श्रीमद्भगवद्गीता – पञ्चमोध्यायः – कर्मसंन्यासयोगः
(Some updates are pending)
अर्जुन उवाच –
सन्न्यासं कर्मणां कृष्णः पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥
पदच्छेदः
सन्न्यासं कर्मणां कृष्ण पुनः योगं च शंससि यत् श्रेयः एतयोः एकं तत् मे ब्रूहि सुनिश्चितम् ॥ १ ॥
अन्वयः
कृष्ण ! कर्मणां सन्न्यासं पुनः योगं च शंससि । एतयोः यत् श्रेयः तत् सुनिश्चितम् एकं मे ब्रूहि ।
पदपरिचय:
- प्रथमवाक्यम्
श्रीभगवानुवाच –
सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ॥ २ ॥
पदच्छेदः
सन्न्यासः कर्मयोगः च निःश्रेयसकरौ उभौ तयोः तु कर्मसन्न्यासात् कर्मयोगः विशिष्यते ॥ २ ॥
अन्वयः
सन्न्यासः कर्मयोगः च उभौ निःश्रेयसकरौ । तयोः तु कर्मसन्न्यासात् कर्मयोगः विशिष्यते ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = (स्थः)
- कर्तृपदम् = निःश्रेयसकरौ
- कर्तृविशेषणम् = उभौ
- वाक्यांश:
- कर्तृपदम् = सन्न्यासः
- कर्तृपदम् = कर्मयोगः
- सम्योजकपदम् = च
- द्वितीयवाक्यम्
- क्रियापदम् = विशिष्यते
- कर्तृपदम् = कर्मयोगः
- अपादानपदम् = कर्मसन्न्यासात्
- सम्बन्ध-पदम् = तयोः
- सम्बन्ध-विशेषण-सूचक-पदम् = तु
ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥
पदच्छेदः
ज्ञेयः सः नित्यसन्न्यासी यः न द्वेष्टि न काङ्क्षति निर्द्वन्द्वः हि महाबाहो सुखं बन्धात् प्रमुच्यते ॥ ३ ॥’
अन्वयः
महाबाहो ! यः न द्वेष्टि न काङ्क्षति सः नित्यसन्न्यासी ज्ञेयः । निर्द्वन्द्वः बन्धात् सुखं प्रमुच्यते ।
पदपरिचय:
- प्रथमवाक्यम्
- “यः” वाक्यांश:
- वाक्यांश:
- क्रियापदम् = द्वेष्टि
- क्रियाविशेषणम् = न
- वाक्यांश:
- क्रियापदम् = काङ्क्षति
- क्रियाविशेषणम् = न
- कर्तृपदम् = यः
- वाक्यांश:
- “सः” वाक्यांश:
- क्रिया-गर्भ-कर्मपदम्= ज्ञेयः
- कर्म-वाक्यम्
- क्रियापदम् = (भवति)
- कर्तृ-विशेषण-सूचक-पदम् = नित्यसन्न्यासी
- कर्तृपदम् = सः
- सम्योजकपदम् = (इति)
- द्वितीयवाक्यम्
- क्रियापदम् = प्रमुच्यते
- क्रियाविशेषणम् = सुखम्
- अपादानपदम् = बन्धात्
- कर्तृपदम् = निर्द्वन्द्वः
- “यः” वाक्यांश:
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ४ ॥
पदच्छेदः
साङ्ख्ययोगौ पृथक् बालाः प्रवदन्ति न पण्डिताः एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम् ॥ ४ ॥
अन्वयः
बालाः साङ्ख्ययोगौ पृथक् प्रवदन्ति, पण्डिताः न । एकम् अपि सम्यक् आस्थितः उभयोः फलं विन्दते ।
पदपरिचय:
- सम्बोधनपदम् = बालाः
- प्रथमवाक्यम्
- क्रियापदम् = प्रवदन्ति
- कर्म-वाक्यम्
- क्रियापदम् = (स्थः)
- क्रियाविशेषणम् = पृथक्
- कर्तृपदम् = साङ्ख्ययोगौ
- सम्योजकपदम् = (इति)
- द्वितीयवाक्यम्
- क्रियापदम् = प्रवदन्ति,
- क्रियाविशेषणम् = न
- कर्तृपदम् = पण्डिताः
- तृतीयवाक्यम्
- क्रियापदम् = विन्दते
- वाक्यांश:
- कर्मपदम् = फलम्
- सम्बन्ध-पदम् = उभयोः
- वाक्यांश:
