Bhagavad Gita – Chapter 2

श्रीमद्भगवद्गीता – द्वितीयोध्याय: – सांख्ययोगः

(Some updates are pending)

सञ्जय उवाच

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।

विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥

पदच्छेदः

तम्, तथा, कृपया, आविष्टम्, अश्रुपूर्णाकुलेक्षणम् । विषीदन्तम्, इदम्, वाक्यम्, उवाच, मधुसूदनः ॥

अन्वयः

मधुसूदनः तथा कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणं विषीदन्तं तम् इदं वाक्यम् उवाच ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = उवाच
    • कर्मपदम् = वाक्यम्
    • कर्मविशेषणम् = इदम्
    • वाक्यांश:
      • (सम्प्रदान-विशेषण-सूचकः) कर्मविशेषण-वाक्यांश:
        • (सम्प्रदान-विशेषण-सूचकम्) क्रिया-गर्भ-कर्मपदम्= आविष्टम्
        • क्रियाविशेषणम् = तथा
        • (कर्मणि) कर्मपदम् = कृपया
      • (सम्प्रदान-विशेषण-सूचकम्) कर्मविशेषणम् = अश्रुपूर्णाकुलेक्षणम्
      • (सम्प्रदान-विशेषण-सूचकम्) कर्मविशेषणम् = विषीदन्तम्
      • (सम्प्रदान-सूचकम्) कर्मपदम् = तम्
    • कर्तृपदम् = मधुसूदनः

श्रीभगवानुवाच –

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।

अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २ ॥

पदच्छेदः

कुतः, त्वा, कश्मलम्, इदम्, विषमे, समुपस्थितम् । अनार्यजुष्टम्, अस्वर्ग्यम्, अकीर्तिकरम्, अर्जुन ॥

अन्वयः

अर्जुन ! विषमे अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् इदं कश्मलं कुतः त्वा समुपस्थितम् ?

पदपरिचय:

  • सम्बोधनपदम् = अर्जुन!
  • प्रथमवाक्यम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= समुपस्थितम्
      • कर्मपदम् = त्वा
    • कर्मपदम् = कश्मलम्
    • कर्मविशेषणम् = इदम्
    • कर्मविशेषणम् = अनार्यजुष्टम्
    • कर्मविशेषणम् = अस्वर्ग्यम्
    • कर्मविशेषणम् = अकीर्तिकरम्
    • अधिकरणपदम् = विषमे

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।

क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥

पदच्छेदः

क्लैब्यम्, मा, स्म, गमः, पार्थ, न, एतत्, त्वयि, उपपद्यते । क्षुद्रम्, हृदयदौर्बल्यम्, त्यक्त्वा, उत्तिष्ठ , परन्तप ॥

अन्वयः

पार्थ ! क्लैब्यं मा स्म गमः । त्वयि एतत् न उपपद्यते । परन्तप ! क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • क्रियापदम् = गमः
    • क्रियाविशेषण-सूचक-पदम् = स्म
    • क्रियाविशेषणम् = मा
    • कर्मपदम् = क्लैब्यम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = उपपद्यते
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = एतत्
    • अधिकरणपदम् = त्वयि
  • सम्बोधनपदम् = परन्तप!
  • तृतीयवाक्यम्
    • क्रियापदम् = उत्तिष्ठ
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = त्यक्त्वा
      • कर्मपदम् = हृदयदौर्बल्यम्
      • कर्मविशेषणम् = क्षुद्रम्
    • कर्तृपदम् = (त्वम्)

अर्जुन उवाच-

कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।

इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥

पदच्छेदः

कथम्, भीष्मम्, अहम्, सङ्ख्ये, द्रोणम्, च, मधुसूदन । इषुभिः, प्रतियोत्स्यामि, पूजार्हौ, अरिसूदन ॥

अन्वयः

मधुसूदन ! अहं सङ्ख्ये कथम् इषुभिः पूजार्हौ भीष्मं द्रोणं च प्रतियोत्स्यामि ? अरिसूदन !

पदपरिचय:

  • सम्बोधनपदम् = मधुसूदन!
  • प्रथमवाक्यम्
    • क्रियापदम् = प्रतियोत्स्यामि
    • प्रश्नवाचक-क्रियाविशेषणम् = कथम्
    • अधिकरणपदम् = सङ्ख्ये
    • करणवाचकपदम् = इषुभिः
    • कर्मविशेषणम् = पूजार्हौ
    • वाक्यांश:
      • कर्मपदम् = भीष्मम्
      • कर्मपदम् = द्रोणम्
      • सम्योजकपदम् = च
    • कर्तृपदम् = अहम्
  • सम्बोधनपदम् = अरिसूदन

गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।

हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥ ५ ॥

पदच्छेदः

गुरून्, अहत्वा, हि, महानुभावान्, श्रेयः, भोक्तुम्, भैक्ष्यम्, अपि, इह, लोके । हत्वा, अर्थकामान्, तु , गुरून्, इह, एव, भुञ्जीय, भोगान्, रुधिरप्रदिग्धान् ॥

अन्वयः

महानुभावान् गुरून् अहत्वा भैक्ष्यं भोक्तुम् इह लोके श्रेयः (स्यात्) । गुरून् हत्वा इह एव रुधिरप्रदिग्धान् अर्थकामान् भोगान् (अहं) भुञ्जीय (वा) ?

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (स्यात्)
    • कर्तृ-विशेषण-सूचक-पदम् = श्रेयः
    • अधिकरणपदम् = लोके
    • अधिकरण-विशेषणम् = इह
    • कर्तृपदम् = भैक्ष्यम्
    • तुमुनन्तपदम् = भोक्तुम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = अहत्वा
      • कर्मपदम् = गुरून्
      • कर्मविशेषणम् = महानुभावान्
    • द्वितीयवाक्यम्
      • प्रश्नवाचक-क्रियाविशेषणम् = (वा)
      • क्रियापदम् = भुञ्जीय
      • कर्मपदम् = भोगान्
      • कर्मविशेषणम् = अर्थकामान्
      • कर्मविशेषणम् = रुधिरप्रदिग्धान्
      • अधिकरणपदम् = इह
      • अधिकरण-विशेषणम् = एव
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = हत्वा
        • कर्मपदम् = गुरून्
      • कर्तृपदम् = (अहम्)

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।

यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥

पदच्छेदः

न, च, एतत्, विद्मः, कतरत्, नः, गरीयः, यत्, वा, जयेम, यदि, वा, नः, जयेयुः । यान्, एव, हत्वा, न, जिजीविषामः, ते, अवस्थिताः, प्रमुखे, धार्तराष्ट्राः ॥

अन्वयः

यान् हत्वा न जिजीविषामः ते एव धार्तराष्ट्राः प्रमुखे अवस्थिताः । (तस्मात्) यद् वा जयेम यदि वा नो जयेयुः (अनयोः) कतरत् नः गरीयः (इति) एतत् न विद्मः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यान्” वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= जिजीविषामः
      • क्रियाविशेषणम् = न
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = हत्वा
        • कर्मपदम् = यान्
      • “ते” वाक्यांश:
        • कर्तृ-विशेषण-सूचक-वाक्यांश:
          • क्रिया-गर्भ-कर्तृपदम्= अवस्थिताः
          • अधिकरणपदम् = प्रमुखे
        • कर्तृपदम् = धार्तराष्ट्राः
        • कर्तृविशेषणम् = ते
        • कर्तृ-विशेषण-सूचक-पदम् = एव
      • द्वितीयवाक्यम्
        • क्रियापदम् = विद्मः
        • क्रियाविशेषणम् = न
        • कर्तृपदम् = (वयम्)
        • वाक्यांश:
          • कर्मपदम् = गरीयः
          • सम्बन्ध-पदम् = नः
          • प्रश्नवाचक-कर्मविशेषणम् = कतरत्
        • कर्म-वाक्यांश:
          • प्रश्नवाचक-क्रियाविशेषणम् = वा
          • क्रियापदम् = जयेम
          • सम्योजकपदम् = यद्
        • कर्म-वाक्यांश:
          • प्रश्नवाचक-क्रियाविशेषणम् = वा
          • क्रियापदम् = जयेयुः
          • कर्मपदम् = नः
        • सम्योजकपदम् = (इति)

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।

यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥

पदच्छेदः

कार्पण्यदोषोपहतस्वभावः, पृच्छामि, त्वाम्, धर्मसम्मूढचेताः । यत्, श्रेयः, स्यात्, निश्चितम्, ब्रूहि, तत्, मे, शिष्यः, ते, अहम्, शाधि, माम्, त्वाम्, प्रपन्नम्॥

अन्वयः

कार्पण्यदोषोपहतस्वभावः धर्मसम्मूढचेताः त्वां पृच्छामि । यत् निश्चितं श्रेयः स्यात् तत् मे ब्रूहि । अहं ते शिष्यः । त्वां प्रपन्नं मां शाधि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = पृच्छामि
    • सम्प्रदान- सूचक-कर्मपदम् = त्वाम्
    • कर्तृपदम् = (अहम्)
    • कर्तृविशेषणम् = कार्पण्यदोषोपहतस्वभावः
    • कर्तृविशेषणम् = धर्मसम्मूढचेताः
  • द्वितीयवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = (भवति)
      • क्रियाविशेषणम् = निश्चितम्
      • कर्तृ-विशेषण-सूचक-पदम् = श्रेयः
      • कर्तृपदम् = यत्
    • “तत्” वाक्यांश:
      • क्रियापदम् = ब्रूहि
      • कर्मपदम् = तत्
      • सम्प्रदानपदम् = मे
      • कर्तृपदम् = (त्वम्)
    • तृतीयवाक्यम्
      • क्रियापदम् = (अस्मि)
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = शिष्यः
        • सम्बन्ध-पदम् = ते
      • कर्तृपदम् = अहम्
    • चतुर्थवाक्यम्
      • क्रियापदम् = शाधि
      • कर्मपदम् = माम्
      • वाक्यांश:
        • क्रिया-गर्भ-कर्मपदम्= प्रपन्नम्
        • कर्मपदम् = त्वाम्
      • कर्तृपदम् = (त्वम्)

नहि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् ।

अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ ८ ॥

पदच्छेदः

न, हि, प्रपश्यामि, मम, अपनुद्यात्, यत्, शोकम्, उच्छोषणम्, इन्द्रियाणाम् । अवाप्य, भूमौ, असपत्नम्, ऋद्धम्, राज्यम्, सुराणाम्, अपि, च, आधिपत्यम् ॥

अन्वयः

भूमौ असपत्नम् ऋद्धं महत् राज्यं सुराणाम् आधिपत्यं च अवाप्य अपि (स्थितस्य) मम यत् इन्द्रियाणाम् उच्छोषणं शोकम् अपनुद्यात् (तत्कर्म) नहि प्रपश्यामि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = अपनुद्यात्
      • कर्मपदम् = शोकम्
      • कर्मविशेषण-वाक्यांश:
        • कर्मपदम् = उच्छोषणम्
        • सम्बन्ध-पदम् = इन्द्रियाणाम्
      • कर्तृपदम् = यत्
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = अवाप्य
        • कर्म-वाक्यांश:
          • कर्मपदम् = राज्यम्
          • कर्मविशेषणम् = महत्
          • कर्मविशेषणम् = ऋद्धम्
          • कर्मविशेषणम् = असपत्नम्
          • अधिकरणपदम् = भूमौ
        • कर्म-वाक्यांश:
          • कर्मपदम् = आधिपत्यम्
          • सम्बन्ध-पदम् = सुराणाम्
          • सम्योजकपदम् = च
        • “(तत्)” वाक्यांश:
          • क्रियापदम् = प्रपश्यामि
          • क्रियाविशेषणम् = न
          • क्रियाविशेषणम् = हि
          • कर्तृपदम् = (अहम्)

