Bhagavad Gita – Chapter 15

श्रीमद्भगवद्गीता – पञ्चदशोऽध्यायः – पुरुषोत्तमयोगः –

श्रीभगवानुवाच-

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥

पदच्छेदः

ऊर्ध्वमूलम् अधःशाखम् अश्वत्थं प्राहुः अव्ययम् छन्दांसि यस्य पर्णानि यः तं वेद सः वेदवित् ॥ १ ॥

अन्वयः 

यस्य छन्दांसि पर्णानि (तादृशम्) अश्वत्थम् ऊर्ध्वमूलम् अधःशाखम् अव्ययं प्राहुः । यः तं वेद सः वेदवित् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = प्राहुः [ प्र + ब्रू “ब्रूञ् व्यक्तायां वाचि” पर. लट्. प्रपु. बहु. ]
    • कर्म-वाक्यांश:
      • “यस्य” वाक्यांश:
        • क्रियापदम् = (भवन्ति)
        • कर्तृ-विशेषण-सूचक-पदम् = छन्दांसि [ स. नपुं. प्र. बहु. ]
        • कर्तृपदम् = पर्णानि [ अ. नपुं. प्र. बहु. ]
        • सम्बन्ध-पदम् = यस्य [ यद् द. पुं. ष. एक. ]
      • “तम्” वाक्यांश:
        • कर्मविशेषण-सूचक-पदम् = अव्ययम् [ अ. पुं. द्वि. एक. ]
        • कर्मपदम् = अश्वत्थम् [ अ. पुं. द्वि. एक. ]
        • कर्मविशेषणम् = तम् [ तद् द. पुं. द्वि. एक. ]
        • कर्मविशेषणम् = ऊर्ध्वमूलम् [ अ. पुं. द्वि. एक. ]
        • कर्मविशेषणम् = अधःशाखम् [ अ. पुं. द्वि. एक. ]
      • सम्योजकपदम् = इति [ अव्ययम् ]
    • द्वितीयवाक्यम्
      • “यः” वाक्यांश:
        • क्रियापदम् = वेद [ विद् “विद ज्ञाने” पर. लट्. प्रपु. एक. ]
        • कर्मपदम् = तम् [ तद् द. पुं. द्वि. एक. ]
        • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
      • “सः” वाक्यांश:
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = वेदवित् [ त. पुं. प्र. एक. ]
        • कर्तृपदम् = सः [ तद् द. पुं. प्र. एक. ]

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।

अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥

पदच्छेदः 

अधः च ऊर्ध्वं प्रसृताः तस्य शाखाः गुणप्रवृद्धाः विषयप्रवालाः अधः च मूलानि अनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥

अन्वयः

तस्य गुणप्रवृद्धाः विषयप्रवालाः शाखाः अधः ऊर्ध्वं च प्रसृताः । मनुष्यलोके अनुसन्ततानि कर्मानुबन्धीनि मूलानि अधः च ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = प्रसृताः
      • स्थानवाचकपदम् = अधः
      • स्थानवाचकपदम् = ऊर्ध्वम्
      • सम्योजकपदम् = च
    • वाक्यांश:
      • कर्तृपदम् = शाखाः
      • सम्बन्ध-पदम् = तस्य
    • कर्तृविशेषणम् = गुणप्रवृद्धाः
    • कर्तृविशेषणम् = विषयप्रवालाः
  • द्वितीयवाक्यम्
    • क्रियापदम् = (सन्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = अनुसन्ततानि
      • स्थानवाचकपदम् = अधः
    • कर्तृपदम् = मूलानि
    • वाक्यांश:
      • कर्तृविशेषणम् = कर्मानुबन्धीनि
      • अधिकरणपदम् = मनुष्यलोके

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठः ।

अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥

ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।

तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥

पदच्छेदः

न रूपम् अस्य इह तथा उपलभ्यते न अन्तः न च आदिः न च सम्प्रतिष्ठः अश्वत्थम् एनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥

ततः पदं तत् परिमार्गितव्यं यस्मिन् गताः न निवर्तन्ति भूयः तम् एव च आद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥

अन्वयः

अस्य रूपम् इह न उपलभ्यते तथा न अन्तः न च आदिः न च सम्प्रतिष्ठः । सुविरूढमूलम् एनम् अश्वत्थं दृढेन असशस्त्रेण छित्त्वा, ततः यतः पुराणी प्रवृत्तिः प्रसृता तम् एव च आद्यं पुरुषं प्रपद्ये इति मत्वा यस्मिन् गताः भूयः न निवर्तन्ति तत् पदं परिमार्गितव्यम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = उपलभ्यते
    • प्रतिषेधपदम् = न
    • स्थानवाचकपदम् = इह
    • वाक्यांश:
      • कर्मपदम् = रूपम्
      • सम्बन्ध-पदम् = अस्य
    • समुच्चय-वाक्यम्
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = अन्तः
      • सम्योजकपदम् = तथा
    • समुच्चय-वाक्यम्
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = आदिः
      • सम्योजकपदम् = च
    • समुच्चय-वाक्यम्
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = सम्प्रतिष्ठः
      • सम्योजकपदम् = च
    • द्वितीयवाक्यम्
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = छित्त्वा
        • करणवाचकपदम् = असशस्त्रेण
        • करणविशेषणम् = दृढेन
        • कर्मपदम् = अश्वत्थम्
        • कर्मविशेषणम् = सुविरूढमूलम्
        • कर्मविशेषणम् = एनम्
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = मत्वा
        • कर्म-वाक्यम्
          • “यतः” वाक्यांश:
            • क्रियापदम् = (अस्ति)
            • कर्तृ-विशेषण-सूचक-पदम् = प्रसृता
            • कर्तृपदम् = प्रवृत्तिः
            • कर्तृविशेषणम् = पुराणी
            • अपादानपदम् = यतः
          • “तम्” वाक्यांश:
            • क्रियापदम् = प्रपद्ये
            • कर्मपदम् = पुरुषम्
            • कर्मविशेषणम् = आद्यम्
            • कर्मविशेषणम् = तम्
            • अवधारणम् = एव
            • सम्योजकपदम् = च
            • कर्तृपदम् = (अहम्)
          • सम्योजकपदम् = इति
        • “यस्मिन्” वाक्यांश:
          • क्रियापदम् = निवर्तन्ति
          • प्रतिषेधपदम् = न
          • क्रियाविशेषणम् = भूयः
          • वाक्यांश:
            • कर्तृपदम् = गताः
            • अधिकरणपदम् = यस्मिन्
          • “तत्” वाक्यांश:
            • क्रियापदम् = (भवति)
            • कर्तृ-विशेषण-सूचक-पदम् = परिमार्गितव्यम्
            • कर्तृपदम् = पदम्
            • कर्तृविशेषणम् = तत्

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ ५ ॥

पदच्छेदः 

निर्मानमोहाः जितसङ्गदोषाः अध्यात्मनित्याः विनिवृत्तकामाः द्वन्द्वैः विमुक्ताः सुखदुःखसञ्ज्ञैः गच्छन्ति अमूढाः पदमव्ययं तत् ॥ ५ ॥

अन्वयः 

निर्मानमोहाः जितसङ्गदोषाः अध्यात्मनित्याः विनिवृत्तकामाः सुखदुःखसञ्ज्ञैः द्वन्द्वैः विमुक्ताः अमूढाः तत् अव्ययं पदं गच्छन्ति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = गच्छन्ति
    • कर्मपदम् = पदम्
    • कर्मविशेषणम् = अव्ययम्
    • कर्मविशेषणम् = तत्
    • कर्तृपदम् = अमूढाः
    • कर्तृविशेषणम् = निर्मानमोहाः
    • कर्तृविशेषणम् = जितसङ्गदोषाः
    • कर्तृविशेषणम् = अध्यात्मनित्याः
    • कर्तृविशेषणम् = विनिवृत्तकामाः
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= विमुक्ताः
      • (कर्मणि) कर्तृपदम् = सुखदुःखसञ्ज्ञैः
      • (कर्मणि) कर्तृविशेषणम् = द्वन्द्वैः

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६ ॥

पदच्छेदः 

न तत् भासयते सूर्यः न शशाङ्कः न पावकः यत् गत्वा न निवर्तन्ते तत् धाम परमं मम ॥ ५ ॥

