Practice for Gita Pravesha exam (Chapter 10-12)

गीता-प्रवेश-परीक्षा प्रश्नोत्तराणि अभ्यासः श्रीमद्भगवद्गीता – अध्यायः १०१२

  1. मद्भावाः मानसा जाताः के के ?

पुरातनाः सप्त ऋषयः, चत्वारः सनत्कुमाराः, स्वायम्भुवादयः मनवः, ते सर्वे मच्चिन्तनपराः सङ्कल्पमात्रेण उत्पन्नाः । तेषामेव सन्ततयः इदानीं भूमौ वर्तन्ते ।

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ १०.६ ॥

  1. भावसमन्विताः बुधाः किं मत्वा मां भजन्ते ?

परब्रह्म सकलस्य मूलकारणम्, परब्रह्मणः एव निखिलं जगत् सम्भवति इति मत्वा भावसहिताः पण्डिताः मामुपासते ।

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १०.८ ॥

  1. सर्गाणां अहं (भगवान् कृष्णः) किम् ?

सृष्टाणां वस्तूनाम् आदिः स्थितिः अन्तः च भगवान् कृष्णः अस्ति |

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १०.३२ ॥

  1. “तत्तद् मम तेजोंऽशसम्भवं (इति) अवगच्छ” । तत्तत् किम् ?

यद्यत् वस्तु प्रभावयुक्तं शोभावहं उत्साहसहितं वा तत् सकलं मम ऐश्वर्यात् उत्पन्नम् इति त्वं जानीहि ।

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ १०.४१ ॥

  1. किं दृष्ट्वा लोकत्रयं प्रव्यथितं जातम् ?

भूम्यन्तरिक्षयोः मध्ये च सर्वाः दिशः अपि च व्याप्तं क्रूरं विस्मयजनकं च इदं भगवतः कृष्णस्य विश्वरूपं दृष्ट्वा भुवनत्रयमपि किं भविष्यतीति चिन्ताकुलम् अस्ति ।

द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ ११.२० ॥

  1. महर्षिसिद्धसङ्घाः विश्वरूपं भगवन्तं कथं स्तुवन्ति ?

बहवो मुनयः सिद्धाश्च स्वस्ति इति उक्त्वा अर्थगर्भैः स्तोत्रैः त्वां प्रशंसन्ति ।

अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ११.२१ ॥

  1. दशनान्तरेषु विलग्नाः केचित् कथं दृश्यन्ते स्म ?
    भगवतः कृष्णस्य मुखानि प्रविष्टवत्सु केचन दन्तानां मध्ये विलग्नाः सन्ति । तेषां च शिरांसि चूर्णितानि दृश्यन्ते

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ ११.२७ ॥

  1. अर्जुनेन दृष्टं विश्वरूपं नृलोके अन्येन कैः कैः अपि द्रष्टुं न शक्यम् ?

मृत्युलोके जनाः वेदानां कल्पसूत्रादीनां अध्ययनेन वा, दानेन वा, कर्मणा वा, तीव्रेण तपसा वा विश्वरूपं द्रष्टुं न शक्नुवन्ति

न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ११.४८ ॥

  1. के युक्ततमाः इति भगवान् वदति?
    ये जनाः चित्तं मयि निवेश्य सततसमाहिताः प्रकृष्टया श्रद्धया समन्विताः मां भजन्ते ते जनाः मम युक्ततमाः मताः ।

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ १२.२ ॥

  1. अव्यक्तासक्तचेतसां (निर्गुणोपसाकानां) अधिकतरः क्लेशः किमर्थम् ?
    येषां देहे ममता वर्तते तेषाम् निर्विशेषं ब्रह्म दुःखेन प्राप्यते । अतः निर्विशेषे ब्रह्मणि येषां मनः प्रवृत्तम् तेषाम् अत्यन्तं क्लेशः सम्भवति ।

