कर्म ब्रह्मोद्भवं Please ignore this post and refer this updated page — https://nivedita2015.wordpress.com/chapter-3-bhagavad-gita/
श्लोक: १०
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥
पदच्छेदः
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः अनेन प्रसविष्यध्वम् एष वः अस्तु इष्टकामधुक् ॥ १० ॥
अन्वयः
प्रजापतिः पुरा सहयज्ञाः प्रजाः सृष्ट्वा उवाच । अनेन (यज्ञेन) प्रसविष्यध्वम् । एषः वः इष्टकामधुक् अस्तु ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = उवाच [ ब्रू “ब्रूञ् व्यक्तायां वाचि” पर. लिट्. प्रपु. एक. ]
- वाक्यांश:
- प्राक्कालिकक्रिया = सृष्ट्वा [ अव्ययम् ]
- कर्म = प्रजाः [ आ. स्त्री. द्वि. बहु. ]
- कर्मविशेषणम् = सहयज्ञाः [ आ. स्त्री. द्वि. बहु. ]
- कालवाचकम् = पुरा [ अव्ययम् ]
- कर्ता = प्रजापतिः [ इ. पुं. प्र. एक. ]
- कर्मवाक्यम्
- क्रिया = प्रसविष्यध्वम् [ प्र + सू “षूङ् प्राणिगर्भविमोचने” आ. लोट्. मपु. एक. ] (प्रसूध्वम् | अत्र प्रसविष्यध्वम् इति आर्षप्रयोगः)
- करणम् = अनेन [ इदम् म. पुं. तृ. एक. ]
- करणविशेषणम् = (यज्ञेन)
- कर्ता = (यूयम्)
- कर्मवाक्यम्
- क्रिया = अस्तु [ अस् “अस भुवि” पर. लोट्. प्रपु. एक. ]
- वाक्यांश:
- कर्तृविधेयविशेषणम् = इष्टकामधुक् [ इष्टकामधुह् ]
- सम्बन्धिः = वः (युष्माकम्) [ युष्मद् द. त्रि. ष. बहु. ]
- कर्ता = एषः [ एतद् द. पुं. प्र. एक. ]
- सन्धि:
- पुरोवाच = पुरा वाच – गुणसन्धिः |
- एष वः = एषः वः – विसर्गसन्धिः (लोपः) |
- वोऽस्तु = वः अस्तु – विसर्गसन्धि: (सकार:) रेफ:, उकार:, गुण:, पूर्वरूपं च ।
- अस्त्विष्टकामधुक् = अस्तु इष्टकामधुक् – यण्सन्धि: |
- समास:
- सहयज्ञाः = यज्ञेन सह वर्तन्ते – बहुव्रीहिः |
- प्रजापतिः = प्रजानां पतिः – षष्ठीतत्पुरुषः |
- इष्टकामधुक्
- इष्टाश्च ते कामाश्च इष्टकामाः – कर्मधारयः |
- इष्टकामान् दोग्धि – कर्तरि क्चिप् उपपदसमासश्च |
- कृदन्त:
- सृष्ट्वा = सृज् “सृज विसर्गे” + क्त्वा प्रत्यय: |
तात्पर्यम्
सृष्टिकर्ता कल्पादौ वर्णोचितकर्मणा सह प्रजाः सृष्ट्वा अनेन कर्मणा भवन्तः वृद्धिं प्राप्नुवन्तु, इदं कर्म भवताम् अभीष्टदायकं भवतु इत्यवदत् ।
श्लोक: ११
देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥
पदच्छेदः
देवान् भावयत अनेन ते देवाः भावयन्तु वः परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥ ११ ॥
अन्वयः
अनेन (यज्ञेन) देवान् भावयत । ते देवाः वः भावयन्तु । (एवम्) परस्परं भावयन्तः परं श्रेयः अवाप्स्यथ ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = भावयत [ भू “भू सत्तायाम्” + णिच्, पर. लोट्. मपु. बहु. ]
- णिजन्तप्रयोज्यकर्तृसूचककर्म = देवान् [ अ. पुं. द्वि. बहु. ]
- णिजन्तप्रयोजककर्ता = (यूयम्)
- करणम् = अनेन [ इदम् म. पुं. तृ. एक. ]
- करणविशेषणम् = (यज्ञेन)
- द्वितीयवाक्यम्
- क्रिया = भावयन्तु [ भू “भू सत्तायाम्” + णिच्, पर. लोट्. प्रपु. बहु. ]
- णिजन्तप्रयोज्यकर्तृसूचककर्म = वः (युष्मान्) [ युष्मद् द. त्रि. द्वि. बहु. ]
- णिजन्तप्रयोजककर्ता = ते [ तद् द. पुं. प्र. बहु. ]
- कर्तृविशेषणम् = देवाः [ अ. पुं. प्र. बहु. ]
- तृतीयवाक्यम्
- क्रिया = अवाप्स्यथ [ अव + आप् “आप्ऌ व्याप्तै” पर. लृट्. मपु. बहु. ]
- कर्म = श्रेयः [ श्रेयस् स. नपुं. द्वि. एक. ] (श्रेयः श्रेयसी श्रेयांसि)
- कर्मविशेषणम् = परम् [ अ. नपुं. द्वि. एक. ]
- वाक्यांश:
- क्रियागर्भकर्ता = भावयन्तः [ त. पुं. प्र. बहु. ]
- क्रियाविशेषणम् = परस्परम् [ अव्ययम् ]
- क्रियाविशेषणम् = (एवम्)
- सन्धिः
- भावयतानेन = भावयत अनेन – सवर्णदीर्घसन्धि: ।
- देवा भावयन्तु = देवाः भावयन्तु – विसर्गसन्धि: (लोपः) |
- कृदन्तः
- भावयन्तः = भू “भू सत्तायाम्” + णिच् + शतृ प्रत्ययः |
श्लोक: १२
इष्टान्भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥
पदच्छेदः
इष्टान् भोगान् हि वः देवाः दास्यन्ते यज्ञभाविताः तैः दत्तान् अप्रदाय एभ्यः यः भुङ्क्ते स्तेन एव सः ॥ १२ ॥
अन्वयः
यज्ञभाविताः देवाः वः इष्टान् भोगान् हि दास्यन्ते । तैः दत्तान् एभ्यः अप्रदाय यः भुङ्क्ते सः स्तेनः एव ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = दास्यन्ते [ दा “डुदाञ् दाने” (उभय) आ. लृट्. प्रपु. बहु. ]
- कर्म = भोगान् [ अ. पुं. द्वि. बहु. ]
- कर्मविशेषणम् = इष्टान् [ अ. पुं. द्वि. बहु. ]
- अवधारणम् = हि [ अव्ययम् ]
- सम्प्रदानम् = वः (युष्मभ्यम्) [ युष्मद् द. त्रि. च. बहु. ]
- कर्ता = देवाः [ अ. पुं. प्र. बहु. ]
- कर्तृविशेषणम् = यज्ञभाविताः [ अ. पुं. प्र. बहु. ]
- द्वितीयवाक्यम्
- “यः” वाक्यांश:
- क्रिया = भुङ्क्ते [ भुङ्क् “भुज पालनाभ्यवहारयो:” (Note: पालने पर.) आ. लट्. प्रपु. एक. ]
- वाक्यांश:
- प्राक्कालिकक्रिया = अप्रदाय [ अव्ययम् ]
- सम्प्रदानम् = एभ्यः [ इदम् म. पुं. च. बहु. ]
- वाक्यांश:
- (कर्मणि) क्रियागर्भकर्म= दत्तान् [ अ. पुं. द्वि. बहु. ]
- (कर्मणि) कर्ता = तैः [ तद् द. पुं. तृ. बहु. ]
- कर्ता = यः [ यद् द. पुं. प्र. एक. ]
- “सः” वाक्यांश:
- क्रिया = (अस्ति)
- कर्तृविधेयविशेषणम् = स्तेनः [ अ. पुं. प्र. एक. ]
- अवधारणम् = एव [ अव्ययम् ]
- कर्ता = सः [ तद् द. पुं. प्र. एक. ]
- सन्धिः
- वो देवाः = वः देवाः – विसर्गसन्धि: (सकार:) रेफ:, उकार:, गुण: |
- देवा दास्यन्ते = देवाः दास्यन्ते – विसर्गसन्धि: (लोपः) |
- तैर्दत्तान् = तैः दत्तान् – विसर्गसन्धि: (सकार:) रेफ: |
- अप्रदायैभ्यः = अप्रदाय एभ्यः – वृद्धिसन्धिः |
- अप्रदायैभ्यो यः = अप्रदायैभ्यः यः – विसर्गसन्धि: (सकार:) रेफ:, उकार:, गुण: |
- यो भुङ्क्ते = यः भुङ्क्ते – विसर्गसन्धि: (सकार:) रेफ:, उकार:, गुण: |
- स्तेन एव = स्तेनः एव – विसर्गसन्धि: (लोपः) |
- समासः
- यज्ञभाविताः = यज्ञेन भाविताः – तृतीयातत्पुरुषः |
- अप्रदाय = न प्रदाय – नञ्तत्पुरुषः |
- कृदन्तः
- “यः” वाक्यांश:
श्लोक: १३
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ १३ ॥
पदच्छेदः
यज्ञशिष्टाशिनः सन्तः मुच्यन्ते सर्वकिल्बिषैः भुञ्जते ते तु अघं पापाः ये पचन्ति आत्मकारणात् ॥ १३ ॥
अन्वयः
यज्ञशिष्टाशिनः सन्तः सर्वकिल्बिषैः मुच्यन्ते । ये पापाः आत्मकारणात् पचन्ति ते तु अघं भुञ्जते ।
पदपरिचय:
- प्रथमवाक्यम्