अन्वयः

सूर्यः तत् न भासयते, न शशाङ्कः,  न पावकः | यत् गत्वा न निवर्तन्ते तत् मम परमं धाम ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = भासयते
    • प्रतिषेधपदम् = न
    • कर्मपदम् = तत्
    • कर्तृविशेषणम् = सूर्यः
    • समुच्चय-वाक्यम्
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = शशाङ्कः
    • समुच्चय-वाक्यम्
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = पावकः
    • द्वितीयवाक्यम्
      • “यत्” वाक्यांश:
        • क्रियापदम् = निवर्तन्ते
        • प्रतिषेधपदम् = न
        • क्त्वान्त-वाक्यांश:
          • क्त्वान्तपदम् = गत्वा
          • कर्मपदम् = यत्
        • “तत्” वाक्यांश:
          • क्रियापदम् = (अस्ति)
          • वाक्यांश:
            • कर्मविशेषण-सूचक-पदम् = धाम
            • कर्मविशेषणम् = परमम्
            • सम्बन्ध-पदम् = मम
          • कर्मपदम् = तत्

ममैवांशो जीवलोके जीवभूतः सनातनः ॥

मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥

पदच्छेदः

मम एव आंशः जीवलोके जीवभूतः सनातनः मनःषष्ठानि इन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥

अन्वयः

जीवलोके मम सनातनः अंशः एव जीवभूतः । (सः) प्रकृतिस्थानि मनःषष्ठानि इन्द्रियाणि कर्षति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = जीवभूतः
    • वाक्यांश:
      • कर्तृपदम् = अंशः
      • कर्तृविशेषणम् = सनातनः
      • सम्बन्ध-पदम् = मम
      • अवधारणम् = एव
    • अधिकरणपदम् = जीवलोके
  • द्वितीयवाक्यम्
    • क्रियापदम् = कर्षति
    • कर्मपदम् = इन्द्रियाणि
    • कर्मविशेषणम् = प्रकृतिस्थानि
    • कर्मविशेषणम् = मनःषष्ठानि
    • कर्तृपदम् = (सः)

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।

गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ८ ॥

पदच्छेदः

शरीरं यत् अवाप्नोति यत् च अपि उत्क्रामति ईश्वरः गृहीत्वा एतानि संयाति वायुः गन्धान् इव आशयात् ॥ ८ ॥

अन्वयः

ईश्वरः यत् शरीरम् अवाप्नोति, यत् च अपि उत्क्रामति वायुः आशयात् गन्धान् इव एतानि गृहीत्वा संयाति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = अवाप्नोति
      • कर्मपदम् = शरीरम्
      • कर्मविशेषणम् = यत्
    • “यत्” वाक्यांश:
      • क्रियापदम् = उत्क्रामति
      • कर्मपदम् = यत्
      • सम्योजकपदम् = च
      • सम्योजकपदम् = अपि
    • “एतानि” वाक्यांश:
      • क्रियापदम् = संयाति
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = गृहीत्वा
        • कर्मपदम् = एतानि
        • वाक्यांश:
          • कर्मपदम् = गन्धान्
          • अपादानपदम् = आशयात्
          • कर्तृपदम् = वायुः
          • सम्योजकपदम् = इव
        • कर्तृपदम् = ईश्वरः

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।

अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥

पदच्छेदः

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च अधिष्ठाय मनः च अयं विषयान् उपसेवते ॥ ९ ॥

अन्वयः

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणं च मनः च अधिष्ठाय अयम् एव विषयान् उपसेवते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = उपसेवते
    • कर्मपदम् = विषयान्
    • कर्तृपदम् = अयम्
    • अवधारणम् = एव
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = अधिष्ठाय
      • कर्मपदम् = श्रोत्रम्
      • कर्मपदम् = चक्षुः
      • कर्मपदम् = स्पर्शनम्
      • कर्मपदम् = रसनम्
      • कर्मपदम् = घ्राणम्
      • कर्मपदम् = मनः
      • सम्योजकपदम् = च

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥

पदच्छेदः

उत्क्रामन्तं स्थितं वा अपि भुञ्जानं वा गुणान्वितम् विमूढाः न अनुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥

अन्वयः

विमूढाः उत्क्रामन्तं स्थितं वा अपि भुञ्जानं गुणान्वितं वा न अनुपश्यन्ति, ज्ञानचक्षुषः पश्यन्ति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = अनुपश्यन्ति
    • प्रतिषेधपदम् = न
    • कर्मपदम् = उत्क्रामन्तम्
    • कर्मपदम् = स्थितम्
    • वाक्यांश:
      • कर्मपदम् = भुञ्जानम्
      • कर्मविशेषणम् = गुणान्वितम्
    • अवधारणम् = अपि
    • सम्योजकपदम् = वा
    • समुच्चय-वाक्यम्
      • क्रियापदम् = पश्यन्ति
      • कर्तृपदम् = ज्ञानचक्षुषः

