Bhagavad Gita – Chapter 13 – Part 1

श्रीमद्भगवद्गीता – त्रयोदशोध्यायः – क्षेत्रक्षेत्रज्ञविभागयोगः – भाग: 1

श्रीभगवानुवाच

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १ ॥

पदच्छेदः

इदं शरीरं कौन्तेय क्षेत्रम् इति अभिधीयते एतत् यः वेत्ति तं प्राहुः क्षेत्रज्ञः इति तद्विदः ॥ १ ॥

अन्वयः

कौन्तेय ! इदं शरीरं क्षेत्रम् इति अभिधीयते । यः एतत् वेत्ति तं क्षेत्रज्ञ: इति तद्विदः प्राहुः ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय
  • प्रथमवाक्यम्
    • क्रियापदम् = अभिधीयते [ अभि + धा “डुधाञ् धारणपोषणयोः” उभ. (अत्र आत्.) कर्मणि लट्. प्रपु. एक. ]
    • कर्म-वाक्यम्
      • कर्तृ-विशेषण-सूचक-पदम् = क्षेत्रम्
      • कर्तृपदम् = शरीरम्
      • कर्तृविशेषणम् = इदम्
      • सम्योजकपदम् = इति
    • द्वितीयवाक्यम्
      • “यः” वाक्यांशः
        • क्रियापदम् = वेत्ति [ विद् “विद ज्ञाने” पर. लट्. प्रपु. एक. | प्रपु. रूपाणि – वेत्ति, वित्त: विदन्ति | वेद,  विदतु:,  विदु:  इति अपि सन्ति ]
        • कर्मपदम् = एतत्
        • कर्तृपदम् = यः
      • “तम्” वाक्यांशः
        • क्रियापदम् = आहुः [ ब्रू “ब्रूञ् व्यक्तायां वाचि” पर. लट्. प्रपु. बहु. ]
        • कर्तृपदम् = तद्विदः
        • कर्मपदम् = तम्
        • कर्म-वाक्यम्
          • कर्तृपदम् = क्षेत्रज्ञ:
          • सम्योजकपदम् = इति

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥

पदच्छेदः

क्षेत्रज्ञं च अपि मां विद्धि सर्वक्षेत्रेषु भारत क्षेत्रक्षेत्रज्ञयोः ज्ञानं यत् तत् ज्ञानं मतं मम ॥ २ ॥

अन्वयः

भारत ! सर्वक्षेत्रेषु क्षेत्रज्ञं च अपि मां विद्धि | यत् क्षेत्रक्षेत्रज्ञयोः ज्ञानं (भवति), तत् (एव) ज्ञानम् (इति) मम मतम् ।

पदपरिचय:

  • सम्बोधनपदम् = भारत
  • प्रथमवाक्यम्
    • क्रियापदम् = विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
    • कर्मपदम् = माम्
    • वाक्यांशः
      • कर्मविशेषणम् = क्षेत्रज्ञम्
      • अधिकरणपदम् = सर्वक्षेत्रेषु
      • कर्मविशेषण-सूचक-पदम् = च
      • कर्मविशेषण-सूचक-पदम् = अपि
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • वाक्यांशः
      • कर्तृपदम् = मतम्
      • सम्बन्ध-पदम् = मम
    • कर्म-वाक्यम्
      • “यत्” वाक्यांशः
        • क्रियापदम् = (भवति)
        • वाक्यांशः
          • कर्तृ-विशेषण-सूचक-पदम् = ज्ञानम्
          • सम्बन्ध-पदम् = क्षेत्रक्षेत्रज्ञयोः
        • कर्तृपदम् = यत्
      • “तत्” वाक्यांशः
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = ज्ञानम्
        • कर्तृपदम् = तत्
      • सम्योजकपदम् = (इति)

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।

स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ३ ॥

पदच्छेदः

तत् क्षेत्रं यत् च यादृक् च यद्विकारि यतः च यत् स च यः यत् प्रभावः च तत् समासेन मे शृणु ॥ ३ ॥

