Bhagavad Gita – Chapter 14 – Part 2

श्रीमद्भगवद्गीता – चतुर्दशोऽध्यायः – गुणत्रयविभागयोगः – भाग: २

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।

तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४ ॥

पदच्छेदः

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् तदा उत्तमविदां लोकान् अमलान् प्रतिपद्यते ॥ १४ ॥

अन्वयः

सत्त्वे प्रवृद्धे तु यदा देहभृत् प्रलयं याति तदा उत्तमविदाम् अमलान् लोकान् प्रतिपद्यते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यदा” वाक्यांश:
      • क्रियापदम् = याति
      • कर्मपदम् = प्रलयम्
      • कर्तृपदम् = देहभृत्
      • कालवाचकपदम् = यदा
      • कालवाचक-वाक्यांश:
        • ज्ञापक-क्रियापदम् = प्रवृद्धे
        • क्रिया-आश्रय-कर्तृपदम् = सत्त्वे
        • सतिसप्तमि-पदम् = (सति)
        • अवधारणम् = तु
      • “तदा” वाक्यांश:
        • क्रियापदम् = प्रतिपद्यते
        • वाक्यांश:
          • कर्मपदम् = लोकान्
          • कर्मविशेषणम् = अमलान्
          • सम्बन्ध-पदम् = उत्तमविदाम्
        • कर्तृपदम् = (सः)
        • कालवाचकपदम् = तदा

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।

तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥

दच्छेदः

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते तथा प्रलीनः तमसि मूढयोनिषु जायते ॥ १५ ॥

अन्वयः

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते तथा तमसि प्रलीनः मूढयोनिषु जायते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = जायते
    • अधिकरणपदम् = कर्मसङ्गिषु
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = गत्वा
      • कर्मपदम् = प्रलयम्
      • अधिकरणपदम् = रजसि
    • कर्तृपदम् = (कश्चन)
  • द्वितीयवाक्यम्
    • क्रियापदम् = जायते
    • अधिकरणपदम् = मूढयोनिषु
    • वाक्यांश:
      • कर्तृपदम् = प्रलीनः
      • अधिकरणपदम् = तमसि
    • सम्योजकपदम् = तथा

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।

रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥

दच्छेदः

कर्मणः सुकृतस्य आहुः सात्त्विकं निर्मलं फलम् रजसः तु फलं दुःखम् अज्ञानं तमसः फलम् ॥ १६ ॥

अन्वयः

सुकृतस्य कर्मणः निर्मलं सात्त्विकं फलम् आहुः । रजसः फलं तु दुःखम् । तमसः फलम् अज्ञानम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = आहुः
    • वाक्यांश:
      • कर्मपदम् = फलम्
      • कर्मविशेषणम् = सात्त्विकम्
      • कर्मविशेषणम् = निर्मलम्
      • सम्बन्ध-पदम् = कर्मणः
      • सम्बन्ध-विशेषण-पदम् = सुकृतस्य
      • सम्योजकपदम् = (इति)
    • द्वितीयवाक्यम्
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = दुःखम्
      • वाक्यांश:
        • कर्तृपदम् = फलम्
        • सम्बन्ध-पदम् = रजसः
        • अवधारणम् = तु
      • तृतीयवाक्यम्
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = अज्ञानम्
        • वाक्यांश:
          • कर्तृपदम् = फलम्
          • सम्बन्ध-पदम् = तमसः

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।

प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥

पदच्छेदः

सत्त्वात् सञ्जायते ज्ञानं रजसः लोभः एव च प्रमादमोहौ तमसः भवतः अज्ञानम् एव च ॥ १७ ॥

