Bhagavad Gita Chapter 1 to 9 – Sample Questions for Gita Pravesha exam

श्रीमद्भगवद्गीता – अभ्यासः – अध्यायः

“टिप्पणीं लिखत” – प्रश्नानां उत्तराणि एव लेखनीयम् | श्लोकः न |

अभ्यासः अध्यायः

  1. एकवाक्येन उत्तरं लिखत ।
    • कौरव-पाण्डव-सेनयोः नायकौ कौ?
      कौरव-सेनायाः नायक: भीष्म: | पाण्डव-सेनायाः नायक: भीम: |
      अपर्याप्तंतदस्माकं hबलं भीष्माभिरक्षितम् ।
      पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥
    • भीष्मस्य शङ्खनादं श्रुत्वा दुर्योधनस्य किम् अभवत्?
      दुर्योधनस्यमहान् सन्तोषः जनयितुं भीष्मः शङ्खनादं कृतवान् ।
      तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः ।
      सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥
    • भीष्मस्य शङ्खनादं श्रुत्वा योद्धारः किं कृतवन्तः?
      तदा भीष्मस्य शङ्खनादं श्रुत्वा योद्धारः शङ्खान् भेरीः पणवानकगोमुखान् च एकस्मिन् समये एव वादितवन्तः
      ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
      सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
    • “तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान्” । कस्मात्?
      यद्यपि धार्तराष्ट्राः पाण्डवान् हन्तुम् उयुताः सन्ति, तथापि स्वबान्धवान् हत्वा पाण्डवाः पापम् एव प्राप्नुवन्ति । अतः “वयं धार्तराष्ट्रान् हन्तुं न अर्हाः” इति अर्जुनः वदति |
      निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
      पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥ ३६ ॥
    • उत्सन्नकुलधर्माणां किं भविष्यति?
      येषां मनुष्याणां कृलधर्माचराः नष्टः भवति, नरके तेषां वासः चिरं कालं भवति |
      उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
      नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥
    • अर्जुनस्य क्षेमतरं किम् इति सः वदति?
      “यदि शस्त्रपाणयः धार्तराष्ट्राः अशस्त्रम्, विरोधकार्यं किमपि न कुर्वन्तं,मां रणे हन्युः तत् मम क्षेमतरं भवेत्” इति अर्जुनः वदति |
      यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।

      धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥
  2. प्रथमोऽध्यायस्य एतेषां ५ श्लोकानां अन्वयम्, अन्वयार्थं, तात्पर्यार्थं च लिखत।
    • श्लोकाः – ६, १०, २८, ३९, ४७

अभ्यासः अध्यायः

  1. ५ श्लोकानां अन्वयम्, अन्वयार्थं, तात्पर्यार्थं च लिखत ।
  2. एकवाक्येन उत्तरत –
    • युद्धभूमौ अर्जुनः दुःखेन कथम् उपविष्टः आसीत् ?
      अर्जुनः दयया आक्रान्तः आसीत् | अश्रुपूर्णनेत्रः आसीत् | शोकं अनुभवन्तः सः युद्धभूमौ दुःखेन उपविष्टः आसीत् |
      तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
      विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥
    • अर्जुनस्य स्वभावः केन अपहतः?
      अस्थाने दर्शितं दया दोषः एव भवति | (कार्पण्यदोषेन) अस्थाने दर्शितं दयया अर्जुनस्य स्वभावः अपहत: |
      कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।
      यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥
    • पण्डिताः कान् प्रति न शोचन्ति?
      पण्डिताः मृतवतः जीवितः प्रति न अनुशोचन्ति।
      (मृतवान् मृतवन्तौ     मृतवन्तः

मृतवन्तम्   मृतवन्तौ     मृतवतः)
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥

  • शीतोष्णदुःखदाः मात्रास्पर्शाः कीद्शाः?
    शीतोष्णसुखदुःखदाः मात्रास्पर्शाः आगमापायिनः अनित्याः । यदाकदापि आगच्छन्ति | पुनः निर्गच्छन्ति च | ते सर्वदा न तिष्टन्ति |
    मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
    आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४ ॥
  • के धर्म्यं युद्धं लभन्ते?
    सुखवन्तः क्षत्रियाः धर्म्यं युद्धं लभन्ते ।
    यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
    सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥
  • अव्यवसायिनां बुद्धय: कीद्शी भवन्ति ?
    अव्यवसायिनां निश्चयरहितानां बुद्धयः अनेकविधाः अन्तरहिताः भवन्ति ।
    व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
    बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥
  • कयोः समत्वं कर्मयोगः उच्यते?
    लाभालाभयोः समत्वं कर्मयोगः उच्यते |
    योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
    सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ ४८ ॥
  • कदा निर्वेदं (वैराग्यं) प्राप्नोति?
    यदा तव बुद्धिः अविवेकरूपात् कालुष्यात् मुक्ता भविष्यति, तदा कर्मफलेषु अवश्यं वैराग्यं प्राप्स्यसि ।
    यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
    तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ५२ ॥
  • कामकामी शान्तिं न आप्नोति । कः आप्नोति?
    आपः समुद्रम् यद्वत् प्रविशति तद्वत् सर्वे कामाः यं प्रविशन्ति सः शान्तिम् आप्नोति । यद्यपि बुहत्मात्रया (कियदपि अधिकं) जलं समुद्रं प्रविशति, तथापि, समुद्रे तस्य प्रभावः न भवति |
    आपूर्यमाणमचलप्रतिं समुद्रमापः प्रविशन्ति यद्वत् ।
    तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ७० ॥

अभ्यासः अध्यायः

  1. ५ श्लोकानं अन्वयम्, अन्वयार्थं, तत्पर्यार्थं च लिखत ।
  2. एक वाक्येन उत्तरत –
    • कः मिथ्याचरः इति उच्यते?
      यः अविवेकी पुरुषः इन्द्रियाणि निरुध्य चित्तेन विषयान् चिन्तयन् भवति सः मिथ्याचारः उच्यते ।
      कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्
      इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ६ ॥
    • परस्परं भावयन्तः किम् अवाप्नुवन्ति ?
      जनाः यज्ञेन देवान् आराधयन्ति । देवाः तान् वृष्ट्यादिना पोषन्ति। (एवम्) परस्परं भावयन्तः परं श्रेयः अवाप्नुवन्ति ।
      देवान्भावयतानेन ते देवा भावयन्तु वः ।
      परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥
    • के अघं (पापं) भुञ्जते ?
      ये पापिनः आत्मकारणात् पचन्ति ते तु अघं भुञ्जते ।
      यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
      भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ १३ ॥
    • जनः कस्य किम् अनुवर्तते?
      श्रेष्ठः यत् यत् आचरति (तेन) इतरः जनः तत् तत् एव आचरति । सः यत् प्रमाणं कुरुते लोकः तत् अनुवर्तते |
      यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
      स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥
    • असक्तः विद्वान् किम् इच्छन् कर्म कुर्यात् ?
      असक्तः विद्वान् (लोकसङ्ग्रहं) लोकोद्धारणं इच्छन् कर्म कुर्यात् |
      सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
      कुर्याद्विद्वांस्तथासक्तः चिकिर्षुर्लोकसङ्ग्रहम् ॥ २५ ॥
    • अहङ्कारविमूढात्मा क: (किं चिन्तयति)?
      अहङ्कारविमूढात्मा“कर्ता अहम्” इति चिन्तयति (यद्यपि प्रकृतेः गुणैः सर्वशः क्रियमाणानि कर्माणि भवन्ति) ।
      प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
      अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ २७॥
    • तत्ववित् किं मत्वा न सज्जते ?
      गुणकर्मविभागयोः तत्त्ववित् तु “गुणाः गुणेषु वर्तन्ते” इति मत्वा न सज्जते ।
      तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
      गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥
    • रागद्वेषौ कुत्र व्यवस्थितौ स्तः ?
      ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां विषयेषु रागद्वेषौ व्यवस्थितौ । (तेषु अनुकूलेषु विषयेषु रागः भवति | प्रतिकूलेषु तु द्वेषः ।)
      इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
      तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥
    • बुद्धि: कस्मात् परा? बुद्धेः परः कः ?
      इन्द्रियेभ्यः परं मनः | मनसः परा बुद्धिः | बुद्धेः परतः आत्मा अस्ति ।
      इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
      मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥

अभ्यासः अध्यायः

  1. ५ श्लोकानम् अन्वयम्, अन्वयार्थं, तत्पर्यार्थं च लिखत ।
  2. एक वाक्येन उत्तरत –
    • श्रीकृष्णेन सूर्याय योगं कथं वा उक्तं इति अर्जुनस्य सन्देहस्य कारणं किम् ?
      श्रीकृष्णस्य जन्म अपरम् | सूर्यस्य जन्म परम् । तस्मात् आदौ श्रीकृष्णेन सूर्याय एतत् योगं कथं वा उक्तं इति अर्जुनस्य सन्देहः अभवत् |
      अपरं भवतो जन्म परं जन्म विवस्वतः ।
      कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥
    • युगे युगे भगवान् किमर्थं स्वयं सृजति?
      यदा यदा धर्मस्य हानिः, अधर्मस्य च वर्धनम् भवति तदा भगवान् आत्मानं सृजति । साधूनां परित्रणाय, दुष्कृतां च विनाशाय, धर्मसंस्थापनार्थाय च युगे युगे सम्भवति ।
      यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
      अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥
      परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

      धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ८ ॥
    • लोके जनाः किमर्थं देवताः यजन्ते?
      कर्मणां सिद्धिं अभिलषन्तः इह देवताः यजन्ते ।
      काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
      क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥
    • कस्य ज्ञानेन जनः अशुभात् मोक्ष्यते?
      किं कर्तव्यं किम् अकर्तव्यम् इति विषज्ञानेन जनः अशुभात् मोक्ष्यते |
      किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
      तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥
    • मनुष्येषु युक्तः बुद्धिमान् कः?
      यः कर्मणि अकर्म, अकर्मणि च कर्म पश्येत् सः मनुष्येषु बुद्धिमान् युक्तः ।
      कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
      स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥
    • ज्ञानयज्ञः कस्मात् श्रेयान्? किमर्थम्?
      द्रव्यमयात् यज्ञात् ज्ञानयज्ञः श्रेयान् यतः सर्वं कर्म ज्ञाने अखिलं परिसमाप्यते
      श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
      सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥
    • वेदमुखे वर्णिताः यज्ञाः कीदृशा, एवं ज्ञात्वा किं भविष्यति च?
      वेदेषु वर्णिताः बहुविधाः यज्ञाः कर्मणः उद्भवन्ति | एवं ज्ञात्वा जिज्ञासुः मूक्षं प्राप्नोति |
      एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
      कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥
    • तत्वदर्शिना उपदिष्टेन ज्ञानेन का अनुभूतिः भवति?
      तत्वदर्शिना उपदिष्टेन ज्ञानेन पुनः मोहम् न प्राप्यतेस्वस्मिन् च भगवति च सर्वान् जीवान् द्रष्टुं शक्यते |
      यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।

      येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥
    • ज्ञानाग्निः सर्वकर्माणि कथं भस्मीकरोति?
      यथा प्रज्वलन् अग्निः काष्ठानि भस्मसात् करोति तथा ज्ञानाग्निः सर्वाण्यपि कर्माणि भस्मीकरोति ।
      यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
      ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥
    • कीदृशः आत्मा विनश्यति?
      यस्य आत्मविषयकं ज्ञानं नास्ति, यस्य च तत्र श्रद्धा नास्ति, सः संशयात्मा विनश्यति ।
      अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
      नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४० ॥