सञ्जय उवाच-

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ ९ ॥

अयं भगवद्गीतायाः द्वितीयोध्यायस्य सांख्ययोगस्य नवमः श्लोकः ।

पदच्छेदः

एवम्, उक्त्वा, हृषीकेशम्, गुडाकेशः, परन्तप । न, योत्स्ये, इति, गोविन्दम्, उक्त्वा, तूष्णीम्, बभूव, ह ॥

अन्वयः

परन्तप ! हृषीकेशम् एवम् उक्त्वा गुडाकेशः न योत्स्ये इति गोविन्दम् उक्त्वा तूष्णीं बभूव ।

पदपरिचय:

  • सम्बोधनपदम् = परन्तप!
  • प्रथमवाक्यम्
    • क्रियापदम् = बभूव
    • क्रियाविशेषणम् = तूष्णीम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = उक्त्वा
      • क्रियाविशेषणम् = एवम्
      • सम्प्रदान-सूचक-कर्मपदम् = हृषीकेशम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = उक्त्वा
      • कर्म-वाक्यम्
        • क्रियापदम् = योत्स्ये
        • क्रियाविशेषणम् = न
        • कर्तृपदम् = (अहम्)
        • सम्योजकपदम् = इति
      • सम्प्रदान-सूचक-कर्मपदम् = गोविन्दम्
    • कर्तृपदम् = गुडाकेशः

तमुवाच हृषीकेशः प्रहसन्निव भारत ।

सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥

पदच्छेदः

तम्, उवाच, हृषीकेशः, प्रहसन्, इव, भारत । सेनयोः, उभयोः, मध्ये, विषीदन्तम्, इदम्, वचः ॥

अन्वयः

भारत ! हृषीकेशः प्रहसन् इव उभयोः सेनयोः मध्ये विषीदन्तं तम् इदं वचः उवाच ।

पदपरिचय:

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • क्रियापदम् = उवाच
    • कर्मपदम् = वचः
    • कर्मविशेषणम् = इदम्
    • सम्प्रदान-सूचक-कर्मपदम् = तम्
    • सम्प्रदानविशेषण-सूचक-कर्मविशेषणम् = विषीदन्तम्
    • वाक्यांश:
      • अधिकरणपदम् = मध्ये
      • सम्बन्ध-पदम् = सेनयोः
      • सम्बन्ध-विशेषण-पदम् = उभयोः
    • वाक्यांश:
      • कर्तृविशेषणम् = प्रहसन्
      • सम्योजकपदम् = इव
    • कर्तृपदम् = हृषीकेशः

श्रीभगवानुवाच-

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।

गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥

पदच्छेदः

अशोच्यान्, अन्वशोचः, त्वम्, प्रज्ञावादान्, च, भाषसे । गतासून्, अगतासून्, च, न, अनुशोचन्ति, पण्डिताः ॥

अन्वयः

त्वम् अशोच्यान् अन्वशोचः । प्रज्ञावादान् च भाषसे । पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= अन्वशोचः
      • कर्मपदम् = अशोच्यान्
    • कर्तृपदम् = त्वम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = भाषसे
    • कर्मपदम् = प्रज्ञावादान्
    • सम्योजकपदम् = च
    • कर्तृपदम् = (त्वम्)
  • तृतीयवाक्यम्
    • क्रियापदम् = अनुशोचन्ति
    • क्रियाविशेषणम् = न
    • कर्मपदम् = गतासून्
    • कर्मपदम् = अगतासून्
    • सम्योजकपदम् = च
    • कर्तृपदम् = पण्डिताः

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।

न चैव न भविष्यामः सर्वे वयमतः परम् ॥ १२ ॥

पदच्छेदः

न, तु, एव, अहम्, जातु, न, आसम्, न, त्वम्, न, इमे, जनाधिपाः । न, च, एव, न, भविष्यामः, सर्वे, वयम् , अतः, परम् ॥

अन्वयः

अहं जातु न आसम् (इति) न तु एव | त्वम् (न आसीः इति) न | इमे जनाधिपाः (न आसन् इति) न | अतः परं वयं सर्वे न च एव भविष्यामः (इति) न ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • क्रियाविशेषणम् = न
    • क्रियाविशेषणम् = तु
    • क्रियाविशेषणम् = एव
    • कर्म-वाक्यम्
      • क्रियापदम् = आसम्
      • क्रियाविशेषणम् = न
      • कालवाचकपदम् = जातु
      • कर्तृपदम् = अहम्
      • सम्योजकपदम् = (इति)
    • द्वितीयवाक्यम्
      • क्रियापदम् = (भवति)
      • क्रियाविशेषणम् = न
      • कर्म-वाक्यम्
        • क्रियापदम् = (आसीः)
        • क्रियाविशेषणम् = (न)
        • कर्तृपदम् = त्वम्
        • सम्योजकपदम् = (इति)
      • तृतीयवाक्यम्
        • क्रियापदम् = (भवति)
        • क्रियाविशेषणम् = न
        • कर्म-वाक्यम्
          • क्रियापदम् = (आसन्)
          • क्रियाविशेषणम् = (न)
          • कर्तृपदम् = जनाधिपाः
          • कर्तृविशेषणम् = इमे
          • सम्योजकपदम् = (इति)
        • चतुर्थवाक्यम्
          • क्रियापदम् = (भवति)
          • क्रियाविशेषणम् = न
          • कर्म-वाक्यम्
            • क्रियापदम् = भविष्यामः
            • क्रियाविशेषणम् = न
            • क्रियाविशेषणम् = एव
            • क्रियाविशेषणम् = च
            • कर्तृपदम् = सर्वे
            • कर्तृविशेषणम् = वयम्
            • कालवाचक-वाक्यांश:
              • कालवाचकपदम् = परम्
              • अपादानपदम् = अतः
            • सम्योजकपदम् = (इति)

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥

पदच्छेदः

देहिनः, अस्मिन्, यथा, देहे, कौमारम्, यौवनम्, जरा । तथा, देहान्तरप्राप्तिः, धीरः, तत्र, न, मुह्यति ॥

अन्वयः

देहिनः अस्मिन् देहे यथा कौमारं यौवनं जरा (च) तथा देहान्तरप्राप्तिः । तत्र धीरः न मुह्यति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यथा” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = कौमारम्
      • कर्तृपदम् = यौवनम्
      • कर्तृपदम् = जरा
      • सम्योजकपदम् = (च)
      • वाक्यांश:
        • अधिकरणपदम् = देहे
        • अधिकरण-विशेषणम् = अस्मिन्
        • सम्बन्ध-पदम् = देहिनः
      • सम्योजकपदम् = यथा
    • “तथा” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = देहान्तरप्राप्तिः
      • सम्योजकपदम् = तथा
    • द्वितीयवाक्यम्
      • क्रियापदम् = मुह्यति
      • क्रियाविशेषणम् = न
      • कर्तृपदम् = धीरः
      • स्थानवाचकपदम् = तत्र

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।

आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४ ॥

पदच्छेदः

मात्रास्पर्शाः, तु, कौन्तेय, शीतोष्णसुखदुःखदाः । आगमापायिनः, अनित्याः, तान्, तितिक्षस्व, भारत ॥

अन्वयः

कौन्तेय ! मात्रास्पर्शाः तु शीतोष्णसुखदुःखदाः आगमापायिनः अनित्याः । भारत ! तान् तितिक्षस्व ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = शीतोष्णसुखदुःखदाः
    • कर्तृ-विशेषण-सूचक-पदम् = आगमापायिनः
    • कर्तृ-विशेषण-सूचक-पदम् = अनित्याः
    • कर्तृपदम् = मात्रास्पर्शाः
    • कर्तृ-विशेषण-सूचक-पदम् = तु
  • सम्बोधनपदम् = भारत
  • द्वितीयवाक्यम्
    • क्रियापदम् = तितिक्षस्व
    • कर्मपदम् = तान्
    • कर्तृपदम् = (त्वम्)

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥

पदच्छेदः

यम्, हि, न, व्यथयन्ति, एते, पुरुषम्, पुरुषर्षभ । समदुःखसुखम्, धीरम्, सः, अमृतत्वाय, कल्पते ॥

अन्वयः

पुरुषर्षभ ! एते यं समदुःखसुखं धीरं पुरुषं न व्यथयन्ति सः अमृतत्वाय कल्पते ।

पदपरिचय:

  • सम्बोधनपदम् = पुरुषर्षभ
  • प्रथमवाक्यम्
    • “यम्” वाक्यांश:
      • क्रियापदम् = व्यथयन्ति
      • क्रियाविशेषणम् = न
      • कर्मपदम् = पुरुषम्
      • कर्मविशेषणम् = समदुःखसुखम्
      • कर्मविशेषणम् = धीरम्
      • कर्मविशेषणम् = यम्
      • कर्तृपदम् = एते
    • “सः” वाक्यांश:
      • क्रियापदम् = कल्पते
      • सम्प्रदानपदम् = अमृतत्वाय
      • कर्तृपदम् = सः

नासतो विद्यते भावो नाभावो विद्यते सतः ।

उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥

पदच्छेदः

न, असतः, विद्यते, भावः, न, अभावः, विद्यते, सतः । उभयोः, अपि, दृष्टः, अन्तः, तु, अनयोः, तत्त्वदर्शिभिः ॥

अन्वयः

असतः भावः न विद्यते, सतः अभावः न विद्यते । अनयोः उभयोः (सदसतोः) अपि अन्तः तत्त्वदर्शिभिः दृष्टः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विद्यते
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = भावः
    • सम्बन्ध-पदम् = असतः
  • द्वितीयवाक्यम्
    • क्रियापदम् = विद्यते
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = अभावः
    • सम्बन्ध-पदम् = सतः
  • तृतीयवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = दृष्टः
    • वाक्यांश:
      • (कर्मणि) कर्मपदम् = अन्तः
      • सम्बन्ध-पदम् = अनयोः
      • सम्बन्ध-विशेषण-पदम् = उभयोः
      • सम्बन्ध-विशेषण-पदम् = अपि
    • (कर्मणि) कर्तृपदम् = तत्त्वदर्शिभिः

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।

विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥

पदच्छेदः

अविनाशि, तु, तत्, विद्धि, येन, सर्वम्, इदम्, ततम् । विनाशम्, अव्ययस्य, अस्य, न, कश्चित्, कर्तुम्, अर्हति ॥

