Bhagavad Gita – Chapter 4

श्रीमद्भगवद्गीता – चतुर्थाध्यायः – ज्ञानकर्मसंन्यासयोगः

(Some updates are pending)

श्रीभगवान् उवाच

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।

विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ 1

पदच्छेदः

इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् विवस्वान् मनवे प्राह मनुः इक्ष्वाकवे अब्रवीत् ॥ 1 ॥

अन्वयः

अहं विवस्वते इमम् अव्ययं योगं प्रोक्तवान् । विवस्वान् मनवे प्राह । मनुः इक्ष्वाकवे अब्रवीत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = प्रोक्तवान्
    • कर्मपदम् = योगम्
    • कर्मविशेषणम् = अव्ययम्
    • कर्मविशेषणम् = इमम्
    • सम्प्रदानपदम् = विवस्वते
    • कर्तृपदम् = अहम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = प्राह
    • सम्प्रदानपदम् = मनवे
    • कर्मपदम् = (योगम्)
    • कर्मविशेषणम् = (इमम्)
    • कर्तृपदम् = विवस्वान्
  • तृतीयवाक्यम्
    • क्रियापदम् = अब्रवीत्
    • कर्मपदम् = (योगम्)
    • कर्मविशेषणम् = (इमम्)
    • सम्प्रदानपदम् = इक्ष्वाकवे
    • कर्तृपदम् = मनुः

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।

स कालेनेह महता योगो नष्टः परन्तप ॥ २ ॥

पदच्छेदः

एवं परम्पराप्राप्तम् इमं राजर्षयः विदुः सः कालेन इह महता योगः नष्टः परन्तप ॥ २ ॥

अन्वयः

परन्तप ! एवं परम्पराप्राप्तम् इमं राजर्षयः विदुः । महता कालेन सः योगः इह नष्टः ।

पदपरिचय:

  • सम्बोधनपदम् = परन्तप!
  • प्रथमवाक्यम्
    • क्रियापदम् = विदुः
    • कर्मपदम् = (योगम्)
    • कर्मविशेषणम् = इमम्
    • कर्मविशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्मपदम्= परम्पराप्राप्तम्
      • क्रियाविशेषणम् = एवम्
    • कर्तृपदम् = राजर्षयः
  • द्वितीयवाक्यम्
    • क्रियापदम् = नष्टः
    • स्थानवाचकपदम् = इह
    • कर्तृपदम् = योगः
    • कर्तृविशेषणम् = सः
    • करणवाचकपदम् = कालेन
    • करणविशेषणम् = महता

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।

भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३॥

पदच्छेदः

स एव अयं मया ते अद्य योगः प्रोक्तः पुरातनः भक्तः असि मे सखा च इति रहस्यं हि एतत् उत्तमम् ॥ ३ ॥

अन्वयः

पुरातनः सः एव अयं योगः अद्य मया ते प्रोक्तः । (त्वम्) मे भक्तः असि, सखा च (असि) इति । (अतः) एतत् उत्तमं रहस्यं (मया) (प्रोक्तः) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= प्रोक्तः
    • (कर्मणि) कर्तृपदम् = मया
    • (कर्मणि) सम्प्रदानपदम् = ते
    • (कर्मणि) कर्मपदम् = योगः
    • (कर्मणि) कर्मविशेषणम् = अयम्
    • (कर्मणि) कर्मविशेषणम् = पुरातनः
    • (कर्मणि) कर्मविशेषणम् = सः
    • (कर्मणि) कर्मविशेषणम् = एव
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अवदत्)
    • कर्तृपदम् = (अहम्)
    • सम्प्रदानपदम् = (ते)
    • कर्मपदम् = रहस्यम्
    • कर्मविशेषणम् = उत्तमम्
    • कर्मविशेषणम् = एतत्
    • कारण-सूचक-वाक्यांशः
      • वाक्यम्
        • क्रियापदम् = असि
        • वाक्यांश:
          • कर्तृ-विशेषण-सूचक-पदम् = भक्तः
          • सम्बन्ध-पदम् = मे
        • कर्तृपदम् = (त्वम्)
      • वाक्यम्
        • क्रियापदम् = (असि)
        • कर्तृ-विशेषण-सूचक-पदम् = सखा
        • सम्योजकपदम् = च
        • कर्तृपदम् = (त्वम्)
      • सम्योजकपदम् = इति

अर्जुन उवाच

अपरं भवतो जन्म परं जन्म विवस्वतः ।

कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥

पदच्छेदः

अपरं भवतः जन्म परं जन्म विवस्वतः कथम् एतत् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥ ४ ॥

अन्वयः

भवतः जन्म अपरम्  । विवस्वतः जन्म परम् । (तस्मात्) त्वम् आदौ एतत् प्रोक्तवान् इति कथं विजानीयाम् ?

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = अपरम्
    • वाक्यांश:
      • कर्तृपदम् = जन्म
      • सम्बन्ध-पदम् = भवतः
    • द्वितीयवाक्यम्
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = परम्
      • वाक्यांश:
        • कर्तृपदम् = (जन्म)
        • सम्बन्ध-पदम् = वस्वतः
      • तृतीयवाक्यम्
        • क्रियापदम् = विजानीयाम्
        • प्रश्नवाचक-क्रियाविशेषणम् = कथम्
        • कर्म-वाक्यम्
          • क्रिया-गर्भ-कर्तृपदम्= प्रोक्तवान्
          • कर्मपदम् = एतत्
          • कालवाचकपदम् = आदौ
          • कर्तृपदम् = त्वम्
          • सम्योजकपदम् = इति
        • कारणवाचकपदम् = (तस्मात्)

श्रीभगवान् उवाच

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।

तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥

पदच्छेदः

बहूनि मे व्यतीतानि जन्मानि तव च अर्जुन तानि अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥

अन्वयः

परन्तप, अर्जुन ! बहूनि मे तव च जन्मानि व्यतीतानि । तानि जन्मानि सर्वाणि अहं वेद । त्वं न वेत्थ ।

पदपरिचय:

  • सम्बोधनपदम् = परन्तप
  • सम्बोधनपदम् = अर्जुन!
  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्तृपदम्= व्यतीतानि
    • वाक्यांश:
      • कर्तृपदम् = जन्मानि
      • सम्बन्ध-पदम् = मे
      • सम्बन्ध-पदम् = तव
      • सम्योजकपदम् = च
    • कर्तृविशेषणम् = बहूनि
  • द्वितीयवाक्यम्
    • क्रियापदम् = वेद
    • कर्मपदम् = (जन्मानि)
    • कर्मविशेषणम् = सर्वाणि
    • कर्मविशेषणम् = तानि
    • कर्तृपदम् = अहम्
  • तृतीयवाक्यम्
    • क्रियापदम् = वेत्थ
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = त्वम्

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।

प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ ६ ॥

पदच्छेदः

अजः अपि सन् अव्ययात्मा भूतानाम् ईश्वरः अपि सन् प्रकृतिं स्वाम् अधिष्ठाय सम्भवामि आत्ममायया ॥ ६ ॥

अन्वयः

अजः अपि अव्ययात्मा सन् भूतानाम् ईश्वरः सन् स्वां प्रकृतिम् अधिष्ठाय आत्ममायया (अहं) सम्भवामि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = सम्भवामि
    • करणवाचकपदम् = आत्ममायया
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = अजः
      • कर्तृ-विशेषण-सूचक-पदम् = अव्ययात्मा
      • कर्तृ-विशेषण-सूचक-पदम् = अपि
      • कर्तृ-विशेषण-सूचक-पदम् = सन्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = ईश्वरः
        • सम्बन्ध-पदम् = भूतानाम्
      • कर्तृ-विशेषण-सूचक-पदम् = सन्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = अधिष्ठाय
      • कर्मपदम् = प्रकृतिम्
      • कर्मविशेषणम् = स्वाम्
    • कर्तृपदम् = (अहम्)

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥

पदच्छेदः

यदा यदा हि धर्मस्य ग्लानिः भवति भारत अभ्युत्थानम् अधर्मस्य तदा आत्मानं सृजामि अहम् ॥ ७ ॥

अन्वयः

भारत ! यदा यदा धर्मस्य ग्लानिः, अधर्मस्य च अभ्युत्थानं भवति तदा अहम् आत्मानं सृजामि ।

पदपरिचय:

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • “यदा” वाक्यांश:
      • क्रियापदम् = भवति
      • वाक्यांश:
        • कर्तृपदम् = ग्लानिः
        • सम्बन्ध-पदम् = धर्मस्य
      • कालवाचकपदम् = यदा
    • “यदा” वाक्यांश:
      • क्रियापदम् = (भवति)
      • वाक्यांश:
        • कर्तृपदम् = अभ्युत्थानम्
        • सम्बन्ध-पदम् = अधर्मस्य
      • सम्योजकपदम् = च
      • कालवाचकपदम् = यदा
    • “तदा” वाक्यांश:
      • क्रियापदम् = सृजामि
      • कर्मपदम् = आत्मानम्
      • कर्तृपदम् = अहम्
      • कालवाचकपदम् = तदा

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ८ ॥

पदच्छेदः

परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ८ ॥

अन्वयः

साधूनां परित्रणाय, दुष्कृतां च विनाशाय, धर्मसंस्थापनार्थाय च युगे युगे सम्भवामि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = सम्भवामि
    • वाक्यांश:
      • सम्प्रदानपदम् = परित्रणाय,
      • सम्बन्ध-पदम् = साधूनाम्
    • वाक्यांश:
      • सम्प्रदानपदम् = विनाशाय,
      • सम्बन्ध-पदम् = दुष्कृताम्
      • सम्योजकपदम् = च
    • सम्प्रदानपदम् = धर्मसंस्थापनार्थाय
    • सम्योजकपदम् = च
    • अधिकरणपदम् = युगे
    • कर्तृपदम् = (अहम्)

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।

त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥

पदच्छेदः

जन्म कर्म च मे दिव्यम् एवं यः वेत्ति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति माम् एति सः अर्जुन ॥ ९ ॥

अन्वयः

अर्जुन ! यः मे दिव्यं जन्म कर्म च तत्त्वतः वेत्ति सः देहं त्यक्त्वा पुनर्जन्म न एति । माम् एति ।

पदपरिचय:

  • सम्बोधनपदम् = अर्जुन!
  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = वेत्ति
      • क्रियाविशेषणम् = तत्त्वतः
      • वाक्यांश:
        • कर्मपदम् = जन्म
        • कर्मपदम् = कर्म
        • सम्योजकपदम् = च
        • सम्बन्ध-पदम् = मे
        • कर्मविशेषणम् = दिव्यम्
      • कर्तृपदम् = यः
    • “सः” वाक्यांश:
      • क्रियापदम् = एति
      • क्रियाविशेषणम् = न
      • कर्मपदम् = पुनर्जन्म
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = त्यक्त्वा
        • कर्मपदम् = देहम्
      • कर्तृपदम् = सः
    • द्वितीयवाक्यम्
      • क्रियापदम् = एति
      • कर्मपदम् = माम्
      • कर्तृपदम् = (सः)