अभ्यासः – अध्यायः ५-७

  1. एक वाक्येन उत्तरत ।
    • कीदृशः कर्म कुर्वन्नपि न लिप्यते ?
      योगयुक्तः शुद्धात्मा जितात्मा जितेन्द्रियः यथार्थदर्शी कुर्वन् अपि न लिप्यते ।
      योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
      सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ५.७ ॥
    • योगिनः सङ्गं त्यक्त्वा किमर्थं कर्म कुर्वन्ति ?
      योगिनः कायेन मनसा बुद्ध्या इन्द्रियैः अपि सङ्गं त्यक्वा आत्मशुद्धये कर्म कुर्वन्ति ।
      कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।

योगिनः कर्म कुर्वन्ति सङ्गं त्यक्वात्मशुद्धये ॥ ५.११ ॥

  • सर्व कर्माणि मनसा सन्न्यस्य वशी कुत्र कथं आस्ते ?
    वशी देही सर्वकर्माणि मनसा सन्न्यस्य नवद्वारे पुरे शरीरे, न एव कुर्वन् न कारयन्, सुखम् आस्ते ।
    सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
    नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ ५.१३ ॥
  • कः अम्भसा पद्मपत्रमिव पापेन न लिप्यते ?
    यः ब्रह्मणि आधाय सङ्गं त्यक्त्वा कर्माणि करोति सः अम्भसा पद्मपत्रम् इव पापेन न लिप्यते ।
    ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
    लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ५.१० ॥
  • मात्रास्पर्शाः दुःखयोनयः कीदृश्यः?
    विषयजन्याः भोगाः दुःखयोनयः (आद्यन्तवन्तः) उत्पत्ति+विनाश+सहिताः भवन्ति |

ये हि संस्पर्शजा भोगाः दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ ५.२२ ॥

  • कर्म कीदृशस्य मुनेः कारणं उच्यते ?
    योगम् आरुरुक्षोः मुनेः कारणम् निष्कामबुद्ध्या कर्माचरणं उच्यते ।
    आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
    योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ६.३ ॥
  • सर्वसङ्कल्पसन्न्यासी कदा योगारूढः इति उच्यते ?
    यदा इन्द्रियार्थेषु च कर्मसु च न सक्तो भवति, तदा सर्वसल्पसन्न्यासी योगारूढः इति उच्यते ।
    यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
    सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ ६.४ ॥
  • कीदृशस्य पुरुषस्य आत्मा तस्य (आत्मनः) बन्धु: वा शत्रुः वा भवति ?
    येन आत्मना आत्मा जितः तस्य आत्मा बन्धुः भवति । अनात्मनः आत्मा शत्रुः भवति ।
    बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
    अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६.६ ॥
  • दुःखसंयोगवियोगं योगसंज्ञितं स्थानं किम् ?

यत्र चलनं विना, निरुद्धं चित्तम्, आत्मनि तुष्यति, योगसंज्ञितं स्थानं तदेव भवति |

(यत्र योगसेवया निरुद्धं चित्तम् उपरमते, यत्र च एव आत्मना आत्मानं पश्यन् आत्मनि तुष्यति, यत्र च स्थितः अयं तत्त्वतः न एव चलति | )

यत्रोपरमते चित्तं निरुद्धं योगसेवया ।

यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।

वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ २१ ॥

 

  • अपरा प्रकृतिः कतिविधा भिन्ना, तासां नामानि च लिखत ।
    भूमिः आपः अनलः वायुः खं मनः बुद्धिः अहङ्कारः च एव इति इयं मे प्रकृतिः अष्टधा भिन्ना ।