अन्वयः

येन इदं सर्वं ततं तत् तु अविनाशि विद्धि । अस्य अव्ययस्य विनाशं कर्तुं कश्चित् अपि न अर्हति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विद्धि
    • कर्म-वाक्यम्
      • “येन” वाक्यांश:
        • क्रिया-गर्भ-कर्मपदम्= ततम्
        • कर्मपदम् = सर्वम्
        • कर्मविशेषणम् = इदम्
        • कर्तृपदम् = येन
      • “तत्” वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • कर्तृ-विशेषण-सूचक-पदम् = अविनाशि
        • कर्तृपदम् = तत्
        • कर्तृ-विशेषण-सूचक-पदम् = तु
      • सम्योजकपदम् = (इति)
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = अर्हति
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = कश्चित्
    • वाक्यांश:
      • तुमुनन्तपदम् = कर्तुम्
      • कर्मपदम् = विनाशम्
      • सम्बन्ध-पदम् = अव्ययस्य
      • सम्बन्ध-विशेषण-पदम् = अस्य

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।

अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥

पदच्छेदः

अन्तवन्तः, इमे, देहाः, नित्यस्य, उक्ताः, शरीरिणः । अनाशिनः, अप्रमेयस्य, तस्मात्, युध्यस्व, भारत ॥

अन्वयः

अनाशिनः अप्रमेयस्य नित्यस्य च शरीरिणः इमे देहाः अन्तवन्तः उक्ताः । भारत ! तस्मात् युध्यस्व ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्मपदम्= उक्ताः
    • कर्म-वाक्यम्
      • क्रियापदम् = (भवन्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = अन्तवन्तः
      • वाक्यांश:
        • कर्तृपदम् = देहाः
        • कर्तृ-विशेषण-वाक्यांश: इमे
        • सम्बन्ध-पदम् = शरीरिणः
        • सम्बन्ध-विशेषण-पदम् = अनाशिनः
        • सम्बन्ध-विशेषण-पदम् = अप्रमेयस्य
        • सम्बन्ध-विशेषण-पदम् = नित्यस्य
        • सम्योजकपदम् = च
      • सम्योजकपदम् = (इति)
    • सम्बोधनपदम् = भारत!
    • द्वितीयवाक्यम्
      • क्रियापदम् = युध्यस्व
      • सम्योजकपदम् = तस्मात्
      • कर्तृपदम् = (त्वम्)

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।

उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥

पदच्छेदः

यः, एनम्, वेत्ति, हन्तारम्, यः, च, एनम्, मन्यते, हतम् । उभौ, तौ, न, विजानीतः, न, अयम्, हन्ति, न, हन्यते ॥

अन्वयः

यः एनं हन्तारं वेत्ति, यः च एनं हतं मन्यते तौ उभौ न विजानीतः । (यतः) अयं न हन्ति, न हन्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = वेत्ति,
      • कर्मविशेषण-सूचक-पदम् = हन्तारम्
      • कर्मपदम् = यः
      • कर्तृपदम् = यः
    • “यः” वाक्यांश:
      • क्रियापदम् = मन्यते
      • कर्मविशेषण-सूचक-पदम् = हतम्
      • कर्मपदम् = एनम्
      • कर्तृपदम् = यः
      • सम्योजकपदम् = च
    • “च” वाक्यांश:
      • क्रियापदम् = विजानीतः
      • क्रियाविशेषणम् = न
      • कर्तृपदम् = उभौ
      • कर्तृविशेषणम् = तौ
    • द्वितीयवाक्यम्
      • वाक्यांश:
        • क्रियापदम् = हन्ति,
        • क्रियाविशेषणम् = न
      • वाक्यांश:
        • क्रियापदम् = हन्यते
        • क्रियाविशेषणम् = न
      • कर्तृपदम् = अयम्

न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः ।

अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २० ॥

पदच्छेदः

न, जायते, म्रियते, वा, कदाचित्, नायम्, भूत्वा, भविता, वा, न, भूयः । अजः, नित्यः, शाश्वतः, अयम्, पुराणः, न, हन्यते, हन्यमाने, शरीरे ॥

अन्वयः

अयं कदाचित् न जायते न वा म्रियते । अयं भूत्वा भूयः भविता वा न । अयम् अजः नित्यः शाश्वतः पुराणः शरीरे हन्यमाने अपि न च हन्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • वाक्यांश:
      • क्रियापदम् = जायते
      • क्रियाविशेषणम् = न
    • वाक्यांश:
      • क्रियापदम् = म्रियते
      • क्रियाविशेषणम् = न
      • क्रियाविशेषणम् = वा
    • कर्तृपदम् = अयम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवति)
    • क्रियाविशेषणम् = न
    • क्रियाविशेषणम् = भूयः
    • कर्तृ-विशेषण-सूचक-पदम् = भविता
    • सम्योजकपदम् = वा
    • क्त्वान्तपदम् = भूत्वा
    • कर्तृपदम् = अयम्
  • तृतीयवाक्यम्
    • क्रियापदम् = हन्यते
    • क्रियाविशेषणम् = न
    • क्रियाविशेषणम् = च
    • कालवाचक-वाक्यांश:
      • ज्ञापक-क्रियापदम् = हन्यमाने
      • क्रिया-आश्रय-कर्मपदम् = शरीरे
      • सतिसप्तमि-पदम् = (सति)
    • कर्तृपदम् = अयम्
    • कर्तृविशेषणम् = अजः
    • कर्तृविशेषणम् = नित्यः
    • कर्तृविशेषणम् = शाश्वतः
    • कर्तृविशेषणम् = पुराणः

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।

कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥

पदच्छेदः

वेद, अविनाशिनम्, नित्यम्, यः, एनम्, अजम्, अव्ययम् । कथम्, सः, पुरुषः, पार्थ, कम्, घातयति, हन्ति, कम् ॥

अन्वयः

पार्थ, यः एनम् अविनाशिनं नित्यम् अजम् अव्ययं च वेद सः पुरुषः कं कथं घातयति ? कं हन्ति ?

पदपरिचय:

  • सम्बोधनपदम् = पार्थ
  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = वेद
      • कर्मपदम् = एनम्
      • कर्मविशेषण-सूचक-पदम् = अविनाशिनम्
      • कर्मविशेषण-सूचक-पदम् = नित्यम्
      • कर्मविशेषण-सूचक-पदम् = अजम्
      • कर्मविशेषण-सूचक-पदम् = अव्ययम्
      • सम्योजकपदम् = च
      • कर्तृपदम् = यः
    • “सः” वाक्यांश:
      • वाक्यांश:
        • क्रियापदम् = घातयति
        • प्रश्नवाचक-क्रियाविशेषणम् = कथम्
        • प्रश्नवाचक-कर्म-पदम् = कम्
      • वाक्यांश:
        • क्रियापदम् = हन्ति
        • प्रश्नवाचक-कर्म-पदम् = कम्
      • कर्तृपदम् = सः
      • कर्तृविशेषणम् = पुरुषः

वासांसि जीर्णानि यथा विहाय नवानि गृण्हाति नरोऽपराणि ।

तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २२ ॥

पदच्छेदः

वासांसि, जीर्णानि, यथा, विहाय, नवानि, गृण्हाति, नरः, अपराणि । तथा, शरीराणि, विहाय, जीर्णानि, अन्यानि, संयाति, नवानि, देही ॥

अन्वयः

नरः जीर्णानि वासांसि विहाय अपराणि नवानि यथा गृण्हाति तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि संयाति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यथा” वाक्यांश:
      • क्रियापदम् = गृण्हाति
      • क्रियाविशेषणम् = यथा
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = विहाय
        • कर्मपदम् = वासांसि
        • कर्मविशेषणम् = जीर्णानि
      • कर्मपदम् = नवानि
      • कर्मविशेषणम् = अपराणि
      • कर्तृपदम् = नरः
    • “तथा” वाक्यांश:
      • क्रियापदम् = संयाति
      • क्रियाविशेषणम् = तथा
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = विहाय
        • कर्मपदम् = शरीराणि
        • कर्मविशेषणम् = जीर्णानि
      • कर्मपदम् = नवानि
      • कर्मविशेषणम् = अन्यानि
      • कर्तृपदम् = देही

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥

पदच्छेदः

न एनम्, छिन्दन्ति, शस्त्राणि, न, एनम्, दहति, पावकः । न, च, एनम्, क्लेदयन्ति, आपः, न, शोषयति, मारुतः ॥

अन्वयः

शस्त्राणि एनं न छिन्दन्ति । पावकः एनं न दहति । आपः एनं न क्लेदयन्ति । मारुतः च न शोषयति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = छिन्दन्ति
    • क्रियाविशेषणम् = न
    • कर्मपदम् = एनम्
    • कर्तृपदम् = शस्त्राणि
  • द्वितीयवाक्यम्
    • क्रियापदम् = दहति
    • क्रियाविशेषणम् = न
    • कर्मपदम् = एनम्
    • कर्तृपदम् = पावकः
  • तृतीयवाक्यम्
    • क्रियापदम् = क्लेदयन्ति
    • क्रियाविशेषणम् = न
    • कर्मपदम् = एनम्
    • कर्तृपदम् = आपः
  • चतुर्थवाक्यम्
    • क्रियापदम् = शोषयति
    • क्रियाविशेषणम् = न
    • कर्मपदम् = एनम्
    • कर्तृपदम् = मारुतः
    • सम्योजकपदम् = च

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥

पदच्छेदः

अच्छेद्यः, अयम्, अदाह्यः, अयम्, अक्लेद्यः, अशोष्यः, एव, च । नित्यः, सर्वगतः, स्थाणुः, अचलः, अयम्, सनातनः ॥

अन्वयः

अयम् अच्छेद्यः । अयम् अदाह्यः । अयम् अक्लेद्यः अशोष्यः एव च । अयं नित्यः सर्वगतः स्थाणुः अचलः सनातनः (च) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अच्छेद्यः
    • कर्तृपदम् = अयम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अदाह्यः
    • कर्तृपदम् = अयम्
  • तृतीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अक्लेद्यः
    • कर्तृ-विशेषण-सूचक-पदम् = अशोष्यः
    • कर्तृ-विशेषण-सूचक-पदम् = एव
    • सम्योजकपदम् = च
    • कर्तृपदम् = अयम्
  • चतुर्थवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = नित्यः
    • कर्तृ-विशेषण-सूचक-पदम् = सर्वगतः
    • कर्तृ-विशेषण-सूचक-पदम् = स्थाणुः
    • कर्तृ-विशेषण-सूचक-पदम् = अचलः
    • कर्तृ-विशेषण-सूचक-पदम् = सनातनः
    • सम्योजकपदम् = (च)
    • कर्तृपदम् = अयम्

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।

तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥

पदच्छेदः

अव्यक्तः, अयम्, अचिन्त्यः, अयम्, अविकार्यः, अयम्, उच्यते । तस्मात्, एवम्, विदित्वा, एनम्, न, अनुशोचितुम्, अर्हसि ॥

अन्वयः

अयम् अव्यक्तः । अयम् अचिन्त्यः । अयम् अविकार्यः उच्यते । तस्मात् एवम् एनं देहिनं विदित्वा अनुशोचितुं न अर्हसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अव्यक्तः
    • कर्तृपदम् = अयम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अचिन्त्यः
    • कर्तृपदम् = अयम्
  • तृतीयवाक्यम्
    • क्रियापदम् = उच्यते
    • कर्मविशेषण-सूचक-पदम् = अविकार्यः
    • कर्मपदम् = अयम्
  • चतुर्थवाक्यम्
    • क्रियापदम् = अर्हसि
    • क्रियाविशेषणम् = न
    • तुमुनन्तपदम् = अनुशोचितुम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = विदित्वा
      • क्रियाविशेषणम् = एवम्
      • कर्मपदम् = एनम्
      • कर्मविशेषणम् = देहिनम्
    • कर्तृपदम् = (त्वम्)

