ञैः ते दम्भेन अविधिपूर्वकम् ॥ १७ ॥

अहारं बलं दर्पं कामं क्रोधं च संश्रिताः माम् आत्मपरदेहेषु प्रद्विषन्तः अभ्यसूयकाः ॥

अन्वयः

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ते दम्भेन अविधिपूर्वकं नामयज्ञैः यजन्ते । अहारं बलं दर्पं कामं क्रोधं च संश्रिताः आत्मपरदेहेषु मां प्रद्विषन्तः अभ्यसूयकाः भवन्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = यजन्ते
    • क्रियाविशेषणम् = अविधिपूर्वकम्
    • करणवाचकपदम् = नामयज्ञैः
    • कारणवाचकपदम् = दम्भेन
    • कर्तृपदम् = ते
    • कर्तृविशेषणम् = आत्मसम्भाविताः
    • कर्तृविशेषणम् = स्तब्धा
    • कर्तृविशेषणम् = धनमानमदान्विताः
  • द्वितीयवाक्यम्
    • क्रियापदम् = भवन्ति
    • कर्तृ-विशेषण-सूचक-पदम् = अभ्यसूयकाः
    • वाक्यांश:
      • कर्तृपदम् = प्रद्विषन्तः
      • कर्मपदम् = माम्
      • अधिकरणपदम् = आत्मपरदेहेषु
    • वाक्यांश:
      • कर्तृविशेषणम् = संश्रिताः
      • कर्मपदम् = अहारम्
      • कर्मविशेषणम् = बलम्
      • कर्मविशेषणम् = दर्पम्
      • कर्मविशेषणम् = कामम्
      • कर्मविशेषणम् = क्रोधम्
      • सम्योजकपदम् = च

तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।

क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १९ ॥

पदच्छेदः

तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् क्षिपामि अजस्रम् अशुभान् आसुरीषु एव योनिषु ॥

अन्वयः

द्विषतः क्रूरान् अशुभान् तान् नराधमान् संसारेषु आसुरीषु योनिषु एव अजस्रम् अहं क्षिपामि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = क्षिपामि
    • वाक्यांश:
      • अधिकरणपदम् = योनिषु
      • अधिकरण-विशेषणम् = संसारेषु
      • अधिकरण-विशेषणम् = आसुरीषु
      • अवधारणम् = एव
    • कर्मपदम् = तान्
    • कर्मविशेषणम् = द्विषतः
    • कर्मविशेषणम् = क्रूरान्
    • कर्मविशेषणम् = अशुभान्
    • कर्तृपदम् = अहम्
    • कालवाचकपदम् = अजस्रम्

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।

मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ २० ॥

पदच्छेदः

आसुरीं योनिम् आपन्नाः मूढाः जन्मनि जन्मनि माम् अप्राप्य एव कौन्तेय ततः यान्ति अधमां गतिम् ॥

अन्वयः

कौन्तेय ! आसुरीं योनिम् आपन्नाः मूढाः माम् अप्राप्य एव ततः जन्मनि जन्मनि अधमां गतिं यान्ति ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय!
  • प्रथमवाक्यम्
    • क्रियापदम् = यान्ति
    • कर्मपदम् = गतिम्
    • कर्मविशेषणम् = अधमाम्
    • अधिकरणपदम् = जन्मनि
    • कालवाचकपदम् = ततः
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = अप्राप्य
      • अवधारणम् = एव
      • कर्मपदम् = माम्
    • कर्तृपदम् = मूढाः
    • वाक्यांश:
      • कर्तृविशेषणम् = आपन्नाः
      • कर्मपदम् = योनिम्
      • कर्मविशेषणम् = आसुरीम्

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।

कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ २१ ॥

पदच्छेदः

त्रिविधं नरकस्य इदं द्वारं नाशनम् आत्मनःकामः क्रोधः तथा लोभः तस्मात् एतत् त्रयं त्यजेत् ॥