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ७.४ ॥

  • केन कारणेन गुणेभ्यः परं भगवन्तं न अभिजानाति ?
    त्रिगुणमयैः भावैः इदं सर्वं जगत् मोहितम् । एभ्यः कारणेभ्यः परम् अव्ययं भगवन्तं न अभिजानाति ।
    त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
    मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ ७.१३ ॥
  • के दुरत्ययां मायां तरन्ति?
    ये भगवन्तम् एव प्रपद्यन्ते ते दुरत्ययां मायां तरन्ति ।
    दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
    मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ ७.१४ ॥
  • कीदृशाः सुकृतिनः मां भजन्ते? तेषु कः विशिष्यते ?
    रोगादिपीडितः जिज्ञासुः धनाभिलाषी ज्ञानी च (इति) चतुर्विधाः सुकृतिनः जनाः भगवन्तं भजन्ते । तेषु ज्ञानी विशिष्यते ।
    चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
    आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ७.१६ ॥

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।

प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ ७.१७ ॥

  1. विभज्य सन्धिनाम लिखत ।
    • पश्यञ्शृण्वन् = पश्यन् शृण्वन् – श्चुत्वसन्धिः | श्लोकः 8.
      { सकार + तवर्ग: } + { शकार: + चवर्गः } = प्रथमगण: –> द्वितीयगण: {त … न स } –> {च … ञ श}
    • गच्छन्त्यपुनरावृत्तिम् = गच्छन्ति अपुनरावृत्तिम् – यण् सन्धिः |
    • नोद्विजेत् = न उद्विजेत् – गुण सन्धिः |
    • तांस्तितिक्षस्व = तान् तितिक्षस्व – सत्वम् |
    • मनसैव = मनसा एव – वृद्धि सन्धिः |
    • योगस्त्वया = योग: त्वया – विसर्ग सन्धिः | विसर्गस्य सकारादेशः |
    • बलवद्दृढम् = बलवत् दृढम् – जश्त्वसन्धिः |
    • योगाच्चलितमानसः = योगात् चलितमानसः – श्चुत्वसन्धिः |
    • त्वन्तगतम् = तु अन्तगतम् – यण् सन्धिः |
  2. विग्रहवाक्यं समासनाम च लिखत ।
    • (५.१८) विद्याविनयसम्पन्ने

विद्या च विनयश्च = विद्याविनयौ – इतरेतर द्वन्द्वः |
विद्याविनयाभ्यां सम्पन्नः =  विद्याविनयसम्पन्नः – तृतीयातत्पुरुषः | तस्मिन् |

  • (६.८) ज्ञानविज्ञानतृप्तात्मा
    ज्ञानं च विज्ञानं च = ज्ञानविज्ञाने – इतरेतर द्वन्द्वसमासः |
    ज्ञानविज्ञानाभ्यां तृप्तः = ज्ञानविज्ञानतृप्तः – तृतीयातत्पुरुषः |
    ज्ञानविज्ञानतृप्तात्मा = ज्ञानविज्ञानतृप्तः आत्मा यस्य स: – बहुव्रीहिः |
  • (६.२८) विगतकल्मषः = विगतः कल्मषः यस्मात् सः – बहुव्रीहिः |
  • (६.३६) वश्यात्मना = वश्यः आत्मा यस्य सः – बहुव्रीहिः | तेन |
  • (७.१) आसक्तमनाः= आसक्तं मनः यस्य सः – बहुव्रीहिः |
  • (७.२८) पुण्यकर्मणाम् = पुण्यं कर्म येषां ते – बहुव्रीहिः | तेषाम् |
  1. टिप्पणीं लिखत । (६-८ वाक्यै:)
    • सदा मुक्तस्य लक्षणं वर्णयत (स्पर्शान् कृत्वा बहिर्बाह्यान्……. – स्पर्शादिविषयेभ्यः निवर्तनं, प्राणायामं, इन्द्रियमनोबुद्धिनियन्त्रणदिकम्) | 27
    • आत्मना आत्मानं उद्धरेत्, न अवसादयेत् । आत्मा एव आत्मनः बन्धु: रिपुश्च । अस्य आशयं वर्णयत । 5
    • कथं आत्मानं सदा युञ्जन् विगतकल्मषः योगी सुखेन ब्रह्मसंस्पर्शं अत्यन्तं सुखं अश्नुते ?28
    • योगसंसिद्धिं अप्राप्तस्य इह अमुत्र वा विनाशः न भविष्यति इति श्रीकृष्णः कथं वर्णयति ।37
    • “सूत्रे मणिगणाः इव मयि इदं सर्वं प्रोतम्” इति कृष्णः कथं समर्थयति ? 7
    • जरामरणमोक्षाय ये यतन्ति, ते किं किं जानन्ति ? 29