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।

तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २६ ॥

पदच्छेदः

अथ, च, एनम्, नित्यजातम्, नित्यम्, वा, मन्यसे, मृतम् । तथा, अपि, त्वम्, महाबाहो, न, एवम्, शोचितुम्, अर्हसि ॥

अन्वयः

महाबाहो ! अथ च एनं नित्यजातं नित्यं वा मृतं मन्यसे तथापि त्वम् एवं शोचितुं न अर्हसि ।

पदपरिचय:

  • सम्बोधनपदम् = महाबाहो!
  • प्रथमवाक्यम्
    • “अथ” वाक्यांश:
      • क्रियापदम् = मन्यसे
      • कर्म-वाक्यांश:
        • कर्मपदम् = एनम्
        • कर्मविशेषणम् = नित्यजातम्
        • वाक्यांश:
          • कर्मविशेषणम् = मृतम्
          • कालवाचकपदम् = नित्यम्
          • सम्योजकपदम् = वा
        • कर्तृपदम् = (त्वम्)
        • सम्योजकपदम् = अथ
        • सम्योजकपदम् = च
      • “तथापि” वाक्यांश:
        • क्रियापदम् = अर्हसि
        • क्रियाविशेषणम् = न
        • कर्मपदम् = एवम्
        • कर्मविशेषणम् = शोचितुम्
        • कर्तृपदम् = त्वम्
        • सम्योजकपदम् = तथापि

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।

तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥

पदच्छेदः

जातस्य, हि, ध्रुवः, मृत्युः, ध्रुवम्, जन्म, मृतस्य च । तस्मात्, अपरिहार्ये, अर्थे, न, त्वम्, शोचितुम्, अर्हसि ॥

अन्वयः

जातस्य हि मृत्युः ध्रुवः । मृतस्य च जन्म ध्रुवम् । तस्मात् अपरिहार्ये अर्थे त्वं शोचितुं न अर्हसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = ध्रुवः
    • वाक्यांश:
      • कर्तृपदम् = मृत्युः
      • सम्बन्ध-पदम् = जातस्य
      • सम्बन्ध-विशेषण-पदम् = हि
    • द्वितीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = ध्रुवम्
      • वाक्यांश:
        • कर्तृपदम् = जन्म
        • सम्बन्ध-पदम् = मृतस्य
        • सम्योजकपदम् = च
      • तृतीयवाक्यम्
        • क्रियापदम् = अर्हसि
        • क्रियाविशेषणम् = न
        • तुमुनन्तपदम् = शोचितुम्
        • कर्तृपदम् = त्वम्
        • अधिकरणपदम् = अर्थे
        • अधिकरण-विशेषणम् = अपरिहार्ये
        • कारणवाचकपदम् = तस्मात्

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।

अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥

पदच्छेदः

अव्यक्तादीनि, भूतानि, व्यक्तमध्यानि, भारत । अव्यक्तनिधनानि, एव, तत्र, का, परिदेवना ॥

अन्वयः

भारत ! भूतानि अव्यक्तादीनि व्यक्तमध्यानि अव्यक्तनिधनानि एव । तत्र का परिदेवना ?

पदपरिचय:

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अव्यक्तादीनि
    • कर्तृ-विशेषण-सूचक-पदम् = व्यक्तमध्यानि
    • कर्तृ-विशेषण-सूचक-पदम् = अव्यक्तनिधनानि
    • कर्तृ-विशेषण-सूचक-पदम् = एव
    • कर्तृपदम् = भूतानि
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृपदम् = परिदेवना
    • प्रश्नवाचक-कर्तृपदम् = का
    • स्थानवाचकपदम् = तत्र

आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः ।

आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥

पदच्छेदः

आश्चर्यवत्, पश्यति, कश्चित्, एनम्, आश्चर्यवत्, वदति, तथा, एव, च, अन्यः । आश्चर्यवत्, च, एनम्, अन्यः, शृणोति, श्रुत्वा, अपि, एनम्, वेद, न, च, एव, कश्चित् ॥

अन्वयः

कश्चित् एनम् आश्चर्यवत् पश्यति | तथा एव अन्यः च आश्चर्यवत् वदति | अन्यः च एनम् आश्चर्यवत् शृणोति । कश्चित् एनं श्रुत्वा अपि न च एव वेद ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = पश्यति
    • क्रियाविशेषणम् = आश्चर्यवत्
    • कर्मपदम् = एनम्
    • कर्तृपदम् = कश्चित्
  • द्वितीयवाक्यम्
    • क्रियापदम् = वदति
    • क्रियाविशेषणम् = आश्चर्यवत्
    • क्रियाविशेषणम् = तथा
    • क्रियाविशेषणम् = एव
    • कर्तृपदम् = अन्यः
    • सम्योजकपदम् = च
  • तृतीयवाक्यम्
    • क्रियापदम् = शृणोति
    • क्रियाविशेषणम् = आश्चर्यवत्
    • कर्मपदम् = एनम्
    • कर्तृपदम् = अन्यः
    • सम्योजकपदम् = च
  • चतुर्थवाक्यम्
    • क्रियापदम् = वेद
    • क्रियाविशेषणम् = न
    • क्रियाविशेषणम् = एव
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = श्रुत्वा
      • क्रियाविशेषणम् = अपि
      • कर्मपदम् = एनम्
    • कर्तृपदम् = कश्चित्
    • सम्योजकपदम् = च

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।

तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३० ॥

पदच्छेदः

देही, नित्यम्, अवध्यः, अयम्, देहे, सर्वस्य, भारत । तस्मात्, सर्वाणि, भूतानि, न, त्वम्, शोचितुम्, अर्हसि ॥

अन्वयः

भारत ! अयं देही सर्वस्य देहे नित्यम् अवध्यः । तस्मात् सर्वाणि भूतानि त्वं शोचितुं न अर्हसि ।

पदपरिचय:

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्मपदम्= अवध्यः
    • कालवाचकपदम् = नित्यम्
    • वाक्यांश:
      • अधिकरणपदम् = देहे
      • सम्बन्ध-पदम् = सर्वस्य
    • कर्तृपदम् = देही
    • कर्तृविशेषणम् = अयम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = अर्हसि
    • क्रियाविशेषणम् = न
    • तुमुनन्तपदम् = शोचितुम्
    • कर्मपदम् = भूतानि
    • कर्मविशेषणम् = भूतानि
    • कर्तृपदम् = त्वम्
    • कारणवाचकपदम् = तस्मात्

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।

धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३१ ॥

पदच्छेदः

स्वधर्मम्, अपि, च, अवेक्ष्य, न, विकम्पितुम्, अर्हसि । धर्म्यात्, हि, युद्धात्, श्रेयः, अन्यत्, क्षत्रियस्य, न, विद्यते ॥

अन्वयः

स्वधर्मं च अवेक्ष्य अपि विकम्पितुं न अर्हसि । क्षत्रियस्य हि धर्म्यात् युद्धात् अन्यत् श्रेयः न विद्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अर्हसि
    • क्रियाविशेषणम् = न
    • तुमुनन्तपदम् = विकम्पितुम्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = अवेक्ष्य
      • क्रियाविशेषणम् = अपि
      • कर्मपदम् = स्वधर्मम्
      • सम्योजकपदम् = च
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = विद्यते
    • क्रियाविशेषणम् = न
    • वाक्यांश:
      • कर्तृपदम् = श्रेयः
      • सम्बन्ध-पदम् = क्षत्रियस्य
      • सम्बन्ध-विशेषण-पदम् = हि
    • वाक्यांश:
      • कर्तृविशेषणम् = अन्यत्
      • अपादानपदम् = युद्धात्
      • अपादानविशेषणम् = धर्म्यात्

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।

सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥

पदच्छेदः

यदृच्छया, च, उपपन्नम्, स्वर्गद्वारम्, अपावृतम् । सुखिनः, क्षत्रियाः, पार्थ, लभन्ते, युद्धम्, ईदृशम् ॥

अन्वयः

पार्थ ! यदृच्छया उपपन्नम् अपावृतं च स्वर्गद्वारम् ईदृशं युद्धं सुखिनः क्षत्रियाः लभन्ते ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • क्रियापदम् = लभन्ते
    • कर्मपदम् = युद्धम्
    • कर्मविशेषणम् = ईदृशम्
    • वाक्यांश:
      • कर्मविशेषणम् = उपपन्नम्
      • करणवाचकपदम् = यदृच्छया
    • वाक्यांश:
      • क्रिया-गर्भ-कर्मपदम्= अपावृतम्
      • कर्मपदम् = स्वर्गद्वारम्
    • सम्योजकपदम् = च
    • कर्तृपदम् = क्षत्रियाः
    • कर्तृविशेषणम् = सुखिनः

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।

ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ ३३ ॥

पदच्छेदः

अथ, चेत्, त्वम्, इमम्, धर्म्यम्, संग्रामम्, न, करिष्यसि । ततः, स्वधर्मम्, कीर्तिम्, च, हित्वा, पापम्, अवाप्स्यसि ॥

अन्वयः

अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि ततः स्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “चेत्” वाक्यांश:
      • क्रियापदम् = करिष्यसि
      • क्रियाविशेषणम् = न
      • कर्मपदम् = संग्रामम्
      • कर्मविशेषणम् = धर्म्यम्
      • कर्मविशेषणम् = इमम्
      • कर्तृपदम् = त्वम्
      • सम्योजकपदम् = अथ
      • सम्योजकपदम् = चेत्
    • “ततः” वाक्यांश:
      • क्रियापदम् = अवाप्स्यसि
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = हित्वा
        • कर्मपदम् = स्वधर्मम्
        • कर्मपदम् = कीर्तिम्
        • सम्योजकपदम् = च
      • कर्मपदम् = पापम्
      • कर्तृपदम् = त्वम्

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।

सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥

पदच्छेदः

अकीर्तिम्, च, अपि, भूतानि, कथयिष्यन्ति, ते, अव्ययाम् । सम्भावितस्य, च, अकीर्तिः, मरणात्, अतिरिच्यते ॥

अन्वयः

भूतानि च ते अव्ययाम् अकीर्तिं च अपि कथयिष्यन्ति । सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = कथयिष्यन्ति
    • वाक्यांश:
      • कर्मपदम् = अव्ययाम्
      • कर्मपदम् = अकीर्तिम्
      • सम्योजकपदम् = च
      • सम्बन्ध-पदम् = ते
    • कर्तृपदम् = भूतानि
    • सम्योजकपदम् = च
  • द्वितीयवाक्यम्
    • वाक्यांश:
      • क्रियापदम् = अतिरिच्यते
      • अपादानपदम् = मरणात्
    • वाक्यांश:
      • कर्तृपदम् = अकीर्तिः
      • सम्बन्ध-पदम् = सम्भावितस्य
      • सम्योजकपदम् = च

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।

येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५ ॥

पदच्छेदः

भयात्, रणात्, उपरतम्, मंस्यन्ते, त्वाम्, महारथाः । येषाम्, च, त्वम्, बहुमतः, भूत्वा, यास्यसि, लाघवम् ॥

अन्वयः

येषां त्वं बहुमतः भूत्वा लाघवं यास्यसि (तादृशाः) महारथाः च त्वां भयात् रणात् उपरतं मंस्यन्ते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “येषाम्” वाक्यांश:
      • क्रियापदम् = यास्यसि
      • कर्मपदम् = लाघवम्
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = भूत्वा
        • कर्तृ-विशेषण-सूचक-पदम् = बहुमतः
        • सम्बन्ध-पदम् = येषाम्
      • कर्तृपदम् = त्वम्
    • “(तादृशाः)” वाक्यांश:
      • क्रियापदम् = मंस्यन्ते
      • कर्मपदम् = त्वाम्
      • वाक्यांश:
        • कर्मविशेषण-सूचक-पदम् = उपरतम्
        • अपादानपदम् = रणात्
        • कारणवाचकपदम् = भयात्
      • कर्तृपदम् = महारथाः
      • कर्तृविशेषणम् = (तादृशाः)
      • सम्योजकपदम् = च

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।

निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ ३६ ॥

पदच्छेदः

अवाच्यवादान्, च, बहून्, वदिष्यन्ति, तव, अहिताः । निन्दन्तः, तव, सामर्थ्यम्, ततः, दुःखतरम्, नु, किम् ॥

अन्वयः

तव अहिताः तव सामर्थ्यं निन्दन्तः बहून् अवाच्यवादान् वदिष्यन्ति । ततः दुःखतरं नु किम् ?

