Bhagavad Gita – Chapter 14 – Part 1

श्रीमद्भगवद्गीता – चतुर्दशोऽध्यायः – गुणत्रयविभागयोगः – भाग: १

श्रीभगवानुवाच

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।

यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १ ॥

पदच्छेदः

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानम् उत्तमम् यत् ज्ञात्वा मुनयः सर्वे परां सिद्धिम् इतः गताः ॥ १ ॥

अन्वयः

भूयः परं ज्ञानानाम् उत्तमं ज्ञानं प्रवक्ष्यामि । सर्वे मुनयः यत् ज्ञात्वा इतः परां सिद्धिं गताः ।

पदपरिचयः

  • “यत्” वाक्यांशः
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= गताः
      • कर्मपदम् = सिद्धिम्
      • कर्मविशेषणम् = पराम्
      • अपादानपदम् = इतः
    • कर्तृपदम् = मुनयः
    • कर्तृविशेषणम् = सर्वे
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = ज्ञात्वा
      • कर्मपदम् = यत्
    • (तत्) वाक्यांश:
      • क्रियापदम् = प्रवक्ष्यामि
      • क्रियाविशेषणम् =  भूयः
      • कर्मपदम् = (तत्)
      • कर्मविशेषण-वाक्यांश:
        • कर्मपदम् = ज्ञानम्
        • कर्मविशेषणम् = उत्तमम्
        • सम्बन्ध-पदम् = ज्ञानानाम्
      • कर्तृपदम् = (अहम्)

 

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥

पदच्छेदः

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः सर्गे अपि न उपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥

अन्वयः

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः सर्गे अपि न उपजायन्ते प्रलये च न व्यथन्ति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • वाक्यांश:
      • क्रियापदम् = उपजायन्ते
      • क्रियाविशेषणम् =  न
      • अधिकरणपदम् = सर्गे
      • अधिकरण-विशेषणम् = अपि
    • वाक्यांश:
      • क्रियापदम् = व्यथन्ति
      • क्रियाविशेषणम् =  न
      • अधिकरणपदम् = प्रलये
      • सम्योजकपदम् = च
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= आगताः
      • कर्मपदम् = साधर्म्यम्
      • सम्बन्ध-पदम् = मम
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = उपाश्रित्य
        • कर्मपदम् = ज्ञानम्
        • कर्मविशेषणम् = इदम्

मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।

सम्भवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥

पदच्छेदः

मम योनिः महत् ब्रह्म तस्मिन् गर्भं दधामि अहम् सम्भवः सर्वभूतानां ततः भवति भारत ॥ ३ ॥

अन्वयः

भारत ! मम योनिः महत् ब्रह्म । तस्मिन् अहं गर्भं दधामि । ततः सर्वभूतानां सम्भवः भवति ।

पदपरिचयः

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = ब्रह्म
      • कर्तृविशेषणम् = महत्
    • कर्तृपदम् = योनिः
    • सम्बन्ध-पदम् = मम
  • द्वितीयवाक्यम्
    • क्रियापदम् = दधामि
    • कर्मपदम् = गर्भम्
    • कर्तृपदम् = अहम्
    • अधिकरणपदम् = तस्मिन्
  • तृतीयवाक्यम्
    • क्रियापदम् = भवति
    • कर्तृपदम् = सम्भवः
    • सम्बन्ध-पदम् = सर्वभूतानाम्
    • अपादानपदम् = ततः

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।

तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ ४ ॥

पदच्छेदः

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः तासां ब्रह्म महत् योनिः अहं बीजप्रदः पिता ॥ ४ ॥

अन्वयः

कौन्तेय ! सर्वयोनिषु याः मूर्तयः सम्भवन्ति तासां योनिः महत् ब्रह्म अहं बीजप्रदः पिता ।

पदपरिचयः

  • सम्बोधनपदम् = कौन्तेय!
  • प्रथमवाक्यम्
    • “याः” वाक्यांश:
      • क्रियापदम् = सम्भवन्ति
      • कर्तृपदम् = मूर्तयः
      • कर्तृविशेषणम् = याः
      • अधिकरणपदम् = सर्वयोनिषु
    • “तासाम्” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-वाक्यांश:
        • कर्तृपदम् = ब्रह्म
        • कर्तृविशेषणम् = महत्
      • वाक्यांश:
        • कर्तृपदम् = योनिः
        • सम्बन्ध-पदम् = तासाम्
      • द्वितीयवाक्यम्
        • क्रियापदम् = (अस्मि)
        • कर्तृ-विशेषण-सूचक-वाक्यांश:
          • कर्तृपदम् = पिता
          • कर्तृविशेषणम् = बीजप्रदः
        • कर्तृपदम् = अहम्

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।

निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥

पदच्छेदः

सत्त्वं रजः तम इति गुणाः प्रकृतिसम्भवाः निबध्नन्ति महाबाहो देहे देहिनम् अव्ययम् ॥ ५ ॥