- (कर्मणि) क्रिया = मुच्यन्ते [ मुच् “मुचॢ मोक्षणे” (उभय) आ. कर्मणि लट्. प्रपु. बहु. ]
- (कर्मणि) कर्म = सन्तः [ त. पुं. प्र. बहु. ]
- (कर्मणि) कर्मविशेषणम् = यज्ञशिष्टाशिनः [ न. पुं. प्र. बहु. ]
- (कर्मणि) कर्ता = सर्वकिल्बिषैः [ अ. पुं. तृ. बहु. ]
- द्वितीयवाक्यम्
- “ये” वाक्यांश:
- क्रिया = पचन्ति [ पच् “डुपचष् पाके” पर. लट्. प्रपु. बहु. ]
- हेतुवाचकम् = आत्मकारणात् [ अ. नपुं. प. एक. ]
- कर्ता = पापाः [ अ. पुं. प्र. बहु. ]
- कर्तृविशेषणम् = ये [ यद् द. पुं. प्र. बहु. ]
- समुच्चयम् = च [ अव्ययम् ]
- “ते” वाक्यांश:
- क्रिया = भुञ्जते [ भुज्“भुज् पालनाभ्यवहारयोः” उभय आ. लट्. प्रपु. एक. ]
- कर्म = अघम् [ अ. नपुं. द्वि. एक. ]
- कर्ता = ते [ तद् द. पुं. प्र. एक. ]
- अवधारणम् = तु [ अव्ययम् ]
- सन्धिः
- सन्तो मुच्यन्ते = सन्तः मुच्यन्ते – विसर्गसन्धिः सकारः रेफः, उकारः, गुणः |
- त्वघम् = तु अघम् – यण्सन्धि: |
- पापा ये = पापाः ये – विसर्गसन्धिः लोपः |
- पचन्त्यात्मकारणात् = पचन्ति आत्मकारणात् – यण्सन्धि: |
- समासः
- यज्ञशिष्टाशिनः
- यज्ञस्य शिष्टम् यज्ञशिष्टम् – षष्ठीतत्पुरुषः |
- यज्ञशिष्टम् अशितुं शीलं येषां तेयज्ञशिष्टाशिनः – कर्तरि णिनि उपपदतत्पुरुषः |
- आत्मकारणात् = आत्मा एव कारणम् , तस्मात् – कर्मधारयः |
- यज्ञशिष्टाशिनः
- कृदन्तः
- सन्तः = अस् “अस भुवि” + शतृ |
- “ये” वाक्यांश:
श्लोकः १४
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यः यज्ञः कर्मसमुद्भवः ॥ १४ ॥
पदच्छेदः
अन्नात् भवन्ति भूतानि पर्जन्यात् अन्नसम्भवः यज्ञात् भवति पर्जन्यः यज्ञः कर्मसमुद्भवः ॥ १४ ॥
अन्वयः
अन्नात् भूतानि भवन्ति । पर्जन्यात् अन्नसम्भवः (भवति) । पर्जन्यः यज्ञात् भवति । यज्ञः कर्मसमुद्भवः भवति ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = भवन्ति [ भू “भू सत्तायाम्”, पर. लट्. प्रपु. बहु. ]
- अपादानम् = अन्नात् [ अ. नपुं. प. एक. ]
- कर्ता = भूतानि [ अ. नपुं. प्र. बहु. ]
- द्वितीयवाक्यम्
- क्रिया = (भवति)
- अपादानम् = पर्जन्यात् [ अ. पुं. प. एक. ]
- कर्ता = अन्नसम्भवः [ अ. पुं. प्र. एक. ]
- तृतीयवाक्यम्
- क्रिया = भवति [ भू “भू सत्तायाम्”, पर. लट्. प्रपु. एक. ]
- अपादानम् = यज्ञात् [ अ. पुं. प. एक. ]
- कर्ता = पर्जन्यः [ अ. पुं. प्र. एक. ]
- चतुर्थवाक्यम्
- क्रिया = भवति [ भू “भू सत्तायाम्”, पर. लट्. प्रपु. एक. ]
- कर्तृविधेयविशेषणम् = कर्मसमुवः [ अ. पुं. प्र. एक. ]
- कर्ता = यज्ञः [ अ. पुं. प्र. एक. ]
- सन्धिः
- अन्नाद्भवन्ति = अन्नात् + भवन्ति – जश्त्वसन्धिः |
- पर्जन्यो यज्ञः = पर्जन्यः + यज्ञः – विसर्गसन्धिः, सकारः, रेफः, उकारः, गुणः |
- समासः
- अन्नसम्भवः = अन्नस्य सम्भवः – षष्ठीतत्पुरुषः |
- कर्मसमुद्भवः = कर्म समुद्भवं यस्य सः – बहुव्रीहिः |
- कृदन्तः
- समुद्भवः = सम् + उत् + भू “भू सत्तायाम्” + अप् (भावे) |
श्लोकः १५
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥
पदच्छेदः
कर्म ब्रह्मोद्भवं विद्धि ब्रह्म अक्षरसमुद्भवं तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥
अन्वयः
कर्म ब्रह्मोद्भवं विद्धि । ब्रह्म अक्षरसमुद्भवं (विद्धि) । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
- कर्ता = (त्वम्)
- कर्मविधेयविशेषणम् = ब्रह्मोद्भवम् [ अ. नपुं. द्वि. एक. ]
- कर्म = कर्म [ कर्मन् न. नपुं. द्वि. एक. ]
- द्वितीयवाक्यम्
- क्रिया = (विद्धि)
- कर्ता = (त्वम्)
- कर्मविधेयविशेषणम् = अक्षरसमुद्भवम् [ अ. नपुं. द्वि. एक. ]
- कर्म = ब्रह्म [ ब्रह्मन् न. नपुं. द्वि. एक. ]
- तृतीयवाक्यम्
- वाक्यांश:
- कर्तृविधेयविशेषणम् = प्रतिष्ठितम् [ अ. नपुं. प्र. एक. ]
- अधिकरणम् = यज्ञे [ अ. पुं. स. एक. ]
- कालवाचकम् = नित्यम् [ अव्ययम् ]
- कर्ता = ब्रह्म [ ब्रह्मन् न. नपुं. प्र. एक. ]
- कर्तृविशेषणम् = सर्वगतम् [ अ. नपुं. प्र. एक. ]
- हेतुवाचकम् = तस्मात् [ तद् द. पुं. प. एक. ]
- वाक्यांश:
- सन्धिः
- ब्रह्माक्षरसमुद्भवम् = ब्रह्म अक्षरसमुद्भवम्, सवर्णदीर्घसन्धि: ।
- समासः
- कृदन्तः
- प्रतिष्ठितम् = प्र + स्था “ष्ठा गतिनिवृत्तौ” + क्त |
- गतम् = गम् “गम्ऌ गतौ” + क्त प्रत्ययः |
- उद्भवम् =उद् + भू “भू सत्तायाम्” + अच् (कर्तरि) | उध्भवतीति उद्भवम् |
श्लोकः १६
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥
पदच्छेदः
एवं प्रवर्तितं चक्रं न अनुवर्तयति इह यः अघायुः इन्द्रियारामः मोघं पार्थ सः जीवति ॥ १६ ॥
अन्वयः
पार्थ ! यः एवं प्रवर्तितं चक्रं इह न अनुवर्तयति अघायुः इन्द्रियारामः सः मोघं जीवति ।
पदपरिचय:
- सम्बोधनम् = पार्थ! [ अ. पुं. संप्र. एक. ]
- प्रथमवाक्यम्
- “यः” वाक्यांश:
- क्रिया = अनुवर्तयति [ अनु + वृत् “वृतु वर्तने” + णिच्, (Note: वृत् is आत्मनेपदी | णिच् will make it उभयपदी) अत्र पर. लट्. प्रपु. एक. ]
- प्रतिषेधम् = न [ अव्ययम् ]
- स्थानवाचकम् = इह [ अव्ययम् ]
- णिजन्तप्रयोज्यकर्तृसूचककर्म = चक्रम् [ अ. नपुं. प्र. एक. ]
- वाक्यांश:
- क्रियागर्भकर्मविशेषणम् = प्रवर्तितम् [ अ. पुं. द्वि. एक. ]
- क्रियाविशेषणम् = एवम् [ अव्ययम् ]
- णिजन्तप्रयोजककर्ता = यः [ द. पुं. प्र. एक. ]
- “सः” वाक्यांश:
- क्रिया = जीवति [ जीव् “जीव प्राणधारणे” पर. लट्. प्रपु. एक. ]
- क्रियाविशेषणम् = मोघम् [ अव्ययम् ]
- कर्ता = सः [ तद् द. पुं. प्र. एक. ]
- कर्तृविशेषणम् = इन्द्रियारामः [ अ. पुं. प्र. एक. ]
- कर्तृविशेषणम् = अघायुः [ उ. पुं. प्र. एक. ]
- “यः” वाक्यांश:
- सन्धिः
- नानुवर्तयति = न अनुवर्तयति – सवर्णदीर्घसन्धि: ।
- अनुवर्तयतीह = अनुवर्तयति इह – सवर्णदीर्घसन्धि: ।
- अघायुरिन्द्रियारामः = अघायुः इन्द्रियारामः- विसर्गसन्धि: सकार: रेफ: |
- इन्द्रियारामो मोघम् = इन्द्रियारामः मोघम् – विसर्गसन्धि: उकार:, गुण: ।
- स जीवति = सः जीवति – विसर्गसन्धि: लोपः |
- समासः
- अघायुः = अघम् आयुः यस्य सः – बहुव्रीहिः |
- इन्द्रियारामः = इन्द्रियैः आरामः – तृतीयातत्पुरुषः |
- कृदन्त:
- प्रवर्तितम् = प्र + वृत् “वृतु वर्तने” + णिच् + क्त प्रत्ययः (कर्मणि) |
- आरामः = आङ् + रम् “रम क्रीडायाम्” + घञ् (कर्तरि) | (Note: घञ् प्रत्ययः conveys the sense in Bhaave Prayogah – Eg. त्यज् + घञ् = त्यागः).