अन्वयः

सत्त्वात् ज्ञानं सञ्जायते रजसः लोभः एव च । तमसः प्रमादमोहौ भवतः अज्ञानम् एव च ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = सञ्जायते
    • कर्तृपदम् = ज्ञानम्
    • अपादानपदम् = सत्त्वात्
    • समुच्चय-वाक्यम्
      • क्रियापदम् = (सञ्जायते)
      • कर्तृपदम् = लोभः
      • अवधारणम् = एव
      • अपादानपदम् = रजसः
      • सम्योजकपदम् = च
    • द्वितीयवाक्यम्
      • क्रियापदम् = भवतः
      • कर्तृपदम् = प्रमादमोहौ
      • अपादानपदम् = तमसः
    • तृतीयवाक्यम्
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = अज्ञानम्
      • अवधारणम् = एव
      • सम्योजकपदम् = च

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।

जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ १८ ॥

पदच्छेदः

ऊर्ध्वं गच्छन्ति सत्त्वस्थाः मध्ये तिष्ठन्ति राजसाः जघन्यगुणवृत्तिस्थाः अधो गच्छन्ति तामसाः ॥ १८ ॥

अन्वयः

सत्त्वस्थाः ऊर्ध्वं गच्छन्ति । राजसाः मध्ये तिष्ठन्ति । जघन्यगुणवृत्तिस्थाः तामसाः अधः गच्छन्ति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = गच्छन्ति
    • कर्मपदम् = ऊर्ध्वम्
    • कर्तृपदम् = सत्त्वस्थाः
  • द्वितीयवाक्यम्
    • क्रियापदम् = तिष्ठन्ति
    • अधिकरणपदम् = मध्ये
    • कर्तृपदम् = राजसाः
  • तृतीयवाक्यम्
    • क्रियापदम् = गच्छन्ति
    • अधिकरण-सूचक-पदम् = अधः
    • कर्तृपदम् = तामसाः
    • कर्तृविशेषणम् = जघन्यगुणवृत्तिस्थाः

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।

गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९ ॥

पदच्छेदः

न अन्यं गुणेभ्यः कर्तारं यदा द्रष्टा अनुपश्यति गुणेभ्यः च परं वेत्ति मद्भावं सः अधिगच्छति ॥ १९ ॥

अन्वयः

द्रष्टा यदा गुणेभ्यः अन्यं कर्तारं न अनुपश्यति (आत्मानम्) गुणेभ्यः च परं वेत्ति (तदा) सः मद्भावं अधिगच्छति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यदा” वाक्यांश:
      • क्रियापदम् = अनुपश्यति
      • प्रतिषेधपदम् = न
      • कर्मपदम् = कर्तारम्
      • वाक्यांश:
        • कर्मविशेषणम् = अन्यम्
        • अपादानपदम् = गुणेभ्यः
      • कर्तृपदम् = द्रष्टा
      • कालवाचकपदम् = यदा
    • “यदा” वाक्यांश:
      • क्रियापदम् = वेत्ति
      • वाक्यांश:
        • कर्मपदम् = परम्
        • अपादानपदम् = गुणेभ्यः
      • कालवाचकपदम् = यदा
      • सम्योजकपदम् = च
    • (तदा) वाक्यांश:
      • क्रियापदम् = अधिगच्छति
      • कर्मपदम् = मद्भावम्
      • कर्तृपदम् = सः
      • कालवाचकपदम् = तदा

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।

जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ २० ॥

पदच्छेदः

गुणान् एतान् अतीत्य त्रीन् देही देहसमुद्भवान् जन्ममृत्युजरादुःखैः विमुक्तः अमृतम् अश्नुते ॥ २० ॥

अन्वयः

देही देहसमुद्भवान् एतान् त्रीन् गुणान् अतीत्य जन्ममृत्युजरादुःखैः विमुक्तः अमृतम् अश्नुते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = अश्नुते
    • कर्मपदम् = अमृतम्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = अतीत्य
      • कर्मपदम् = गुणान्
      • कर्मविशेषणम् = त्रीन्
      • कर्मविशेषणम् = एतान्
      • कर्मविशेषणम् = देहसमुद्भवान्
    • कर्तृपदम् = देही
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = विमुक्तः
      • करणवाचकपदम् = जन्ममृत्युजरादुःखैः