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = वदिष्यन्ति
    • कर्मपदम् = अवाच्यवादान्
    • कर्मविशेषणम् = बहून्
    • वाक्यांश:
      • कर्तृपदम् = अहिताः
      • सम्बन्ध-पदम् = तव
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= निन्दन्तः
      • कर्मपदम् = सामर्थ्यम्
      • सम्बन्ध-पदम् = तव
    • द्वितीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • वाक्यांश:
        • कर्मपदम् = दुःखतरम्
        • अपादानपदम् = ततः
      • वाक्यांश:
        • प्रश्नवाचक-कर्म-पदम् = किम्
        • सम्योजकपदम् = नु

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।

तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥

पदच्छेदः

हतः, वा, प्राप्स्यसि, स्वर्गम्, जित्वा, वा, भोक्ष्यसे, महीम् । तस्मात्, उत्तिष्ठ, कौन्तेय, युद्धाय कृतनिश्चयः ॥

अन्वयः

कौन्तेय ! हतः वा स्वर्गं प्राप्स्यसि । जित्वा वा महीं भोक्ष्यसे । तस्मात् युद्धाय कृतनिश्चयः उत्तिष्ठ ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय!
  • प्रथमवाक्यम्
    • क्रियापदम् = प्राप्स्यसि
    • कर्मपदम् = स्वर्गम्
    • कर्तृपदम् = (त्वम्)
    • कर्तृविशेषणम् = हतः
    • सम्योजकपदम् = वा
  • द्वितीयवाक्यम्
    • क्रियापदम् = भोक्ष्यसे
    • कर्मपदम् = महीम्
    • कर्तृपदम् = (त्वम्)
    • क्त्वान्तपदम् = जित्वा
    • सम्योजकपदम् = वा
  • तृतीयवाक्यम्
    • क्रियापदम् = उत्तिष्ठ
    • कर्तृपदम् = (त्वम्)
    • वाक्यांश:
      • कर्तृविशेषणम् = कृतनिश्चयः
      • सम्प्रदानपदम् = युद्धाय
    • अपादानपदम् = तस्मात्

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥

पदच्छेदः

सुखदुःखे, समे, कृत्वा, लाभालाभौ जयाजयौ । ततः, युद्धाय, युज्यस्व, न, एवम्, पापम्, अवाप्स्यसि ॥

अन्वयः

सुखदुःखे लाभालाभौ जयाजयौ समे कृत्वा ततः युद्धाय युज्यस्व । एवं (कृतं चेत्) पापं न अवाप्स्यसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = युज्यस्व
    • सम्प्रदानपदम् = युद्धाय
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = कृत्वा
      • कर्मविशेषण-सूचक-पदम् = समे
      • कर्मपदम् = सुखदुःखे
      • कर्मपदम् = लाभालाभौ
      • कर्मपदम् = जयाजयौ
    • सम्योजकपदम् = ततः
  • द्वितीयवाक्यम्
    • क्रियापदम् = अवाप्स्यसि
    • क्रियाविशेषणम् = न
    • कर्मपदम् = पापम्
    • सम्योजकपदम् = एवम्
    • कर्तृपदम् = (त्वम्)

एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।

बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥

पदच्छेदः

एषा, ते, अभिहिता, साङ्ख्ये, बुद्धिः, योगे, तु, इमाम्, शृणु । बुद्ध्या, युक्तः, यया, पार्थ, कर्मबन्धम्, प्रहास्यसि ॥

अन्वयः

पार्थ ! एषा बुद्धिः ते साङ्ख्ये अभिहिता । योगे इमां शृणु, यया बुद्ध्या युक्तः कर्मबन्धं प्रहास्यसि ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= अभिहिता
      • सम्प्रदानपदम् = ते
      • अधिकरणपदम् = साङ्ख्ये
    • कर्तृपदम् = एषा
    • कर्तृविशेषणम् = बुद्धिः
  • द्वितीयवाक्यम्
    • “यया” वाक्यांश:
      • क्रियापदम् = प्रहास्यसि
      • कर्मपदम् = कर्मबन्धम्
      • कर्तृपदम् = (त्वम्)
      • वाक्यांश:
        • कर्तृविशेषणम् = युक्तः
        • करणवाचकपदम् = बुद्ध्या
        • करणविशेषणम् = यया
      • “इमाम्” वाक्यांश:
        • क्रियापदम् = शृणु
        • कर्मपदम् = इमाम्
        • अधिकरणपदम् = योगे
        • कर्तृपदम् = (त्वम्)

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥

पदच्छेदः

न, इह, अभिक्रमनाशः, अस्ति, प्रत्यवायः, न, विद्यते । स्वल्पम्, अपि, अस्य, धर्मस्य, त्रायते, महतः, भयात् ॥

अन्वयः

इह अभिक्रमनाशः न अस्ति । प्रत्यवायः न विद्यते । अस्य धर्मस्य स्वल्पम् अपि महतः भयात् त्रायते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अस्ति
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = अभिक्रमनाशः
    • स्थानवाचकपदम् = इह
  • द्वितीयवाक्यम्
    • क्रियापदम् = विद्यते
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = प्रत्यवायः
  • तृतीयवाक्यम्
    • क्रियापदम् = त्रायते
    • अपादानपदम् = भयात्
    • अपादानविशेषणम् = महतः
    • वाक्यांश:
      • कर्मपदम् = स्वल्पम्
      • कर्मविशेषण-सूचक-पदम् = अपि
      • सम्बन्ध-पदम् = धर्मस्य
      • सम्बन्ध-विशेषण-पदम् = अस्य

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।

बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥

पदच्छेदः

व्यवसायात्मिका, बुद्धिः, एका, इह, कुरुनन्दन । बहुशाखाः, हि, अनन्ताः, च, बुद्धयः, अव्यवसायिनाम् ॥

अन्वयः

कुरुनन्दन ! इह व्यवसायात्मिका बुद्धिः एका । अव्यवसायिनां च बुद्धयः बहुशाखाः अनन्ताः हि ।

पदपरिचय:

  • सम्बोधनपदम् = कुरुनन्दन!
  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = एका
    • कर्तृपदम् = बुद्धिः
    • कर्तृविशेषणम् = व्यवसायात्मिका
    • स्थानवाचकपदम् = इह
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = बहुशाखाः
    • कर्तृ-विशेषण-सूचक-पदम् = अनन्ताः
    • कर्तृ-विशेषण-सूचक-पदम् = हि
    • वाक्यांश:
      • कर्तृपदम् = बुद्धयः
      • सम्बन्ध-पदम् = अव्यवसायिनाम्
    • सम्योजकपदम् = च

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः।

वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥ ४२ ॥

पदच्छेदः

याम्, इमाम्, पुष्पिताम्, वाचम्, प्रवदन्ति, अविपश्चितः । वेदवादरताः, पार्थ, न, अन्यत्, अस्ति, इति, वादिनः ॥

अन्वयः

पार्थ! अविपश्चितः याम् इमां पुष्पितां वाचं प्रवदन्ति वेदवादरताः अन्यत् न अस्ति इति वादिनः ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • क्रियापदम् = प्रवदन्ति
    • कर्मपदम् = वाचम्
    • कर्मविशेषणम् = पुष्पिताम्
    • कर्मविशेषणम् = इमाम्
    • कर्तृपदम् = अविपश्चितः
  • द्वितीयवाक्यम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= वादिनः
      • वाक्यांश:
        • क्रियापदम् = अस्ति
        • क्रियाविशेषणम् = न
        • कर्तृपदम् = अन्यत्
        • सम्योजकपदम् = इति
      • कर्तृपदम् = वेदवादरताः

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।

क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥ ४३ ॥

पदच्छेदः

कामात्मानः, स्वर्गपराः, जन्मकर्मफलप्रदाम् । क्रियाविशेष, बहुलाम्, भोग, ऐश्वर्य, गतिम् ॥

अन्वयः

कामात्मानः स्वर्गपराः जन्मकर्मफलप्रदां भोगैश्वर्यगतिं प्रति क्रियाविशेषबहुलाम् (वाचम् प्रवदन्ति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (प्रवदन्ति)
    • कर्मपदम् = (वाचम्)
    • कर्मविशेषणम् = जन्मकर्मफलप्रदाम्
    • वाक्यांश:
      • कर्मविशेषणम् = भोगैश्वर्यगतिम्
      • सम्योजकपदम् = प्रति
    • कर्मविशेषणम् = क्रियाविशेषबहुलाम्
    • कर्तृपदम् = स्वर्गपराः
    • कर्तृविशेषणम् = कामात्मानः

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४४ ॥

पदच्छेदः

भोगैश्वर्यप्रसक्तानाम्, तया, अपहृतचेतसाम् । व्यवसायात्मिका, बुद्धिः, समाधौ, न, विधीयते ॥

अन्वयः

तया अपहृतचेतसां भोगैश्वर्यप्रसक्तानां बुद्धिः व्यवसायात्मिका समाधौ न विधीयते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियाविशेषणम् = विधीयते
    • क्रियाविशेषणम् = न
    • अधिकरणपदम् = समाधौ
    • वाक्यांश:
      • कर्तृपदम् = बुद्धिः
      • कर्तृविशेषणम् = व्यवसायात्मिका
      • सम्बन्ध-पदम् = भोगैश्वर्यप्रसक्तानाम्
      • वाक्यांश:
        • (कर्मणि) क्रिया-गर्भ-सम्बन्ध-पदम् = अपहृतचेतसाम्
        • (कर्मणि) कर्तृपदम् = तया

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।

निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ ४५ ॥

पदच्छेदः

त्रैगुण्यविषयाः, वेदाः, निस्त्रैगुण्यः, भव, अर्जुन । निर्द्वन्द्वः, नित्यसत्त्वस्थः, निर्योगक्षेमः, आत्मवान् ॥