श्लोकः १७
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टः तस्य कार्यं न विद्यते ॥ १७ ॥
पदच्छेदः
यः तु आत्मारतिः एव स्यात् आत्मतृप्तः च मानवः आत्मनि एव च सन्तुष्टः तस्य कार्यं न विद्यते ॥ १७ ॥
अन्वयः
यः तु मानवः आत्मरतिः एव आत्मतृप्तः आत्मन्येव सन्तुष्टः च स्यात् तस्य कार्यं न विद्यते ।
पदपरिचय:
- प्रथमवाक्यम्
- “यः” वाक्यांश:
- क्रिया = स्यात् [ अस् “अस भुवि” पर. विधिलिङ्ग. प्रपु. एक. ]
- वाक्यांश:
- कर्तृविधेयविशेषणम् = आत्मरतिः [ इ. पुं. प्र. एक. ]
- अवधारणम् = एव [ अव्ययम् ]
- कर्तृविधेयविशेषणम् = आत्मतृप्तः [ अ. पुं. प्र. एक. ]
- वाक्यांश:
- क्रियागर्भकर्तृविधेयविशेषणम् = सन्तुष्टः [ अ. पुं. प्र. एक. ]
- अधिकरणम् = आत्मनि [ न. पुं. स. एक. ]
- अवधारणम् = एव [ अव्ययम् ]
- समुच्चयम् = च [ अव्ययम् ]
- कर्ता = यः [ द. पुं. प्र. एक. ]
- कर्तृविशेषणम् = मानवः [ अ. पुं. प्र. एक. ]
- “तस्य” वाक्यांश:
- क्रिया = विद्यते [ विद् “विद सत्तायाम्” आ. लट्. प्रपु. एक. ]
- प्रतिषेधम् = न [ अव्ययम् ]
- वाक्यांश:
- कर्ता = कार्यम् [ अ. नपुं. प्र. एक. ]
- सम्बन्धिः = तस्य [ द. पुं. ष. एक. ]
- “यः” वाक्यांश:
- सन्धिः
- यस्तु = यः तु – विसर्गः सकारः |
- त्वात्मरतिः = तु आत्मरतिः – यण् सन्धिः |
- आत्मरतिरेव = आत्मरतिः एव – विसर्गः रेफः |
- स्यादात्मतृप्तः = स्यात् आत्मतृप्तः – जश्त्वसन्धिः |
- आत्मतृप्तश्च = आत्मातृप्तः च – विसर्गः सकारः, श्चुत्वसन्धिः |
- आत्मन्येव = आत्मनि एव – यण् सन्धिः |
- समासः
- आत्मरतिः = आत्मनि रतिः यस्य सः – बहुव्रीहिः |
- आत्मतृप्तः = आत्मना तृप्तः – तृतीयातत्पुरुषः |
- कृदन्तः
- तृप्तः = तृप् “तृप तृप्तौ” + क्त (कर्तरि) |
- सन्तुष्टः = सम् + तुष् “तुष प्रीतौ“+ क्त (कर्तरि) |
- तद्धितान्तः
- मानवः = मनु + अण् (अपत्यार्थे) | मनोः अपत्यं पुमान् |
श्लोकः १८
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥
पदच्छेदः
न एव तस्य कृतेन अर्थः न अकृतेन इह कश्चन न च अस्य सर्वभूतेषु कश्चित् अर्थव्यपाश्रयः ॥ १८ ॥
अन्वयः
इह तस्य कृतेन अकृतेन कश्चन अर्थः न (अस्ति) एव । अस्य च सर्वभूतेषु कश्चित् अर्थव्यपाश्रयः न (अस्ति)।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = (अस्ति)
- प्रतिषेधम् = न [ अव्ययम् ]
- अवधारणम् = एव [ अव्ययम् ]
- कर्ता = अर्थः [ अ. पुं. प्र. एक. ]
- कर्तृविशेषणम् = कश्चन [ अव्ययम् ]
- वाक्यांश:
- करणम् = कृतेन [ अ. पुं. तृ. एक. ]
- करणम् = अकृतेन [ अ. पुं. तृ. एक. ]
- सम्बन्धिः = तस्य [ अ. पुं. ष. एक. ]
- समुच्चयम् = च [ अव्ययम् ]
- द्वितीयवाक्यम्
- क्रिया = (अस्ति)
- प्रतिषेधम् = न [ अव्ययम् ]
- वाक्यांश:
- कर्तृविधेयविशेषणम् = अर्थव्यपाश्रयः [ अ. पुं. प्र. एक. ]
- सम्बन्धिः = अस्य [ इदम् म. पुं. ष. एक. ]
- वाक्यांश:
- कर्ता = कश्चित् [ अव्ययम् ]
- निर्धारणम् = सर्वभूतेषु [ अ. नपुं. स. एक. ]
- सन्धिः
- नैव = न एव – वृद्धिः |
- कृतेनार्थः = कृतेन अर्थः – सवर्णदीर्घः |
- अर्थो न = अर्थः न – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः ।
- नाकृतेनेह = न अकृतेन – सवर्णदीर्घः |
- अकृतेनेह = अकृतेन इह – गुणः |
- चास्य = च अस्य – सवर्णदीर्घः |
- कश्चिदर्थव्यपाश्रयः = कश्चित् अर्थव्यपाश्रयः – जश्त्वसन्धिः |
- समासः
- अकृतेन = न कृतम्, तेन – नञ्तत्पुरुषः |
- अर्थव्यपाश्रयः = अर्थाय व्यपाश्रयः – चतुर्थीतत्पुरुषः |
- सर्वभूतेषु = साराणि च तानि भूतानि च, तेषु – कर्मधारयः |
- कृदन्तः
- कृतेन = कृ “डुकृञ् करणे” + क्त (कर्मणि) कृतः, तेन |
श्लोकः १९
तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥ १९ ॥
पदच्छेदः
तस्मात् असक्तः सततं कार्यं कर्म समाचर असक्तः हि आचरन् कर्म परम् आप्नोति पूरुषः ॥ १९ ॥
अन्वयः
तस्मात् असक्तः सततं कार्यं कर्म समाचर । असक्तः हि कर्म आचरन् पूरुषः परम् आप्नोति ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = समाचर [ सम् + आङ् + चर् “चर गतिभक्षणयोः” पर. लोट्. मपु. एक. ]
- कर्म = कर्म [ अ. नपुं. द्वि. एक. ]
- कर्मविशेषणम् = कार्यम् [ अ. नपुं. द्वि. एक. ]
- कालवाचकम् = सततम् [ अव्ययम् ]
- कर्ता = (त्वम्)
- कर्तृविशेषणम् = असक्तः [ अ. पुं. प्र. एक. ]
- हेतुवाचकम् = तस्मात् [ तद् द. नपुं. प. एक. ]
- द्वितीयवाक्यम्
- क्रिया = आप्नोति [ आप् “आप्लृ व्याप्तौ” पर. लट्. प्रपु. एक. ]
- कर्म = परम् [ अ. पुं. द्वि. एक. ]
- कर्ता = पूरुषः [ अ. पुं. प्र. एक. ]
- वाक्यांश:
- क्रियागर्भकर्तृविशेषणम् = आचरन् [ त. पुं. प्र. एक. ]
- कर्म = कर्म [ अ. नपुं. द्वि. एक. ]
- वाक्यांश:
- कर्तृविशेषणम् = असक्तः [ अ. पुं. प्र. एक. ]
- अवधारणम् = हि [ अव्ययम् ]
- सन्धिः
- तस्मादसक्तः = तस्मात् असक्तः – जश्त्वसन्धिः |
- असक्तो हि = असक्तः हि – विसर्गसन्धिः उकारः, गुणः ।
- ह्याचरन् = हि आचरन् – यण् सन्धिः |
- समासः
- असक्तः = न सक्तः – नञ्तत्पुरुषः |
- कृदन्तः
- सक्तः = सञ्ज् “षञ्ज सङ्गे” + क्तः |
- आचरन् = आङ् + चर “चर गतिभक्षणयो:” + शतृ |
श्लोकः २०
कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ २० ॥
पदच्छेदः
कर्मणा एव हि संसिद्धिम् आस्थिताः जनकादयः लोकसङ्ग्रहम् एव अपि सम्पश्यन् कर्तुमर्हसि ॥ २० ॥
अन्वयः
जनकादयः कर्मणा एव हि संसिद्धिम् आस्थिताः । लोकसङ्ग्रहम् अपि सम्पश्यन् (कर्म) कर्तुम् अर्हसि एव ।
पदपरिचय:
- प्रथमवाक्यम्
- वाक्यांश:
- क्रियागर्भकर्तृविधेयविशेषणम् = आस्थिताः [ अ. पुं. प्र. बहु. ]
- अवधारणम् = हि [ अव्ययम् ]
- कर्म = संसिद्धिम् [ इ. स्त्री. द्वि. एक. ]
- हेतुवाचकम् = कर्मणा [ कर्मन् न. नपुं. तृ. एक. ]
- अवधारणम् = एव [ अव्ययम् ]
- कर्ता = जनकादयः [ जनकादि इ. पुं. प्र. बहु. ]
- वाक्यांश:
- द्वितीयवाक्यम्
- क्रिया = अर्हसि [ अर्ह “अर्ह पूजायाम्” पर. लट्. मपु. एक. ]
- अवधारणम् = एव [ अव्ययम् ]
- वाक्यांश:
- उद्देष्यक्रिया = कर्तुम् [ अव्ययम् ]
- कर्म = (कर्म)
- कर्ता = (त्वम्)
- वाक्यांश:
- क्रियागर्भकर्तृविशेषणम् = सम्पश्यन् [ सम्पश्यत् त. पुं. प्र. एक. ]
- कर्म = लोकसङ्ग्रहम् [ अ. पुं. द्वि. एक. ]
- समुच्चयम् = अपि [ अव्ययम् ]
- सन्धिः
- कर्मणैव = कर्मणा एव – वृद्धिः |
- आस्थिता जनकादयः = आस्थिताः जनकादयः – विसर्गः लोपः |
- एवापि = एव अपि – सवर्णदीर्घः |
- समासः
- लोकसंग्रहम् = लोकस्य सङ्ग्रहः – षष्ठीतत्पुरुषः |
- जनकादयः = जनकः आदिः येषां ते – बहुव्रीहिः |
- कृदन्तः
- संसिद्धिम् = सम् + सिध् “षिधु संराद्धौ” +क्तिन् (भावे) | (Note: The affix क्तिन् is used when a word in the feminine gender denoting a ‘mere action’ denoted by the root is to be expressed).
- आस्थिताः = आ + स्था “ष्ठा गतिनिवृत्तौ” + क्त |
- सङ्ग्रहम् = सम् + ग्रह् “ग्रह उपादाने” + अच् (भावे ), सङ्ग्रहः | तम् |
- सम् + दृश् “दृशिर् प्रेक्षणे” + शतृ |
- कर्तुम् = कृ “डुकृञ् करणे” + तुमुन् |
श्लोकः २१
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥
पदच्छेदः
यत् यत् आचरति श्रेष्ठः तत् तत् एव इतरः जनः सः यत् प्रमाणं कुरुते लोकः तत् अनुवर्तते ॥ २१ ॥
अन्वयः
श्रेष्ठः यत् यत् आचरति इतरः जनः तत् तत् एव आचरति । सः यत् प्रमाणं कुरुते लोकः तत् अनुवर्तते ।
पदपरिचय:
- प्रथमवाक्यम्
- “यत्” वाक्यांश:
- क्रिया = आचरति [ आङ् + चर् “चर गतौ” पर. लट्. प्रपु. एक. ]
- कर्म = यत् [ त. नपुं. द्वि. एक. ]
- कर्ता = श्रेष्ठः [ अ. पुं. प्र. एक. ]
- “तत्” वाक्यांश:
- क्रिया = (आचरति)
- कर्म = तत् [ द. नपुं. द्वि. एक. ]
- अवधारणम् = एव [ अव्ययम् ]
- कर्ता = जनः [ अ. पुं. प्र. एक. ]
- कर्तृविशेषणम् = इतरः [ अ. पुं. प्र. एक. ]
- “यत्” वाक्यांश:
- द्वितीयवाक्यम्
- “यत्” वाक्यांश:
- क्रिया = कुरुते [ कृ “डुकृञ् करणे” उभय. अत्र आ. लट्. प्रपु. एक. ]
- कर्म = प्रमाणम् [ अ. पुं. द्वि. एक. ]
- कर्मविशेषणम् = यत् [ द. नपुं. द्वि. एक. ]
- कर्ता = सः [ द. पुं. प्र. एक. ]
- “तत्” वाक्यांश:
- क्रिया = अनुवर्तते [ अनु + वृत् “वृतु वर्तने” आ. लट्. प्रपु. एक. ]
- कर्म = तत् [ द. नपुं. द्वि. एक. ]
- कर्ता = लोकः [ अ. पुं. प्र. एक. ]
- “यत्” वाक्यांश:
- सन्धिः
- यद्यदाचरति = यत् यत् आचरति – जश्त्वः |
- श्रेष्ठस्तत् = श्रेष्ठः तत् – विसर्गः सकारः |
- तदेव = तत् एव – जश्त्वः |
- एवेतरः = एव इतरः – गुणः |
- स यत्प्रमाणम् = सः यत्प्रमाणम् – विसर्गः लोपः |
- इतरो जनः = इतरः जनः – विसर्गः उकारः गुणः |
- लोकस्तत् = लोकः तत् – विसर्गः सकारः |
- तदनुवर्तते = तत् अनुवर्तते – जश्त्वः |
- कृदन्तः
