Bhagavad Gita – Chapter 13 – Part 3

श्रीमद्भगवद्गीता – त्रयोदशोध्यायः – क्षेत्रक्षेत्रज्ञविभागयोगः – भाग:  ३

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।

तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ २५ ॥

पदच्छेदः

अन्ये तु एवम् अजानन्तः श्रुत्वा अन्येभ्यः उपासते ते अपि च अतितरन्ति एव मृत्युं श्रुतिपरायणाः ॥ २५ ॥

अन्वयः

अन्ये तु एवम् अजानन्तः अन्येभ्यः श्रुत्वा उपासते । श्रुतिपरायणाः ते अपि च मृत्युम् अतितरन्ति एव ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = उपासते [ उप + आस् “आस उपवेशने” आ. लट्. प्रपु. एक. ]
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = श्रुत्वा
      • अपादानपदम् = अन्येभ्यः
    • कर्तृपदम् = अन्ये
    • कर्तृ-विशेषण-सूचक-पदम् = तु
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = अजानन्तः
      • क्रियाविशेषणम् = एवम्
    • द्वितीयवाक्यम्
      • क्रियापदम् = अतितरन्ति [ अति + तॄ “तॄ प्लवनतरणयोः” पर. लट्. प्रपु. बहु. ]
      • क्रियाविशेषणम् = एव
      • कर्मपदम् = मृत्युम्
      • कर्तृपदम् = ते
      • कर्तृ-विशेषणम् = श्रुतिपरायणाः
      • संयोजकपदम् = अपि
      • संयोजकपदम् = च

यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।

क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २६ ॥

पदच्छेदः

यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम् क्षेत्रक्षेत्रज्ञसंयोगात् तत् विद्धि भरतर्षभ ॥ २६ ॥

अन्वयः

भरतर्षभ ! स्थावरजङ्गमं किञ्चित् सत्त्वं यावत् सञ्जायते तत् क्षेत्रक्षेत्रज्ञसंयोगात् (इति) विद्धि ।

पदपरिचय:

  • सम्बोधनपदम् = भरतर्षभ
  • “यावत्” वाक्यांशः
    • क्रियापदम् = सञ्जायते [ सम् + जन् “जनी प्रादुर्भावे” आत्. लट्. प्रपु. एक. ]
    • कर्तृपदम् = सत्त्वम्
    • कर्तृविशेषणम् = स्थावरजङ्गमम्
    • वाक्यांशः
      • कर्तृविशेषणम् = किञ्चित्
      • कर्तृ-विशेषण-सूचक-पदम् = यावत्
    • “तत्” वाक्यांशः
      • क्रियापदम् = विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
      • कर्म-वाक्यम्
        • क्रियापदम् = (भवति)
        • कर्तृपदम् = तत्
        • कारणवाचकपदम् = क्षेत्रक्षेत्रज्ञसंयोगात्
        • संयोजकपदम् = (इति)

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।

विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ २७ ॥

पदच्छेदः

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् विनश्यत्सु अविनश्यन्तं यः पश्यति सः पश्यति ॥ २७ ॥

अन्वयः

यः सर्वेषु भूतेषु समं तिष्ठन्तं, विनश्यत्सु अविनश्यन्तं, परमेश्वरं, पश्यति, सः पश्यति ।

पदपरिचय:

  • “यः” वाक्यांशः
    • क्रियापदम् = पश्यति [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. प्रपु. एक. ]
    • कर्मपदम् = परमेश्वरम्
    • वाक्यांशः
      • कर्मविशेषणम् = अविनश्यन्तम्
      • अधिकरणपदम् = विनश्यत्सु
    • वाक्यांशः
      • क्रिया-गर्भ-कर्मपदम्= तिष्ठन्तम्
      • क्रियाविशेषणम् = समम्
      • अधिकरणपदम् = भूतेषु
      • अधिकरण-विशेषणम् = सर्वेषु
    • कर्तृपदम् = यः
  • “सः” वाक्यांशः
    • क्रियापदम् = पश्यति [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. प्रपु. एक. ]
    • कर्तृपदम् = सः

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।

न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ २८ ॥

पदच्छेदः

समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् न हिनस्ति आत्मना आत्मानं ततः याति परां गतिम् ॥ २८ ॥

अन्वयः

(सः), सर्वत्र समवस्थितम् ईश्वरं समं पश्यन् हि, आत्मना आत्मानं न हिनस्ति | ततः परां गतिं याति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = हिनस्ति [ हिंस् “हिसि हिंसायाम्” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न
    • कर्मपदम् = आत्मानम्
    • करणवाचकपदम् = आत्मना
    • कर्तृपदम् = (सः)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= पश्यन्
      • कर्तृ-विशेषण-सूचक-पदम् = हि
      • क्रियाविशेषणम् = समम्
      • कर्मपदम् = ईश्वरम्
      • कर्मविशेषण-वाक्यांश:
        • क्रिया-गर्भ-कर्मपदम्= समवस्थितम्
        • स्थानवाचकपदम् = सर्वत्र
      • द्वितीयवाक्यम्
        • क्रियापदम् = याति [ या “या प्रापणे” पर. लट्. प्रपु. एक. ]
        • कर्मपदम् = गतिम्
        • कर्मविशेषणम् = पराम्
        • संयोजकपदम् = ततः