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।

यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥

पदच्छेदः

यतन्तः योगिनः च एनं पश्यन्ति आत्मनि अवस्थितम् यतन्तः अपि अकृतात्मानः न एनं पश्यन्ति अचेतसः ॥ ११ ॥

अन्वयः

यतन्तः योगिनः च एनम् आत्मनि अवस्थितं पश्यन्ति । यतन्तः अपि अकृतात्मानः अचेतसः एनं न पश्यन्ति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = पश्यन्ति
    • कर्मपदम् = एनम्
    • वाक्यांश:
      • कर्मविशेषणम् = अवस्थितम्
      • अधिकरणपदम् = आत्मनि
    • कर्तृपदम् = योगिनः
    • कर्तृविशेषणम् = यतन्तः
    • सम्योजकपदम् = च
  • द्वितीयवाक्यम्
    • क्रियापदम् = पश्यन्ति
    • प्रतिषेधपदम् = न
    • कर्मपदम् = एनम्
    • कर्तृपदम् = अचेतसः
    • कर्तृविशेषणम् = अकृतात्मानः
    • वाक्यांश:
      • कर्तृविशेषणम् = यतन्तः
      • अवधारणम् = अपि

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।

यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥

पदच्छेदः

यदा आदित्यगतं तेजः जगद्भासयते अखिलम् यत् चन्द्रमसि यत् च अग्नौ तत् तेजः विद्धि मामकम् ॥ १२ ॥

अन्वयः

यत् आदित्यगतं तेजः, अखिलं जगत् भासयते, यत् चन्द्रमसि, यत् च अग्नौ, तत् तेजः मामकं (इति) विद्धि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = विद्धि
    • कर्तृपदम् = (त्वम्)
    • कर्म-वाक्यम्
      • “यत्” वाक्यांश:
        • क्रियापदम् = भासयते
        • कर्मपदम् = जगत्
        • कर्मविशेषणम् = अखिलम्
        • कर्तृपदम् = तेजः
        • कर्तृविशेषणम् = यत्
        • कर्तृविशेषणम् = आदित्यगतम्
      • “यत्” वाक्यांश:
        • क्रियापदम् = (भासयते)
        • कर्तृपदम् = यत्
        • अधिकरणपदम् = चन्द्रमसि
      • “यत्” वाक्यांश:
        • क्रियापदम् = (भासयते)
        • कर्तृपदम् = यत्
        • अधिकरणपदम् = अग्नौ
        • सम्योजकपदम् = च
      • “तत्” वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • कर्तृ-विशेषण-सूचक-पदम् = मामकम्
        • कर्तृपदम् = तेजः
        • कर्तृविशेषणम् = तत्
      • सम्योजकपदम् = (इति)

गामाविश्य च भूतानि धारयाम्यहमोजसा ।

पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १३ ॥

पदच्छेदः

गाम् आविश्य च भूतानि धारयामि अहम् ओजसा पुष्णामि च औषधीः सर्वाः सोमः भूत्वा रसात्मकः ॥ १३ ॥

अन्वयः

अहं गाम् आविश्य च ओजसा भूतानि धारयामि । रसात्मकः सोमः भूत्वा सर्वाः औषधीः च पुष्णामि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = धारयामि
    • कर्मपदम् = भूतानि
    • करणवाचकपदम् = ओजसा
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = आविश्य
      • कर्मपदम् = गाम्
      • सम्योजकपदम् = च
    • कर्तृपदम् = अहम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = पुष्णामि
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = भूत्वा
      • कर्तृपदम् = सोमः
      • कर्तृविशेषणम् = रसात्मकः
    • कर्मपदम् = औषधीः
    • कर्मविशेषणम् = सर्वाः
    • कर्तृपदम् = अहम्

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।

प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १४ ॥

पदच्छेदः

अहं वैश्वानरः भूत्वा प्राणिनां देहम् आश्रितः प्राणापानसमायुक्तः पचामि अन्नं चतुर्विधम् ॥ १४ ॥