अभ्यासः – अध्यायः ८-९

  1. एतयोः अद्याययोः पञ्च पञ्च श्लोकानाम् अन्वयं अन्वयार्थं तात्पर्यं च लिखत ।
  2. एक वाक्येन उत्तरत ।
    • यः अन्तकाले मामेव स्मरन् देहं त्यजति, तस्य किं भवति?
      य: अन्तकाले भगवन्तम् एव स्मरन् देहं त्यजति, (विना संशयः) सः भगवतः भावं याति |
      अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्।
      यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ८.५ ॥
    • तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च – कस्मात्?
      अन्ते यं भावं स्मरन् देहं त्यजति तद्भावभावितः तं तम् एव सदा एति । तस्मात् सर्वेषु कालेषु भगवन्तं स्मरणीयम् |
      यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्।
      तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ८.६ ॥
    • के लोकाः पुनरावर्तिनः?
      आब्रह्मभुवनात् लोकाः पुनरावर्तिन: भवन्ति |
      आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन।
      मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ ८.१६ ॥
    • अहोरात्रविदः किम् जानन्ति ?
      सहस्रयुगपर्यन्तम् ब्रह्मण: अह:, युगसहस्रान्तां ब्रह्मण: रात्रिं इति अहोरात्रविद: जनाः जानन्ति |
      सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः।
      रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ ८.१७ ॥
    • प्रकृतिः सचराचरं कथं सूयते?
      साक्षिभूतस्य भगवतः सन्निधिमात्रेण प्रकृतिः सचराचरं सूयते |
      मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
      हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९.१० ॥
    • सर्वाणि भूतानि मत्स्थानि इति श्रीकृष्णः केन उदाहरणेन वदति?
      यथा सदा सर्वत्र संचरन् महान् वायुः आकाशे वर्तमानोऽपि आकाशः वायुना न संबध्यते तथा सर्वाणि भूतानि मत्स्थानि इति श्रीकृष्णः वदति |
      यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
      तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ९.६ ॥
    • आसुरीं प्रकृतिमाश्रिताः कीदृशाः?
      राक्षसीम् आसुरीं च मोहिनीं प्रकृतिम् आश्रिताः बुद्धिहीनाः भवन्ति | तेषां मनोरथः व्यर्थः, कर्म व्यर्थम्, ज्ञानं च व्यर्थं |
      मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
      राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ ९.१२ ॥
    • के पुण्यं स्वर्गलोकं आसाद्य दिव्यान् देवभोगान् अश्नन्ति?
      ये त्रैविद्याः सोमपाः पूतपापाः स्वर्गतिम् इष्ट्वा यज्ञैः भगवन्तं प्रार्थयन्ते, ते पुण्यं सुरेन्द्रलोकम् आसाद्य दिवि दिव्यान् देवभोगान् अश्नन्ति ।
      त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
      ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ ९.२० ॥
    • ये श्रद्धयान्विताः अन्यदेवताः यजन्ते तेषां यजनं कीदृशमिति वदति?
      ये श्रद्धया अन्विताः भक्ताः अन्यदेवताः यजन्ते ते अपि तेषां यजनं अज्ञानपूर्वकम् इति श्रीकृष्णः वदति।
      येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
      तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ९.२३ ॥

 

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s