अन्वयः

यत् तत् क्षेत्रं च, यादृक् च, यद्विकारि, यतः च, यः सः च, यत्प्रभावः च यत्, तत् समासेन मे शृणु ।

पदपरिचय:

  • “यत्” वाक्यांशः
    • कर्तृपदम् = यत्
    • कर्तृ-विशेषण-वाक्यम्
      • वाक्यांशः
        • कर्तृ-विशेषण-सूचक-पदम् = क्षेत्रम्
        • कर्तृ-विशेषण-सूचक-पदम् = तत्
        • कर्तृपदम् = यत्
        • सम्योजकपदम् = च
      • वाक्यांशः
        • कर्तृपदम् = यादृक्
        • सम्योजकपदम् = च
      • वाक्यांशः
        • कर्तृपदम् = यद्विकारि
        • सम्योजकपदम् = (च)
      • वाक्यांशः
        • कर्तृपदम् = यतः
        • सम्योजकपदम् = च
      • “यः” वाक्यांशः
        • कर्तृपदम् = यः
        • कर्तृ-विशेषण-सूचक-पदम् = सः
        • कर्तृ-विशेषण-सूचक-पदम् = यत्प्रभावः
        • सम्योजकपदम् = च
      • “तत्” वाक्यांशः
        • क्रियापदम् = शृणु [श्रु “श्रु श्रवणे” पर. लोट्. मपु. एक. ]
        • वाक्यांशः
          • कर्मपदम् = तत्
          • सम्बन्ध-पदम् = मे (मम सकाशात्)
          • करणवाचकपदम् = समासेन
        • कर्तृपदम् = (त्वम्)

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।

ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥

पदच्छेदः

ऋषिभिः बहुधा गीतं छन्दोभिः विविधैः पृथक् ब्रह्मसूत्रपदैः च एव हेतुमद्भिः विनिश्चितैः ॥ ४ ॥

अन्वयः

(तदिदम्) विविधैः छन्दोभिः ऋषिभिः हेतुमद्भिः विनिश्चितैः ब्रह्मसूत्रपदै: च बहुधा पृथक् गीतम् ।

पदपरिचय:

  • क्रियापदम् = (अस्ति)
  • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = गीतम्
  • क्रियाविशेषणम् = बहुधा
  • क्रियाविशेषणम् = पृथक्
  • (कर्मणि) कर्तृपदम् = ऋषिभिः
  • वाक्यांशः
    • करणवाचकपदम् = ब्रह्मसूत्रपदै:
    • करणविशेषणम् = हेतुमद्भिः
    • करणविशेषणम् = विनिश्चितैः
    • सम्योजकपदम् = च
  • वाक्यांशः
    • करणवाचकपदम् = छन्दोभिः
    • करणविशेषणम् = विविधैः

महाभूतान्यहकारो बुद्धिरव्यक्तमेव च ।

इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ५ ॥

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।

एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥

पदच्छेदः

महाभूतानि अहङ्कारः बुद्धिः अव्यक्तम् एव च इन्द्रियाणि दश एकं च पञ्च च इन्द्रियगोचराः ॥ ५ ॥
इच्छा द्वेषः सुखं दुःखं सङ्घातः चेतना धृतिः एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् ॥ ६ ॥