- प्रमाणम् = प्र + मा + ल्युट् (करणे) (Note: The verb form is used as the object. गम् धातोः ल्युट् रूपं गमनम् ) प्रमीयते ज्ञायते अनेन इति प्रमाणम् |
- श्रेष्ठः = प्रशस्य + इष्ठन् (अतिशये) | ( श्र इति आदेशः )
श्लोकः २२
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥
पदच्छेदः
न मे पार्थ अस्ति कर्तव्यं त्रिषु लोकेषु किञ्चन न अनवाप्तम् अवाप्तव्यं वर्ते एव च कर्मणि ॥ २२ ॥
अन्वयः
पार्थ ! त्रिषु लोकेषु मे किञ्चन कर्तव्यं न अस्ति । अनवाप्तम् अवाप्तव्यं च न अस्ति । (तथापि) कर्मणि एव (अहं) वर्ते ।
पदपरिचय:
- सम्बोधनम् = पार्थ! [ अ. पुं. संप्र. एक. ]
- प्रथमवाक्यम्
- क्रिया = अस्ति [ अस् “अस भुवि” पर. लट्. प्रपु. एक. ]
- प्रतिषेधम् = न [ अव्ययम् ]
- वाक्यांश:
- कर्ता = कर्तव्यम् [ अ. नपुं. प्र. एक. ]
- सम्बन्धिः = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
- कर्तृविशेषणम् = किञ्चन [ अव्ययम् ]
- अधिकरणम् = लोकेषु [ अ. पुं. स. बहु. ]
- अधिकरणविशेषणम् = त्रिषु [ अ. पुं. स. बहु. ]
- द्वितीयवाक्यम्
- क्रिया = (अस्ति)
- प्रतिषेधम् = न [ अव्ययम् ]
- समुच्चयम् = च [ अव्ययम् ]
- कर्ता = अनवाप्तम् [ अ. नपुं. प्र. एक. ]
- कर्तृविशेषणम् = अवाप्तव्यम् [ अ. नपुं. प्र. एक. ]
- तृतीयवाक्यम्
- क्रिया = वर्ते [ वृत् “वृतु वर्तने” आ. लट्. उपु. एक. ]
- अधिकरणम् = कर्मणि [ न. नपुं. स. एक. ]
- अवधारणम् = एव [ अव्ययम् ]
- संयोजकम् = (तथापि)
- कर्ता = (अहम्)
- सन्धिः
- पार्थास्ति = पार्थ अस्ति – सवर्णदीर्घः |
- नानवाप्तम् = न अनवाप्तम् – सवर्णदीर्घः |
- वर्त एव = वर्ते एव – अयादेशः, यकारलोपः प्रकृतिभावश्च |
- समासः
- अनवाप्तम् = न अवाप्तम् – नञ्तत्पुरुषः |
- कृदन्तः
- कर्तव्यम् = कृ “डुकृञ् करणे” + तव्यत् (कर्मणि ) |
- अवाप्तम् = अव + आप् “आप्ऌ व्याप्तौ” + क्त (कर्मणि) |
- अवाप्तव्यम् = अव + आप् “आप्ऌ व्याप्तौ” + तव्यत् (कर्मणि ) |
श्लोकः २३
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥
पदच्छेदः
यदि हि अहं न वर्तेयं जातु कर्मणि अतन्द्रितः मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥
अन्वयः
पार्थ ! यदि अहं कर्मणि जातु अतन्द्रितः न वर्तेयम् (तर्हि) सर्वशः मनुष्याः मम वर्त्म अनुवर्तन्ते ।
पदपरिचय:
- सम्बोधनम् = पार्थ! [ अ. पुं. संप्र. एक. ]
- प्रथमवाक्यम्
- “यदि” वाक्यांश:
- क्रिया = वर्तेयम् [ वृत् “वृतु वर्तने” आ. विधिलिङ्. उपु. एक. ]
(उपु. वर्तेय वर्तेवहि वर्तेमहि) अत्र आर्षः | - प्रतिषेधम् = न [ अव्ययम् ]
- वाक्यांश:
- कर्तृविशेषणम् = अतन्द्रितः [ अ. पुं. प्र. एक. ]
- अधिकरणम् = कर्मणि [ न. नपुं. स. एक. ]
- कालवाचकम् = जातु [ अव्ययम् ]
- कर्ता = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
- संयोजकम् = यदि [ अव्ययम् ]
- क्रिया = वर्तेयम् [ वृत् “वृतु वर्तने” आ. विधिलिङ्. उपु. एक. ]
- (तर्हि) वाक्यांश:
- क्रिया = अनुवर्तन्ते [ अनु + वृत् “वृतु वर्तने” आ. लट्. प्रपु. एक. ]
- क्रियाविशेषणम् = सर्वशः [ अव्ययम् ]
- वाक्यांश:
- कर्म = वर्त्म [ न. नपुं. प्र. एक. ]
- सम्बन्धिः = मम [ अस्मद् द. त्रि. ष. एक. ]
- कर्ता = मनुष्याः [ अ. पुं. प्र. बहु. ]
- “यदि” वाक्यांश:
- सन्धिः
- ह्यहम् = हि अहम् – यण् सन्धिः |
- कर्मण्यतन्द्रितः = कर्मणि अतन्द्रितः – यण् सन्धिः |
- वर्त्मानुवर्तन्ते = वर्त्म अनुवर्तन्ते – सवर्णदीर्घः |
- समासः
- अतन्द्रितः = न तन्द्रितः – नञ्तत्पुरुषः |
- तद्धितान्तः
- तन्द्रितः = तन्द्रा + इतच् | (तन्द्रा अस्य सञ्जाता) (Note: The affix इतच्comes in the sense of ‘that whereof this is observed’ after the word in the Nominative 1st-Case in construction. In this case, the person in whom तन्द्रा or जाड्यम् is observed)
- सर्वशः = सर्व + शस् (स्वार्थे)
श्लोकः २४
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥
पदच्छेदः
उत्सीदेयुः इमे लोकाः न कुर्यां कर्म चेत् अहम् सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥ २४ ॥
अन्वयः
अहं कर्म न कुर्यां चेत् (तर्हि) इमे लोकाः उत्सीदेयुः । सङ्करस्य च कर्ता स्याम् । इमाः प्रजाः उपहन्याम् ।
पदपरिचय:
- प्रथमवाक्यम्
- “चेत्” वाक्यांश:
- क्रिया = कुर्याम् [ कृ “डुकृञ् करणे” उभय. अत्र पर. विधिलिङ्. उपु. एक. ]
- प्रतिषेधम् = न [ अव्ययम् ]
- कर्म = कर्म [ न. नपुं. द्वि. एक. ]
- कर्ता = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
- संयोजकम् = चेत् [ अव्ययम् ]
- (तर्हि) वाक्यांश:
- क्रिया = उत्सीदेयुः [ उत् + सद् “षद्लृ विशरणगत्यवसादनेषु” पर. विधिलिङ्. प्रपु. बहु. ]
- कर्ता = लोकाः [ अ. पुं. प्र. बहु. ]
- कर्तृविशेषणम् = इमे [ इदम् म. पुं. प्र. एक. ] (प्र. अयम् इमौ इमे )
- “चेत्” वाक्यांश:
- द्वितीयवाक्यम्
- क्रिया = स्याम् [ अस् “अस भुवि” पर. विधिलिङ्ग. उपु. एक. ]
- वाक्यांश:
- कर्ता = कर्ता [ ऋ. पुं. प्र. एक. ]
- सम्बन्धिः = सङ्करस्य [ अ. पुं. ष. एक. ]
- कर्ता = (अहम्)
- समुच्चयम् = च [ अव्ययम् ]
- तृतीयवाक्यम्
- क्रिया = उपहन्याम् [ उप + हन् “हन हिंसागत्यो:” पर. विधिलिङ्. उपु. एक. ]
- कर्म = प्रजाः [ आ. स्त्री. द्वि. बहु. ]
- कर्मविशेषणम् = इमाः [ म. स्त्री. द्वि. बहु. ] ( प्र. इयम् इमे इमाः )
- कर्ता = (अहम्)
- सन्धिः
- उत्सीदेयुरिमे = उत्सीदेयुः इमे – विसर्गः रेफः |
- लोका न = लोकाः न – विसर्गः लोपः |
- चेदहम् = चेत् अहम् – जश्त्वः |
- कृदन्तः
- सङ्करस्य = सम् + कृ “डुकृञ् करणे” + अच् (भावे) सङ्करः, तस्य |
- कर्ता = कृ “डुकृञ् करणे” + तृच् (कर्तरि) |
श्लोकः २५
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तः चिकिर्षुर्लोकसङ्ग्रहम् ॥ २५ ॥
पदच्छेदः
सक्ताः कर्मणि अविद्वांसः यथा कुर्वन्ति भारत कुर्यात् विद्वान् तथा असक्तः चिकिर्षुः लोकसङ्ग्रहम् ॥ २५ ॥
अन्वयः
भारत ! अविद्वांसः कर्मणि सक्ताः यथा कुर्वन्ति तथा विद्वान् असक्तः लोकसङ्ग्रहं चिकीर्षुः (कर्म) कुर्यात् ।
पदपरिचय:
- सम्बोधनम् = भारत [ अ. पुं. संप्र. एक. ]
- प्रथमवाक्यम्
- “यथा” वाक्यांश:
- क्रिया = कुर्वन्ति [ कृ “डुकृञ् करणे” उभय. अत्र पर. लट्. प्रपु. बहु. ]
- कर्म = (कर्म)
- कर्ता = अविद्वांसः [ स. पुं. प्र. बहु. ]
- वाक्यांश:
- क्रियागर्भकर्तृविशेषणम् = सक्ताः [ अ. पुं. प्र. बहु. ]
- अधिकरणम् = कर्मणि [ न. नपुं. स. एक. ]
- संयोजकम् = यथा [ अव्ययम् ]
- “तथा” वाक्यांश:
- क्रिया = कुर्यात् [ कृ “डुकृञ् करणे” उभय. अत्र पर. विधिलिङ्. प्रपु. एक. ]
- कर्म = (कर्म)
- कर्ता = विद्वान् [ विद्वस् स. पुं. प्र. एक. ]
- कर्तृविशेषणम् = असक्तः [ अ. पुं. प्र. एक. ]
- वाक्यांश:
- क्रियागर्भकर्तृविशेषणम् = चिकीर्षुः [ उ. पुं. प्र. एक. ]
- कर्म = लोकसङ्ग्रहम् [ अ. पुं. द्वि. एक. ]
- संयोजकम् = तथा [ अव्ययम् ]
- “यथा” वाक्यांश:
- सन्धिः
- कर्मण्यविद्वांसः = कर्मणि अविद्वांसः – यण् सन्धिः |
- अविद्वांसो यथा = अविद्वांसः यथा – विसर्गः उकारः, गुणः |
- कुर्याद्विद्वान् = कुर्यात् विद्वान् – जश्त्वः |
- विद्वांस्तथा = विद्वान् तथा – रुत्वम्, अनुस्वारागमः, विसर्गः सत्वं च |
- तथासक्तः = तथा असक्तः – सवर्णदीर्घः |
- चिकिर्षुर्लोकसङ्ग्रहम् = चिकिर्षुः लोकसङ्ग्रहम् – विसर्गः रेफः |
- समासः
- लोकसङ्ग्रहः = लोकस्य सङ्ग्रहः – षष्ठीतत्पुरुषः, तम् ।
- कृदन्तः
- विद्वान् = विद् + शतृ (कर्तरि) |
- सक्तः = सञ्ज् “षञ्ज सङ्गे” + क्त प्रत्यय: (कर्तरि) ।
- सन्नन्तः
- चिकीर्षुः = कृ “डुकृञ् करणे” + सन् + उ (कर्तरि) | कर्तुम् इच्छुः |
श्लोकः २६
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥
पदच्छेदः
न बुद्धिभेदं जनयेत् अज्ञानां कर्मसङ्गिनाम् जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥ २६ ॥
अन्वयः
(विद्वान्) कर्मसङ्गिनाम् अज्ञानां बुद्धिभेदं न जनयेत् । युक्तः (कर्म) समाचरन् विद्वान् सर्वकर्माणि जोषयेत् ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = जनयेत् [जन् “जनी प्रादुर्भावे” + णिच्, आत्. विधिलिङ्. प्रपु. एक. ]
- प्रतिषेधम् = न [ अव्ययम् ]
- वाक्यांश:
- णिजन्तप्रयोज्यकर्तृसूचककर्म = बुद्धिभेदम् [ अ. पुं. द्वि. एक. ]
- सम्बन्धिः = अज्ञानाम् [ अ. नपुं. ष. बहु. ]
- सम्बन्धिविशेषणम् = कर्मसङ्गिनाम् [ न. पुं. ष. बहु. ]
- णिजन्तप्रयोजककर्ता = (विद्वान्)
- द्वितीयवाक्यम्
- क्रिया = जोषयेत् [ जुष् “जुषी प्रीतिसेवनयोः” + णिच्, उभय (अत्र) पर. विधिलिङ्. प्रपु. एक. ]
- णिजन्तप्रयोज्यकर्तृसूचककर्म = सर्वकर्माणि [ अ. नपुं. द्वि. बहु. ]
- णिजन्तप्रयोजककर्ता = विद्वान् [ विद्वस् स. पुं. प्र. एक. ]
- कर्तृविशेषणम् = युक्तः [ अ. पुं. प्र. एक. ]
- वाक्यांश:
- क्रियागर्भकर्तृविशेषणम् = समाचरन् [ त. पुं. प्र. एक. ]
- कर्म = (कर्म)
- सन्धिः
- जनयेदज्ञानाम् = जनयेत् अज्ञानाम् – जश्त्वः |
- समासः
- बुद्धिभेदम् = बुद्धेः भेदः, तम् – षष्ठीतत्पुरुषः |
- कर्मसङ्गिनाम्
- कर्मसङ्गः = कर्मणि सङ्गः – सप्तमीतत्पुरुषः |
- कर्मसङ्गिनः = कर्मसङ्गः एषाम् एषु वा अस्तीति (मतुबर्थे इनिपर्ययः), तेषाम् |
- अज्ञानाम् – जानन्ति इति ज्ञाः | न ज्ञाः अज्ञाः, तेषाम् – नञ्बहुव्रीहिः |
- सर्वकर्माणि – सर्वाणि कर्माणि – कर्मधारयः |
- कृदन्तः
श्लोकः २७
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ २७॥
पदच्छेदः
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः अहङ्कारविमूढात्मा कर्ता अहम् इति मन्यते ॥ २७ ॥
अन्वयः
कर्माणि प्रकृतेः गुणैः सर्वशः क्रियमाणानि (भवन्ति)| अहङ्कारविमूढात्मा कर्ता अहम् इति मन्यते ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = (भवन्ति)
- वाक्यांश:
- क्रियागर्भकर्तृविधेयविशेषणम् = क्रियमाणानि [ अ. नपुं. प्र. बहु. ]
- क्रियाविशेषणम् = सर्वशः [ अव्ययम् ]
- वाक्यांश:
- करणम् = गुणैः [ अ. पुं. तृ. बहु. ]
- सम्बन्धिः = प्रकृतेः [ इ. स्त्री. ष. एक. ]
- कर्ता = कर्माणि [ न. नपुं. प्र. बहु. ]
- द्वितीयवाक्यम्
- क्रिया = मन्यते [ मन् “मन ज्ञाने”, आ. लट्. प्रपु. एक. ]
- कर्मवाक्यम्
- क्रिया = (अस्मि)
- कर्तृविधेयविशेषणम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
- कर्ता = कर्ता [ ऋ. पुं. प्र. एक. ]
- संयोजकम् = इति [ अव्ययम् ]
- कर्ता = अहङ्कारविमूढात्मा [ न. पुं. प्र. एक. ]
- सन्धिः
- कर्ताहम् = कर्ता अहम् – सवर्णदीर्घः |
- समासः
- अहङ्कारविमूढात्मा
- अहङ्कारविमूढः = अहङ्कारेन विमूढः – तृतीयातत्पुरुषः |
- अहङ्कारविमूढात्मा = अहङ्कारविमूढः आत्मा यस्य सः – बहुव्रीहिः |
- अहङ्कारविमूढात्मा
- कृदन्तः
- प्रकृतेः = प्र + कृ “डुकृञ् करणे” + क्तिन् (कर्तरि) प्रकृतिः, तस्याः
- क्रियमाणानि = कृ “डुकृञ् करणे” + शानच् (कर्मणि)
- तद्धितान्तः
- सर्वशः = सर्व + शस् (प्रकारार्थे) |
श्लोकः २८
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥
पदच्छेदः
तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते ॥ २८ ॥
अन्वयः
महाबाहो ! गुणकर्मविभागयोः तत्त्ववित् तु गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते ।
पदपरिचय:
- सम्बोधनम् = महाबाहो! [ उ. पुं. संप्र. एक. ]
- प्रथमवाक्यम्
- क्रिया = सज्जते [ सज्ज “षस्ज् गतौ” उभय. अत्र आ. लट्. प्रपु. एक. ]
- प्रतिषेधम् = न [ अव्ययम् ]
- वाक्यांश:
- प्राक्कालिकक्रिया = मत्वा [ अव्ययम् ]
- कर्म-वाक्यम्
- क्रिया = वर्तन्ते [ वृत् “वृतु वर्तने” आ. लट्. प्रपु. बहु. ]
- कर्ता = गुणाः [ अ. पुं. प्र. बहु. ]
- अधिकरणम् = गुणेषु [ अ. पुं. स. बहु. ]
- संयोजकम् = इति [ अव्ययम् ]
- वाक्यांश:
- कर्ता = तत्त्ववित् [ द. पुं. प्र. एक. ]
- अवधारणम् = तु [ अव्ययम् ]
- सम्बन्धिः = गुणकर्मविभागयोः [ अ. पुं. ष. द्वि. ]
- सन्धिः
- गुणा गुणेषु = गुणाः गुणेषु – विसर्गः लोपः |
- वर्तन्त इति = वर्तन्ते इति – यान्तावान्तादेशः, यलोपः |
- समासः
- गुणकर्मविभागयोः
- गुणकर्मणी = गुणः च कर्म च – द्वन्द्वः |
- गुणकर्मविभागः = गुणकर्मणोः विभागः – षष्ठीतत्पुरुषः | तयोः |
- तत्त्ववित् = तत्त्वं वेत्ति इति – कर्तरि क्विप् उपपदसमासश्च |
- गुणकर्मविभागयोः
- कृदन्तः
- मत्वा = मन् “मन ज्ञाने” + क्त्वा
श्लोकः २९
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ २९ ॥
पदच्छेदः
प्रकृतेः गुणसम्मूढाः सज्जन्ते गुणकर्मसु तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत् ॥ २९ ॥
अन्वयः
प्रकृतेः गुणसम्मूढाः गुणकर्मसु सज्जन्ते । अकृत्स्नविदः मन्दान् तान् कृत्स्नवित् न विचालयेत् ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = सज्जन्ते [ सज्ज “षस्ज् गतौ” उभय. अत्र आ. लट्. प्रपु. बहु. ]
- अधिकरणम् = गुणकर्मसु [ न. नपुं. स. बहु. ]
- वाक्यांश:
- कर्ता = गुणसम्मूढाः [ अ. पुं. प्र. बहु. ]
- सम्बन्धिः = प्रकृतेः [ इ. स्त्री. ष. एक. ]
- द्वितीयवाक्यम्
- क्रिया = विचालयेत् [ वि + चल् “चल कम्पने” + णिञ् पर. विधिलिङ्. प्रपु. एक. ]
- प्रतिषेधम् = न [ अव्ययम् ]
- णिजन्तप्रयोजककर्ता = कृत्स्नवित् [ द. पुं. प्र. एक. ]
- वाक्यांश:
- णिजन्तप्रयोज्यकर्तृसूचककर्म = तान् [ द. पुं. द्वि. बहु. ]
- कर्मविशेषणम् = अकृत्स्नविदः [ द. पुं. द्वि. बहु. ]
- कर्मविशेषणम् = मन्दान् [ अ. पुं. द्वि. बहु. ]
- सन्धिः
- प्रकृतेर्गुणसम्मूढाः = प्रकृतेः गुणसम्मूढाः – विसर्गः रेफः |
- अकृत्स्नविदो मन्दान् = अकृत्स्नविदः मन्दान् – विसर्गः उकारः, गुणः |
- कृत्स्नविन्न = कृत्स्नवित् न – परसवर्णः |
- समासः
- गुणसम्मूढाः = गुणैः सम्मूढाः – तृतीयातत्पुरुषः |
- गुणकर्मसु
- गुणानां कर्माणि गुणकर्माणि – षष्ठीतत्पुरुषः । तेषु |
- गुणाः कर्माणि च गुणकर्माणि – द्वन्द्वः । तेषु |
- अकृत्स्नवित्
- कृत्स्नं वेत्ति कृत्स्नवित् – कर्तरि क्विप् उपपदसमासश्च ।
- न कृस्त्नवित् – नञ्तत्पुरुषः |
- कृदन्तः
- प्रकृतिः = प्र + कृ “डुकृञ् करणे” + क्तिन् (कर्तरि) |
- सम्मूढाः = सम् + मुह् “मुह वैचित्त्ये” + क्त | (कर्तरि)
श्लोकः ३०
मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३० ॥
पदच्छेदः
मयि सर्वाणि कर्माणि सन्न्यस्य अध्यात्मचेतसा निराशीः निर्ममः भूत्वा युध्यस्व विगतज्वरः ॥ ३० ॥
अन्वयः
अध्यात्मचेतसा सर्वाणि कर्माणि मयि सन्न्यस्य निराशीः निर्ममः विगतज्वरः भूत्वा युध्यस्व ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = युध्यस्व [ युज् “युजिर् योगे” आ. लोट्. मपु. एक. ]
- वाक्यांश:
- प्राक्कालिकक्रिया = सन्न्यस्य [ अव्ययम् ]
- अधिकरणम् = मयि [ अस्मद् द. त्रि. स. एक. ]
- कर्म = कर्माणि [ न. नपुं. द्वि. बहु. ]
- कर्मविशेषणम् = सर्वाणि [ अ. नपुं. द्वि. बहु. ]
- करणम् = अध्यात्मचेतसा [ स. नपुं. तृ. एक. ]
- वाक्यांश:
- प्राक्कालिकक्रिया = भूत्वा [ अव्ययम् ]
- कर्तृविधेयविशेषणम् = विगतज्वरः [ अ. पुं. प्र. एक. ]
- कर्तृविधेयविशेषणम् = निर्ममः [ अ. पुं. प्र. एक. ]
- कर्तृविधेयविशेषणम् = निराशीः [ स. पुं. प्र. एक. ]
- कर्ता = (त्वम्)
- सन्धिः
- संन्यस्याध्यात्मचेतसा = संन्यस्य अध्यात्मचेतसा – सवर्णदीर्घः |
- निराशीर्निर्ममः = निराशीः निर्ममः – विसर्गः रेफः |
- निर्ममो भूत्वा = निर्ममः भूत्वा – विसर्गः उकारः, गुणः |
- समासः
- अध्यात्मचेतसा
- आत्मनि इति अध्यात्मम् – अव्ययीभावः |
- अध्यात्मनि चेतः अध्यात्मचेतः – सप्तमीतत्पुरुषः | तेन |
- वेगतज्वरः = विगतः ज्वरः यस्मात् सः – बहुव्रीहिः |
- निराशीः = निर्गता आशीः यस्मात् सः – बहुव्रीहिः |
- अध्यात्मचेतसा
- कृदन्तः
- सन्न्यस्य = सम् + नि + अस् “अस भुवि” + ल्यप्
- भूत्वा = भू “भू सत्तायाम्” + क्त्वा
श्लोकः ३१
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३१ ॥
पदच्छेदः
ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः श्रद्धावन्तः अनसूयन्तः मुच्यन्ते ते अपि कर्मभिः ॥ ३१ ॥
अन्वयः
ये मानवाः मे इदं मतं नित्यम् अनुतिष्ठन्ति, अनसूयन्तः श्रद्धावन्तः ते अपि कर्मभिः मुच्यन्ते ।
पदपरिचय:
- प्रथमवाक्यम्
- “ये” वाक्यांश:
- क्रिया = अनुतिष्ठन्ति [ अनु + स्था “ष्ठा गतिनिवृत्तौ” पर. लट्. प्रपु. बहु. ]
- क्रियाविशेषणम् = नित्यम् [ अव्ययम् ]
- वाक्यांश:
- कर्म = मतम् [ अ. नपुं. द्वि. एक. ]
- कर्मविशेषणम् = इदम् [ म. नपुं. द्वि. एक. ]
- सम्बन्धिः = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
- कर्ता = ये [ द. पुं. प्र. बहु. ]
- कर्तृविशेषणम् = मानवाः [ अ. पुं. प्र. बहु. ]
- “ते” वाक्यांश:
- क्रिया = मुच्यन्ते [ मुच् “मुचॢ मोक्षणे” (उभय) आ. कर्मणि लट्. प्रपु. बहु. ]
- (कर्मणि) कर्म = ते [ तद् द. पुं. प्र. बहु. ]
- अवधारणम् = अपि [ अव्ययम् ]
- (कर्मणि) कर्मविशेषणम् = अनसूयन्तः [ त. पुं. प्र. बहु. ]
- (कर्मणि) कर्मविशेषणम् = श्रद्धावन्तः [ त. पुं. प्र. बहु. ]
- (कर्मणि) कर्ता = कर्मभिः [ न. नपुं. तृ. बहु. ]
- “ये” वाक्यांश:
- सन्धिः
- श्रद्धावन्तोऽनसूयन्तः = श्रद्धावन्तः अनसूयन्तः – विसर्गसन्धि: उकार:, गुण:, पूर्वरूपं च ।
- अनसूयन्तो मुच्यन्ते = अनसूयन्तः मुच्यन्ते – विसर्गसन्धि: उकार:, गुण: |
- तेऽपि = ते अपि – पूर्वरूपम् ।
- समासः
- अनसूयन्तः = न असूयन्तः – नञ्तत्पुरुषः |
- कृदन्तः
- असूयन्तः = असूय + शतृ (कर्तरि) | Note: The dhatu असूय is derived from असु “असु उपतापे” + यक् प्रत्यय by 3|1|27 कण्ड्वादिभ्यो यक्. Such dhatus are called आतिदेशिकधातव: | In this particular case the meaning remains unchanged.
