Practice for Gita Pravesha exam (Chapter 13-15)

गीता-प्रवेश-परीक्षा प्रश्नोत्तराणि अभ्यासः श्रीमद्भगवद्गीता – अध्यायः १३-१५

एक वाक्येन उत्तरत ।

  1. प्राणिनां देहे आश्रितः भगवान् कथं चतुर्विधम् अन्नं पचति ?
    चेतनानाम् चतुर्विधमपि अन्नम् भगवान् जठराग्निः भूत्वा प्राणवायुम् अपानवायुं च अवलम्ब्य सम्यक् जीर्णीकरोति ।
    अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १५.१४ ॥
  2. “तद्धाम परमं मम” – कीदृशं धाम इति लिखत ।
    यत् पदं सूर्यः प्रकाशयितुं न शक्नोति, चन्द्रः , नापि अग्निः यत् प्राप्तश्च पुरुषः पुनः न संसारक्लेशम् अनुभवति तदेव मम श्रें स्थानम् |
    न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ १५.६ ॥
  3. रजोगुणस्य स्वरूपं उद्भवं च किम् ?
    अप्राप्ते वस्तुनि अभिलाषः तृष्णा, प्राप्ते वस्तुनि अभिलाषः सङ्गः । तृष्णात् च सङ्गात् च आभ्यां रजोगुणः उद्भवति | अयं रजोगुणः कामस्वरूपः भवति |
    रजो रागात्मकं विद्धि तृष्णासङ्गसमुवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ १४.७ ॥
  4. क्षेत्रं नाम किम् ?
    इदं शरीरंक्षेत्रम् इति कथ्यते ।
    इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥  १३.१ ॥
  5. स्थावरजङ्जमं सत्त्वं सर्वं कस्मात् सञ्जायते?
    स्थावरं जङ्‍गमं वा यत्किञ्चित् वस्तु अत्र यत् सम्भवति तत् शरीरपुरुषसम्बन्धात्सञ्जायते | यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्‍गमम्‌ । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ १३.२६ ॥
  6. अव्ययः परमात्मा शरीरस्थः अपि कस्मात् न करोति, न लिप्यति च ?
    एषः अविनाशी परमात्मा अनादिः निर्गणश्च इति हेतोः न तस्मिन् कर्मकर्तृत्वं सम्भवति, नापि कर्मफलभोक्तृत्वम् ।
    अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ १३.३१ ॥
  7. देहसमुद्भवान् त्रीन् गुणान् अतीतस्य देहिनः किम् भवति ?
    एतान् गुणान् यः अतिवर्तते सः जन्ममृत्युजरायुक्तात् संसारात् मुक्तिं प्राप्नोति
    गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ १४.२० ॥
  8. ईश्वरः (जीवः) कानि गृहीत्वा अन्यत् शरीरं संयाति ?
    पुष्पात् गन्धं स्वीकुर्वन् वायुः इव पूर्वस्मात् शरीरात् सर्वाण्यपि इन्द्रियाणि मनः च गृहीत्वा ईश्वरः (जीवः) अन्यत् शरीरं संयाति |
    ममैवांशो जीवलोके जीवभूतः सनातनः ॥ मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ १५.७ ॥
    शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ १५.८  ॥
  9. जीवः किं किम् अधिष्ठाय विषयान् उपसेवते ?
    शरीरान्तरं प्रविष्टोऽयं जीवः श्रवणं नेत्रं त्वचं जिह्वां नासिकां चित्तं कर्मेन्द्रियाणि च आश्रित्यैव शब्दादीन् अनुभवति ।
    श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ १५.९ ॥

रिक्तस्थानं पूरयत ।

  1. क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम । 13.2 |
  2. इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । 13.1 |
  3. यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः । 14.1 |
  4. सर्गेपि नोऽपजायन्ते प्रलये न व्यथन्ति च । 14.2 |
  5. छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् । 15.1 |
  6. अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके । 15.2 |

विभज्य सन्धिनाम लिखत ।

  • 13.17 तज्ज्योतिः
    त् ज्योतिः -– द् ज्योतिः – जश्त्वसन्धिः |
    { 1, 2, 3, 4 } + { स्वरः {3, 4, 5} य र ल व ह } = { 3rd of first } + {second}
    द् ज्योतिः ज् ज्योतिः श्चुत्वसन्धिः |
    { सकार / तवर्ग: } + { शकार: / चवर्गः } =  { equivalent शकार: / चवर्गः } + { }
  • 13.19 उभावपि – उभौ अपि यान्तवान्तादेशसन्धिः |
    { ए } { ऐ } { ओ } { औ } + { स्वरः } = { अय् अव् आय् आव् }
  • 15.8 गृहीत्वैतानि – गृहीत्वा एतानि वृद्धिसन्धिः |
    { अ आ } + { ए ऐ } { ओ औ } = { ऐ औ }
  • 14.14 तदोत्तमविदाम् – तदा उत्तमविदाम् गुणसन्धिः |
    { अ आ } + { इ ई } { उ ऊ } { ऋ ॠ } { ऌ } = { ए ओ अर् अल् }
  • 14.19 द्रष्टानुपश्यति – द्रष्टा अनुपश्यति सवर्णदीर्घसन्धिः |
    { अ आ } { इ ई } { उ ऊ } { ऋ } +  सवर्णस्वरः = { आ ई ऊ ॠ }
  • 15.5 गच्छन्त्यमूढाः – गच्छन्ति अमूढाःयण् सन्धिः |
    { इ ई } { उ ऊ } { ऋ ॠ } { ऌ } +  असवर्णस्वरः  = { य् व् र् ल् }

विग्रहवाक्यं समासनाम च लिखत ।

  • 13.8 इन्द्रियार्थेषु – इन्द्रियाणां अर्थाः इन्द्रियार्थाः, तेषु – षष्ठीतत्पुरुषः |
  • 14.5 प्रकृतिसम्भवाः – प्रकृतेः संभवाः – पञ्चमीतत्पुरुषः |
  • 14.7 रागात्मकम् – रागः आत्मा यस्य तत् – बहुव्रीहिः |
  • 15.5 निर्मानमोहाः
    मानश्च मोहश्च मानमोहौ – द्वन्द्वः |
    निर्गतौ मानमोहौ येभ्यः ते निर्मानमोहाः – बहुव्रीहिः |
  • 15.10 गुणान्वितम्
    गुणैः अन्वितः गुणान्वितः, तं – तृतीयातत्पुरुषः |

टिप्पणीं लिखत । (६-८ वाक्यै:)

१. प्रकृतिं पुरुषं च वर्णयत । 13.19
२. गुणत्रयाणां (सत्वरजोतमसां) स्वरूपं देहदेहिनॊः सम्बन्धविषये च लिखत । 14.6
३. गुणातीतस्य लक्षणं आचरणं च वर्णयत । 14.22

 

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s