- क्रिया-गर्भ-कर्तृपदम्= आस्थितः
- क्रियाविशेषणम् = सम्यक्
- कर्मपदम् = एकम्
- कर्मविशेषण-सूचक-पदम् = अपि
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ५ ॥
पदच्छेदः
यत् साङ्ख्यैः प्राप्यते स्थानं तत् योगैः अपि गम्यते एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ४ ॥
अन्वयः
यत् स्थानं साङ्ख्यैः प्राप्यते तत् योगैः अपि गम्यते । यः साङ्ख्यं च योगं च एकं पश्यति सः पश्यति ।
पदपरिचय:
- प्रथमवाक्यम्
- “यत्” वाक्यांश:
- क्रियापदम् = प्राप्यते
- कर्मपदम् = स्थानम्
- कर्मविशेषणम् = यत्
- करणवाचकपदम् = साङ्ख्यैः
- “तत्” वाक्यांश:
- क्रियापदम् = गम्यते
- करणवाचकपदम् = योगैः
- करणविशेषणम् = अपि
- कर्मपदम् = तत्
- द्वितीयवाक्यम्
- “यः” वाक्यांश:
- क्रियापदम् = पश्यति
- कर्म-वाक्यम्
- क्रियापदम् = (अस्ति)
- कर्तृ-विशेषण-सूचक-पदम् = एकम्
- कर्तृपदम् = साङ्ख्यम्
- कर्तृपदम् = योगम्
- सम्योजकपदम् = च
- सम्योजकपदम् = (इति)
- कर्तृपदम् = यः
- “सः” वाक्यांश:
- क्रियापदम् = पश्यति
- कर्तृपदम् = सः
- “यः” वाक्यांश:
- “यत्” वाक्यांश:
सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ६ ॥
पदच्छेदः
सन्न्यासः तु महाबाहो दुःखम् आप्तुम् अयोगतः योगयुक्तः मुनिः ब्रह्म न चिरेण अधिगच्छति ॥ ६ ॥
अन्वयः
महाबाहो ! सन्न्यासः तु अयोगतः आप्तुं दुःखम् । योगयुक्तः मुनिः नचिरेण ब्रह्म अधिगच्छति ।
पदपरिचय:
- सम्बोधनपदम् = महाबाहो
- प्रथमवाक्यम्
- क्रियापदम् = (भवति)
- कर्तृ-विशेषण-सूचक-पदम् = दुःखम्
- तुमुनन्तपदम् = आप्तुम्
- कारणवाचकपदम् = अयोगतः
- कर्तृपदम् = सन्न्यासः
- कर्तृविशेषणम् = तु
- द्वितीयवाक्यम्
- क्रियापदम् = अधिगच्छति
- कर्मपदम् = ब्रह्म
- करणवाचकपदम् = नचिरेण
- कर्तृपदम् = मुनिः
- कर्तृविशेषणम् = योगयुक्तः
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥
पदच्छेदः
योगयुक्तः विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन् अपि न लिप्यते ॥ ६ ॥
अन्वयः
योगयुक्तः विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन् अपि न लिप्यते ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = लिप्यते
- क्रियाविशेषणम् = न
- कर्तृपदम् = योगयुक्तः
- कर्तृविशेषणम् = विशुद्धात्मा
- कर्तृविशेषणम् = विजितात्मा
- कर्तृविशेषणम् = जितेन्द्रियः
- कर्तृविशेषणम् = सर्वभूतात्मभूतात्मा
- वाक्यांश:
- कर्तृविशेषणम् = कुर्वन्
- कर्तृ-विशेषण-सूचक-पदम् = अपि
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ८ ॥
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥
पदच्छेदः
नैव किञ्चित् करोमि इति युक्तः मन्येत तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥ ८ ॥ प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् ॥ ९ ॥
अन्वयः