- तद्धितान्तः
- श्रद्धावन्तः = श्रद्धा + मतुप् | श्रद्धा एषाम् एषु वा अस्ति |
श्लोकः ३२
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३२ ॥
पदच्छेदः
ये तु एतत् अभ्यसूयन्तः न अनुतिष्ठन्ति मे मतम् सर्वज्ञानविमूढान् तान् विद्धि नष्टान् अचेतसः ॥ ३२ ॥
अन्वयः
ये तु अभ्यसूयन्तः मे एतत् मतं न अनुतिष्ठन्ति सर्वज्ञानविमूढान् अचेतसः तान् नष्टान् विद्धि ।
पदपरिचय:
- प्रथमवाक्यम्
- “ये” वाक्यांश:
- क्रिया = अनुतिष्ठन्ति [ अनु + स्था “ष्ठा गतिनिवृत्तौ” पर. लट्. प्रपु. बहु. ]
- प्रतिषेधम् = न [ अव्ययम् ]
- वाक्यांश:
- कर्म = मतम् [ अ. नपुं. द्वि. एक. ]
- कर्मविशेषणम् = एतत् [ द. नपुं. द्वि. एक. ]
- सम्बन्धिः = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
- कर्ता = अभ्यसूयन्तः [ त. पुं. प्र. बहु. ]
- कर्तृविशेषणम् = ये [ द. पुं. प्र. बहु. ]
- कर्तृविधेयविशेषणम् = तु [ अव्ययम् ]
- “तान्” वाक्यांश:
- क्रिया = विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
- कर्मविधेयविशेषणम् = नष्टान् [ अ. पुं. द्वि. बहु. ]
- कर्म = तान् [ द. पुं. द्वि. बहु. ]
- कर्मविशेषणम् = सर्वज्ञानविमूढान् [ अ. पुं. द्वि. बहु. ]
- कर्मविशेषणम् = अचेतसः [ स. पुं. द्वि. बहु. ]
- कर्ता = (त्वम्)
- “ये” वाक्यांश:
- सन्धिः
- त्वेतत् = तु एतत् – यण् सन्धिः |
- एतदभ्यसूयन्तः= एतत् अभ्यसूयन्तः – जश्त्वः
- अभ्यसूयन्तो न = अभ्यसूयन्तः न – विसर्गः उकारः, गुणः |
- नानुतिष्ठन्ति = न अनुतिष्ठन्ति – सवर्णदीर्घः |
- सर्वज्ञानविमूढांस्तान् = सर्वज्ञानविमूढान् तान् – रुत्वम्, अनुस्वारागमः, विसर्गः सत्वं च |
- समासः
- सर्वज्ञानविमूढान्
- सर्वाणि ज्ञानानि सर्वज्ञानानि – कर्मधारयः |
- सर्वज्ञानेषु विमूढाः – सप्तमीतत्पुरुषः | तान् |
- अचेतसः = नास्ति चेतः येषां ते – बहुव्रीहिः |
- सर्वज्ञानविमूढान्
- कृदन्तः
- अभ्यसूयन्तः = अभि + असू + शतृ (कर्तरि) |
- नष्टान् = नश् “णश् अदर्शने“ + क्त (कर्तरि) नष्टः | तान् |
श्लोकः ३३
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥
पदच्छेदः
सदृशं चेष्टते स्वस्याः प्रकृतेः ज्ञानवान् अपि प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥
अन्वयः
ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशं चेष्टते । भूतानि प्रकृतिं यान्ति । निग्रहः किं करिष्यति ?
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = चेष्टते [ चेष्ट “चेष्ट चेष्टायाम्” आ. लट्. प्रपु. एक. ]
- वाक्यांश:
- क्रियाविशेषणम् = सदृशम् [अव्ययम् ]
- सम्बन्धिः = प्रकृतेः [ इ. स्त्री. ष. एक. ]
- सम्बन्धिपदसम्बन्धिः = स्वस्याः [ स्वा आ. स्त्री. ष. एक. ] (Note: प्रथमा — स्वा स्वे स्वाः | षष्ठी — स्वस्याः स्वयोः स्वासाम्)
- कर्ता = ज्ञानवान् [ त. पुं. प्र. एक. ]
- अवधारणम् = अपि [ अव्ययम् ]
- द्वितीयवाक्यम्
- क्रिया = यान्ति [ या “या प्रापणे” पर. लट्. प्रपु. बहु. ]
- कर्म = प्रकृतिम् [ इ. स्त्री. द्वि. एक. ]
- कर्ता = भूतानि [ अ. नपुं. प्र. बहु. ]
- तृतीयवाक्यम्
- क्रिया = करिष्यति [ कृ “डुकृञ् करणे” उभय. अत्र पर. लृट्. प्रपु. एक. ]
- प्रश्नवाचककर्म = किम् [ म. नपुं. द्वि. एक. ]
- कर्ता = निग्रहः [ अ. पुं. प्र. एक. ]
- सन्धिः
- प्रकृतेर्ज्ञानवान् = प्रकृतेः ज्ञानवान् – विसर्गः रेफः |
- तद्धितः
- ज्ञानवान् = ज्ञान + मतुप् | ज्ञानम् अस्य अस्मिन् वा अस्ति |
श्लोकः ३४
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥
पदच्छेदः
इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ तयोः न वशमागच्छेत् तौ हि अस्य परिपन्थिनौ ॥ ३४ ॥
अन्वयः
इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ । तयोः वशं न आगच्छेत् । तौ हि अस्य परिपन्थिनौ ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = (स्तः)
- वाक्यांश:
- क्रियागर्भकर्तृविधेयविशेषणम् = व्यवस्थितौ [ अ. पुं. प्र. द्वि. ]
- वाक्यांश:
- अधिकरणम् = अर्थे [ अ. पुं. स. एक. ]
- सम्बन्धिः = इन्द्रियस्य इन्द्रियस्य (सर्वेषामपि इन्द्रियाणाम् इत्यर्थः ) [ अ. नपुं. ष. एक. ]
- कर्ता = रागद्वेषौ [ अ. पुं. प्र. द्वि. ]
- द्वितीयवाक्यम्
- क्रिया = आगच्छेत् [ आङ् + गम् “गम्ऌ गतौ” पर. लोट्. प्रपु. एक. ]
- प्रतिषेधम् = न [ अव्ययम् ]
- वाक्यांश:
- कर्म = वशम् [ अ. पुं. द्वि. एक. ]
- सम्बन्धिः = तयोः [ द. पुं. ष. द्वि. ]
- कर्ता = (सः)
- तृतीयवाक्यम्
- क्रिया = (स्तः)
- वाक्यांश:
- कर्तृविधेयविशेषणम् = परिपन्थिनौ [ अ. पुं. प्र. द्वि. ]
- सम्बन्धिः = अस्य [ इदम् म. पुं. ष. एक. ]
- कर्ता = तौ [ द. पुं. प्र. द्वि. ]
- अवधारणम् = हि [ अव्ययम् ]
- सन्धिः
- इन्द्रियस्येन्द्रियस्य = इन्द्रियस्य इन्द्रियस्य – गुणः |
- इन्द्रियस्यार्थे = इन्द्रियस्य अर्थे – सवर्णदीर्घः |
- तयोर्न = तयोः न – विसर्गः रेफः |
- ह्यस्य = हि अस्य – यण् सन्धिः |
- समासः
- रागद्वेषौ = रागश्च द्वेषश्च – द्वन्द्वः |
- कृदन्तः
- व्यवस्थितौ = वि + अव + स्था “ष्ठा गतिनिवृत्तौ” + क्त (कर्तरि) |
श्लोकः ३५
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥
पदच्छेदः
श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात् स्वधर्मे निधनं श्रेयः परधर्मः भयावहः ॥ ३५ ॥
अन्वयः
स्वनुष्ठितात् परधर्मात् विगुणः स्वधर्मः श्रेयान् । स्वधर्मे निधनं श्रेयः । परधर्मः भयावहः ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = (भवति)
- कर्तृविधेयविशेषणम् = श्रेयान् [ श्रेयस् स. पुं. प्र. एक ] (श्रेयान् श्रेयांसौ श्रेयांसः)
- कर्ता = स्वधर्मः [ अ. पुं. प्र. एक. ]
- कर्तृविशेषणम् = विगुणः [ अ. पुं. प्र. एक. ]
- अपादानम् = परधर्मात् [ अ. पुं. प. एक. ]
- अपादानविशेषणम् = स्वनुष्ठितात् [ अ. पुं. प. एक. ]
- द्वितीयवाक्यम्
- क्रिया = (भवति)
- कर्तृविधेयविशेषणम् = श्रेयः [ श्रेयस् स. नपुं. प्र. एक ] (श्रेयः श्रेयसी श्रेयांसि)
- वाक्यांश:
- कर्ता = निधनम् [ अ. नपुं. प्र. एक. ]
- अधिकरणम् = स्वधर्मे [ अ. पुं. स. एक. ]
- तृतीयवाक्यम्
- क्रिया = (भवति)
- कर्तृविधेयविशेषणम् = भयावहः [ अ. पुं. प्र. एक. ]
- कर्ता = परधर्मः [ अ. पुं. प्र. एक. ]
- सन्धिः
- स्वधर्मो विगुणः = स्वधर्मः विगुणः – विसर्गः उकारः, गुणः |
- परधर्मो भयावहः = परधर्मः भयावहः – विसर्गः उकारः, गुणः |
- तद्धितान्तः
- श्रेयान् = प्रशस् / वृद्ध + इयसून् (श्र इति आदेशः ) |
श्लोकः ३६
अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३६ ॥
पदच्छेदः
अथ केन प्रयुक्तः अयं पापं चरति पूरुषः अनिच्छन् अपि वार्ष्णेय बलात् इव नियोजितः ॥ ३६ ॥
अन्वयः
वार्ष्णेय ! अथ केन प्रयुक्तः अनिच्छन् अपि बलात् नियोजितः इव अयं पूरुषः पापं चरति ?