अन्वयः

अहं वैश्वानरः भूत्वा प्राणिनां देहम् आश्रितः प्राणापानसमायुक्तः चतुर्विधम् अन्नं पचामि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = पचामि
    • कर्मपदम् = अन्नम्
    • कर्मविशेषणम् = चतुर्विधम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = भूत्वा
      • कर्तृपदम् = वैश्वानरः
    • कर्तृपदम् = अहम्
    • वाक्यांश:
      • कर्तृविशेषणम् = आश्रितः
      • कर्मपदम् = देहम्
      • सम्बन्ध-पदम् = प्राणिनाम्

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ।

वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥

पदच्छेदः

सर्वस्य च अहं हृदि सन्निविष्टः मत्तः स्मृतिः ज्ञानम् अपोहनं च वेदैः च सर्वैः अहम् एव वेद्यः वेदान्तकृत् वेदवित् एव च अहम् ॥ १५ ॥

अन्वयः

अहं सर्वस्य हृदि सन्निविष्टः च । मत्तः एव स्मृतिः ज्ञानम् अपोहनं च । अहम् एव सर्वैः वेदैः वेद्यः च । अहम् एव वेदान्तकृत् वेदवित् च ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्मि)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = सन्निविष्टः
      • अधिकरणपदम् = हृदि
      • सम्बन्ध-पदम् = सर्वस्य
    • कर्तृपदम् = अहम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • कर्तृपदम् = स्मृतिः
    • कर्तृपदम् = ज्ञानम्
    • कर्तृपदम् = अपोहनम्
    • सम्योजकपदम् = च
    • वाक्यांश:
      • अपादानपदम् = मत्तः
      • अवधारणम् = एव
    • तृतीयवाक्यम्
      • क्रियापदम् = (अस्मि)
      • कर्तृ-विशेषण-सूचक-पदम् = वेद्यः
      • करणवाचकपदम् = वेदैः
      • करणविशेषणम् = सर्वैः
      • सम्योजकपदम् = च
      • कर्तृपदम् = अहम्
      • अवधारणम् = एव
    • चतुर्थवाक्यम्
      • क्रियापदम् = (अस्मि)
      • कर्तृ-विशेषण-सूचक-पदम् = वेदान्तकृत्
      • कर्तृ-विशेषण-सूचक-पदम् = वेदवित्
      • सम्योजकपदम् = च
      • कर्तृपदम् = अहम्
      • अवधारणम् = एव

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥

पदच्छेदः

द्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते ॥ १६ ॥

अन्वयः

लोके क्षरः च अक्षरः एव च इमौ पुरुषौ द्वौ । सर्वाणि भूतानि क्षरः (इति) उच्यते । कूटस्थः अक्षरः (इति) उच्यते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (स्थः)
    • कर्तृविशेषणम् = पुरुषौ
    • कर्तृविशेषणम् = द्वौ
    • कर्तृविशेषणम् = इमौ
    • वाक्यांश:
      • कर्तृपदम् = क्षरः
      • कर्तृपदम् = अक्षरः
      • अवधारणम् = एव
      • सम्योजकपदम् = च
    • अधिकरणपदम् = लोके
  • द्वितीयवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते
    • (कर्मणि) कर्म-वाक्यम्
      • क्रियापदम् = (भवन्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = क्षरः
      • कर्तृपदम् = भूतानि
      • कर्तृविशेषणम् = सर्वाणि
      • सम्योजकपदम् = (इति)
    • तृतीयवाक्यम्
      • (कर्मणि) क्रियापदम् = उच्यते
      • (कर्मणि) कर्म-वाक्यम्
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = अक्षरः
        • कर्तृपदम् = कूटस्थः
        • सम्योजकपदम् = (इति)

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥

पदच्छेदः

उत्तमः पुरुषः तु अन्यः परमात्मा इति उदाहृतः यः लोकत्रयम् आविश्य बिभर्ति अव्ययः ईश्वरः ॥