युक्तः तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् न एव किञ्चित् करोमि’ इति मन्येत ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = मन्येत
- कर्म-वाक्यम्
- क्रियापदम् = करोमि’
- क्रियाविशेषणम् = न
- क्रियाविशेषणम् = एव
- कर्तृपदम् = किञ्चित्
- सम्योजकपदम् = इति
- कर्तृ-विशेषण-वाक्यांश:
- क्रिया-गर्भ-कर्तृपदम्= धारयन्
- कर्म-वाक्यम्
- क्रियापदम् = वर्तन्ते
- कर्तृपदम् = इन्द्रियाणि
- अधिकरणपदम् = इन्द्रियार्थेषु
- सम्योजकपदम् = इति
- कर्तृपदम् = युक्तः
- कर्तृविशेषणम् = तत्त्ववित्
- कर्तृविशेषणम् = पश्यन्
- कर्तृविशेषणम् = शृण्वन्
- कर्तृविशेषणम् = स्पृशन्
- कर्तृविशेषणम् = जिघ्रन्
- कर्तृविशेषणम् = अश्नन्
- कर्तृविशेषणम् = गच्छन्
- कर्तृविशेषणम् = स्वपन्
- कर्तृविशेषणम् = श्वसन्
- कर्तृविशेषणम् = प्रलपन्
- कर्तृविशेषणम् = विसृजन्
- कर्तृविशेषणम् = गृह्णन्
- कर्तृविशेषणम् = उन्मिषन्
- वाक्यांश:
- कर्तृविशेषणम् = निमिषन्
- कर्तृ-विशेषण-सूचक-पदम् = अपि
ब्रह्मण्याधाय कर्माणि सं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥
पदच्छेदः
ब्रह्मणि आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः लिप्यते न स पापेन पद्मपत्रम् इव अम्भसा ॥ १० ॥
अन्वयः
यः ब्रह्मणि आधाय सङ्गं त्यक्त्वा कर्माणि करोति सः अम्भसा पद्मपत्रम् इव पापेन न लिप्यते ।
पदपरिचय:
- प्रथमवाक्यम्
- “यः” वाक्यांश:
- क्रियापदम् = करोति
- कर्मपदम् = कर्माणि
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = त्यक्त्वा
- कर्मपदम् = सङ्गम्
- ल्यबन्त-वाक्यांश:
- ल्यबन्तपदम् = आधाय
- अधिकरणपदम् = ब्रह्मणि
- कर्तृपदम् = यः
- “सः” वाक्यांश:
- क्रियापदम् = लिप्यते
- क्रियाविशेषणम् = न
- करणवाचकपदम् = पापेन
- वाक्यांश:
- करणवाचकपदम् = अम्भसा
- कर्मपदम् = पद्मपत्रम्
- सम्योजकपदम् = इव
- कर्तृपदम् = सः
- “यः” वाक्यांश:
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्वात्मशुद्धये ॥ ११ ॥
पदच्छेदः
कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि योगिनः कर्म कुर्वन्ति सङ्गं त्यक्वा आत्मशुद्धये ॥ ११ ॥
अन्वयः
योगिनः कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि सङ्गं त्यक्वा आत्मशुद्धये कर्म कुर्वन्ति । पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = कुर्वन्ति
- कर्मपदम् = कर्म
- सम्प्रदानपदम् = आत्मशुद्धये
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = त्यक्वा
- कर्मपदम् = सङ्गम्
- करणवाचकपदम् = कायेन
- करणवाचकपदम् = मनसा
- करणवाचकपदम् = बुद्ध्या
- वाक्यांश:
- करणवाचकपदम् = इन्द्रियैः
- करणविशेषणम् = केवलैः
- करणविशेषणम् = अपि
- कर्तृपदम् = योगिनः
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ १२ ॥
पदच्छेदः
युक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् अयुक्तः कामकारेण फले सक्तः निबध्यते ॥ १२ ॥
अन्वयः