अन्वयः

अर्जुन ! वेदाः त्रैगुण्यविषयाः । निस्त्रैगुण्यः निर्द्वन्द्वः नित्यसत्त्वस्थः निर्योगक्षेमः आत्मवान् भव ।

पदपरिचय:

  • सम्बोधनपदम् = अर्जुन!
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = त्रैगुण्यविषयाः
    • कर्तृपदम् = वेदाः
  • द्वितीयवाक्यम्
    • क्रियापदम् = भव
    • कर्तृ-विशेषण-सूचक-पदम् = निस्त्रैगुण्यः
    • कर्तृ-विशेषण-सूचक-पदम् = निर्द्वन्द्वः
    • कर्तृ-विशेषण-सूचक-पदम् = नित्यसत्त्वस्थः
    • कर्तृ-विशेषण-सूचक-पदम् = निर्योगक्षेमः
    • कर्तृ-विशेषण-सूचक-पदम् = आत्मवान्
    • कर्तृपदम् = (त्वम्)

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।

तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ॥

पदच्छेदः

यावान्, अर्थः, उदपाने, सर्वतः, सम्प्लुतोदके । तावान्, सर्वेषु, वेदेषु, ब्राह्मणस्य, विजानतः ॥

अन्वयः

यावान् अर्थः उदपाने सर्वतः सम्प्लुतोदके (सति) तावान् सर्वेषु वेदेषु विजानतः ब्राह्मणस्य (भवति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यावान्” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = अर्थः
      • कर्तृविशेषणम् = यावान्
      • कालवाचक-वाक्यांश:
        • ज्ञापक-क्रियापदम् = सम्प्लुतोदके
        • क्रियाविशेषणम् = सर्वतः
        • क्रिया-आश्रय-कर्तृपदम् = उदपाने
        • सतिसप्तमि-पदम् = (सति)
      • “तावान्” वाक्यांश:
        • क्रियापदम् = (भवति)
        • सम्बन्ध-पदम् = ब्राह्मणस्य
        • सम्बन्ध-विशेषण-पदम् = विजानतः
        • अधिकरणपदम् = वेदेषु
        • अधिकरण-विशेषणम् = सर्वेषु
        • कर्तृपदम् = तावान्

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।

मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ४७ ॥

पदच्छेदः

कर्मणि, एव, अधिकारः, ते, मा, फलेषु, कदाचन । मा, कर्मफलहेतुः, भूः, मा, ते, सङ्गः, अस्तु, अकर्मणि ॥

अन्वयः

कर्मणि एव ते अधिकारः । फलेषु कदाचन मा (भूत्) । कर्मफलहेतुः मा भूः । अकर्मणि मा ते सङ्गः अस्तु ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • वाक्यांश:
      • अधिकरणपदम् = कर्मणि
      • अधिकरण-विशेषणम् = एव
    • वाक्यांश:
      • कर्तृपदम् = अधिकारः
      • सम्बन्ध-पदम् = ते
    • द्वितीयवाक्यम्
      • क्रियापदम् = (भूत्)
      • क्रियाविशेषणम् = मा
      • अधिकरणपदम् = फलेषु
      • कालवाचकपदम् = कदाचन
      • वाक्यांश:
        • कर्तृपदम् = (अधिकारः)
        • सम्बन्ध-पदम् = (ते)
      • तृतीयवाक्यम्
        • क्रियापदम् = भूः
        • क्रियाविशेषणम् = मा
        • कर्तृ-विशेषण-सूचक-पदम् = कर्मफलहेतुः
        • कर्तृपदम् = (त्वम्)
      • चतुर्थवाक्यम्
        • क्रियापदम् = अस्तु
        • क्रियाविशेषणम् = मा
        • अधिकरणपदम् = अकर्मणि
        • वाक्यांश:
          • कर्तृपदम् = सङ्गः

सम्बन्ध-पदम् = ते

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।

सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ ४८ ॥

पदच्छेदः

योगस्थः, कुरु, कर्माणि, सङ्गं, त्यक्वा, धनञ्जय । सिद्ध्यसिद्ध्योः, समः, भूत्वा, समत्वम्, योगः, उच्यते ॥

अन्वयः

धनञ्जय ! सङ्गं त्यक्त्वा सिद्ध्यसिद्ध्योः समः भूत्वा योगस्थः कर्माणि कुरु । समत्वं योगः उच्यते ।

पदपरिचय:

  • सम्बोधनपदम् = धनञ्जय!
  • प्रथमवाक्यम्
    • क्रियापदम् = कुरु
    • कर्मपदम् = कर्माणि
    • कर्तृ-विशेषण-सूचक-पदम् = योगस्थः
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = त्यक्त्वा
      • कर्मपदम् = सङ्गम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = भूत्वा
      • कर्तृ-विशेषण-सूचक-पदम् = समः
      • अधिकरणपदम् = सिद्ध्यसिद्ध्योः
    • कर्तृपदम् = (कर्मणि)
  • द्वितीयवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = योगः
    • (कर्मणि) कर्मपदम् = समत्वम्

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।

बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥

पदच्छेदः

दूरेण, हि, अवरं, कर्म, बुद्धियोगात्, धनञ्जय । बुद्धौ, शरणम्, अन्विच्छ, कृपणाः, फलहेतवः ॥

अन्वयः

धनञ्जय ! बुद्धियोगात् हि कर्म दूरेण अवरम् । बुद्धौ शरणम् अन्विच्छ । फलहेतवः कृपणाः ।

पदपरिचय:

  • सम्बोधनपदम् = धनञ्जय!
  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • वाक्यांश:
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = अवरम्
        • कर्तृ-विशेषण-सूचक-पदम् = दूरेण
      • अपादानपदम् = बुद्धियोगात्
      • अपादानविशेषणम् = हि
    • कर्तृपदम् = कर्म
  • द्वितीयवाक्यम्
    • क्रियापदम् = अन्विच्छ
    • कर्मपदम् = शरणम्
    • अधिकरणपदम् = बुद्धौ
    • कर्तृपदम् = (त्वम्)
  • तृतीयवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = कृपणाः
    • कर्तृपदम् = फलहेतवः

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।

तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ ५० ॥

पदच्छेदः

बुद्धियुक्तः, जहाति, इह, उभे, सुकृतदुष्कृते । तस्मात्, योगाय, युज्यस्व, योगः, कर्मसु, कौशलम् ॥

अन्वयः

बुद्धियुक्तः सुकृतदुष्कृते उभे इह जहाति । तस्मात् योगाय युज्यस्व । कर्मसु कौशलं योगः उच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = जहाति
    • अधिकरणपदम् = इह
    • कर्मपदम् = उभे
    • कर्मविशेषणम् = सुकृतदुष्कृते
    • कर्तृपदम् = बुद्धियुक्तः
  • द्वितीयवाक्यम्
    • क्रियापदम् = युज्यस्व
    • सम्प्रदानपदम् = योगाय
    • कारणवाचकपदम् = तस्मात्
    • कर्तृपदम् = (त्वम्)
  • तृतीयवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते
    • वाक्यांश:
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = कौशलम्
      • अधिकरणपदम् = कर्मसु
    • (कर्मणि) कर्मपदम् = योगः

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।

जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥

पदच्छेदः

कर्मजम्, बुद्धियुक्ताः, हि, फलम्, त्यक्त्वा, मनीषिणः । जन्मबन्धविनिर्मुक्ताः, पदम्, गच्छन्ति, अनामयम् ॥

अन्वयः

बुद्धियुक्ताः हि मनीषिणः कर्मजं फलं त्यक्त्वा जन्मबन्धविनिर्मुक्ताः अनामयं पदं गच्छन्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = गच्छन्ति
    • कर्मपदम् = पदम्
    • कर्मविशेषणम् = अनामयम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = त्यक्त्वा
      • कर्मपदम् = फलम्
      • कर्मविशेषणम् = कर्मजम्
    • कर्तृपदम् = मनीषिणः
    • वाक्यांश:
      • कर्तृविशेषणम् = बुद्धियुक्ताः
      • कर्तृ-विशेषण-सूचक-पदम् = हि
    • कर्तृविशेषणम् = जन्मबन्धविनिर्मुक्ताः

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।

तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ५२ ॥

पदच्छेदः

यदा, ते, मोहकलिलम्, बुद्धिः, व्यतितरिष्यति । तदा, गन्तासि, निर्वेदम्, श्रोतव्यस्य, श्रुतस्य, च ॥

अन्वयः

यदा ते बुद्धिः मोहकलिलं व्यतितरिष्यति तदा श्रोतव्यस्य श्रुतस्य च निर्वेदं गन्तासि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यदा” वाक्यांश:
      • क्रियापदम् = व्यतितरिष्यति
      • कर्मपदम् = मोहकलिलम्
      • वाक्यांश:
        • कर्तृपदम् = बुद्धिः
        • सम्बन्ध-पदम् = ते
      • कालवाचकपदम् = यदा
    • “तदा” वाक्यांश:
      • क्रियापदम् = गन्तासि
      • वाक्यांश:
        • कर्मपदम् = निर्वेदम्
        • सम्बन्ध-पदम् = श्रोतव्यस्य
        • सम्बन्ध-पदम् = श्रुतस्य
        • सम्योजकपदम् = च
      • कर्तृपदम् = (त्वम्)
      • कालवाचकपदम् = तदा

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।

समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥

पदच्छेदः

श्रुतिविप्रतिपन्ना, ते, यदा, स्थास्यति, निश्चला ॥ समाधौ, अचला, बुद्धिः, तदा, योगम्, अवाप्स्यसि ॥

अन्वयः

यदा ते श्रुतिविप्रतिपन्ना बुद्धिः निश्चला समाधौ च अचला स्थास्यति, तदा योगम् अवाप्स्यसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यदा” वाक्यांश:
      • क्रियापदम् = स्थास्यति
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = अचला
        • कर्तृ-विशेषण-सूचक-पदम् = निश्चला
        • सम्योजकपदम् = च
        • अधिकरणपदम् = समाधौ
      • वाक्यांश:
        • कर्तृपदम् = बुद्धिः
        • कर्तृविशेषणम् = श्रुतिविप्रतिपन्ना
        • सम्बन्ध-पदम् = ते
      • कालवाचकपदम् = यदा
    • “तदा” वाक्यांश:
      • क्रियापदम् = अवाप्स्यसि
      • कर्मपदम् = योगम्
      • कर्तृपदम् = (त्वम्)
      • कालवाचकपदम् = तदा

अर्जुन उवाच

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।

स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ ५४ ॥

पदच्छेदः

स्थितप्रज्ञस्य, का, भाषा, समाधिस्थस्य, केशव । स्थितधीः, किम्, प्रभाषेत, किम्, आसीत, व्रजेत, किम् ॥

अन्वयः

केशव ! समाधिस्थस्य स्थितप्रज्ञस्य का भाषा ? स्थितधीः किं प्रभाषेत ? किम् आसीत ? किं व्रजेत ?