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।

बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १० ॥

पदच्छेदः

वीतरागभयक्रोधाः मन्मया माम् उपाश्रिताः बहवः ज्ञानतपसा पूताः मद्भावमागताः ॥ १० ॥

अन्वयः

वीतरागभयक्रोधाः मन्मयाः माम् उपाश्रिताः ज्ञानतपसा पूताः बहवः मद्भावम् आगताः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= आगताः
      • कर्मपदम् = मद्भावम्
    • कर्तृपदम् = बहवः
    • वाक्यांश:
      • कर्तृविशेषणम् = पूताः
      • करणवाचकपदम् = ज्ञानतपसा
    • वाक्यांश:
      • कर्तृविशेषणम् = उपाश्रिताः
      • कर्मपदम् = माम्
    • कर्तृविशेषणम् = वीतरागभयक्रोधाः
    • कर्तृविशेषणम् = मन्मयाः

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥

पदच्छेदः

ये यथा मां प्रपद्यन्ते तान् तथैव भजामि अहम् मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥

अन्वयः

पार्थ ! ये मां यथा प्रपद्यन्ते तथा एव तान् अहं भजामि । मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ
  • प्रथमवाक्यम्
    • “ये” वाक्यांश:
      • क्रियापदम् = प्रपद्यन्ते
      • क्रियाविशेषणम् = यथा
      • कर्मपदम् = माम्
      • कर्तृपदम् = ये
    • “तान्” वाक्यांश:
      • क्रियापदम् = भजामि
      • क्रियाविशेषणम् = तथा
      • क्रियाविशेषणम् = एव
      • कर्मपदम् = तान्
      • कर्तृपदम् = अहम्
    • द्वितीयवाक्यम्
      • क्रियापदम् = अनुवर्तन्ते
      • क्रियाविशेषणम् = सर्वशः
      • वाक्यांश:
        • कर्मपदम् = वर्त्म
        • सम्बन्ध-पदम् = मम
      • कर्तृपदम् = मनुष्याः

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥

पदच्छेदः

काङ्क्षन्तः कर्मणां सिद्धिं यजन्ते इह देवताः क्षिप्रं हि मानुषे लोके सिद्धिः भवति कर्मजा ॥ १२ ॥

अन्वयः

कर्मणां सिद्धिं काङ्क्षन्तः इह देवताः यजन्ते । (तेषाम्) हि मानुषे लोके कर्मजा सिद्धिः क्षिप्रं भवति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = यजन्ते
    • कर्मपदम् = देवताः
    • स्थानवाचकपदम् = इह
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= काङ्क्षन्तः
      • कर्मपदम् = सिद्धिम्
      • सम्बन्ध-पदम् = कर्मणाम्
    • द्वितीयवाक्यम्
      • क्रियापदम् = भवति
      • क्रियाविशेषणम् = क्षिप्रम्
      • क्रियाविशेषणम् = हि
      • वाक्यांश:
        • कर्तृपदम् = सिद्धिः
        • कर्तृविशेषणम् = कर्मजा
        • सम्बन्ध-पदम् = (तेषाम्)
      • अधिकरणपदम् = लोके
      • अधिकरण-विशेषणम् = मानुषे

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ १३ ॥

पदच्छेदः

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः तस्य कर्तारम् अपि मां विद्धि अकर्तारम् अव्ययम् ॥ १३ ॥

अन्वयः

गुणकर्मविभागशः मया चातुर्वर्ण्यं सृष्टम् । तस्य कर्तारम् अपि अकर्तारम् अव्ययं मां विद्धि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= सृष्टम्
    • (कर्मणि) क्रियाविशेषणम् = गुणकर्मविभागशः
    • (कर्मणि) कर्मपदम् = चातुर्वर्ण्यम्
    • (कर्मणि) कर्तृपदम् = मया
  • द्वितीयवाक्यम्
    • क्रियापदम् = विद्धि
    • कर्मपदम् = माम्
    • वाक्यांश:
      • कर्मविशेषण-सूचक-पदम् = कर्तारम्
      • कर्मविशेषण-सूचक-पदम् = अपि
      • सम्बन्ध-पदम् = तस्य
    • कर्मविशेषण-सूचक-पदम् = अकर्तारम्
    • कर्मविशेषण-सूचक-पदम् = अव्ययम्
    • कर्तृपदम् = (त्वम्)

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ १४ ॥

पदच्छेदः

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा इति मां यः अभिजानाति कर्मभिः न सः बध्यते ॥ १४ ॥

अन्वयः

मां कर्माणि न लिम्पन्ति । कर्मफले मे स्पृहा न अस्ति इति यः माम् अभिजानाति सः कर्मभिः न बध्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
  • “यः” वाक्यांश:
    • क्रियापदम् = अभिजानाति
    • कर्मपदम् = माम्
    • कर्म-वाक्यम्
      • वाक्यम्
        • क्रियापदम् = लिम्पन्ति
        • क्रियाविशेषणम् = न
        • कर्मपदम् = माम्
        • कर्तृपदम् = कर्माणि
      • वाक्यम्
        • क्रियापदम् = अस्ति
        • क्रियाविशेषणम् = न
        • वाक्यांश:
          • कर्तृपदम् = स्पृहा
          • सम्बन्ध-पदम् = मे
        • अधिकरणपदम् = कर्मफले
      • सम्योजकपदम् = इति
    • कर्तृपदम् = यः
  • “सः” वाक्यांश:
    • क्रियापदम् = बध्यते
    • क्रियाविशेषणम् = न
    • कर्मपदम् = सः
    • कर्तृपदम् = कर्मभिः

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥

पदच्छेदः

एवं ज्ञात्वा कृतं कर्म पूर्वैः अपि मुमुक्षुभिः कुरु कर्म एव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥

अन्वयः

एवं ज्ञात्वा पूर्वैः मुमुक्षुभिः अपि कर्म कृतम् । तस्मात् पूर्वैः कृतं पूर्वतरं कर्म एव कुरु ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्तृपदम्= कृतम्
    • कर्मपदम् = कर्म
    • कर्तृपदम् = मुमुक्षुभिः
    • कर्तृविशेषणम् = पूर्वैः
    • कर्तृविशेषणम् = अपि
    • क्त्वान्त-वाक्यांश:
    • क्त्वान्तपदम् = ज्ञात्वा
    • क्रियाविशेषणम् = एवम्
  • द्वितीयवाक्यम्
    • क्रियाविशेषणम् = कुरु
    • कर्मपदम् = कर्म
    • कर्मविशेषण-सूचक-पदम् = एव
    • कर्मविशेषणम् = पूर्वतरम्
    • वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= कृतम्
      • (कर्मणि) कर्तृपदम् = पूर्वैः
    • कारणवाचकपदम् = तस्मात्
    • कर्तृपदम् = (त्वम्)

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥

पदच्छेदः

किं कर्म किम् अकर्म इति कवयः अपि अत्र मोहिताः तत् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥ १६ ॥

अन्वयः

किं कर्म किम् अकर्म इति कवयः अपि अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा अशुभात् मोक्ष्यसे ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्तृपदम्= मोहिताः
    • कर्म-वाक्यम्
      • वाक्यम्
        • कर्तृपदम् = कर्म
        • प्रश्नवाचक-कर्तृपदम् = किम्
      • वाक्यम्
        • कर्तृपदम् = अकर्म
        • प्रश्नवाचक-कर्तृपदम् = किम्
      • सम्योजकपदम् = इति
    • कर्तृपदम् = कवयः
    • कर्तृ-विशेषण-सूचक-पदम् = अपि
    • स्थानवाचकपदम् = अत्र
  • द्वितीयवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = मोक्ष्यसे
      • अपादानपदम् = अशुभात्
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = ज्ञात्वा
        • कर्मपदम् = यत्
      • “तत्” वाक्यांश:
        • क्रियापदम् = प्रवक्ष्यामि
        • कर्मपदम् = कर्म
        • कर्मविशेषणम् = तत्
        • सम्प्रदानपदम् = ते
        • कर्तृपदम् = (अहम्)

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥

पदच्छेदः

कर्मणः हि अपि बोद्धव्यं बोद्धव्यं च विकर्मणः अकर्मणशः च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥

अन्वयः

कर्मणः (स्वरूपम्) अपि बोद्धव्यम् हि । अकर्मणः च (स्वरूपं) बोद्धव्यम् । अपि च विकर्मणः (स्वरूपं) बोद्धव्यम् । कर्मणः गतिः गहना ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्तृपदम्= बोद्धव्यम्
    • क्रियाविशेषणम् = अपि
    • क्रियाविशेषणम् = हि
    • वाक्यांश:
      • कर्तृपदम् = (स्वरूपम्)
      • सम्बन्ध-पदम् = कर्मणः
    • द्वितीयवाक्यम्
      • क्रिया-गर्भ-कर्तृपदम्= बोद्धव्यम्
      • वाक्यांश:
        • कर्तृपदम् = (स्वरूपम्)
        • सम्बन्ध-पदम् = अकर्मणः
        • सम्योजकपदम् = च
      • तृतीयवाक्यम्
        • क्रिया-गर्भ-कर्तृपदम्= बोद्धव्यम्
        • वाक्यांश:
          • कर्तृपदम् = (स्वरूपम्)
          • सम्बन्ध-पदम् = विकर्मणः
          • सम्बन्ध-विशेषण-पदम् = अपि
          • सम्योजकपदम् = च
        • चतुर्थवाक्यम्
          • क्रियापदम् = (भवति)
          • कर्तृ-विशेषण-सूचक-पदम् = गहना
          • वाक्यांश:
            • कर्तृपदम् = गतिः
            • सम्बन्ध-पदम् = कर्मणः

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥

पदच्छेदः

कर्मणि अकर्म यः पश्येत् अकर्मणि च कर्म यः सः बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥

अन्वयः

यः कर्मणि अकर्म, अकर्मणि च कर्म पश्येत् सः मनुष्येषु बुद्धिमान् युक्तः कृत्स्नकर्मकृत् ।

पदपरिचय:

  • “यः” वाक्यांश:
    • क्रियापदम् = पश्येत्
    • वाक्यांश:
      • कर्मपदम् = अकर्म
      • अधिकरणपदम् = कर्मणि
    • वाक्यांश:
      • कर्मपदम् = कर्म
      • अधिकरणपदम् = अकर्मणि
    • सम्योजकपदम् = च
    • कर्तृपदम् = यः
  • “सः” वाक्यांश:
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = कृत्स्नकर्मकृत्
    • कर्तृ-विशेषण-सूचक-पदम् = युक्तः
    • कर्तृपदम् = सः
    • वाक्यांश:
      • कर्तृविशेषणम् = बुद्धिमान्
      • सम्बन्ध-पदम् = मनुष्येषु

यस्य सर्वे समारम्भाः कामसल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥

पदच्छेदः

यस्य सर्वे समारम्भाः कामसल्पवर्जिताः ज्ञानाग्निदग्धकर्माणं तम् आहुः पण्डितं बुधाः ॥ १९ ॥

अन्वयः

यस्य सर्वे समारम्भाः कामसल्पवर्जिताः बुधाः ज्ञानाग्निदग्धकर्माणं तं पण्डितम् आहुः ।

पदपरिचय:

  • “यस्य” वाक्यांश:
    • क्रियापदम् = (भवन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = कामसल्पवर्जिताः
    • वाक्यांश:
      • कर्तृपदम् = समारम्भाः
      • कर्तृविशेषणम् = सर्वे
      • सम्बन्ध-पदम् = यस्य
    • “तम्” वाक्यांश:
      • क्रियापदम् = आहुः
      • वाक्यांश:
        • कर्मविशेषण-सूचक-पदम् = पण्डितम्
        • कर्मपदम् = तम्
        • कर्मविशेषणम् = ज्ञानाग्निदग्धकर्माणम्
        • सम्योजकपदम् = (इति)
      • कर्तृपदम् = बुधाः