पदपरिचय:
- सम्बोधनम् = वार्ष्णेय! [ अ. पुं. संप्र. एक. ]
- प्रथमवाक्यम्
- क्रिया = चरति [ चर “चर गतिभक्षणयो:” पर. लट्. प्रपु. एक. ]
- कर्म = पापम् [ अ. नपुं. द्वि. एक. ]
- कर्ता = पूरुषः [ अ. पुं. प्र. एक. ]
- कर्तृविशेषणम् = अयम् [ इदम् म. पुं. प्र. एक. ]
- वाक्यांश:
- क्रियागर्भकर्तृविशेषणम् = नियोजितः [ अ. पुं. प्र. एक. ]
- हेतुवाचकम् = बलात् [ अ. नपुं. प. एक. ]
- उपमावाचकम् = इव [ अव्ययम् ]
- वाक्यांश:
- कर्तृविशेषणम् = अनिच्छन् [ त. पुं. प्र. एक. ]
- अवधारणम् = अपि [ अव्ययम् ]
- वाक्यांश:
- (कर्मणि) कृयागर्भकर्तृविशेषणम् = प्रयुक्तः [ अ. पुं. प्र. एक. ]
- (कर्मणि) प्रश्नवाचककर्ता = केन [ किम् म. नपुं. तृ. एक. ]
- संयोजकम् = अथ [ अव्ययम् ]
- सन्धिः
- प्रयुक्तोऽयम् = प्रयुक्तः अयम् – विसर्गसन्धि: (सकार:) रेफ:, उकार:, गुण:, पूर्वरूपं च ।
- अनिच्छन्नपि = अनिच्छन् अपि – ङमुडागमसन्धिः |
- बलादिव = बलात् इव – जश्त्वः |
- कृदन्तः
- प्रयुक्तः = प्र + युज् “युजिर् योगे” + क्त (कर्मणि) |
- इच्छन् = इष् “इषु इच्छायाम्” + शतृ (कर्तरि ) |
- नियोजितः = नि + युज् “युजिर् योगे” + क्त (कर्मणि) |
- तद्धितान्तः
- वार्ष्णेय = वृष्णि + ञ्यङ् (अपत्यार्थे ), तत्सम्बुद्धौ |
श्लोकः ३७
श्रीभगवानुवाच
काम एष क्रोध एष रजोगुणसमुवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥
पदच्छेदः
कामः एषः क्रोधः एषः रजोगुणसमुवः महाशनः महापाप्मा विद्धि एनम् इह वैरिणम् ॥ ३७ ॥
अन्वयः
एषः कामः एषः क्रोधः रजोगुणसमुवः महाशनः महापाप्मा च अस्ति । (अतः) इह एनं वैरिणं विद्धि ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = (अस्ति)
- कर्ता = कामः [ अ. पुं. प्र. एक. ]
- कर्तृविशेषणम् = एषः [ एतद् द. पुं. प्र. एक. ]
- समुच्चयवाक्याम्
- क्रिया = (अस्ति)
- कर्तृविधेयविशेषणम् = महाशनः [ अ. पुं. प्र. एक. ]
- कर्तृविधेयविशेषणम् = महापाप्मा [ न. पुं. प्र. एक. ]
- समुच्चयम् = च [ अव्ययम् ]
- कर्ता = क्रोधः [ अ. पुं. प्र. एक. ]
- कर्तृविशेषणम् = एषः [ एतद् द. पुं. प्र. एक. ]
- कर्तृविशेषणम् = रजोगुणसमुवः [ अ. पुं. प्र. एक. ]
- द्वितीयवाक्यम्
- क्रिया = विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
- कर्मविधेयविशेषणम् = वैरिणम् [ अ. पुं. द्वि. एक. ]
- कर्म = एनम् (इमम्) [ इदम् म. पुं. द्वि. एक. ]
- स्थानवाचकपदम् = इह [ अव्ययम् ]
- कर्ता = (त्वम्)
- सन्धिः
- काम एषः = कामः एषः – विसर्गः लोपः |
- एष क्रोधः = एषः क्रोधः – विसर्गः लोपः |
- क्रोध एषः = क्रोधः एषः – विसर्गः लोपः |
- एष रजोगुणसमुवः = एषः रजोगुणसमुवः – विसर्गः लोपः |
- महाशनो महापाप्मा = महाशनः महापाप्मा – विसर्गः उकारः, गुणः |
- विद्ध्येनम् = विद्धि एनम् – यण् सन्धिः |
- समासः
- रजोगुणसमुवः = रजोगुणात् समुद्भवः – पञ्चमीतत्पुरुषः |
- रजोगुणसमुवः
- रजोगुणः = रजः च तद्गुणः च – कर्मधारयः |
- रजोगुणसमुद्भवः = रजोगुणः समुद्भवः यस्य सः– बहुव्रीहिः |
- महाशनः = महत् अशनं यस्य सः – बहुव्रीहिः |
- महापाप्मा = महत् पाप्म यस्मिन् सः – बहुव्रीहिः |
- तद्धितान्तः
- वैरी = वैर + इनि (मतुबर्थे) वैरम् अस्य अस्मिन् वा अस्ति |
श्लोकः ३८
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३८ ॥
पदच्छेदः
धूमेन आव्रियते वह्निः यथादर्शः मलेन च यथा उल्बेन आवृतः गर्भः तथा तेन इदम् आवृतम् ॥ ३८ ॥
अन्वयः
यथा धूमेन वह्निः आव्रियते, यथा मलेन आदर्शः, यथा उल्बेन च गर्भः तथा इदं (ज्ञानम्) तेन आवृतम् ।
पदपरिचय:
- प्रथमवाक्यम्
- “यथा” वाक्यांश:
- (कर्मणि) क्रिया = आव्रियते [ आङ् + वृ “वृञ् आवरणे“ उभय अत्र आत्. कर्मणि लट्. प्रपु. एक. ]
- (कर्मणि) कर्म = वह्निः [ इ. पुं. प्र. एक. ]
- (कर्मणि) कर्ता = धूमेन [ अ. पुं. तृ. एक. ]
- संयोजकम् = यथा [ अव्ययम् ]
- “यथा” वाक्यांश:
- (कर्मणि) क्रिया = (आव्रियते)
- (कर्मणि) कर्म = आदर्शः [ अ. पुं. प्र. एक. ]
- (कर्मणि) कर्ता = मलेन [ अ. नपुं. तृ. एक. ]
- संयोजकम् = यथा [ अव्ययम् ]
- “यथा” वाक्यांश:
- (कर्मणि) क्रिया = (आव्रियते)
- (कर्मणि) कर्म = गर्भः [ अ. पुं. प्र. एक. ]
- (कर्मणि) कर्ता = उल्बेन [ अ. नपुं. तृ. एक. ]
- समुच्चयम् = च [ अव्ययम् ]
- संयोजकम् = यथा [ अव्ययम् ]
- “तथा” वाक्यांश:
- (कर्मणि) क्रियागर्भकर्म = आवृतम् [ अ. नपुं. द्वि. एक. ]
- (कर्मणि) कर्म = (ज्ञानम्)
- (कर्मणि) कर्मविशेषणम् = इदम् [ म. नपुं. द्वि. एक. ]
- (कर्मणि) कर्ता = तेन [ तद् द. पुं. तृ. एक. ]
- संयोजकम् = तथा [ अव्ययम् ]
- “यथा” वाक्यांश:
- सन्धिः
- धूमेनाव्रियते = धूमेन आव्रियते – सवर्णदीर्घः |
- वह्निर्यथा = वह्निः यथा – विसर्गः रेफः |
- यथादर्शः = यथा आदर्शः – सवर्णदीर्घः |
- यथादर्शो मलेन = यथादर्शः मलेन – विसर्गः उकारः, गुणः |
- यथोल्बेन = यथा उल्बेन – गुणः |
- उल्बेनावृतः = उल्बेन आवृतः – सवर्णदीर्घः |
- आवृतो गर्भः = आवृतः गर्भः – विसर्गः उकारः, गुणः |
- गर्भस्तथा = गर्भः तथा – विसर्गः सकारः |
- तेनेदम् = तेन इदम् – गुणः |
- कृदन्तः
- आवृतम् = आङ् + वृ “वृञ् आवरणे“+क्त (कर्मणि) |
श्लोकः ३९
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९ ॥
पदच्छेदः
आवृतं ज्ञानम् एतेन ज्ञानिनः नित्यवैरिणा कामरूपेण कौन्तेय दुष्पूरेण अनलेन च ॥ ३९ ॥
अन्वयः
कौन्तेय ! ज्ञानिनः नित्यवैरिणा कामरूपेण दुष्पूरेण अनलेन च एतेन ज्ञानम् आवृतम् ।
पदपरिचय:
- सम्बोधनम् = कौन्तेय! [ अ. पुं. संप्र. एक. ]
- प्रथमवाक्यम्
- (कर्मणि) क्रियागर्भकर्म= आवृतम् [ अ. नपुं. प्र. एक. ]
- (कर्मणि) कर्म = ज्ञानम् [ अ. नपुं. प्र. एक. ]
- (कर्मणि) कर्ता = एतेन [ एतद् द. पुं. तृ. एक. ]
- (कर्मणि) कर्तृविशेषणम् = कामरूपेण [ अ. पुं. तृ. एक. ]
- वाक्यांश:
- (कर्मणि) कर्तृविशेषणम् = नित्यवैरिणा [ न. पुं. तृ. एक. ]
- सम्बन्धिः = ज्ञानिनः [ न. पुं. ष. एक. ]
- वाक्यांश:
- (कर्मणि) कर्तृविशेषणम् = अनलेन [ अ. पुं. तृ. एक. ]
- (कर्मणि) कर्तृविशेषणविशेषणम् = दुष्पूरेण [ अ. पुं. तृ. एक. ]
- समुच्चयम् = च [ अव्ययम् ]
- सन्धिः
- ज्ञानिनो नित्यवैरिणा = ज्ञानिनः नित्यवैरिणा – विसर्गः उकारः, गुणः |
- दुष्पूरेणानलेन = दुष्पूरेण अनलेन – सवर्णदीर्घः |
- समासः
- नित्यवैरिणा = नित्यं वैरी – सुप् समासः |
- कामरूपेण = कामेन रूपाणि यस्य सः – बहुव्रीहिः | तेन |
- तद्धितान्तः
- ज्ञानी = ज्ञान + इनि (मतुबर्थे) ज्ञानं अस्य अस्मिन् वा अस्ति |
- वैरी = वैर + इनि (मतुबर्थे) वैरम् अस्य अस्मिन् वा अस्ति |
श्लोकः ४०
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥
पदच्छेदः
इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानमुच्यते एतैः विमोहयति एषः ज्ञानम् आवृत्य देहिनम् ॥ ४० ॥
अन्वयः
इन्द्रियाणि, मनः, बुद्धिः (च) अस्य अधिष्ठानम् उच्यते । एषः (कामः) एतैः ज्ञानम् आवृत्य देहिनं विमोहयति ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = उच्यते [ वच “वच परिभाषणे” पर. कर्मणि लट्. प्रपु. एक. ]
- कर्मवाक्यम्
- क्रिया = (अस्ति)