अन्वयः

उत्तमः पुरुषः तु अन्यः । परमात्मा इति उदाहृतः । यः लोकत्रयम् आविश्य बिभर्ति अव्ययः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अन्यः
    • वाक्यांश:
      • कर्तृपदम् = उत्तमः
      • कर्तृविशेषणम् = पुरुषः
    • अवधारणम् = तु
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृपदम् = उदाहृतः
    • कर्म-वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = परमात्मा
      • कर्तृपदम् = (सः)
      • सम्योजकपदम् = (इति)
    • तृतीयवाक्यम्
      • “यः” वाक्यांश:
        • क्रियापदम् = बिभर्ति
        • कर्तृपदम् = यः
        • ल्यबन्त-वाक्यांश:
          • ल्यबन्तपदम् = आविश्य
          • कर्मपदम् = लोकत्रयम्
        • (सः) वाक्यांश:
          • क्रियापदम् = (भवति)
          • कर्तृ-विशेषण-सूचक-पदम् = अव्ययः
          • कर्तृपदम् = (सः)

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८ ॥

पदच्छेदः

यस्मात् क्षरम् अतीतः अहम् क्षरात् अपि च उत्तमः अतः अस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥

अन्वयः

यस्मात् अहं क्षरम् अतीतः अक्षरात् अपि च उत्तमः अतः लोके वेदे च पुरुषोत्तमः (इति) प्रथितः अस्मि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यस्मात्” वाक्यांश:
      • क्रियापदम् = (अस्मि)
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = अतीतः
        • कर्मपदम् = क्षरम्
      • कर्तृपदम् = अहम्
      • समुच्चय-वाक्यम्
        • क्रियापदम् = (अस्मि)
        • वाक्यांश:
          • कर्तृ-विशेषण-सूचक-पदम् = उत्तमः
          • अपादानपदम् = अक्षरात्
          • अवधारणम् = अपि
        • सम्योजकपदम् = च
        • कर्तृपदम् = (अहम्)
      • सम्योजकपदम् = यस्मात्
    • “अतः” वाक्यांश:
      • क्रियापदम् = अस्मि
      • कर्तृपदम् = (अहम्)
      • कर्तृ-विशेषण-सूचक-पदम् = प्रथितः
      • कर्म-वाक्यम्
        • क्रियापदम् = (अस्ति)
        • कर्तृ-विशेषण-सूचक-पदम् = पुरुषोत्तमः
        • कर्तृपदम् = (सः)
        • अधिकरणपदम् = लोके
        • अधिकरणपदम् = वेदे
        • सम्योजकपदम् = च
        • सम्योजकपदम् = (इति)

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।

स सर्वविद्भजति मां सर्वभावेन भारत ॥ १९ ॥

पदच्छेदः

यः माम् एवम् असम्मूढः जानाति पुरुषोत्तमम् सः सर्ववित् भजति मां सर्वभावेन भारत ॥

अन्वयः

भारत ! यः असम्मूढः पुरुषोत्तमं मां जानाति सः सर्ववित् सर्वभावेन भजति ।

पदपरिचयः

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = जानाति
      • कर्मपदम् = माम्
      • कर्मविशेषणम् = पुरुषोत्तमम्
      • कर्तृपदम् = असम्मूढः
      • कर्तृविशेषणम् = यः
    • “सः” वाक्यांश:
      • क्रियापदम् = भजति
      • करणवाचकपदम् = सर्वभावेन
      • कर्तृपदम् = सर्ववित्
      • कर्तृविशेषणम् = सः

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।

एतद् बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ २० ॥

पदच्छेदः

इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यः च भारत ॥ २० ॥

अन्वयः

अनघ ! इति मया इदं गुह्यतमं शास्त्रम् उक्तम् । भारत ! एतत् बुद्ध्वा बुद्धिमान् कृतकृत्यः च स्यात् ।

पदपरिचयः

  • सम्बोधनपदम् = अनघ!
  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= उक्तम्
    • (कर्मणि) कर्मपदम् = शास्त्रम्
    • (कर्मणि) कर्मविशेषणम् = इदम्
    • (कर्मणि) कर्मविशेषणम् = गुह्यतमम्
    • (कर्मणि) कर्तृपदम् = मया
    • सम्योजकपदम् = इति
  • सम्बोधनपदम् = भारत!
    • क्रियापदम् = स्यात्
    • कर्तृ-विशेषण-सूचक-पदम् = बुद्धिमान्
    • कर्तृ-विशेषण-सूचक-पदम् = कृतकृत्यः
    • सम्योजकपदम् = च
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = बुद्ध्वा
      • कर्मपदम् = एतत्
    • कर्तृपदम् = (कश्चन)

References –

  1. 30 Jan 2016 दिनाङ्के नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6ph पुरुषोत्तमयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwas, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s