युक्तः कर्मफलं त्यक्वा नैष्ठिकिं शान्तिम् आप्नोति । अयुक्तः कामकारेण फले सक्तः निबध्यते ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = आप्नोति
- कर्मपदम् = शान्तिम्
- कर्मविशेषणम् = नैष्ठिकिम्
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = त्यक्वा
- कर्मपदम् = कर्मफलम्
- कर्तृपदम् = युक्तः
- द्वितीयवाक्यम्
- क्रियापदम् = निबध्यते
- कर्तृ-विशेषण-वाक्यांश:
- कर्तृपदम् = सक्तः
- अधिकरणपदम् = फले
- करणवाचकपदम् = कामकारेण
- कर्तृपदम् = अयुक्तः
सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥
पदच्छेदः
सर्वकर्माणि मनसा सन्न्यस्य आस्ते सुखं वशी नवद्वारे पुरे देही नैव कुर्वन् न कारयन् ॥ १३ ॥
अन्वयः
वशी देही नवद्वारे पुरे सर्वकर्माणि मनसा सन्न्यस्य न एव कुर्वन् न कारयन् सुखम् आस्ते ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = आस्ते
- क्रियाविशेषणम् = सुखम्
- कर्तृ-विशेषण-वाक्यांश:
- क्रिया-गर्भ-कर्तृपदम्= कुर्वन्
- क्रियाविशेषणम् = न
- क्रियाविशेषणम् = एव
- कर्तृ-विशेषण-वाक्यांश:
- क्रिया-गर्भ-कर्तृपदम्= कारयन्
- क्रियाविशेषणम् = न
- ल्यबन्त-वाक्यांश:
- ल्यबन्तपदम् = सन्न्यस्य
- करणवाचकपदम् = मनसा
- कर्मपदम् = सर्वकर्माणि
- अधिकरणपदम् = पुरे
- अधिकरण-विशेषणम् = नवद्वारे
- कर्तृपदम् = देही
- कर्तृविशेषणम् = वशी
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥
पदच्छेदः
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः न कर्मफलसंयोगं स्वभावः तु प्रवर्तते ॥ १४ ॥
अन्वयः
प्रभुः लोकस्य कर्तृत्वं न सृजति । कर्माणि न, कर्मफलसंयोगं न । स्वभावः तु प्रवर्तते ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = सृजति
- क्रियाविशेषणम् = न
- वाक्यांश:
- कर्मपदम् = कर्तृत्वम्
- सम्बन्ध-पदम् = लोकस्य
- कर्तृपदम् = प्रभुः
- द्वितीयवाक्यम्
- क्रियापदम् = सृजति
- क्रियाविशेषणम् = न
- कर्मपदम् = कर्माणि
- कर्तृपदम् = प्रभुः
- तृतीयवाक्यम्
- क्रियापदम् = सृजति
- क्रियाविशेषणम् = न
- कर्मपदम् = कर्मफलसंयोगम्
- कर्तृपदम् = प्रभुः
- चतुर्थवाक्यम्
- क्रियापदम् = प्रवर्तते
- कर्तृपदम् = स्वभावः
- कर्तृ-विशेषण-सूचक-पदम् = तु
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥
पदच्छेदः
न आदत्ते कस्यचित् पापं न चैव सुकृतं विभुः अज्ञानेन आवृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥
अन्वयः
विभुः कस्यचित् पापं न आदत्ते । सुकृतं च एव न । ज्ञानम् अज्ञानेन आवृतम् । तेन जन्तवः मुह्यन्ति ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = आदत्ते
- क्रियाविशेषणम् = न
- वाक्यांश:
- कर्मपदम् = पापम्
- सम्बन्ध-पदम् = कस्यचित्
- कर्तृपदम् = विभुः
- द्वितीयवाक्यम्
- क्रियापदम् = (आदत्ते)
- क्रियाविशेषणम् = न
- कर्मपदम् = सुकृतम्
- कर्मविशेषण-सूचक-पदम् = एव
- सम्योजकपदम् = च
- कर्तृपदम् = (विभुः)