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।

यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ २९ ॥

पदच्छेदः

प्रकृत्या एव च कर्माणि क्रियमाणानि सर्वशः यः पश्यति तथा आत्मानम् अकर्तारं सः पश्यति ॥ २९ ॥

अन्वयः

यः सर्वशः कर्माणि प्रकृत्या एव च क्रियमाणानि (इति) पश्यति, तथा आत्मानम् अकर्तारं (पश्यति), स: पश्यति ।

पदपरिचय:

  • “यः” वाक्यांशः
    • क्रियापदम् = पश्यति [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. प्रपु. एक. ]
    • कर्मविशेषण-वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= क्रियमाणानि
      • क्रियाविशेषणम् =सर्वशः
      • (कर्मणि) कर्तृपदम् = प्रकृत्या
      • (कर्मणि) कर्तृ-विशेषण-सूचक-पदम् = एव
      • संयोजकपदम् = (इति)
    • कर्मपदम् = कर्माणि
    • कर्तृपदम् = यः
    • संयोजकपदम् = च
  • “यः” वाक्यांशः
    • क्रियापदम् = (पश्यति)
    • वाक्यांशः
      • कर्मविशेषण-सूचक-पदम् = अकर्तारम्
      • कर्मपदम् = आत्मानम्
      • संयोजकपदम् = (इति)
    • संयोजकपदम् = तथा
    • कर्तृपदम् = (यः)
  • “सः” वाक्यांशः
    • क्रियापदम् = पश्यति [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. प्रपु. एक. ]
    • कर्तृपदम् = स:

यदा भूतपृथग्भावमेकस्थमनुपश्यति ।

तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३० ॥

पदच्छेदः

यदा भूत+पृथक्+भावम् एकस्थम् अनुपश्यति ततः एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३० ॥

अन्वयः

यदा भूतपृथग्भावम् एकस्थम् (जिज्ञासुः) अनुपश्यति, ततः एव च विस्तारं (अनुपश्यति), तदा (सः) ब्रह्म सम्पद्यते ।

पदपरिचय:

  • “यदा” वाक्यांश:
    • क्रियापदम् = अनुपश्यति [ अनु + दृश् “दृशिर् प्रेक्षणे” पर. लट्. प्रपु. एक. ]
    • वाक्यांशः
      • कर्मविशेषणम् = एकस्थम्
      • संयोजकपदम् = (इति)
    • कर्मपदम् = भूतपृथग्भावम्
    • कालवाचकपदम् = यदा
    • कर्तृपदम् = (जिज्ञासुः)
  • “यदा” वाक्यांश:
    • क्रियापदम् = (अनुपश्यति)
    • वाक्यांशः
      • कर्मपदम् = विस्तारम्
      • अपादानपदम् = ततः
      • अपादानविशेषणम् = एव
      • संयोजकपदम् = (इति)
    • कर्तृपदम् = (सः)
    • कालवाचकपदम् = (यदा)
    • संयोजकपदम् = च
  • “तदा” वाक्यांश:
    • क्रियापदम् = सम्पद्यते [ सम् + पद् “पतॢ गतौ” आत्. लट्. प्रपु. एक. ]
    • कर्मपदम् = ब्रह्म
    • कालवाचकपदम् = तदा
    • कर्तृपदम् = (सः)

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।

शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥

पदच्छेदः

अनादित्वात् निर्गुणत्वात् परमात्मा अयम् अव्ययः शरीरस्थः अपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥

अन्वयः

कौन्तेय ! अयम् अव्ययः परमात्मा शरीरस्थः अपि अनादित्वात् निर्गुणत्वात् न करोति | (कर्मणा आत्मा) न लिप्यते ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय
  • प्रथमवाक्यम्
    • क्रियापदम् = करोति [ कृ “डुकृञ् करणे” उभ. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न
    • कारणवाचकपदम् = अनादित्वात्
    • कारणवाचकपदम् = निर्गुणत्वात्
    • कर्तृपदम् = परमात्मा
    • कर्तृविशेषणम् = अव्ययः
    • कर्तृविशेषणम् = अयम्
    • वाक्यांशः
      • कर्तृविशेषणम् = शरीरस्थः
      • कर्तृ-विशेषण-सूचक-पदम् = अपि
    • द्वितीयवाक्यम्
      • (कर्मणि) क्रियापदम् = लिप्यते [ लिप् “लिप उपदेहे” उभय. कर्मणि लट्. प्रपु. एक. ]
      • क्रियाविशेषणम् = न
      • (कर्मणि) कर्मपदम् = (आत्मा)
      • (कर्मणि) कर्तृपदम् = (कर्मणा)