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ २० ॥

पदच्छेदः

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तः निराश्रयः कर्मणि अभिप्रवृत्तः अपि नैव किञ्चित् करोति सः ॥ २० ॥

अन्वयः

नित्यतृप्तः निराश्रयः कर्मफलासङ्गं त्यक्त्वा कर्मणि अभिप्रवृत्तः अपि सः किञ्चित् न एव करोति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = करोति
    • क्रियाविशेषणम् = न
    • क्रियाविशेषणम् = एव
    • प्रश्नवाचक-कर्म-पदम् = किञ्चित्
    • कर्तृपदम् = सः
    • वाक्यांश:
      • कर्तृविशेषणम् = अभिप्रवृत्तः
      • कर्तृ-विशेषण-सूचक-पदम् = अपि
      • अधिकरणपदम् = कर्मणि
    • कर्तृविशेषणम् = नित्यतृप्तः
    • कर्तृविशेषणम् = निराश्रयः
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = त्यक्त्वा
      • कर्मपदम् = कर्मफलासङ्गम्

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ २१ ॥

पदच्छेदः

निराशीः यतचित्तात्मा त्यक्तसर्वपरिग्रहः शारीरं केवलं कर्म कुर्वन् न आप्नोति किल्बिषम् ॥ २१ ॥

अन्वयः

निराशीः यतचित्तात्मा त्यक्तसर्वपरिग्रहः केवलं शारीरं कर्म कुर्वन् (अपि) किल्बिषं न आप्नोति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = आप्नोति
    • क्रियाविशेषणम् = न
    • कर्मपदम् = किल्बिषम्
    • कर्तृपदम् = निराशीः
    • कर्तृविशेषणम् = यतचित्तात्मा
    • कर्तृविशेषणम् = त्यक्तसर्वपरिग्रहः
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= कुर्वन्
      • क्रियाविशेषणम् = (अपि)
      • कर्मपदम् = कर्म
      • कर्मविशेषणम् = शारीरम्
      • कर्मविशेषणम् = केवलम्

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ २२ ॥

पदच्छेदः

यदृच्छालाभसन्तुष्टः द्वन्द्वातीतः विमत्सरः समः सिद्धौ असिद्धौ च कृत्वा अपि न निबध्यते ॥ २२ ॥

अन्वयः

विमत्सरः द्वन्द्वातीतः यदृच्छालाभसन्तुष्टः सिद्धौ असिद्धौ च समः कर्म कृत्वा अपि न निबध्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = निबध्यते
    • क्रियाविशेषणम् = न
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = कृत्वा
      • सम्योजकपदम् = अपि
      • कर्मपदम् = कर्म
    • कर्तृपदम् = विमत्सरः
    • कर्तृविशेषणम् = द्वन्द्वातीतः
    • कर्तृविशेषणम् = यदृच्छालाभसन्तुष्टः
    • वाक्यांश:
      • कर्तृपदम् = समः
      • अधिकरणपदम् = असिद्धौ
      • अधिकरणपदम् = सिद्धौ
      • सम्योजकपदम् = च

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥

पदच्छेदः

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञाया आचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥

अन्वयः

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञाय आचरतः कर्म समग्रं प्रविलीयते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = प्रविलीयते
    • कर्मपदम् = समग्रम्
    • वाक्यांश:
      • कर्तृपदम् = कर्म
      • सम्बन्ध-पदम् = गतसङ्गस्य
      • सम्बन्ध-पदम् = मुक्तस्य
      • सम्बन्ध-पदम् = ज्ञानावस्थितचेतसः
      • वाक्यांश:
        • सम्बन्ध-पदम् = आचरतः
        • सम्प्रदानपदम् = यज्ञाय

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥

पदच्छेदः

ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् ब्रह्म एव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥

अन्वयः

अर्पणं ब्रह्म । ब्रह्माग्नौ ब्रह्मणा हुतम् हविः ब्रह्म । ब्रह्मकर्मसमाधिना तेन गन्तव्यं ब्रह्म एव ।

पदपरिचय:

  • प्रथमवाक्यम्

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥

पदच्छेदः

दैवम् एव अपरे यज्ञं योगिनः पर्युपासते ब्रह्माग्नौ अपरे यज्ञं यज्ञेन एव उपजुह्वति ॥ २५ ॥

अन्वयः

अपरे योगिनः दैवम् एव यज्ञं पर्युपासते । अपरे ब्रह्माग्नौ यज्ञेन एव यज्ञम् उपजुह्वति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = ब्रह्म
    • कर्तृपदम् = अर्पणम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = ब्रह्म
    • कर्तृपदम् = हविः
    • वाक्यांश:
      • क्रिया-गर्भ-कर्मपदम्= हुतम्
      • कर्तृपदम् = ब्रह्मणा
      • अधिकरणपदम् = ब्रह्माग्नौ
    • तृतीयवाक्यम्
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = ब्रह्म
      • कर्तृ-विशेषण-सूचक-पदम् = एव
      • वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= गन्तव्यम्
        • कर्तृपदम् = तेन
        • कर्तृविशेषणम् = ब्रह्मकर्मसमाधिना

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।

ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥

पदच्छेदः

दैवम् एव अपरे यज्ञं योगिनः पर्युपासते ब्रह्माग्नौ अपरे यज्ञं यज्ञेन एव उपजुह्वति ॥ २५ ॥