- तृतीयवाक्यम्
- (कर्मणि) क्रिया-गर्भ-कर्मपदम्= आवृतम्
- (कर्मणि) कर्मपदम् = ज्ञानम्
- (कर्मणि) कर्तृपदम् = अज्ञानेन
- चतुर्थवाक्यम्
- (कर्मणि) क्रियापदम् = मुह्यन्ति
- (कर्मणि) कर्मपदम् = जन्तवः
- (कर्मणि) कर्तृपदम् = तेन
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥
पदच्छेदः
ज्ञानेन तु तत् अज्ञानं येषां नाशितम् आत्मनः तेषाम् आदित्यवत् ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥
अन्वयः
आत्मनः ज्ञानेन येषाम् अज्ञानम् नाशितं तेषां तु तत् ज्ञानम् आदित्यवत् परं प्रकाशयति ।
पदपरिचय:
- प्रथमवाक्यम्
- “येषाम्” वाक्यांश:
- क्रिया-गर्भ-कर्मपदम्= नाशितम्
- वाक्यांश:
- कर्मपदम् = अज्ञानम्
- सम्बन्ध-पदम् = येषाम्
- वाक्यांश:
- कर्तृपदम् = ज्ञानेन
- सम्बन्ध-पदम् = आत्मनः
- “तत्” वाक्यांश:
- क्रियापदम् = प्रकाशयति
- वाक्यांश:
- णिजन्त: – प्रयोजककर्ता = ज्ञानम्
- कर्तृविशेषणम् = परम्
- कर्तृविशेषणम् = आदित्यवत्
- वाक्यांश:
- णिजन्त: – प्रयोज्यकर्ता = तत्
- कर्तृविशेषणम् = परम्
- “येषाम्” वाक्यांश:
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥
पदच्छेदः
तद्बुद्धयः तदात्मानः तन्निष्ठाः तत्परायणाः गच्छन्ति अपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥
अन्वयः
तद्बुद्धयः तदात्मानः तन्निष्ठाः तत्परायणाः ज्ञाननिर्धूतकल्मषाः अपुनरावृत्तिं गच्छन्ति ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = गच्छन्ति
- कर्मपदम् = अपुनरावृत्तिम्
- कर्तृपदम् = तद्बुद्धयः
- कर्तृविशेषणम् = तदात्मानः
- कर्तृविशेषणम् = तन्निष्ठाः
- कर्तृविशेषणम् = तत्परायणाः
- कर्तृविशेषणम् = ज्ञाननिर्धूतकल्मषाः
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥
पदच्छेदः
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥
अन्वयः
पण्डिताः विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि शुनि च एव श्वपाके च समदर्शिनः (भवन्ति) ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = (भवन्ति)
- वाक्यांश:
- कर्तृ-विशेषण-सूचक-पदम् = समदर्शिनः
- अधिकरणपदम् = विद्याविनयसम्पन्ने
- अधिकरणपदम् = ब्राह्मणे
- अधिकरणपदम् = गवि
- अधिकरणपदम् = हस्तिनि
- अधिकरणपदम् = शुनि
- सम्योजकपदम् = च
- अधिकरण-विशेषणम् = एव
- अधिकरणपदम् = श्वपाके
- कर्तृपदम् = पण्डिताः
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ १९ ॥
पदच्छेदः
इह एव तैः जितः सर्गः येषां साम्ये स्थितं मनः निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ १९ ॥
अन्वयः
येषां साम्ये मनः स्थितं तैः सर्गः इह एव जितः । समं हि ब्रह्म निर्दोषम् । तस्मात् ते ब्रह्मणि स्थिताः ।
पदपरिचय:
- प्रथमवाक्यम्
- “येषाम्” वाक्यांश:
- क्रिया-गर्भ-कर्तृपदम्= स्थितम्
- वाक्यांश:
- कर्तृपदम् = मनः
- सम्बन्ध-पदम् = येषाम्
- अधिकरणपदम् = साम्ये