अर्जुन उवाच –

कैर्लिैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।

किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ २१ ॥

पदच्छेदः

कैः लिङ्गैः त्रीन् गुणान् एतान् अतीतः भवति प्रभो किम् आचारः कथं च एतान् त्रीन् गुणान् अतिवर्तते ॥ २१ ॥

अन्वयः

प्रभो ! कैः लिङ्गैः एतान् त्रीन् गुणान् अतीतः भवति । किमाचारः कथं च एतान् त्रीन् गुणान् अतिवर्तते ।

पदपरिचयः

  • सम्बोधनपदम् = प्रभो
  • प्रथमवाक्यम्
    • क्रियापदम् = भवति
    • वाक्यांश:
      • कर्तृपदम् = अतीतः
      • कर्मपदम् = गुणान्
      • कर्मविशेषणम् = त्रीन्
      • कर्मविशेषणम् = एतान्
    • करणवाचकपदम् = लिङ्गैः
    • प्रश्नवाचक-करण-पदम् = कैः
  • द्वितीयवाक्यम्
    • क्रियापदम् = अतिवर्तते
    • कर्मपदम् = गुणान्
    • कर्मविशेषणम् = त्रीन्
    • कर्मविशेषणम् = एतान्
    • प्रश्नवाचक-कर्तृपदम् = किमाचारः
    • प्रश्नवाचक-क्रियाविशेषणम् = कथम्
    • सम्योजकपदम् = च

श्रीभगवान् उवाच –

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।

न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥

उदासीनवदासीनो गुणैर्यो न विचाल्यते ।

गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ २३ ॥

समदुःखसुखस्वस्थः समलोष्टाश्मकाञ्चनः।

तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।

सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ २५ ॥

पदच्छेदः

प्रकाशं च प्रवृत्तिं च मोहम् एव च पाण्डव न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥

उदासीनवदासीनः गुणैः यः न विचाल्यते गुणाः वर्तन्ते इति एव यः अवतिष्ठते न इङ्गते ॥ २३ ॥

समदुःखसुखस्वस्थः समलोष्टाश्मकाञ्चनः तुल्यप्रियाप्रियः धीरः तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥

मानापमानयोः तुल्यः तुल्यः मित्रारिपक्षयोः सर्वारम्भपरित्यागी गुणातीतः सः उच्यते ॥ २५ ॥

अन्वयः

पाण्डव ! प्रकाशं च प्रवृत्तिं च मोहम् एव च सम्प्रवृत्तानि न द्वेष्टि, निवृत्तानि न काङ्क्षति । यः उदासीनवत् आसीनः गुणैः न विचाल्यते, यः गुणाः वर्तन्ते इति एव अवतिष्ठति न इङ्गते । समदुःखसुखः, स्वस्थः, समलोष्टाश्मकाञ्चनः, तुल्यप्रियाप्रियः, धीरः, तुल्यनिन्दात्मसंस्तुतिः, मानापमानयोः तुल्यः, मित्रारिपक्षयोः तुल्यः, सर्वारम्भपरित्यागी सः गुणातीतः उच्यते ।