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।

सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३२ ॥

पदच्छेदः

यथा सर्वगतं सौक्ष्म्यात् आकाशं न उपलिप्यते सर्वत्र अवस्थितः देहे तथा आत्मा न उपलिप्यते ॥ ३२ ॥

अन्वयः

यथा सर्वगतम् आकाशं सौक्ष्म्यात् न उपलिप्यते तथा सर्वत्र देहे अवस्थितः आत्मा न उपलिप्यते ।

पदपरिचय:

  • “यथा” वाक्यांशः
    • (कर्मणि) क्रियापदम् = उपलिप्यते [ उप + लिप् “लिप उपदेहे” उभय. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न
    • (कर्मणि) कर्मपदम् = आकाशम्
    • (कर्मणि) कर्मपदम् = सर्वगतम्
    • (कर्मणि) कर्तृपदम् = (केनाऽपि)
    • कारणवाचकपदम् = सौक्ष्म्यात्
    • संयोजकपदम् = यथा
  • “तथा” वाक्यांशः
    • (कर्मणि) क्रियापदम् = उपलिप्यते [ उप + लिप् “लिप उपदेहे” उभय. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न
    • (कर्मणि) कर्मपदम् = आत्मा
    • कर्मविशेषण-वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= अवस्थितः
      • अधिकरणपदम् = देहे
      • स्थानवाचकपदम् = सर्वत्र
    • (कर्मणि) कर्तृपदम् = (केनाऽपि)
    • संयोजकपदम् = तथा

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।

क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥

पदच्छेदः

यथा प्रकाशयति एकः कृत्स्नं लोकम् इमं रविः क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥

अन्वयः

भारत ! यथा एकः रविः कृत्स्नम् इमं लोकं प्रकाशयति, तथा क्षेत्री कृत्स्नं क्षेत्रं प्रकाशयति ।

पदपरिचय:

  • सम्बोधनपदम् = भारत
  • “यथा” वाक्यांशः
    • क्रियापदम् = प्रकाशयति [ प्र + काशृ “काशृ दीप्तौ” आत्. णिजन्त लट्. प्रपु. एक. ]
    • (णिजन्त-प्रयोज्यकर्ता) कर्मपदम् = लोकम्
    • कर्मविशेषणम् = कृत्स्नम्
    • कर्मविशेषणम् = इमम्
    • (णिजन्त-प्रयोजककर्ता) कर्तृपदम् = रविः
    • कर्तृविशेषणम् = एकः
    • संयोजकपदम् = यथा
  • “तथा” वाक्यांशः
    • क्रियापदम् = प्रकाशयति [ प्र + काशृ “काशृ दीप्तौ” आत्. णिजन्त लट्. प्रपु. एक. ]
    • (णिजन्त-प्रयोज्यकर्ता) कर्मपदम् = क्षेत्रम्
    • कर्मविशेषणम् = कृत्स्नम्
    • (णिजन्त-प्रयोजककर्ता) कर्तृपदम् = क्षेत्री
    • संयोजकपदम् = तथा

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।

भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३४ ॥

पदच्छेदः

क्षेत्रक्षेत्रज्ञयोः एवम् अन्तरं ज्ञानचक्षुषा भूतप्रकृतिमोक्षं च ये विदुः यान्ति ते परम् ॥ ३४ ॥

अन्वयः

ये एवं ज्ञानचक्षुषा क्षेत्रक्षेत्रज्ञयोः अन्तरं भूतप्रकृतिमोक्षं च विदुः ते परं यान्ति ।

पदपरिचय:

  • “ये” वाक्यांशः
    • क्रियापदम् = विदुः [ विद् “विद ज्ञाने” पर. लट्. प्रपु. बहु. ]
    • क्रियाविशेषणम् = एवम्
    • कर्मपदम् = भूतप्रकृतिमोक्षम्
    • वाक्यांशः
      • कर्मपदम् = अन्तरम्
      • सम्बन्ध-पदम् = क्षेत्रक्षेत्रज्ञयोः
    • संयोजकपदम् = च
    • करणवाचकपदम् = ज्ञानचक्षुषा
    • कर्तृपदम् = ये
  • “ते” वाक्यांशः
    • क्रियापदम् = यान्ति [ या “या प्रापणे” पर. लट्. प्रपु. बहु. ]
    • कर्मपदम् = परम्
    • कर्तृपदम् = ते

References –

  1. 1 Jan 2016 दिनाङ्के नारायण नम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6pe क्षेत्रक्षेत्रज्ञविभागयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s