Short Answers – Practice for Gita Pravesha exam (Till Chapter 9)

गीता-प्रवेश-परीक्षा नवमोऽध्याय-पर्यन्तं प्रश्नोत्तराणि

पञ्चवाक्यैः उत्तरत –

१.? अर्जुनविषादप्रसङ्गं वर्णयत ।
धर्मक्षेत्रे कुरुक्षेत्रे युद्धस्य आरम्भं सूचयितुं सर्वे राजानः स्वस्वशङ्खान् अधमन् । तेन घोरनादेन आकाशे भूमौ च तस्य प्रतिध्वनि: श्रुता | अत: कौरवाः भीताः अभवन् । एवं युयुत्सून् कौरवान् दृष्ट्वा, यदा शस्त्रपातः आरब्धः, अर्जुनः गाण्डीवं धृत्वा अवदत् – “हे कृष्ण ! मम रथम् उभयोः सेनयोः मध्ये स्थापयतु | कै: सह मया योद्धव्यम् इति ज्ञातुं योत्स्यमानान् सर्वान् पश्यामि” । एवम् अर्जुनेन प्रार्थितः कृष्णः सेनयॊः मध्ये रथम् अस्थापयत् ।

१.? उभयोः सेनयोः अपि स्वजनं दृष्ट्वा अर्जुनस्य किं भवति?
उभयोः सेनयोः अपि अर्जुनः बान्धवान्, आचार्यान्, सुहृदश्च पश्यन् अतीव दैन्येन दु:खेन च विषादम् अनुभूतवान्। युद्धाय आगतः अर्जुनः विषादेन मोहितः अभवत् । अतः अर्जुनस्य स्वधर्माचरणे अपि विघ्नः जातः । मोहितः सः युद्धे स्वजनहतेन सम्भाव्यं पातकं विमर्शयितवान् | एतादृशात् पापात् निवर्तनीयमिति चिन्तयन् सः “युद्धं न करोमि” इति युक्तियुक्तं वचनं विस्तरेण कृष्णम् अवदत् ।

१.? कुलक्षयकृतं दोषं, तस्य फलं, पापं च वर्णयत ।
स्वजननाशनेन कुलक्षयः सम्भवति, येन सनातनकुलधर्माणां विनाशः अपि निश्चित: । धर्मे नष्टे सति समस्तं कुलम् अधर्मेण आवृतं भवति | तेन कुलस्त्रीणां दूषणं, वर्णसङ्करः च भवेत् । वर्णसङ्करेण पिण्डोदकादीनां लोपेन पितरः नरके पतन्ति ।

२.? पारमार्थिक+दृष्ट्या अर्जुनः कथं शोचितुं न अर्हति?
आत्मा न हन्ति, हन्यमाने शरीरे अपि न हन्यते च। अतः अज्ञानी एव आत्मानं हन्तारम् इति वा मृतम् इति वा मन्यते। आत्मा न जायते, न म्रियते च। आत्मा जन्मरहितः, नित्यः, सनातनः, पुराणश्च । यथा जनाः जीर्णवस्त्रम् त्यक्त्वा नूतनवस्त्रं धरन्ति, तथा देही जीर्णशरीरं त्यक्त्वा अपरं नूतनशरीरं स्वीकरोति । आत्मानं शस्त्राणि न छिन्दन्ति, अग्निः न दहति, जलं न आर्द्रीकरोति, वायुः न शोषति । आत्मा तु नित्य:, सर्वव्यापी, स्थिरः, शाश्वत: अव्यक्तः, अचिन्त्यः, अविकारी च । अतः आत्मा कमपि न हन्ति, न घातयति च | एवं ज्ञात्वा अर्जुनः शोचितुं न अर्हति ।  (Note: प्रथमाविभक्तौ – हन्ति, हतः, घ्नन्ति)

२.६२, २.६३ विषयम् एव ध्यायतः पुरुषस्य सर्वनाश: कथं भविष्यति?
यः विषयमेव चिन्तयति तस्य विषयासक्तिः भवति | विषयसङ्गात् पुनःपुनः तत् सुखमेव अनुभोक्तव्यमिति तस्मिन् मनसि कामः उद्भवति | यदा तस्य कामस्य पूर्तिः न भवति, तदा  क्रोधः आगच्छति | किमपि अपकार्यं कर्तुमपि सिद्धः भवति | एवं क्रोधात् मनसि मोहः संभवति | मोहस्य कारणात् तेषु विषयेषु अपि च अन्येषु जनेषु वा अन्येषु द्रव्येषु वा वस्तुतः तस्य संबन्धः किमिति न स्मरति | एवं संमोहात् स्मरणनाशः भवति | स्मृतिभ्रंशात् बुद्धिनाशश्च भवति। बुद्धिनाशेन तादृशस्य विषयासक्तस्य सर्वनाशमेव सम्भवति।