अन्वयः

महाभूतानि अहङ्कारः बुद्धि: अव्यक्तम् एव च दश इन्द्रियाणि एकं (मन:) च पञ्च इन्द्रियगोचराः च इच्छा द्वेष: सुखं दु:खं सङ्घात: चेतना धृतिः च (सन्ति) | एतत् (सर्वं) सविकारं समासेन क्षेत्रम् (मया) उदाहृतम् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृविशेषणम् =महाभूतानि
    • कर्तृविशेषणम् =अहङ्कारः
    • कर्तृविशेषणम् =बुद्धि:
    • वाक्यांशः
      • कर्तृविशेषणम् =अव्यक्तम्
      • कर्तृ-विशेषण-सूचक-पदम् = एव
      • सम्योजकपदम् = च
    • वाक्यांशः
      • कर्तृपदम् =इन्द्रियाणि
      • कर्तृविशेषणम् =दश
    • वाक्यांशः
      • कर्तृपदम् =एकम्
      • कर्तृविशेषणम् =(मनः)
      • सम्योजकपदम् = च
    • वाक्यांशः
      • कर्तृपदम् =इन्द्रियगोचराः
      • कर्तृविशेषणम् =पञ्च
      • सम्योजकपदम् = च
    • कर्तृविशेषणम् =इच्छा
    • कर्तृविशेषणम् =द्वेष:
    • कर्तृविशेषणम् =सुखम्
    • कर्तृविशेषणम् =दु:खम्
    • कर्तृविशेषणम् =सङ्घात:
    • कर्तृविशेषणम् =चेतना
    • कर्तृविशेषणम् =धृतिः
    • सम्योजकपदम् = च
  • द्वितीयवाक्यम्
    • क्रिया-गर्भ-कर्मपदम्= उदाहृतम्
    • (कर्मणि) कर्मविशेषणम् = क्षेत्रम्
    • वाक्यांशः
      • (कर्मणि) कर्मपदम् =एतत्
      • (कर्मणि) कर्मविशेषणम् =सविकारम्
      • करणवाचकपदम् = समासेन
    • (कर्मणि) कर्तृपदम् = (मया) / (पण्डितैः)

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।

आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ७ ॥

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।

जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।

नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ ९ ॥

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।

विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १० ॥

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।

एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥

पदच्छेदः

अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिः आर्जवम् आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः ॥ ७ ॥

इन्द्रियार्थेषु वैराग्यम् अनहङ्कारः एव च जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥

असक्तिः अनभिष्वङ्गः पुत्रदारगृहादिषु नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु ॥ ९ ॥

मयि च अनन्ययोगेन भक्तिः अव्यभिचारिणी विविक्तदेशसेवित्वम् अरतिः जनसंसदि ॥ १० ॥

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् एतत् ज्ञानम् इति प्रोक्तम् अज्ञानं यत् अतः अन्यथा ॥ ११ ॥

अन्वयः

अमानित्वम् , अदम्भित्वम् , अहिंसा , क्षान्तिः , आर्जवम् , आचार्योपासनम् , शौचम् , स्थैर्यम् , आत्मविनिग्रहः , इन्द्रियार्थेषु वैराग्यम् , अनहङ्कारः एव च , जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् , असक्तिः , पुत्रदारगृहादिषु अनभिष्वङ्गः , इष्टानिष्टोपपत्तिषु नित्यं समचित्तत्वं च , मयि च अनन्ययोगेन अव्यभिचारिणी भक्तिः च , विविक्तदेशसेवित्वम् , जनसंसदि अरतिः , अध्यात्मज्ञाननित्यत्वम् तत्त्वज्ञानार्थदर्शनम् (च सन्ति) | एतत् ज्ञानम् इति प्रोक्तम् । अतः अन्यथा यत् (अस्ति) तत् अज्ञानम् (भवति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृपदम् = अमानित्वम्
    • कर्तृपदम् = अदम्भित्वम्
    • कर्तृपदम् = अहिंसा
    • कर्तृपदम् = क्षान्तिः
    • कर्तृपदम् = आर्जवम्
    • कर्तृपदम् = आचार्योपासनम्
    • कर्तृपदम् = शौचम्
    • कर्तृपदम् = स्थैर्यम्
    • कर्तृपदम् = आत्मविनिग्रहः
    • वाक्यांशः
      • कर्तृपदम् = वैराग्यम्
      • अधिकरणपदम् = इन्द्रियार्थेषु
    • वाक्यांशः
      • कर्तृपदम् = अनहङ्कारः
      • कर्तृविशेषणम् = एव
      • सम्योजकपदम् = च
    • कर्तृपदम् = जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्
    • कर्तृपदम् = असक्तिः
    • वाक्यांशः
      • कर्तृपदम् = अनभिष्वङ्गः
      • अधिकरणपदम् = पुत्रदारगृहादिषु
    • वाक्यांशः
      • कर्तृपदम् = समचित्तत्वम्
      • कर्तृविशेषणम् = नित्यम्
      • अधिकरणपदम् = इष्टानिष्टोपपत्तिषु
      • सम्योजकपदम् = च
    • वाक्यांशः
      • कर्तृपदम् = भक्तिः
      • कर्तृविशेषणम् = अव्यभिचारिणी
      • करणवाचकपदम् = अनन्ययोगेन
      • अधिकरणपदम् = मयि
      • सम्योजकपदम् = च
    • कर्तृपदम् = विविक्तदेशसेवित्वम्
    • वाक्यांशः
      • कर्तृपदम् = अरतिः
      • अधिकरणपदम् = जनसंसदि
    • कर्तृपदम् = अध्यात्मज्ञाननित्यत्वम्
    • कर्तृपदम् = तत्त्वज्ञानार्थदर्शनम्
  • द्वितीयवाक्यम्
    • क्रिया-गर्भ-कर्मपदम्= प्रोक्तम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् =ज्ञानम्
    • (कर्मणि) कर्मपदम् =एतत्
    • सम्योजकपदम् = इति
    • (कर्मणि) कर्तृपदम् = (मया) / (सर्वैः)
  • तृतीयवाक्यम्
    • “यत्” वाक्यांशः
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-वाक्यांश:
        • कर्तृपदम् = अन्यथा
        • अपादानपदम् = अतः
      • कर्तृपदम् = यत्
    • “तत्” वाक्यांशः
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = तत्
      • कर्तृ-विशेषण-सूचक-पदम् = अज्ञानम्