अन्वयः

महाबाहो ! सत्त्वं रजः तमः इति प्रकृतिसम्भवाः गुणाः । देहे अव्ययं देहिनं निबध्नन्ति ।

पदपरिचयः

  • सम्बोधनपदम् = महाबाहो!
  • प्रथमवाक्यम्
    • क्रियापदम् = निबध्नन्ति
    • कर्मपदम् = देहिनम्
    • कर्मविशेषणम् = अव्ययम्
    • अधिकरणपदम् = देहे
    • कर्तृ-विशेषण-वाक्यांश:
      • कर्तृपदम् = गुणाः
      • कर्तृविशेषणम् = प्रकृतिसम्भवाः
    • वाक्यांश:
      • कर्तृपदम् = सत्त्वम्
      • कर्तृपदम् = रजः
      • कर्तृपदम् = तमः
      • सम्योजकपदम् = इति

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।

सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥

पदच्छेदः

तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् सुखसङ्गेन बध्नाति ज्ञानसङ्गेन च अनघ ॥ ६ ॥

अन्वयः

अनघ ! तत्र निर्मलत्वात् प्रकाशकम् अनामयं सत्त्वं सुखसेन ज्ञानसेन च बध्नाति ।

पदपरिचयः

  • सम्बोधनपदम् = अनघ!
  • प्रथमवाक्यम्
    • क्रियापदम् = बध्नाति
    • कर्मविशेषण-वाक्यांश:
      • कर्मविशेषणम् = प्रकाशकम्
      • कारणवाचकपदम् = निर्मलत्वात्
    • कर्मविशेषणम् = अनामयम्
    • कर्मपदम् = सत्त्वम्
    • वाक्यांश:
      • करणवाचकपदम् = सुखसेन
      • करणवाचकपदम् = ज्ञानसेन
      • सम्योजकपदम् = च

रजो रागात्मकं विद्धि तृष्णासङ्गसमुवम् ।

तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः

रजः रागात्मकं विद्धि तृष्णासङ्गसमुवम् तत् निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥

अन्वयः

कौन्तेय ! तृष्णासङ्गसमुवं रजः रागात्मकं विद्धि । तत् कर्मसङ्गेन देहिनम् निबध्नाति ।

पदपरिचयः

  • सम्बोधनपदम् = कौन्तेय!
  • प्रथमवाक्यम्
    • क्रियापदम् = विद्धि
    • सम्योजकपदम् = (इति)
    • कर्म-वाक्यम्
      • कर्तृ-विशेषण-सूचक-पदम् = रागात्मकम्
      • कर्तृपदम् = रजः
      • कर्तृविशेषणम् = तृष्णासङ्गसमुवम्
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = निबध्नाति
    • कर्मपदम् = देहिनम्
    • करणवाचकपदम् = कर्मसङ्गेन
    • कर्तृपदम् = तत्

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।

प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥

पदच्छेदः

तमः तु अज्ञानजं विद्धि मोहनं सर्वदेहिनाम् प्रमादालस्यनिद्राभिः तत् निबध्नाति भारत ॥ ८ ॥

अन्वयः

भारत ! सर्वदेहिनां मोहनं तमः तु अज्ञानजं विद्धि । तत् प्रमादालस्यनिद्राभिः निबध्नाति ।

पदपरिचयः

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • क्रियापदम् = विद्धि
    • सम्योजकपदम् = (इति)
    • कर्म-वाक्यम्
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = अज्ञानजम्
      • कर्तृविशेषणम् = मोहनम्
      • कर्तृपदम् = तमः
      • कर्तृ-विशेषण-सूचक-पदम् = तु
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = निबध्नाति
    • करणवाचकपदम् = प्रमादालस्यनिद्राभिः
    • कर्तृपदम् = तत्

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।

ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ ९ ॥

पदच्छेदः

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयत् उत ॥ ९ ॥

अन्वयः

भारत ! सत्त्वं सुखे सञ्जयति । रजः कर्मणि । तमः तु ज्ञानम् आवृत्य प्रमादे सञ्जयति उत ।

पदपरिचयः

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • क्रियापदम् = सञ्जयति
    • अधिकरणपदम् = सुखे
    • कर्तृपदम् = सत्त्वम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (सञ्जयति)
    • अधिकरणपदम् = कर्मणि
    • कर्तृपदम् = रजः
  • तृतीयवाक्यम्
    • क्रियापदम् = सञ्जयति
    • अधिकरणपदम् = प्रमादे
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = आवृत्य
      • कर्मपदम् = ज्ञानम्
      • कर्तृपदम् = तमः
      • कर्तृ-विशेषण-सूचक-पदम् = तु
      • सम्योजकपदम् = उत

रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।

रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १० ॥

पदच्छेदः

रजः तमः च अभिभूय सत्त्वं भवति भारत रजः सत्त्वं तमः च एव तमः सत्त्वं रजः तथा ॥ १० ॥