अन्वयः

अपरे योगिनः दैवम् एव यज्ञं पर्युपासते । अपरे ब्रह्माग्नौ यज्ञेन एव यज्ञम् उपजुह्वति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = पर्युपासते
    • कर्मपदम् = यज्ञम्
    • कर्मविशेषणम् = दैवम्
    • कर्मविशेषण-सूचक-पदम् = एव
    • कर्तृपदम् = योगिनः
    • कर्तृविशेषणम् = अपरे
  • द्वितीयवाक्यम्
    • क्रियापदम् = उपजुह्वति
    • कर्मपदम् = यज्ञम्
    • करणवाचकपदम् = यज्ञेन
    • अधिकरण-विशेषणम् = एव
    • अधिकरणपदम् = ब्रह्माग्नौ
    • कर्तृपदम् = अपरे

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ २६ ॥

पदच्छेदः

श्रोत्रादीनि इन्द्रियाणि अन्ये संयमाग्निषु जुह्वति शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु जुह्वति ॥ २६ ॥

अन्वयः

अन्ये श्रोत्रादीनि इन्द्रियाणि संयमाग्निषु जुह्वति । अन्ये शब्दादीन् विषयान् इन्द्रियाग्निषु जुह्वति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = जुह्वति
    • कर्मपदम् = इन्द्रियाणि
    • कर्मविशेषणम् = श्रोत्रादीनि
    • अधिकरणपदम् = संयमाग्निषु
    • कर्तृपदम् = अन्ये
  • द्वितीयवाक्यम्
    • क्रियापदम् = जुह्वति
    • कर्मपदम् = विषयान्
    • कर्मविशेषणम् = शब्दादीन्
    • अधिकरणपदम् = इन्द्रियाग्निषु
    • कर्तृपदम् = अन्ये

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ २७ ॥

पदच्छेदः

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि च अपरे आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ २७ ॥

अन्वयः

अपरे सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च ज्ञानदीपिते आत्मसंयमयोगाग्नौ जुह्वति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = जुह्वति
    • कर्मपदम् = इन्द्रियकर्माणि
    • कर्मपदम् = प्राणकर्माणि
    • सम्योजकपदम् = च
    • कर्मविशेषणम् = सर्वाणि
    • अधिकरणपदम् = आत्मसंयमयोगाग्नौ
    • अधिकरण-विशेषणम् = ज्ञानदीपिते
    • कर्तृपदम् = अपरे

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ २८ ॥

पदच्छेदः

द्रव्ययज्ञाः तपोयज्ञाः योगयज्ञाः तथा अपरे स्वाध्यायज्ञानयज्ञाः च यतयः संशितव्रताः ॥ २८ ॥

अन्वयः

(केचित्) द्रव्ययज्ञाः (अन्ये) तपोयज्ञाः (अन्ये) योगयज्ञाः तथा अपरे स्वाध्यायज्ञानयज्ञाः च संशितव्रताः यतयः (भवन्ति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = संशितव्रताः
    • कर्तृपदम् = यतयः
    • कर्तृ-विशेषण-वाक्यांश:
      • कर्तृपदम् = द्रव्ययज्ञाः
      • कर्तृपदम् = तपोयज्ञाः
      • वाक्यांश:
        • कर्तृपदम् = योगयज्ञाः
        • सम्योजकपदम् = तथा
        • कर्तृविशेषणम् = अपरे
      • कर्तृपदम् = स्वाध्यायज्ञानयज्ञाः
      • सम्योजकपदम् = च

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥

पदच्छेदः

अपाने, जुह्वति, प्राणं, प्राणे, अपानं, तथा, अपरे प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥

अन्वयः

अपरे प्राणायामपरायणाः प्राणापानगती रुद्ध्वा प्राणम् अपाने जुह्वति, तथा प्राणे अपानं (जुह्वति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = जुह्वति
    • वाक्यांश:
      • कर्मपदम् = प्राणम्
      • अधिकरणपदम् = अपाने
    • वाक्यांश:
      • कर्मपदम् = अपानम्
      • अधिकरणपदम् = प्राणे
      • क्रियाविशेषणम् = तथा
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = रुद्ध्वा
      • कर्मपदम् = प्राणापानगती
    • कर्तृपदम् = अपरे
    • कर्तृविशेषणम् = प्राणायामपरायणाः

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ३० ॥

पदच्छेदः

अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति सर्वे अपि एते यज्ञविदः यज्ञक्षपितकल्मषाः ॥ ३० ॥

अन्वयः

अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । एते सर्वे अपि यज्ञविदः यज्ञक्षपितकल्मषाः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = जुह्वति
    • कर्मपदम् = प्राणान्
    • अधिकरणपदम् = प्राणेषु
    • कर्तृपदम् = नियताहाराः
    • कर्तृविशेषणम् = अपरे
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = यज्ञक्षपितकल्मषाः
    • कर्तृपदम् = यज्ञविदः
    • वाक्यांश:
      • कर्तृविशेषणम् = सर्वे
      • कर्तृविशेषणम् = एते
      • कर्तृ-विशेषण-सूचक-पदम् = अपि

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ३१ ॥

पदच्छेदः

यज्ञशिष्टामृतभुजः यान्ति ब्रह्म सनातनम् न अयं लोकः अस्ति अयज्ञस्य कुतः अन्यः कुरुसत्तम ॥ ३१ ॥

अन्वयः

कुरुसत्तम । यज्ञशिष्टामृतभुजः सनातनं ब्रह्म यान्ति । अयज्ञस्य अयं लोकः न अस्ति । अन्यः कुतः ।

पदपरिचय:

  • सम्बोधनपदम् = कुरुसत्तम
  • प्रथमवाक्यम्
    • क्रियापदम् = यान्ति
    • कर्मपदम् = ब्रह्म
    • कर्मविशेषणम् = सनातनम्
    • कर्तृपदम् = यज्ञशिष्टामृतभुजः
  • द्वितीयवाक्यम्
    • क्रियापदम् = अस्ति
    • क्रियाविशेषणम् = न
    • वाक्यांश:
      • कर्तृपदम् = लोकः
      • कर्तृविशेषणम् = अयम्
      • सम्बन्ध-पदम् = अयज्ञस्य
    • तृतीयवाक्यम्
      • प्रश्नवाचक-क्रिया-पदम् = कुतः
      • कर्तृपदम् = अन्यः