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ १२.५ ॥

रिक्तस्थानं पूरयत ।

  1. इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । ११.५० ।
  2. अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् । ११.३७ ।
  3. गन्धर्वयक्षासुरसिद्धसङ्घाः वीक्षन्ते त्वां विस्मिताश्चैव सर्वे । ११.२२ ।
  4. प्रणम्य शिरसा देवं कृताञ्जलिरभाषत । ११.१४ ।
  5. यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः । १०. २५ |
  6. वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । १०.२२ |
  7. असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते  । १०.३ |
  8. श्रेयोहि ज्ञानमभ्यासात् ज्ञानाद् ध्यानं विशिष्यते । १२.१२ ।
  • विभज्य सन्धिनाम लिखत ।
    • 10.13 आहुस्त्वाम् = आहुः त्वाम् – विसर्गसन्धिः सकारादेशः |
    : + { } = स् + { }
    • 10.17 योगिंस्त्वाम् = योगिन् त्वाम् – सत्वम् |
    न् + { } = ं + स् + { }
    • 10.39 स्यान्मया = स्यात् मया – अनुनासिकसन्धिः |
    वर्गीयव्यञ्जनानि + अनुनासिका = { 5th of first } + { second }
    • 11.04 तच्छक्यम् = तत् शक्यम्
    तत् + शक्यम् = तच् + शक्यम् – श्चुत्वसन्धिः |
    { सकार / तवर्ग: } + { शकार: / चवर्गः } = { equivalent शकार: / चवर्गः } + { }
    तच् + श् + अक्यम् = तच् + छ् + अक्यम् – छत्वसन्धिः |
    { वर्गीय-व्यञ्जनम् } + श् + { स्वरः ह य व र } = { } + { छ् } + { }
    • 11.15 देवांस्तव = देवान् तव – सत्वम् |
    न् + { } = ं + स् + { }
    • 12.02 मय्यावेश्य = मयि आवेश्य – यण् सन्धिः |
    { इ ई } { उ ऊ } { ऋ ॠ } { ऌ } + असवर्णस्वरः = { य् व् र् ल् }
    • 12.15 यस्मान्नोद्विजते = यस्मात् न उद्विजते
    यस्मान् न = यस्मात् न – अनुनासिकसन्धिः |
    वर्गीयव्यञ्जनानि + अनुनासिका = { 5th of first } + { second }
    नोद्विजते = न उद्विजते – गुणसन्धिः |
    { अ आ } + { इ ई } { उ ऊ } { ऋ ॠ } { ऌ } = { ए ओ अर् अल् }

विग्रहवाक्यं समासनाम च लिखत ।

10.09 मच्चित्ताः
मयि चित्तं येषां ते मच्चित्ताः – बहुव्रीहिः

11.14 विस्मयाविष्टः
विस्मयेन आविष्टः विस्मयाविष्टः – तृतीया तत्पुरुषः |

11.48 वेदयज्ञाध्ययनैः
वेदाश्च यज्ञाश्च वेदयज्ञाः – इतरेतर द्वन्द्व समासः |
वेदयज्ञानाम् अध्ययनम् वेदयज्ञाध्ययनम् – षष्ठीतत्पुरुषः | तैः वेदयज्ञाध्ययनैः |

12.11 सर्वकर्मफलत्यागम्
सर्वाणि कर्माणि सर्वकर्माणि – विशेषणपूर्वपद कर्मधारयः |
सर्वकर्माणां फलम् सर्वकर्मफलम् – षष्ठीतत्पुरुषः |
सर्वकर्मफलस्य त्यागः सर्वकर्मफलत्यागः – षष्ठीतत्पुरुषः | तं सर्वकर्मफलत्यागम् |

12.13 समदुःखसुखः
दुःखञ्च सुखञ्च दुःखसुखे – इतरेतर द्वन्द्व समासः |
समे दुःखसुखे यस्य सः समदुःखसुखः – बहुव्रीहिः |

12.14 यतात्मा
यतः आत्मा यस्य सः यतात्मा – बहुव्रीहिः |
09.24 सर्वयज्ञानाम्

टिप्पणीं लिखत । (६-८ वाक्यै:)
१. भगवतः आत्मविभूतिविषये लिखत । 10.
२. अर्जुनाय दर्शितं परमं ऐश्वरं रूपं (अनेकवक्त्रनयनं इति………) वर्णयत । 11.10 …
३. “निमित्तमात्रं भव सव्यसाचिन्” ! एतस्य आदेशस्य सन्दर्भं वर्णयत । 11.33 …
४. “यो मद्भक्तः स मे प्रियः” इति वचनस्य आशयं वर्णयत । 12.16

 

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s