२.५५ – २.५८ स्थितप्रज्ञस्य लक्षणं वर्णयत
यः मनोगतान् सर्वान् अभिलाषान् त्यक्त्वा, आत्मनि स्वयम् एव सन्तुष्टः अस्ति, सः स्थितप्रज्ञ: इति उच्यते। यस्य मनः दुःखेषु अनुद्विग्नं, सुखेषु स्पृहा-रहितं च अस्ति, य: रागभयक्रोधरहितः अस्ति, सः स्थिरबुद्धि: पुरुषः इति उच्यते। यः सर्वदा अतिस्नेहरहित: यः शुभाशुभं प्राप्य अधिकं सुखं वा दुःखं वा न अनुभवति, तस्य प्रज्ञा प्रतिष्ठिता । कच्छपः अङ्गानि इव य: इन्द्रियाणि विषयेभ्यः निवारयति, तस्य प्रज्ञा प्रतिष्ठिता भवति |

प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ५५ ॥

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ ५६ ॥

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥

३.१४, ३.१५ सर्वगतं ब्रह्म कथं सर्वदा यज्ञे प्रतिष्ठितम् इति श्रीकृष्ण: वर्णयति ?

प्राणिनाम् उत्पत्तिः अन्नात् भवति । अन्नं तु वृष्टेः कारणात् भवति | वृष्टि: यज्ञात् जायते । यज्ञः कर्मसम्भव: | कर्म वेदात् उद्भवम् । वेद: अक्षरात् परमात्मनः जात: | एवं सर्वव्यापी ब्रह्म सर्वदा यज्ञे उपस्थितम् अस्ति ।

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यः यज्ञः कर्मसमुवः ॥ १४ ॥

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥

३.२५ अविदुषाम् अपेक्षया युक्तः विद्वान् किं किं कथं कुर्यात् इति वर्णयत ।

कर्मणि आसक्ताः अज्ञानिनः यथा कर्म आचरन्ति, तथा अनासक्तः विद्वान् अपि लोकोद्धाराय कर्म आचरेत् । सः ज्ञानी कर्मासक्तानाम् अविदुषां भ्रान्तिं न उत्पादयेत् । सः स्वयं सत्कार्याणि कुर्यात् | सः अन्यैः अपि सत्कार्याणि कारयेत्

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तः चिकिर्षुर्लोकसङ्ग्रहम् ॥ २५ ॥

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥     

.४१ “आदौ इन्द्रियाणि नियम्य कामं प्रजहि” इति कृष्ण: अर्जुनं किमर्थम् उपदिशति ? वर्णयत ।        

अयं कामः, अतृप्तः अग्निः इव, विषयैः पूरयितुम् अशक्यः | सः कामः ज्ञानम् आवृत्य वर्तते । पञ्चेन्द्रियाणि, मनः, बुद्धिः च कामस्य आश्रयाः सन्ति । एषः कामः एभिः पञ्चभिः इन्द्रियैः ज्ञानम् आच्छाद्य शरीरिणं विमोहयति । अतः “आदौ इन्द्रियाणि नियम्य कामं प्रजहि” इति कृष्ण: अर्जुनं उपदिशति |

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९ ॥

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥

४.१, ४.२ अव्ययं योगज्ञानं राजर्षिभिः परम्परया कथं प्राप्तम् ?

अव्ययं योगज्ञानं पूर्वं श्रीकृष्णः सूर्याय उपदिष्टवान् । सूर्यः स्वपुत्राय मनवे उपदिष्टवान् | मनुः इक्ष्वाकवे च उपादिशत् । एवं परम्परया राजर्षिभिः योगज्ञानं प्राप्तम् |
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ ४.१

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥ ४.२ ॥

४.२१, ४.२२  शारीरं कर्म यज्ञकर्म वा आचरन् कर्मबन्धः न भवति कर्म विलीयते च – वर्णयत ।