अन्वयः

भारत ! रजः तमः च अभिभूय सत्त्वं भवति । रजः सत्त्वं च अभिभूय तमः एव (भवति) तथा तमः सत्त्वम् अभिभूय रजः (भवति) ।

पदपरिचयः

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • क्रियापदम् = भवति
    • कर्तृपदम् = सत्त्वम्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = अभिभूय
      • कर्मपदम् = रजः
      • कर्मपदम् = तमः
      • सम्योजकपदम् = च
    • द्वितीयवाक्यम्
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = तमः
      • कर्तृ-विशेषण-सूचक-पदम् = एव
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = अभिभूय
        • कर्मपदम् = रजः
        • कर्मपदम् = सत्त्वम्
        • सम्योजकपदम् = च
      • तृतीयवाक्यम्
        • क्रियापदम् = (भवति)
        • कर्तृपदम् = रजः
        • ल्यबन्त-वाक्यांश:
          • ल्यबन्तपदम् = अभिभूय
          • कर्मपदम् = तमः
          • कर्मपदम् = सत्त्वम्
        • सम्योजकपदम् = तथा

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।

ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥

पदच्छेदः

सर्वद्वारेषु देहे अस्मिन् प्रकाशः उपजायते ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वम् इति उत ॥ ११ ॥

अन्वयः

अस्मिन् देहे सर्वद्वारेषु यदा ज्ञानं प्रकाशः उपजायते तदा सत्त्वं विवृद्धम् उत इति विद्यात् ।

पदपरिचयः

  • “यदा” वाक्यांश:
    • क्रियापदम् = उपजायते
    • कर्तृपदम् = प्रकाशः
    • अधिकरणपदम् = सर्वद्वारेषु
    • वाक्यांश:
      • अधिकरणपदम् = देहे
      • अधिकरण-विशेषणम् = अस्मिन्
    • कालवाचकपदम् = यदा
  • “यदा” वाक्यांश:
    • क्रियापदम् = (उपजायते)
    • कर्तृपदम् = ज्ञानम्
    • कालवाचकपदम् = (यदा)
  • “तदा” वाक्यांश:
    • क्रियापदम् = विद्यात्
    • कर्म-वाक्यम्
      • कर्तृ-विशेषण-सूचक-पदम् = विवृद्धम्
      • कर्तृ-विशेषण-सूचक-पदम् = उत
      • कर्तृपदम् = सत्त्वम्
      • सम्योजकपदम् = इति
    • कर्तृपदम् = (त्वम्)
    • कालवाचकपदम् = तदा

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।

रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥

पदच्छेदः

लोभः प्रवृत्तिः आरम्भः कर्मणाम् अशमः स्पृहा रजसि एतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥

अन्वयः

भरतर्षभ ! लोभः प्रवृत्तिः कर्मणाम् आरम्भः अशमः स्पृहा एतानि रजसि विवृद्धे (सति) जायन्ते ।

पदपरिचयः

  • सम्बोधनपदम् = भरतर्षभ!
  • प्रथमवाक्यम्
    • क्रियापदम् = जायन्ते
    • कालवाचक-वाक्यांश:
      • ज्ञापक-क्रियापदम् = विवृद्धे
      • क्रिया-आश्रय-कर्तृपदम् = रजसि
      • सतिसप्तमि-पदम् = (सति)
    • कर्तृपदम् = एतानि
    • कर्तृ-विशेषण-वाक्यांश:
      • कर्तृपदम् = लोभः
      • कर्तृपदम् = प्रवृत्तिः
      • वाक्यांश:
        • कर्तृपदम् = आरम्भः
        • सम्बन्ध-पदम् = कर्मणाम्
      • कर्तृपदम् = अशमः
      • कर्तृपदम् = स्पृहा

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।

तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥

पदच्छेदः

अप्रकाशः अप्रवृत्तिः च प्रमादः मोहः एव च तमसि एतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥

अन्वयः

कुरुनन्दन ! अप्रकाशः अप्रवृत्तिः च प्रमादः मोहः एव च एतानि तमसि विवृद्धे (सति) जायन्ते ।

पदपरिचयः

  • सम्बोधनपदम् = कुरुनन्दन!
  • प्रथमवाक्यम्
    • क्रियापदम् = जायन्ते
    • कालवाचक-वाक्यांश:
      • ज्ञापक-क्रियापदम् = विवृद्धे
      • क्रिया-आश्रय-कर्तृपदम् = तमसि
      • सतिसप्तमि-पदम् = (सति)
    • कर्तृपदम् = एतानि
    • कर्तृ-विशेषण-वाक्यांश:
      • कर्तृपदम् = अप्रकाशः
      • कर्तृपदम् = अप्रवृत्तिः
      • कर्तृपदम् = प्रमादः
      • कर्तृपदम् = मोहः
      • कर्तृ-विशेषण-सूचक-पदम् = एव
      • सम्योजकपदम् = च

References –

  1. 2 Jan 2016 दिनाङ्के नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6pf १४. गुणत्रयविभागयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s