- वाक्यांश:
- कर्तृविधेयविशेषणम् = अधिष्ठानम् [ अ. नपुं. प्र. एक. ]
- सम्बन्धिः = अस्य [ इदम् म. पुं. ष. एक. ]
- कर्ता = इन्द्रियाणि [ अ. नपुं. प्र. बहु. ]
- कर्ता = मनः [ स. नपुं. प्र. एक. ]
- कर्ता = बुद्धिः [ इ. स्त्री. प्र. एक. ]
- संयोजकम् = (च)
- द्वितीयवाक्यम्
- क्रिया = विमोहयति [ वि + मुह् “मुह वैचित्त्ये” + णिच् पर. लट्. प्रपु. एक. ]
- णिजन्तप्रयोज्यकर्तृसूचककर्म = देहिनम् [ न. पुं. द्वि. एक. ]
- वाक्यांश:
- प्राक्कालिकक्रिया = आवृत्य [ अव्ययम् ]
- कर्म = ज्ञानम् [ अ. नपुं. द्वि. एक. ]
- करणम् = एतैः [ एतद् द. पुं. तृ. बहु. ]
- णिजन्तप्रयोजककर्ता = (कामः)
- कर्तृविशेषणम् = एषः [ एतद् द. पुं. प्र. एक. ]
- सन्धिः
- मनो बुद्धिः = मनः बुद्धिः – विसर्गः उकारः, गुणः |
- बुद्धिरस्य = बुद्धिः अस्य – विसर्गः रेफः |
- एतैर्विमोहयति = एतैः विमोहयति – विसर्गः रेफः |
- विमोहयत्येषः = विमोहयति एषः – यण् सन्धिः |
- एष ज्ञानम् = एषः ज्ञानम् – विसर्गः लोपः |
- कृदन्तः
- अधिष्ठानम् = अधि + स्था “ष्ठा गतिनिवृत्तौ” + ल्युट् (अधिकरणे )
- आवृत्य = आङ् + वृत् “वृतु वर्तने” + ल्यप् |
श्लोकः ४१
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥
पदच्छेदः
तस्मात् त्वम् इन्द्रियाणि आदौ नियम्य भरतर्षभ पाप्मानं प्रजहि हि एनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥
अन्वयः
भरतर्षभ ! तस्मात् त्वम् आदौ इन्द्रियाणि नियम्य ज्ञानविज्ञाननाशनं पाप्मानम् एनं प्रजहि हि ।
पदपरिचय:
- सम्बोधनम् = भरतर्षभ! [ अ. पुं. संप्र. एक. ]
- प्रथमवाक्यम्
- क्रिया = प्रजहि [ प्र + हन् “हन हिंसागत्योः” पर. लोट्. मपु. एक. ]
- अवधारणम् = हि [ अव्ययम् ]
- वाक्यांश:
- प्राक्कालिकक्रिया = नियम्य [ अव्ययम् ]
- कर्म = इन्द्रियाणि [ अ. नपुं. द्वि. बहु. ]
- कालवाचकम् = आदौ [ इ. पुं. स. एक. ]
- कर्म = एनम् (इमम्) [ इदम् म. पुं. द्वि. एक. ]
- कर्मविशेषणम् = ज्ञानविज्ञाननाशनम् [ अ. पुं. द्वि. एक. ]
- कर्मविशेषणम् = पाप्मानम् [ पाप्मन् न. पुं. द्वि. एक. ]
- हेतुवाचकम् = तस्मात् [ तद् द. नपुं. प. एक. ]
- कर्ता = त्वम् [ युष्मद् द. त्रि. प्र. एक. ]
- सन्धिः
- इन्द्रियाण्यादौ = इन्द्रियाणि आदौ – यण् सन्धिः |
- ह्येनम् = हि एनम् – यण् सन्धिः |
- समासः
- भरतर्षभः = भरतः ऋषभः इव – उपमितसमासः (कर्मधारयः) |
- ज्ञानविज्ञाननाशनम्
- ज्ञानविज्ञाने = ज्ञानं च विज्ञानं च – द्वन्द्वः |
- ज्ञानविज्ञानयोः नाशनम् – षष्ठीतत्पुरुषः | तत् |
- ज्ञानविज्ञाननाशनम्
- ज्ञानविज्ञाने = ज्ञानं च विज्ञानं च – द्वन्द्वः |
- नाशकरः = नाशं करोति इति– उपपदतत्पुरुषः ।
- ज्ञानविज्ञाननाशनः = ज्ञानविज्ञानयोः नाशकरः – षष्ठीतत्पुरुषः | तत् |
- कृदन्तः
- नियम्य = नि + यम् “यम उपरमे” + ल्यप् |
श्लोकः ४२
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥
पदच्छेदः
इन्द्रियाणि पराणि आहुः इन्द्रियेभ्यः परं मनः मनसः तु परा बुद्धिः यः बुद्धेः परतः तु सः ॥ ४२ ॥
अन्वयः
इन्द्रियाणि पराणि आहुः । इन्द्रियेभ्यः परं मनः, मनसः परा बुद्धिः, यः बुद्धेः परतः सः (आत्मा) अस्ति ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रिया = आहुः (ब्रुवान्ति) [ ब्रू “ब्रूञ् व्यक्तायां वाचि” पर. लट्. प्रपु. बहु. ]
- कर्मविधेयविशेषणम् = पराणि [ अ. नपुं. द्वि. बहु. ]
- कर्म = इन्द्रियाणि [ अ. नपुं. द्वि. बहु. ]
- संयोजकम् = (इति)
- द्वितीयवाक्यम्
- क्रिया = (भवति)
- कर्तृविधेयविशेषणम् = मनः [ स. नपुं. प्र. एक. ]
- वाक्यांश:
- कर्ता = परम् [ अ. पुं. प्र. एक. ]
- निर्धारणम् = इन्द्रियेभ्यः [ अ. नपुं. प. बहु. ]
- तृतीयवाक्यम्
- क्रिया = (भवति)
- कर्तृविधेयविशेषणम् = बुद्धिः [ इ. स्त्री. प्र. एक. ]
- वाक्यांश:
- कर्ता = परा [ आ. स्त्री. प्र. एक. ]
- निर्धारणम् = मनसः [ स. नपुं. प. एक. ]
- चतुर्थवाक्यम्
- “यः” वाक्यांश:
- क्रिया = (अस्ति)
- वाक्यांश:
- कर्तृविधेयविशेषणम् = परतः [ अव्ययम् ]
- निर्धारणम् = बुद्धेः [ इ. स्त्री. प. एक. ]
- अवधारणम् = तु [ अव्ययम् ]
- कर्ता = यः [ यद् द. पुं. प्र. एक. ]
- “सः” वाक्यांश:
- क्रिया = अस्ति [ अस् “अस भुवि” पर. लट्. प्रपु. एक. ]
- कर्ता = सः [ तद् द. पुं. प्र. एक. ]
- कर्तृविशेषणम् = (आत्मा)
- “यः” वाक्यांश:
- सन्धिः
- पराण्याहुः = पराणि आहुः – यण् सन्धिः |
- आहुरिन्द्रियेभ्यः = आहुः इन्द्रियेभ्यः – विसर्गः रेफः |
- मनसस्तु = मनसः तु – विसर्गः सकारः |
- बुद्धिर्यः = बुद्धिः यः – विसर्गः रेफः |
- यो बुद्धेः = यः बुद्धेः – विसर्गः उकारः, गुणः |
- परतस्तु = परतः तु – विसर्गः सकारः |
- तद्धितान्तः
- परतः = पर + तसिः (प्रथमाविभक्त्यन्तात् स्वार्थे तसिः )
श्लोकः ४३
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥
पदच्छेदः
एवं बुद्धेः परं बुद्ध्वा संस्तभ्य आत्मानम् आत्मना जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥
अन्वयः
महाबाहो ! एवं बुद्धेः परं बुद्ध्वा आत्मना आत्मानं संस्तभ्य कामरूपं दुरासदं शत्रुं जहि ।
पदपरिचय:
- सम्बोधनम् = महाबाहो! [ उ. पुं. संप्र. एक. ]
- प्रथमवाक्यम्
- क्रिया = जहि [ हन् “हन हिंसागत्योः” पर. लोट्. मपु. एक. ]
- वाक्यांश:
- प्राक्कालिकक्रिया = बुद्ध्वा [ अव्ययम् ]
- क्रियाविशेषणम् = एवम् [ अव्ययम् ]
- वाक्यांश:
- कर्म = परम् [ अ. नपुं. द्वि. एक. ]
- निर्धारणम् = बुद्धेः [ इ. स्त्री. प. एक. ]
- वाक्यांश:
- प्राक्कालिकक्रिया = संस्तभ्य [ अव्ययम् ]
- कर्म = आत्मानम् [ न. पुं. द्वि. एक. ]
- करणम् = आत्मना [ न. पुं. तृ. एक. ]
- कर्म = शत्रुम् [ उ. पुं. द्वि. एक. ]
- कर्मविशेषणम् = दुरासदम् [ अ. पुं. द्वि. एक. ]
- कर्मविशेषणम् = कामरूपम् [ अ. पुं. द्वि. एक. ]
- कर्ता = (त्वम्)
- सन्धिः
- संस्तभ्यात्मानम् = संस्तभ्य आत्मानम् – सवर्णदीर्घः |
- समासः
- कामरूपम् = कामः रूपं यस्य सः कामरूपः – बहुव्रीहिः | तम् ।
- दुरासदम् = दुःखेन आसदः (आसादनं प्राप्तिः) यस्य सः दुरासदः – बहुव्रीहिः | तम् |
- कृदन्तः
- संस्तभ्य = सम् + स्तम्भ् “स्तम्भु प्रतिघाते” + ल्यप् |
- बुद्ध्वा = बुध् “बुध अवगमने” + क्त्वा |
References –
- Gita Praveshah – dviteeyabhaaga Part- 1 by Samskrita Bharati [ Sanskrit ]
- Gita Sopanam (I and II) and Praveshah (I) by Samskrita Bharati [ Sanskrit ]
- Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [ Sanskrit ]
- Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [ Sanskrit ]
- Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [ Sanskrit ]
- http://gita-grammar.blogspot.in/ Sow. Medha Michika’s blog with Grammatical aspects
- https://sa.wikipedia.org/s/6j8 कर्मयोगः
- https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
- Samskrita Bharati USA- Bhagavat Gita class-Dr.K.N.Padmakumar -Chapter 3-Sloka 1 https://youtu.be/SSdwGffICxU
- https://dhaatusingeetaa.wordpress.com/
- sanskritdocuments.org