आशा-रहितः, यतेन्द्रिय-चित्तः, सकल-व्यापार-वर्जितः केवलं शरीर-संरक्षणाय कर्म करोति चेदपि पापं न प्राप्नोति । यः मात्सर्यं द्वन्द्वभावं त्यक्त्वा यदृच्छा-लाभेनैव सन्तुष्टः सन् सिद्ध्यसिद्ध्योः समत्वभावेन कर्म करोति सः कर्मणि बद्धो न भवति । एवं ज्ञानिनः राग-द्वेष-विमुक्ताः सङ्गं त्यक्त्वा यज्ञाय कर्माणि आचरन्ति चेदपि पापं च कर्मबन्धश्च न प्राप्नोति ।

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ २१ ॥

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ २२

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥

४.२४, ४.२९ ब्रह्मयज्ञं प्राणायामयज्ञं च विवृणुत ।

ब्रह्मयज्ञे, यजमानः ब्रह्म, सृगादि-यज्ञसाधनं ब्रह्म, अग्निः ब्रह्म, तत्र आहूतम् आज्यादिकं ब्रह्म, ब्रह्मसमाधिना यजमानेन प्राप्तव्यं स्थानमपि ब्रह्म एव ।

केचन प्राणायाम-परायणाः योगिनः अपान-वायौ प्राण-वायुं समर्पयन्ति । इतरे प्राणवायौ अपानवायुं समर्पयन्ति । एवं कुम्भक-रेचक-पूरकादिक्रमेण प्राणायामं कुर्वन्तः आत्मसंयमनेन परिशुद्धाः भवन्ति ।

[Others offer as sacrifice the out-going breath in the incoming, and the in-coming in the out-going, restraining the courses of the out-going and in-coming breaths, solely absorbed

in the restraint of breath.  PURAKA – Inhalation; RECHAKA- Exhalation; KUMBHAKA- Retention;]

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ४.२४ ॥

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ ४.२९ ॥

5.27 सदा मुक्तस्य लक्षणं वर्णयत ।

यः मुक्तिम् इच्छति, सः सर्वान् इन्द्रियार्थान् बहिः एव कृत्वा तस्मिन् विषये न चिन्त्यात् | सः दृष्टिं भ्रुवोः मध्ये संस्थापयेत् | सः नासिकायां संचरन्तौ प्राणापानौ समौ कुर्यात् | सः इन्द्रियाणि मनः बुद्धिं च नियन्त्रेत् | सः मोक्षपरायणः एव भवेत् | सः इच्छा-भय-क्रोधादि-रहितः भवेत् | यः एतादृशः भवति, सः सदा मुक्तः एव ।

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ २८ ॥

6.5 आत्मना आत्मानं उद्धरेत्, न अवसादयेत् । आत्मा एव आत्मनः बन्धु: रिपुश्च । अस्य आशयं वर्णयत ।

विषय-सङ्ग-रहितं विवेक-सहितं मनः आत्मनः पोषकं भवति । विषय-सङ्ग-सहितं मनः तु आत्मनः मारकं भवति । येन पुरुषेण मनः विषयेभ्यः विमुखीकृतं, तस्य मनः बन्धुवत् हितकारि । यः तादृशः न भवति, तस्य तु तदेव मनः शत्रुवत् पीडाकारी । विषयासक्तं मनः बन्धकं भवति | तत् रहितं तु मोचकं भवति | “मन एव मनुष्याणां कारणं बन्दमोक्षयोः” इति रामायणे अपि वाल्मिकिमहर्षिणा उक्तम् अस्ति |

6.26-28 कथम् आत्मानं सदा युञ्जन् विगतकल्मषः योगी सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखम् अश्नुते ?

चञ्चलं मनः शब्द-स्पर्श-रुप-रस-गंधेषु विषयेषु यत्र कुत्रापि प्रवर्तते एव | योगी तु ततः मनः प्रतिनिवर्तयति । सः मनः वशं कृत्वा आत्मनि एव नयति । तस्य मनः एवं शान्तं भवति | तस्य विषय-रूप-कल्मषं क्षीणं भवति । अतः सः उत्तमं सुखं प्राप्नोति । सः जीवन्मुक्तः भवति ।

 

6:40-43 योगसंसिद्धिम् अप्राप्तस्य इह अमुत्र वा विनाशः न भविष्यति इति श्रीकृष्णः कथं वर्णयति ?