- “तैः” वाक्यांश:
- क्रिया-गर्भ-कर्मपदम्= जितः
- अधिकरणपदम् = इह
- अधिकरण-विशेषणम् = एव
- कर्मपदम् = सर्गः
- कर्तृपदम् = तैः
- द्वितीयवाक्यम्
- क्रियापदम् = (अस्ति)
- वाक्यांश:
- कर्तृ-विशेषण-सूचक-पदम् = समम्
- कर्तृविशेषणम् = हि
- कर्तृपदम् = ब्रह्म
- कर्तृविशेषणम् = निर्दोषम्
- तृतीयवाक्यम्
- क्रिया-गर्भ-कर्तृपदम्= स्थिताः
- अधिकरणपदम् = ब्रह्मणि
- कर्तृपदम् = ते
- कारणवाचकपदम् = तस्मात्
- “येषाम्” वाक्यांश:
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ २० ॥
पदच्छेदः
न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य च अप्रियम् स्थिरबुद्धिः असम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ २० ॥
अन्वयः
ब्रह्मवित् ब्रह्मणि स्थितः स्थिरबुद्धिः असम्मूढः प्रियं प्राप्य न प्रहृष्येत् । अप्रियं प्राप्य च न उद्विजेत् ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = प्रहृष्येत्
- क्रियाविशेषणम् = न
- ल्यबन्त-वाक्यांश:
- ल्यबन्तपदम् = प्राप्य
- कर्मपदम् = प्रियम्
- कर्तृपदम् = असम्मूढः
- कर्तृविशेषणम् = ब्रह्मवित्
- वाक्यांश:
- क्रिया-गर्भ-कर्तृपदम्= स्थितः
- अधिकरणपदम् = ब्रह्मणि
- कर्तृविशेषणम् = स्थिरबुद्धिः
- द्वितीयवाक्यम्
- क्रियापदम् = उद्विजेत्
- क्रियाविशेषणम् = न
- ल्यबन्त-वाक्यांश:
- ल्यबन्तपदम् = प्राप्य
- कर्मपदम् = अप्रियम्
- सम्योजकपदम् = च
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ २१ ॥
पदच्छेदः
बाह्यस्पर्शेषु असक्तात्मा विन्दति आत्मनि यत् सुखम् स ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते ॥ २१ ॥
अन्वयः
बाह्यस्पर्शेषु असक्तात्मा आत्मनि यत् सुखं विन्दति सः ब्रह्मयोगयुक्तात्मा अक्षयं सुखम् अश्नुते ।
पदपरिचय:
- प्रथमवाक्यम्
- “यत्” वाक्यांश:
- क्रियापदम् = विन्दति
- कर्मपदम् = सुखम्
- कर्मविशेषणम् = यत्
- अधिकरणपदम् = आत्मनि
- वाक्यांश:
- क्रिया-गर्भ-कर्तृपदम्= असक्तात्मा
- सम्बन्ध-पदम् = बाह्यस्पर्शेषु
- “सः” वाक्यांश:
- क्रियापदम् = अश्नुते
- कर्मपदम् = सुखम्
- कर्मविशेषणम् = अक्षयम्
- कर्तृपदम् = सः
- कर्तृविशेषणम् = ब्रह्मयोगयुक्तात्मा
- “यत्” वाक्यांश:
ये हि संस्पर्शजा भोगाः दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥
पदच्छेदः
ये हि संस्पर्शजाः भोगाः दुःखयोनयः एव ते आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥
अन्वयः
कौन्तेय ! ये संस्पर्शजाः भोगाः ते आद्यन्तवन्तः दुःखयोनयः एव हि । बुधः तेषु न रमते ।
पदपरिचय:
- सम्बोधनपदम् = कौन्तेय
- प्रथमवाक्यम्
- “ये” वाक्यांश:
- क्रियापदम् = (भवन्ति)
- कर्तृ-विशेषण-सूचक-पदम् = संस्पर्शजाः
- कर्तृपदम् = भोगाः
- कर्तृविशेषणम् = ये
- “ते” वाक्यांश:
- क्रियापदम् = (भवन्ति)
- कर्तृ-विशेषण-सूचक-पदम् = आद्यन्तवन्तः
- वाक्यांश:
- कर्तृ-विशेषण-सूचक-पदम् = दुःखयोनयः