पदपरिचय:

  • सम्बोधनपदम् = केशव!
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • प्रश्नवाचक-कर्तृपदम् = का
    • वाक्यांश:
      • कर्तृपदम् = भाषा?
      • सम्बन्ध-पदम् = स्थितप्रज्ञस्य
      • सम्बन्ध-विशेषण-पदम् = समाधिस्थस्य
    • द्वितीयवाक्यम्
      • क्रियापदम् = प्रभाषेत?
      • प्रश्नवाचक-कर्म-पदम् = किम्
      • कर्तृपदम् = स्थितधीः
    • तृतीयवाक्यम्
      • क्रियापदम् = आसीत?
      • प्रश्नवाचक-कर्म-पदम् = किम्
    • चतुर्थवाक्यम्
      • क्रियापदम् = व्रजेत
      • प्रश्नवाचक-कर्म-पदम् = किम्

श्रीभगवानुवाच-

प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।

आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ५५ ॥

पदच्छेदः

प्रजहाति, यदा, कामान्, सर्वान्, पार्थ, मनोगतान् । आत्मनि, एव, आत्मना, तुष्टः, स्थितप्रज्ञः, तदा, उच्यते ॥

अन्वयः

पार्थ ! यदा सर्वान् कामान् मनोगतान् प्रजहाति आत्मना एव आत्मनि तुष्टः तदा स्थितप्रज्ञः उच्यते ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • “यदा” वाक्यांश:
      • क्रियापदम् = प्रजहाति
      • कर्मपदम् = कामान्
      • कर्मविशेषणम् = सर्वान्
      • कर्मविशेषणम् = मनोगतान्
      • वाक्यांश:
        • कर्तृपदम् = तुष्टः
        • करणवाचकपदम् = आत्मना
        • करणविशेषणम् = एव
        • अधिकरणपदम् = आत्मनि
      • कालवाचकपदम् = यदा
    • “तदा” वाक्यांश:
      • (कर्मणि) क्रियापदम् = उच्यते
      • (कर्मणि) कर्मपदम् = स्थितप्रज्ञः
      • कालवाचकपदम् = तदा

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ ५६ ॥

पदच्छेदः

दुःखेषु, अनुद्विग्नमनाः, सुखेषु, विगतस्पृहः । वीतरागभयक्रोधः, स्थितधीः, मुनिः, उच्यते ॥

अन्वयः

दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः मुनिः स्थितधीः उच्यते ।

पदपरिचय:

  • (कर्मणि) क्रियापदम् = उच्यते
  • (कर्मणि) कर्मविशेषण-सूचक-पदम् = स्थितधीः
  • कर्मपदम् = मुनिः
  • वाक्यांश:
    • (कर्मणि) कर्मविशेषणम् = अनुद्विग्नमनाः
    • अधिकरणपदम् = दुःखेषु
  • वाक्यांश:
    • (कर्मणि) कर्मविशेषणम् = विगतस्पृहः
    • अधिकरणपदम् = सुखेषु
  • (कर्मणि) कर्मविशेषणम् = वीतरागभयक्रोधः

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।

नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥

पदच्छेदः

यः, सर्वत्र, अनभिस्नेहः, तत्, तत्, प्राप्य, शुभाशुभम् । न, अभिनन्दति, न, द्वेष्टि, तस्य, प्रज्ञा, प्रतिष्ठिता ॥

अन्वयः

यः सर्वत्र अनभिस्नेहः तत् तत् शुभाशुभम् प्राप्य न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता (भवति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • वाक्यांश:
        • विष्यवाचकपदम् = अभिनन्दति
        • विष्यवाचकपदम् = न
      • वाक्यांश:
        • विष्यवाचकपदम् = द्वेष्टि
        • विष्यवाचकपदम् = न
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = प्राप्य
        • कर्मपदम् = तत्
        • कर्मविशेषणम् = शुभाशुभम्
      • वाक्यांश:
        • कर्तृविशेषणम् = अनभिस्नेहः
        • विष्यवाचकपदम् = सर्वत्र
      • कर्तृपदम् = यः
    • “तस्य” वाक्यांश:
      • विष्यवाचकपदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = प्रतिष्ठिता
      • वाक्यांश:
        • कर्तृपदम् = प्रज्ञा
        • सम्बन्ध-पदम् = तस्य

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥

पदच्छेदः

यदा, संहरते, च, अयम्, कूर्मः, अङ्गानि, इव, सर्वशः । इन्द्रियाणि, इन्द्रियार्थेभ्यः, तस्य, प्रज्ञा, प्रतिष्ठिता ॥

अन्वयः

यदा अयं कूर्मः अङ्गानि इव सर्वशः इन्द्रियाणि इन्द्रियार्थेभ्यः संहरते तस्य प्रज्ञा प्रतिष्ठिता (भवति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यदा” वाक्यांश:
      • विष्यवाचकपदम् = संहरते
      • विष्यवाचकपदम् = सर्वशः
      • वाक्यांश:
        • कर्मपदम् = अङ्गानि
        • कर्तृपदम् = कूर्मः
        • सम्योजकपदम् = इव
      • कर्मपदम् = इन्द्रियाणि
      • अपादानपदम् = इन्द्रियार्थेभ्यः
      • कर्तृपदम् = अयम्
    • “तस्य” वाक्यांश:
      • विष्यवाचकपदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = प्रतिष्ठिता
      • वाक्यांश:
        • कर्तृपदम् = प्रज्ञा
        • सम्बन्ध-पदम् = तस्य

विषया विनिवर्तन्ते निराहारस्य देहिनः ।

रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ५९ ॥

पदच्छेदः

विषयाः, विनिवर्तन्ते, निराहारस्य, देहिनः । रसवर्जम्, रसः, अपि, अस्य, परम्, दृष्ट्वा, निवर्तते ॥

अन्वयः

निराहारस्य देहिनः विषयाः रसवर्जं विनिवर्तन्ते (किन्तु) अस्य रसः अपि परं दृष्ट्वा (स्थितस्य) निवर्तते।

पदपरिचय:

  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = विनिवर्तन्ते
    • विष्यवाचकपदम् = रसवर्जम्
    • वाक्यांश:
      • कर्तृपदम् = विषयाः
      • सम्बन्ध-पदम् = देहिनः
      • सम्बन्ध-विशेषण-पदम् = निराहारस्य
    • द्वितीयवाक्यम्
      • विष्यवाचकपदम् = निवर्तते
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = दृष्ट्वा
        • कर्मपदम् = परम्
      • कर्तृपदम् = रसः
      • कर्तृ-विशेषण-सूचक-पदम् = अपि

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६० ॥

पदच्छेदः

यततः, हि, अपि, कौन्तेय, पुरुषस्य, विपश्चितः । इन्द्रियाणि, प्रमाथीनि, हरन्ति, प्रसभम्, मनः ॥

अन्वयः

कौन्तेय ! यततः हि अपि विपश्चितः पुरुषस्य मनः प्रमाथीनि इन्द्रियाणि प्रसभं हरन्ति ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय!
  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = हरन्ति
    • विष्यवाचकपदम् = प्रसभम्
    • कर्तृपदम् = इन्द्रियाणि
    • कर्तृविशेषणम् = प्रमाथीनि
    • वाक्यांश:
      • कर्मपदम् = मनः
      • सम्बन्ध-पदम् = पुरुषस्य
      • सम्बन्ध-विशेषण-पदम् = विपश्चितः
      • वाक्यांश:
        • सम्बन्ध-विशेषण-पदम् = यततः
        • सम्बन्ध-विशेषण-पदम् = हि

सम्बन्ध-विशेषण-पदम् = अपि

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।

वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥

पदच्छेदः

तानि, सर्वाणि, संयम्य, युक्तः, आसीत, मत्परः । वशे, हि, यस्य, इन्द्रियाणि, तस्य, प्रज्ञा, प्रतिष्ठिताः ॥

अन्वयः

तानि सर्वाणि संयम्य युक्तः मत्परः आसीत । यस्य वशे इन्द्रियाणि (सन्ति) तस्य प्रज्ञा प्रतिष्ठिताः (भवति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = आसीत
    • कर्तृ-विशेषण-सूचक-पदम् = मत्परः
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = संयम्य
      • कर्मपदम् = सर्वाणि
      • कर्मविशेषणम् = तानि
    • कर्तृपदम् = युक्तः
  • द्वितीयवाक्यम्
    • “यस्य” वाक्यांश:
      • विष्यवाचकपदम् = (सन्ति)
      • कर्मपदम् = इन्द्रियाणि
      • वाक्यांश:
        • अधिकरणपदम् = वशे
        • सम्बन्ध-पदम् = यस्य
      • “तस्य” वाक्यांश:
        • विष्यवाचकपदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = प्रतिष्ठिता
        • वाक्यांश:
          • कर्तृपदम् = प्रज्ञा
          • सम्बन्ध-पदम् = तस्य

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ॥

सङ्गात्सञ्जायते कामः कामात् क्रोधोऽभिजायते ॥ ६२ ॥

पदच्छेदः

ध्यायतः, विषयान्, पुंसः, सङ्गः, तेषु, उपजायते ॥ सङ्गात्, सञ्जायते, कामः, कामात्, क्रोधः, अभिजायते ॥

अन्वयः

(यान्) विषयान् ध्यायतः पुंसः (अस्ति), तेषु सङ्गः उपजायते, सङ्गात् कामः सञ्जायते, कामात् क्रोधः अभिजायते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = उपजायते
    • वाक्यांश:
      • कर्तृपदम् = सङ्गः
      • सम्बन्ध-पदम् = पुंसः
      • वाक्यांश:
        • क्रिया-गर्भ-सम्बन्ध-विशेषण-पदम् = ध्यायतः
        • कर्मपदम् = विषयान्
      • अधिकरणपदम् = तेषु
    • द्वितीयवाक्यम्
      • विष्यवाचकपदम् = सञ्जायते
      • कर्तृपदम् = कामः
      • अपादानपदम् = सङ्गात्
    • तृतीयवाक्यम्
      • विष्यवाचकपदम् = अभिजायते
      • कर्तृपदम् = क्रोधः
      • अपादानपदम् = कामात्

क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।

स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३ ॥

पदच्छेदः

क्रोधात्, भवति, सम्मोहः, सम्मोहात्, स्मृतिविभ्रमः । स्मृतिभ्रंशात्, बुद्धिनाशः, बुद्धिनाशात्, प्रणश्यति ॥

अन्वयः

क्रोधात् सम्मोहः भवति, सम्मोहात् स्मृतिविभ्रमः, स्मृतिभ्रंशात् बुद्धिनाशः, बुद्धिनाशात् प्रणश्यति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = भवति,
    • कर्तृपदम् = सम्मोहः
    • अपादानपदम् = क्रोधात्
  • द्वितीयवाक्यम्
    • विष्यवाचकपदम् = (भवति)
    • कर्तृपदम् = स्मृतिविभ्रमः
    • अपादानपदम् = सम्मोहात्
  • तृतीयवाक्यम्
    • विष्यवाचकपदम् = (भवति)
    • कर्तृपदम् = बुद्धिनाशः
    • अपादानपदम् = स्मृतिभ्रंशात्
  • चतुर्थवाक्यम्
    • विष्यवाचकपदम् = प्रणश्यति
    • अपादानपदम् = बुद्धिनाशात्

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।

आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४ ॥

पदच्छेदः

रागद्वेषवियुक्तैः, तु, विषयान्, इन्द्रियैः, चरन् । आत्मवश्यैः, विधेयात्मा, प्रसादम्, अधिगच्छति ॥