पदपरिचयः

  • सम्बोधनपदम् = पाण्डव!
  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = द्वेष्टि
      • प्रतिषेधपदम् = न
      • कर्मपदम् = सम्प्रवृत्तानि
      • वाक्यांश:
        • वाक्यांश:
          • कर्मविशेषणम् = प्रकाशम्
          • सम्योजकपदम् = च
        • वाक्यांश:
          • कर्मविशेषणम् = प्रवृत्तिम्
          • सम्योजकपदम् = च
        • वाक्यांश:
          • कर्मविशेषणम् = मोहम्
          • अवधारणम् = एव
          • सम्योजकपदम् = च
        • कर्तृपदम् = यः
        • समुच्चय-वाक्यम्
          • क्रियापदम् = काङ्क्षति
          • प्रतिषेधपदम् = न
          • कर्मपदम् = निवृत्तानि
    • “यः” वाक्यांश:
      • (कर्मणि) क्रियापदम् = विचाल्यते
      • (कर्मणि) प्रतिषेधपदम् = न
      • (कर्मणि) कर्तृपदम् = गुणैः
      • (कर्मणि) कर्मपदम् = यः
      • वाक्यांश:
        • (कर्मणि) समकालीनत्व-द्योतक-कर्मविशेषणम् = आसीनः
        • क्रियाविशेषणम् = उदासीनवत्
    • “यः” वाक्यांश:
      • क्रियापदम् = अवतिष्ठति
      • कर्म-वाक्यम्
        • क्रियापदम् = वर्तन्ते
        • कर्तृपदम् = गुणाः
        • सम्योजकपदम् = इति
        • अवधारणम् = एव
      • कर्तृपदम् = यः
      • समुच्चय-वाक्यम्
        • क्रियापदम् = इङ्गते
        • प्रतिषेधपदम् = न
    • “सः” वाक्यांश:
      • क्रियापदम् = उच्यते
      • कर्म-वाक्यम्
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = गुणातीतः
        • कर्तृपदम् = सः
        • कर्तृविशेषणम् = समदुःखसुखः
        • कर्तृविशेषणम् = स्वस्थः
        • कर्तृविशेषणम् = समलोष्टाश्मकाञ्चनः
        • कर्तृविशेषणम् = तुल्यप्रियाप्रियः
        • कर्तृविशेषणम् = धीरः
        • कर्तृविशेषणम् = तुल्यनिन्दात्मसंस्तुतिः
        • वाक्यांश:
          • कर्तृविशेषणम् = तुल्यः
          • सम्बन्ध-पदम् = मानापमानयोः
        • वाक्यांश:
          • कर्तृविशेषणम् = तुल्यः
          • सम्बन्ध-पदम् = मित्रारिपक्षयोः
        • कर्तृविशेषणम् = सर्वारम्भपरित्यागी
        • सम्योजकपदम् = (इति)

मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।

स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ २६ ॥

पदच्छेदः

मां च यः अव्यभिचारेण भक्तियोगेन सेवते सः गुणान् समतीत्य एतान् ब्रह्मभूयाय कल्पते ॥ २६ ॥

अन्वयः

यः च अव्यभिचारेण भक्तियोगेन मां सेवते सः एतान् गुणान् समतीत्य ब्रह्मभूयाय कल्पते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = सेवते
      • कर्मपदम् = माम्
      • करणवाचकपदम् = भक्तियोगेन
      • करणविशेषणम् = अव्यभिचारेण
      • सम्योजकपदम् = च
      • कर्तृपदम् = यः
    • “सः” वाक्यांश:
      • क्रियापदम् = कल्पते
      • सम्प्रदानपदम् = ब्रह्मभूयाय
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = समतीत्य
        • कर्मपदम् = गुणान्
        • कर्मविशेषणम् = एतान्
      • कर्तृपदम् = सः

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।

शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ २७ ॥

पदच्छेदः

ब्रह्मणः हि प्रतिष्ठा अहम् अमृतस्य अव्ययस्य च शाश्वतस्य च धर्मस्य सुखस्य एकान्तिकस्य च ॥ २७ ॥

अन्वयः

अहं हि ब्रह्मणः प्रतिष्ठा अमृतस्य अव्ययस्य च शाश्वतस्य धर्मस्य च ऐकान्तिकस्य सुखस्य च ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्मि)
    • कर्तृपदम् = अहम्
    • अवधारणम् = हि
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = प्रतिष्ठा
      • सम्बन्ध-पदम् = ब्रह्मणः
      • सम्बन्ध-पदम् = अमृतस्य
      • सम्बन्ध-पदम् = शाश्वतस्य
      • सम्बन्ध-पदम् = धर्मस्य
      • सम्बन्ध-पदम् = ऐकान्तिकस्य
      • सम्बन्ध-पदम् = सुखस्य
      • सम्योजकपदम् = च

References –

  1. 29 Jan 2016 दिनाङ्के नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6pf १४. गुणत्रयविभागयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwas, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s