- कर्तृ-विशेषण-सूचक-पदम् = एव
- कर्तृ-विशेषण-सूचक-पदम् = हि
- कर्तृपदम् = ते
- द्वितीयवाक्यम्
- क्रियापदम् = रमते
- क्रियाविशेषणम् = न
- अधिकरणपदम् = तेषु
- कर्तृपदम् = बुधः
- “ये” वाक्यांश:
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ २३ ॥
पदच्छेदः
शक्नोति इह एव यः सोढुं प्राक्शरीरविमोक्षणात् कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ २३ ॥
अन्वयः
यः इह एव शरीरविमोक्षणात् प्राक् कामक्रोधोद्भवं वेगं सोढुं शक्नोति सः नरः युक्तः, सः (एव च) सुखी ।
पदपरिचय:
- प्रथमवाक्यम्
- “यः” वाक्यांश:
- क्रियापदम् = शक्नोति
- तुमुनन्तपदम् = सोढुम्
- कर्मपदम् = वेगम्
- कर्मविशेषणम् = कामक्रोधोद्भवम्
- वाक्यांश:
- कर्मविशेषण-सूचक-पदम् = प्राक्
- अपादानपदम् = शरीरविमोक्षणात्
- अधिकरणपदम् = इह
- अधिकरण-विशेषणम् = एव
- कर्तृपदम् = यः
- “सः” वाक्यांश:
- क्रियापदम् = (भवति)
- कर्तृ-विशेषण-सूचक-पदम् = युक्तः
- कर्तृपदम् = नरः
- कर्तृविशेषणम् = सः
- द्वितीयवाक्यम्
- क्रियापदम् = (भवति)
- कर्तृ-विशेषण-सूचक-पदम् = सुखी
- सम्योजकपदम् = (च)
- कर्तृपदम् = सः
- कर्तृ-विशेषण-सूचक-पदम् = (एव)
- “यः” वाक्यांश:
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥
पदच्छेदः
यः अन्तः सुखः अन्तरारामः तथा अन्तर्ज्योतिः एव यः स योगी ब्रह्मनिर्वाणं ब्रह्मभूतः अधिगच्छति ॥ २४ ॥
अन्वयः
यः अन्तःसुखः अन्तरारामः तथा यः एव अन्तर्ज्योतिः सः योगी ब्रह्मभूतः ब्रह्मनिर्वाणम् अधिगच्छति।
पदपरिचय:
- प्रथमवाक्यम्
- “यः” वाक्यांश:
- क्रियापदम् = (भवति)
- कर्तृ-विशेषण-सूचक-पदम् = अन्तःसुखः
- कर्तृ-विशेषण-सूचक-पदम् = अन्तरारामः
- कर्तृपदम् = यः
- “यः” वाक्यांश:
- क्रियापदम् = (भवति)
- कर्तृ-विशेषण-सूचक-पदम् = अन्तर्ज्योतिः
- कर्तृपदम् = यः
- कर्तृ-विशेषण-सूचक-पदम् = एव
- “सः” वाक्यांश:
- क्रियापदम् = अधिगच्छति
- कर्तृपदम् = सः
- कर्तृविशेषणम् = योगी
- कर्तृविशेषणम् = ब्रह्मभूतः
- “यः” वाक्यांश:
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥
पदच्छेदः
लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥’
अन्वयः
क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = लभन्ते
- कर्मपदम् = ब्रह्मनिर्वाणम्
- कर्तृपदम् = ऋषयः
- वाक्यांश:
- कर्तृविशेषणम् = रताः
- अधिकरणपदम् = सर्वभूतहिते
- कर्तृविशेषणम् = यतात्मानः
- कर्तृविशेषणम् = छिन्नद्वैधाः
- कर्तृविशेषणम् = क्षीणकल्मषाः
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥
पदच्छेदः
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् अभितः ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥
अन्वयः
कामक्रोधवियुक्तानां यतचेतसां विदितात्मनां यतीनां ब्रह्मनिवाणम् अभितः वर्तते ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = वर्तते
- क्रियाविशेषणम् = अभितः