अन्वयः

विधेयात्मा तु रागद्वेषवियुक्तैः इन्द्रियैः आत्मवश्यैः विषयान् चरन् प्रसादम् अधिगच्छति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = अधिगच्छति
    • कर्मपदम् = प्रसादम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= चरन्
      • कर्मपदम् = विषयान्
      • करणवाचकपदम् = इन्द्रियैः
      • करणविशेषणम् = आत्मवश्यैः
      • करणविशेषणम् = रागद्वेषवियुक्तैः
    • वाक्यांश:
      • कर्तृपदम् = विधेयात्मा
      • कर्तृ-विशेषण-सूचक-पदम् = तु

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।

प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ ६५ ॥

पदच्छेदः

प्रसादे, सर्वदुःखानाम्, हानिः, अस्य, उपजायते । प्रसन्नचेतसः, हि, आशु, बुद्धिः, पर्यवतिष्ठते ॥

अन्वयः

प्रसादे (सति) अस्य सर्वदुःखानां हानिः उपजायते । प्रसन्नचेतसः हि बुद्धिः आशु पर्यवतिष्ठते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = उपजायते
    • वाक्यांश:
      • कर्मपदम् = हानिः
      • वाक्यांश:
        • सम्बन्ध-पदम् = सर्वदुःखानाम्
        • सम्बन्ध-पदम् = अस्य
      • कालवाचकपदम् = प्रसादे
    • द्वितीयवाक्यम्
      • विष्यवाचकपदम् = पर्यवतिष्ठते
      • विष्यवाचकपदम् = आशु
      • वाक्यांश:
        • कर्तृपदम् = बुद्धिः
        • सम्बन्ध-पदम् = प्रसन्नचेतसः
        • सम्बन्ध-विशेषण-पदम् = हि

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।

न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६६ ॥

पदच्छेदः

न, अस्ति, बुद्धिः, अयुक्तस्य, न, च, अयुक्तस्य, भावना । न, च, अभावयतः, शान्तिः, अशान्तस्य, कुतः, सुखम् ॥

अन्वयः

अयुक्तस्य बुद्धिः न अस्ति । अयुक्तस्य च भावना न । अभावयतः च शान्तिः न । अशान्तस्य कुतः सुखम् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = अस्ति
    • विष्यवाचकपदम् = न
    • कर्तृपदम् = बुद्धिः
    • सम्बन्ध-पदम् = अयुक्तस्य
  • द्वितीयवाक्यम्
    • विष्यवाचकपदम् = (अस्ति)
    • विष्यवाचकपदम् = न
    • वाक्यांश:
      • कर्तृपदम् = भावना
      • सम्बन्ध-पदम् = अयुक्तस्य
      • सम्योजकपदम् = च
    • तृतीयवाक्यम्
      • विष्यवाचकपदम् = (भवति)
      • विष्यवाचकपदम् = न
      • वाक्यांश:
        • कर्तृपदम् = शान्तिः
        • सम्बन्ध-पदम् = अभावयतः
        • सम्योजकपदम् = च
      • चतुर्थवाक्यम्
        • विष्यवाचकपदम् = (भवति)
        • प्रश्नवाचक-क्रियाविशेषणम् = कुतः
        • वाक्यांश:
          • कर्तृपदम् = सुखम्
          • सम्बन्ध-पदम् = अशान्तस्य

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।

तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६७ ॥

पदच्छेदः

इन्द्रियाणाम्, हि, चरताम्, यत्, मनः, अनुविधीयते । तत्, अस्य, हरति, प्रज्ञाम्, वायुः, नावम्, इव, अम्भसि ॥

अन्वयः

चरतां हि इन्द्रियाणां यत् मनः अनुविधीयते, तत् अस्य प्रज्ञां वायुः अम्भसि नावम् इव हरति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • वाक्यांश:
        • विष्यवाचकपदम् = अनुविधीयते
        • सम्बन्ध-पदम् = इन्द्रियाणाम्
        • सम्बन्ध-विशेषण-पदम् = चरताम्
        • सम्बन्ध-विशेषण-पदम् = हि
      • कर्मपदम् = मनः
      • कर्मविशेषणम् = यत्
    • “तत्” वाक्यांश:
      • विष्यवाचकपदम् = हरति
      • वाक्यांश:
        • कर्मपदम् = प्रज्ञाम्
        • सम्बन्ध-पदम् = अस्य
      • वाक्यांश:
        • कर्मपदम् = नावम्
        • अधिकरणपदम् = अम्भसि
        • कर्तृपदम् = वायुः
        • सम्योजकपदम् = इव

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥

पदच्छेदः

तस्मात्, यस्य, महाबाहो, निगृहीतानि, सर्वशः । इन्द्रियाणि, इन्द्रियार्थेभ्यः, तस्य, प्रज्ञा, प्रतिष्ठिता ॥

अन्वयः

महाबाहो ! तस्मात् यस्य इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशः निगृहीतानि तस्य प्रज्ञा प्रतिष्ठिता (भवति) ।

पदपरिचय:

  • सम्बोधनपदम् = महाबाहो!
  • प्रथमवाक्यम्
    • “यस्य” वाक्यांश:
      • विष्यवाचकपदम् = (भवति)
      • विष्यवाचकपदम् = सर्वशः
      • कर्तृ-विशेषण-सूचक-पदम् = निगृहीतानि
      • वाक्यांश:
        • कर्मपदम् = इन्द्रियाणि
        • सम्बन्ध-पदम् = यस्य
      • अपादानपदम् = इन्द्रियार्थेभ्यः
      • कारणवाचकपदम् = तस्मात्
    • “तस्य” वाक्यांश:
      • विष्यवाचकपदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = प्रतिष्ठिता
      • वाक्यांश:
        • कर्तृपदम् = प्रज्ञा
        • सम्बन्ध-पदम् = तस्य

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥

पदच्छेदः

या, निशा, सर्वभूतानाम्, तस्याम्, जागर्ति, संयमी । यस्याम्, जाग्रति, भूतानि, सा, निशा, पश्यतः, मुनेः ॥

अन्वयः

सर्वभूतानां या निशा तस्यां संयमी जागर्ति, यस्यां भूतानि जाग्रति सा पश्यतः मुनेः निशा ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “या” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = निशा
      • कर्तृविशेषणम् = या
      • सम्बन्ध-पदम् = सर्वभूतानाम्
    • “तस्याम्” वाक्यांश:
      • क्रियापदम् = जागर्ति
      • कर्तृपदम् = संयमी
      • अधिकरणपदम् = तस्याम्
    • द्वितीयवाक्यम्
      • “यस्याम्” वाक्यांश:
        • क्रियापदम् = जाग्रति
        • कर्तृपदम् = भूतानि
        • अधिकरणपदम् = यस्याम्
      • “सा” वाक्यांश:
        • विष्यवाचकपदम् = (भवति)
        • वाक्यांश:
          • कर्तृ-विशेषण-सूचक-पदम् = निशा
          • सम्बन्ध-पदम् = मुनेः
          • सम्बन्ध-विशेषण-पदम् = पश्यतः
        • कर्तृपदम् = सा

आपूर्यमाणमचलप्रतिं समुद्रमापः प्रविशन्ति यद्वत् ।

तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ७० ॥

पदच्छेदः

आपूर्यमाणम्, अचलप्रतिम्, समुद्रम्, आपः, प्रविशन्ति, यद्वत् । तद्वत्, कामाः, यम्, प्रविशन्ति, सर्वे, सः, शान्तिम्, आप्नोति, न, कामकामी ॥

अन्वयः

आपः आपूर्यमाणम् अचलप्रतिं समुद्रम् यद्वत् प्रविशन्ति तद्वत् सर्वे कामाः यं प्रविशन्ति सः शान्तिम् आप्नोति, कामकामी न ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यद्वत्” वाक्यांश:
      • क्रियापदम् = प्रविशन्ति
      • विष्यवाचकपदम् = यद्वत्
      • कर्मपदम् = समुद्रम्
      • कर्मविशेषणम् = आपूर्यमाणम्
      • कर्मविशेषणम् = अचलप्रतिम्
      • कर्तृपदम् = आपः
    • “तद्वत्” वाक्यांश:
      • “यम्” वाक्यांश:
        • क्रियापदम् = प्रविशन्ति
        • कर्मपदम् = यम्
        • कर्तृपदम् = कामाः
        • कर्तृविशेषणम् = सर्वे
      • “सः” वाक्यांश:
        • क्रियापदम् = आप्नोति
        • कर्मपदम् = शान्तिम्
        • कर्तृपदम् = सः
      • द्वितीयवाक्यम्
        • क्रियापदम् = (आप्नोति)
        • विष्यवाचकपदम् = न
        • कर्मपदम् = (शान्तिम्)
        • कर्तृपदम् = कामकामी

विहाय कामान्यः सर्वान्पुमांश्चलति निःस्पृहः ।

निर्ममो निरहारः स शान्तिमधिगच्छति ॥ ७१ ॥

पदच्छेदः

विहाय, कामान्, यः, सर्वान्, पुमान्, चलति, निःस्पृहः । निर्ममः, निरहारः, सः, शान्तिम्, अधिगच्छति ॥

अन्वयः

यः पुमान् सर्वान् कामान् विहाय निःस्पृहः निर्ममः निरहारः चलति सः शान्तिम् अधिगच्छति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = चलति
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = विहाय
        • कर्मपदम् = कामान्
        • कर्मविशेषणम् = सर्वान्
        • कर्मविशेषणम् = पुमान्
      • कर्तृपदम् = यः
      • कर्तृविशेषणम् = निःस्पृहः
      • कर्तृविशेषणम् = निर्ममः
      • कर्तृविशेषणम् = निरहारः
    • “सः” वाक्यांश:
      • क्रियापदम् = अधिगच्छति
      • कर्मपदम् = शान्तिम्
      • कर्तृपदम् = सः

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।

स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥

पदच्छेदः

एषा, ब्राह्मी, स्थितिः, पार्थ, न, एनाम्, प्राप्य, विमुह्यति । स्थित्वा, अस्याम्, अन्तकाले, अपि, ब्रह्मनिर्वाणम्, ऋच्छति ॥

अन्वयः

पार्थ ! एषा ब्राह्मी स्थितिः । एनां प्राप्य न विमुह्यति । अन्तकाले अपि अस्यां स्थित्वा ब्रह्मनिर्वाणम् ऋच्छति ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = स्थितिः
      • कर्तृविशेषणम् = ब्राह्मी
      • कर्तृपदम् = एषा
    • द्वितीयवाक्यम्
      • क्रियापदम् = विमुह्यति
      • विष्यवाचकपदम् = न
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = प्राप्य
        • कर्मपदम् = एनाम्
      • तृतीयवाक्यम्
        • क्रियापदम् = ऋच्छति
        • कर्मपदम् = ब्रह्मनिर्वाणम्
        • क्त्वान्त-वाक्यांश:
          • क्त्वान्तपदम् = स्थित्वा
          • अधिकरणपदम् = अस्याम्
        • वाक्यांश:
          • कालवाचकपदम् = अन्तकाले
          • कालवाचकपद-विशेषणम् = अपि

References –

  1. नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/7au  सांख्ययोगः
  3. gita-grammar.blogspot.in
  4. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  5. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  6. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  8. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s