अन्वयः

कामः क्रोधः तथा लोभः इदम् आत्मनः नाशनं नरकस्य त्रिविधं द्वारम् । तस्मात् एतत् त्रयं त्यजेत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = नाशनम्
      • सम्बन्ध-पदम् = आत्मनः
    • वाक्यांश:
      • कर्तृपदम् = कामः
      • कर्तृपदम् = क्रोधः
      • कर्तृपदम् = लोभः
      • अवधारणम् = तथा
      • कर्तृविशेषणम् = इदम्
    • समुच्चय-वाक्यम्
      • कर्तृपदम् = द्वारम्
      • कर्तृविशेषणम् = त्रिविधम्
      • सम्बन्ध-पदम् = नरकस्य
    • द्वितीयवाक्यम्
      • क्रियापदम् = त्यजेत्
      • कर्मपदम् = त्रयम्
      • कर्मविशेषणम् = एतत्
      • कारणवाचकपदम् = तस्मात्

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।

आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ २२ ॥

पदच्छेदः

एतैः विमुक्तः कौन्तेय तमोद्वारैः त्रिभिः नरः आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥

अन्वयः

कौन्तेय ! तमोद्वारैः एतैः त्रिभिः विमुक्तः नरः आत्मनः श्रेयः आचरति । ततः परां गतिं याति ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय!
  • प्रथमवाक्यम्
    • क्रियापदम् = आचरति
    • वाक्यांश:
      • कर्मपदम् = श्रेयः
      • सम्बन्ध-पदम् = आत्मनः
    • कर्तृपदम् = नरः
    • वाक्यांश:
      • (कर्मणि) कर्तृविशेषणम् = विमुक्तः
      • (कर्मणि) कर्तृपदम् = त्रिभिः
      • (कर्मणि) कर्तृविशेषणम् = एतैः
      • (कर्मणि) कर्तृविशेषणम् = तमोद्वारैः
    • द्वितीयवाक्यम्
      • क्रियापदम् = याति
      • कर्मपदम् = गतिम्
      • कर्मविशेषणम् = पराम्
      • सम्योजकपदम् = ततः

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।

न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ २३ ॥

पदच्छेदः

यः शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः न सः सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥

अन्वयः

यः शास्त्रविधिम् उत्सृज्य कामकारतः वर्तते सः सिद्धिं न अवाप्नोति, न सुखम्, न परां गतिम् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = वर्तते
      • कर्तृ-विशेषण-सूचक-पदम् = कामकारतः
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = उत्सृज्य
        • कर्मपदम् = शास्त्रविधिम्
      • कर्तृपदम् = यः
    • “सः” वाक्यांश:
      • क्रियापदम् = अवाप्नोति
      • प्रतिषेधपदम् = न
      • कर्मपदम् = सिद्धिम्
      • कर्तृपदम् = सः
      • समुच्चय-वाक्यम्
        • प्रतिषेधपदम् = सुखम्
        • कर्मपदम् = न
      • समुच्चय-वाक्यम्
        • प्रतिषेधपदम् = न
        • कर्मपदम् = गतिम्
        • कर्मविशेषणम् = पराम्

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।

ज्ञात्वा शास्त्रविधानोक्तंकर्म कर्तुमिहार्हसि ॥ २४ ॥

पदच्छेदः

तस्मात् शास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तंकर्म कर्तुम् इह अर्हसि ॥

अन्वयः

तस्मात् कार्याकार्यव्यवस्थितौ ते शास्त्रं प्रमाणम् । शास्त्रविधानोक्तंकर्म ज्ञात्वा इह कर्तुम् अर्हसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = प्रमाणम्
      • सम्बन्ध-पदम् = ते
      • कर्तृपदम् = शास्त्रम्
    • अधिकरणपदम् = कार्याकार्यव्यवस्थितौ
    • कारणवाचकपदम् = तस्मात्
  • द्वितीयवाक्यम्
    • क्रियापदम् = अर्हसि
    • कर्मपदम् = कर्तुम्
    • अधिकरणपदम् = इह
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = ज्ञात्वा
      • कर्मपदम् = शास्त्रविधानोक्तंकर्म

References –

  1. 6 Feb 2016 दिनाङ्के नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6pj दैवासुरसंपद्विभागयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwas, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s