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।

अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १२ ॥

पदच्छेदः

ज्ञेयं यत् तत् प्रवक्ष्यामि यत् ज्ञात्वा अमृतम् अश्नुते अनादिमत् परं ब्रह्म न सत् तत् न असत् उच्यते ॥ १२ ॥

अन्वयः

यत् ज्ञेयं यत् ज्ञात्वा अमृतम् अश्नुते तत् प्रवक्ष्यामि । अनादिमत् परं ब्रह्म न सत् । तत् न असत् उच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यत्” वाक्यांशः
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = ज्ञेयम्
      • (कर्मणि) कर्मपदम् = यत्
    • “यत्” वाक्यांशः
      • क्रियापदम् =अश्नुते [ अश् “अशू व्याप्तौ संघाते च” आ. लट्. प्रपु. एक. ]
      • कर्मपदम् = अमृतम्
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् =ज्ञात्वा
        • कर्मपदम् = यत्
      • कर्तृपदम् = (कोऽपि)
    • “तत्” वाक्यांशः
      • क्रियापदम् =प्रवक्ष्यामि [ प्र + वच् “वच परिभाषणे” पर. लट्. उपु. एक. ]
      • कर्मपदम् = तत्
      • कर्तृपदम् = (अहम्)

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥

पदच्छेदः

सर्वतः पाणिपादं तत् सर्वतः अक्षिशिरोमुखम् सर्वतः श्रुतिमत् लोके सर्वम् आवृत्य तिष्ठति ॥ १३ ॥

अन्वयः

सर्वतः पाणिपादं सर्वतः अक्षिशिरोमुखम्, सर्वतः श्रुतिमत् | तत् लोके सर्वम् आवृत्य तिष्ठति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =(सन्ति)
    • वाक्यांशः
      • कर्तृपदम् = पाणिपादम्
      • स्थानवाचकपदम् = सर्वतः
    • वाक्यांशः
      • कर्तृपदम् = अक्षिशिरोमुखम्
      • स्थानवाचकपदम् = सर्वतः
    • वाक्यांशः
      • कर्तृपदम् = श्रुतिमत्
      • स्थानवाचकपदम् = सर्वतः
    • द्वितीयवाक्यम्
      • क्रियापदम् = तिष्ठति [ स्था “ष्टा गतिनिवृत्तौ” पर. लट्. प्रपु. एक. ]
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = आवृत्य
        • कर्मपदम् = सर्वम्
        • अधिकरणपदम् = लोके
      • कर्तृपदम् = तत्

References –

  1. 19 Dec 2015 दिनाङ्के नारायण नम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6pe क्षेत्रक्षेत्रज्ञविभागयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s