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥

पदच्छेदः

एवं बहुविधाः यज्ञा वितताः ब्रह्मणः मुखे कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥

अन्वयः

एवं बहुविधाः यज्ञाः ब्रह्मणः मुखे वितताः । तान् सर्वान् कर्मजान् विद्धि । एवं ज्ञात्वा विमोक्ष्यसे ।

पदपरिचय:

  • प्रथमवाक्यम्

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥

पदच्छेदः

एवं बहुविधाः यज्ञा वितता ब्रह्मणः मुखे कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥

अन्वयः

एवं बहुविधाः यज्ञाः ब्रह्मणः मुखे वितताः । तान् सर्वान् कर्मजान् विद्धि । एवं ज्ञात्वा विमोक्ष्यसे ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्तृपदम्= वितताः
    • क्रियाविशेषणम् = एवम्
    • वाक्यांश:
      • अधिकरणपदम् = मुखे
      • सम्प्रदानपदम् = ब्रह्मणः
    • कर्तृपदम् = यज्ञाः
    • कर्तृविशेषणम् = बहुविधाः
  • द्वितीयवाक्यम्
    • क्रियापदम् = विद्धि
    • कर्मविशेषण-सूचक-पदम् = कर्मजान्
    • कर्मपदम् = सर्वान्
    • कर्मविशेषणम् = तान्
    • कर्तृपदम् = (त्वम्)
  • तृतीयवाक्यम्
    • क्रियापदम् = विमोक्ष्यसे
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = ज्ञात्वा
      • क्रियाविशेषणम् = एवम्
    • कर्तृपदम् = (त्वम्)

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥

पदच्छेदः

तत् विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनः तत्त्वदर्शिनः ॥ ३४ ॥

अन्वयः

तत् प्रणिपातेन परिप्रश्नेन सेवया च विद्धि । तत्त्वदर्शिनः ज्ञानिनः ते ज्ञानम् उपदेक्ष्यन्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विद्धि
    • कर्मपदम् = तत्
    • करणवाचकपदम् = प्रणिपातेन
    • करणवाचकपदम् = परिप्रश्नेन
    • करणवाचकपदम् = सेवया
    • सम्योजकपदम् = च
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = उपदेक्ष्यन्ति
    • कर्मपदम् = ज्ञानम्
    • सम्प्रदानपदम् = ते
    • कर्तृपदम् = ज्ञानिनः
    • कर्तृविशेषणम् = तत्त्वदर्शिनः

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥

पदच्छेदः

यत् ज्ञात्वा न पुनः मोहम् एवं ज्ञास्यसि पाण्डव येन भूतानि यशेषेण द्रक्ष्यसि आत्मनि अथो मयि ॥ ३५ ॥

अन्वयः

पाण्डव ! यत् एवं ज्ञात्वा पुनः मोहम् न यास्यसि । येन आत्मनि भूतानि अशेषेण द्रक्ष्यसि । अथो मयि । (तत् ज्ञानं तत्त्वदर्शिनः ते उपदेक्ष्यन्ति ।)

पदपरिचय:

  • सम्बोधनपदम् = पाण्डव
  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = यास्यसि
      • क्रियाविशेषणम् = न
      • क्रियाविशेषणम् = पुनः
      • कर्मपदम् = मोहम्
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = ज्ञात्वा
        • क्रियाविशेषणम् = एवम्
      • कर्मपदम् = यत्
      • कर्तृपदम् = (त्वम्)
    • “येन” वाक्यांश:
      • क्रियापदम् = द्रक्ष्यसि
      • करणवाचकपदम् = अशेषेण
      • कर्मपदम् = भूतानि
      • वाक्यांश:
        • अधिकरणपदम् = आत्मनि
        • वाक्यांश:
          • अधिकरणपदम् = मयि
          • क्रियाविशेषणम् = अथो
        • करणवाचकपदम् = येन
        • कर्तृपदम् = (त्वम्)

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥

पदच्छेदः

अपि चेत् असि पापेभ्यः सर्वेभ्यः पापकृत्तमः सर्वं ज्ञानप्लवेन एव वृजिनं सन्तरिष्यसि ॥ ३६ ॥

अन्वयः

सर्वेभ्यः पापेभ्यः पापकृत्तमः असि चेत् अपि (तदा) सर्वं वृजिनं ज्ञानप्लवेन एव सन्तरिष्यसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “चेत्” वाक्यांश:
      • क्रियापदम् = असि
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = पापकृत्तमः
        • अपादानपदम् = पापेभ्यः
        • अधिकरण-विशेषणम् = सर्वेभ्यः
      • सम्योजकपदम् = चेत्
      • सम्योजकपदम् = अपि
      • कर्तृपदम् = (त्वम्)
    • “(तदा)” वाक्यांश:
      • क्रियापदम् = सन्तरिष्यसि
      • अधिकरणपदम् = ज्ञानप्लवेन
      • अधिकरण-विशेषणम् = एव
      • कर्तृपदम् = वृजिनम्
      • कर्तृविशेषणम् = सर्वम्
      • कालवाचकपदम् = (तदा)

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥

पदच्छेदः

यथा एधांसि समिद्धः अग्निः भस्मसात् कुरुते अर्जुन ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥ ३७ ॥

अन्वयः

अर्जुन ! यथा समिद्धः अग्निः एधांसि भस्मसात् कुरुते तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते ।

पदपरिचय:

  • सम्बोधनपदम् = अर्जुन
  • प्रथमवाक्यम्
    • “यथा” वाक्यांश:
      • क्रियापदम् = कुरुते
      • क्रियाविशेषणम् = भस्मसात्
      • कर्मपदम् = एधांसि
      • कर्तृपदम् = अग्निः
      • कर्तृविशेषणम् = समिद्धः
      • क्रियाविशेषणम् = यथा
    • “तथा” वाक्यांश:
      • क्रियापदम् = कुरुते
      • क्रियाविशेषणम् = भस्मसात्
      • कर्मपदम् = सर्वकर्माणि
      • कर्तृपदम् = ज्ञानाग्निः
      • क्रियाविशेषणम् = तथा

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥

पदच्छेदः

न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥

अन्वयः

ज्ञानेन सदृशं पवित्रम् इह न हि विद्यते । तत् स्वयं योगसंसिद्धः कालेन आत्मनि विन्दति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विद्यते
    • क्रियाविशेषणम् = न
    • क्रियाविशेषणम् = हि
    • अधिकरणपदम् = इह
    • कर्तृपदम् = पवित्रम्
    • वाक्यांश:
      • कर्तृविशेषणम् = सदृशम्
      • करणवाचकपदम् = ज्ञानेन
    • द्वितीयवाक्यम्
      • क्रियापदम् = विन्दति
      • अधिकरणपदम् = आत्मनि
      • करणवाचकपदम् = कालेन
      • कर्मपदम् = तत्
      • वाक्यांश:
        • कर्तृपदम् = योगसंसिद्धः
        • क्रियाविशेषणम् = स्वयम्

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥

पदच्छेदः

श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिम् अचिरेण अधिगच्छति ॥ ३९ ॥

अन्वयः

संयतेन्द्रियः तत्परः श्रद्धावान् ज्ञानं लभते । ज्ञानं लब्ध्वा अचिरेण परां शान्तिम् अधिगच्छति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = लभते
    • कर्मपदम् = ज्ञानम्
    • कर्तृपदम् = श्रद्धावान्
    • कर्तृविशेषणम् = तत्परः
    • कर्तृविशेषणम् = संयतेन्द्रियः
  • द्वितीयवाक्यम्
    • क्रियापदम् = अधिगच्छति
    • कर्मपदम् = शान्तिम्
    • कर्मविशेषणम् = पराम्
    • करणवाचकपदम् = अचिरेण
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = लब्ध्वा
      • कर्मपदम् = ज्ञानम्

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४० ॥

पदच्छेदः

अज्ञः च श्रद्दधानः च संशयात्मा विनश्यति न अयं लोकः अस्ति न परः न सुखं संशयात्मनः ॥ ४० ॥

अन्वयः

अज्ञः च अश्रद्दधानः च संशयात्मा विनश्यति । संशयात्मनः अयं लोकः न अस्ति, परः न, सुखं च न ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विनश्यति
    • कर्तृपदम् = संशयात्मा
    • कर्तृविशेषणम् = अज्ञः
    • कर्तृविशेषणम् = अश्रद्दधानः
    • सम्योजकपदम् = च
  • द्वितीयवाक्यम्
    • क्रियापदम् = अस्ति
    • क्रियाविशेषणम् = न
    • वाक्यांश:
      • कर्तृपदम् = लोकः
      • कर्तृविशेषणम् = अयम्
      • सम्बन्ध-पदम् = संशयात्मनः
    • तृतीयवाक्यम्
      • क्रियापदम् = अस्ति,
      • क्रियाविशेषणम् = न
      • कर्तृपदम् = परः
    • चतुर्थवाक्यम्
      • क्रियापदम् = अस्ति,
      • क्रियाविशेषणम् = न
      • कर्तृपदम् = सुखम्
      • सम्योजकपदम् = च

योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥

पदच्छेदः

योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥

अन्वयः

धनञ्जय ! योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् आत्मवन्तं कर्माणि न निबध्नन्ति ।

पदपरिचय:

  • सम्बोधनपदम् = धनञ्जय
  • प्रथमवाक्यम्
    • क्रियापदम् = निबध्नन्ति
    • क्रियाविशेषणम् = न
    • कर्मपदम् = आत्मवन्तम्
    • कर्मविशेषणम् = ज्ञानसञ्छिन्नसंशयम्
    • कर्मविशेषणम् = योगसन्न्यस्तकर्माणम्
    • कर्तृपदम् = कर्माणि

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगमातिस्क्ठोत्तिष्ठ भारत ॥ ४२ ॥

पदच्छेदः

तस्मात् अज्ञानसम्भूतं हृत्स्थं ज्ञानासिना अत्मनः छित्त्वा एनं संशयं योगम् आतिष्ठः उत्तिष्ठ भारत ॥ ४२ ॥

अन्वयः

भारत ! तस्मात् अज्ञानसम्भूतम् आत्मनः हृत्स्थम् एनं संशयं ज्ञानासिना छित्त्वा उत्तिष्ठ । योगम् आतिष्ठ ।

पदपरिचय:

  • सम्बोधनपदम् = भारत
  • प्रथमवाक्यम्
    • क्रियापदम् = उत्तिष्ठ
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = छित्त्वा
      • करणवाचकपदम् = ज्ञानासिना
      • कर्मपदम् = संशयम्
      • कर्मविशेषणम् = एनम्
      • वाक्यांश:
        • कर्मविशेषणम् = हृत्स्थम्
        • सम्बन्ध-पदम् = आत्मनः
      • कर्मविशेषणम् = अज्ञानसम्भूतम्
    • कारणवाचकपदम् = तस्मात्
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = आतिष्ठ
    • कर्मपदम् = योगम्
    • कर्तृपदम् = (त्वम्)

References –

  1. नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6l6 ज्ञानकर्मसंन्यासयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s