- कर्मपदम् = ब्रह्मनिवाणम्
- सम्बन्ध-पदम् = यतीनाम्
- सम्बन्ध-विशेषण-पदम् = कामक्रोधवियुक्तानाम्
- सम्बन्ध-विशेषण-पदम् = यतचेतसाम्
- सम्बन्ध-विशेषण-पदम् = विदितात्मनाम्
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ २८ ॥
पदच्छेदः
स्पर्शान् कृत्वा बहिः बाह्यान् चक्षुः चैव अन्तरे भ्रुवोः प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥ यतेन्द्रियमनोबुद्धिः मुनिः मोक्षपरायणः विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ २८ ॥
अन्वयः
यः स्पर्शान् बाह्यान् बहिः चक्षुः च एव भ्रुवोः अन्तरे कृत्वा नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा यतेन्द्रियमनोबुद्धिः मोक्षपरायणः विगतेच्छाभयक्रोधः मुनिः (वर्तते) सः सदा मुक्तः एव ।
पदपरिचय:
- प्रथमवाक्यम्
- “यः” वाक्यांश:
- क्रियापदम् = (वर्तते)
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = कृत्वा
- स्थानवाचकपदम् = बहिः
- कर्मपदम् = स्पर्शान्
- कर्मविशेषणम् = बाह्यान्
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = कृत्वा
- वाक्यांश:
- स्थानवाचकपदम् = अन्तरे
- सम्बन्ध-पदम् = भ्रुवोः
- सम्योजकपदम् = च
- सम्योजकपदम् = एव
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = कृत्वा
- क्रिया-गर्भ-कर्मपदम्= समौ
- कर्मपदम् = प्राणापानौ
- कर्मविशेषणम् = नासाभ्यन्तरचारिणौ
- कर्तृपदम् = यः
- कर्तृविशेषणम् = यतेन्द्रियमनोबुद्धिः
- कर्तृविशेषणम् = मोक्षपरायणः
- कर्तृविशेषणम् = विगतेच्छाभयक्रोधः
- कर्तृविशेषणम् = मुनिः
- “सः” वाक्यांश:
- क्रियापदम् = (भवति)
- कर्तृ-विशेषण-सूचक-पदम् = मुक्तः
- कर्तृ-विशेषण-सूचक-पदम् = एव
- कर्तृपदम् = सः
- कालवाचकपदम् = सदा
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥
पदच्छेदः
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥ २९ ॥
अन्वयः
यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं सर्वभूतानां सुहृदं मां ज्ञात्वा शान्तिम् ऋच्छति ।
पदपरिचय:
- प्रथमवाक्यम्
- क्रियापदम् = ऋच्छति
- कर्मपदम् = शान्तिम्
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = ज्ञात्वा
- कर्मपदम् = माम्
- वाक्यांश:
- कर्मविशेषणम् = सुहृदम्
- सम्बन्ध-पदम् = सर्वभूतानाम्
- कर्मविशेषणम् = सर्वलोकमहेश्वरम्
- वाक्यांश:
- कर्मविशेषणम् = भोक्तारम्
- सम्बन्ध-पदम् = यज्ञतपसाम्
- कर्तृपदम् = सः
References –
- नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
- https://sa.wikipedia.org/s/6ri कर्मसंन्यासयोगः
- Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
- Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
- Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
- Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
- https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site