यः शुभस्य कर्ता आसीत् सः कथञ्चिदपि दुर्गतिं न प्राप्नोति ।  सः योगमार्गात् भ्रष्टः भवति चेदपि तस्य अस्मिन् लोके वा परस्मिन् लोके वा पतनं न भवति | अर्थात् पूर्वस्माद् हीनजन्म न प्राप्नोति । पुण्यकर्मिभिः ये लोकाः प्राप्यते, तत्र सः अनेकसंवत्सरं वसति । क्षीणे पुण्ये ततः सदाचार-सम्पन्नानां धनिनां गृहे वा ब्रह्म-विद्यावतां योगिनां कुले वा जन्म प्राप्नोति । सः उत्तम-जन्म प्राप्य, पूर्वस्मिन् देहे या आत्म-विषयिकां बुद्धिम् आसीत् तामेव प्राप्नोति । ततः सः मोक्षार्थं प्रयत्नं करोति ।

 

7:7  “सूत्रे मणिगणा इव मयि इदं सर्वं प्रोतम्” इति कृष्णः कथं समर्थयति ?

सर्वाणि भूतानि प्रकृतिसम्भवानि । इदं समग्रं जगत् भगवतः एव निर्गच्छति, भगवति एव च लीनं प्राप्नोति । भगवदपेक्षया अन्यत् वस्तु किमपि उत्कृष्टतरं नास्ति । एतत् सर्वं तन्तौ मणिसमूहाः इव भगवति योजितम् अस्ति । सकलभूतानां सनातनं बीजं भगवान् एव ।

 

7:29 जरामरणमोक्षाय ये यतन्ति, ते किं किं जानन्ति ?

जरामरणमोक्षाय ये यतन्ति, ते भगवन्तम् एव आश्रयन्ति | ते ब्रह्म जानन्ति | ते समग्रम् आत्मविषयं च अखिलम् कर्म च जानन्ति | ते प्रतिभूतं प्रतिदैवं प्रतियज्ञं च वर्तमानं भगवन्तं जानन्ति |

८.१० प्रयाणकाले कथम् आचरन् भक्तः परमां गतिं याति ?

मरणसमये भक्तस्य मनः निश्चलं भवति | तस्य चिन्तनम् अन्यविषये न भवति | भक्तिभावेन भगवन्तमेव प्रार्थयति | सः समाधिबलेन भ्रुवोः मध्ये प्राणवायुं सम्यक् स्थापयति | भगवन्तं स्मरन् सः तस्य देहं त्यक्त्वा, लोकोत्तरम् उत्तमं पुरुषं एव प्राप्नोति ।
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव ।

भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ ८.१० ॥

८.२४, ८.२५, ८.२६ शुक्लकृष्णे गती, यत्र अनावृत्तिं आवृत्तिं च यान्ति, वर्णयत ।

यत्र अनलः (देवता) कान्तिः (देवता) दिवसः (देवता) शुक्लपक्षः षण्मासावधिकम् उत्तरायणम् (देवता) तस्मिन् काले गताः ब्रह्मोपासकाः जनाः ब्रह्म गच्छन्ति । यत्र धूमः (देवता) रात्रिः (देवता) एवं कृष्णपक्षः (देवता) षण्मासाः दक्षिणायनम् (देवता) तस्मिन् काले गतः योगी चन्द्रलोकं प्राप्य निवर्तते । एवं शुक्लः कृष्णः चेति द्वौ मार्गौ स्तः । तत्र शुक्लमार्गेण ये गच्छन्ति ते न पुनरायान्ति । कृष्णमार्गेण ये गच्छन्ति ते चन्द्रलोकं प्राप्य पुनरायान्ति ।

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ ८.२४ ॥

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ ८.२५ ॥

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ ८.२६ ॥

९.१३ दैवीं प्रकृतिमश्रिताः महात्मानः केन केन प्रकारेण भगवन्तं उपासते ?

दैवीं प्रकृतिमश्रिताः महात्मानः भगवान् एव सर्वेषां भूतानां कारणम् अविनाशिनं च इति मन्यन्ते |  ते एकाग्रचित्ताः भूत्वा भगवन्तं ध्यायन्ति । केचित् कठोरं नियमम् अनुसरन्ति | ते भगवन्तं सर्वदा स्तुवन्ति | पूजादिषु प्रयत्नं कुर्वन्ति | भक्त्या नमस्कुर्वन्ति | भगवन्तं एव सर्वदा चिन्तयन्तः ते बहुविधां सेवां कुर्वन्ति ।

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ ९.१३ ॥

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s