Bhagavad Gita – Chapter 11 – Part 5

श्रीमद्भगवद्गीता – एकादशोऽध्याय: – विश्वरूपदर्शनयोगः – भाग: ५

श्रीभगवान् उवाच –
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥

पदच्छेदः

मया प्रसन्नेन तव अर्जुन इदं रूपं परं दर्शितम् आत्मयोगात् तेजोमयं विश्वम् अनन्तम् आद्यं यत् मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥

अन्वयः

अर्जुन ! यत् त्वदन्येन न दृष्टपूर्वम्, प्रसन्नेन मया आत्मयोगात् तेजोमयं विश्वम् अनन्तम् आद्यं इदं परं मे रूपं तव दर्शितम् ।

पदपरिचय:

  • सम्बोधनपदम् = अर्जुन
  • प्रथमवाक्यम्
    • “यत्” वाक्यांशः
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = दृष्टपूर्वम्
      • क्रियाविशेषणम् =न
      • (कर्मणि) कर्मपदम् = यत्
      • (कर्मणि) कर्तृपदम् = त्वदन्येन
    • “इदम्” वाक्यांशः
      • वाय्कांशः
        • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = दर्शितम्
        • सम्बन्ध-पदम् = तव
      • (कर्मणि) कर्तृपदम् = मया
      • (कर्मणि) कर्तृविशेषणम् = प्रसन्नेन
      • वाक्यांशः
        • (कर्मणि) कर्मपदम् = रूपम्
        • सम्बन्ध-पदम् = मे
      • (कर्मणि) कर्मविशेषणम् = तेजोमयम्
      • (कर्मणि) कर्मविशेषणम् = विश्वम्
      • (कर्मणि) कर्मविशेषणम् = अनन्तम्
      • (कर्मणि) कर्मविशेषणम् = आद्यम्
      • (कर्मणि) कर्मविशेषणम् = इदम्
      • (कर्मणि) कर्मविशेषणम् = परम्

न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥

पदच्छेदः

न वेदयज्ञाध्ययनैः न दानैः न च क्रियाभिः न तपोभिः उग्रैः एवंरूपः शक्यः अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥

अन्वयः

कुरुप्रवीर ! नृलोके वेदयज्ञाध्ययनैः एवंरूपः अहं (केनापि) द्रष्टुं न शक्यः दानैः न, क्रियाभिः च न, उग्रैः तपोभिः न ।

पदपरिचय:

  • सम्बोधनपदम् = कुरुप्रवीर
  • प्रथमवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = शक्यः
    • क्रियाविशेषणम् =न
    • तुमुनन्तपदम् =द्रष्टुम् [ दृश् “दृशिर् प्रेक्षणे” + तुमुन् प्रत्यय: ]
    • (कर्मणि) कर्मपदम् = अहम्
    • (कर्मणि) कर्मविशेषणम् = एवंरूपः
    • (कर्मणि) कर्तृपदम् = (केनापि)
    • करणवाचकपदम् = वेदयज्ञाध्ययनैः
  • द्वितीयवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = (शक्यः)
    • क्रियाविशेषणम् =न
    • तुमुनन्तपदम् =(द्रष्टुम्)
    • (कर्मणि) कर्मपदम् = (अहम्)
    • (कर्मणि) कर्तृपदम् = (केनापि)
    • करणवाचकपदम् = दानैः
  • तृतीयवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = (शक्यः)
    • क्रियाविशेषणम् =न
    • तुमुनन्तपदम् =(द्रष्टुम्)
    • (कर्मणि) कर्मपदम् = (अहम्)
    • (कर्मणि) कर्तृपदम् = (केनापि)
    • करणवाचकपदम् = क्रियाभिः
    • सम्योजकपदम् = च
  • चतुर्थवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = (शक्यः)
    • क्रियाविशेषणम् =न
    • तुमुनन्तपदम् =(द्रष्टुम्)
    • (कर्मणि) कर्मपदम् = (अहम्)
    • (कर्मणि) कर्तृपदम् = (केनापि)
    • करणवाचकपदम् = तपोभिः
    • करणविशेषणम् = उग्रैः

मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥

दच्छेदः

मा ते व्यथा मा च विमूढभावः दृष्ट्वा रूपं घोरम् ईदृक् मम इदम् व्यपेतभीः प्रीतमनाः पुनः त्वं तत् एव मे रूपम् इदं प्रपश्य ॥ ४९ ॥

अन्वयः

घोरम् ईदृक् मम रूपं दृष्ट्वा ते व्यथा मा (भवतु) | विमूढभावः च मा (भवतु) । त्वं व्यपेतभीः प्रीतमनाः मे तत् एव इदं रूपं पुनः प्रपश्य ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवतु)
    • क्रियाविशेषणम् = मा
    • वाक्यांशः
      • कर्तृपदम् = व्यथा
      • सम्बन्ध-पदम् = ते
    • क्त्वान्त-वाक्यांशः
      • क्त्वान्तपदम् =दृष्ट्वा
      • वाक्यांशः
        • कर्मपदम् = रूपम्
        • सम्बन्ध-पदम् = मम
      • कर्मविशेषणम् = घोरम्
      • कर्मविशेषणम् = ईदृक्
    • द्वितीयवाक्यम्
      • क्रियापदम् = (भवतु)
      • क्रियाविशेषणम् = मा
      • वाक्यांशः
        • कर्तृपदम् = विमूढभावः
        • सम्बन्ध-पदम् = (ते)
      • सम्योजकपदम् = च
    • तृतीयवाक्यम्
      • क्रियापदम् = प्रपश्य [ प्र + दृश् “दृशिर् प्रेक्षणे” पर. लोट्. मपु. एक. ]
      • क्रियाविशेषणम् = पुनः
      • वाक्यांशः
        • कर्मपदम् =रूपम्
        • सम्बन्ध-पदम् = मे
      • वाक्यांशः
        • कर्मविशेषणम् =तत्
        • कर्मविशेषण-सूचक-पदम् = एव
      • कर्मविशेषणम् =इदम्
      • कर्तृपदम् = त्वम्
      • कर्तृविशेषणम् = व्यपेतभीः
      • कर्तृविशेषणम् = प्रीतमनाः

सञ्जय उवाच –
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥

पदच्छेदः

इति अर्जुनं वासुदेवः तथा उक्त्वा स्वकं रूपं दर्शयामास भूयः आश्वासयामास च भीतम् एनं भूत्वा पुनः सौम्यवपुः महात्मा ॥ ५० ॥

अन्वयः

तथा (तत् एव रूपं पुनः प्रपश्य) इति वासुदेवः अर्जुनं उक्त्वा स्वकं रूपं भूयः दर्शयामास । महात्मा सौम्यवपुः पुनः भूत्वा भीतम् एनम् आश्वासयामास च ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = दर्शयामास [ दृश् “दृशिर् प्रेक्षणे” पर. णिजन्त: लिट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = भूयः
    • कर्मपदम् = रूपम्
    • कर्मविशेषणम् = स्वकम्
    • क्त्वान्त-वाक्यांशः
      • क्त्वान्तपदम् =उक्त्वा
      • कर्म-सूचक-पदम् = (तत् एव रूपं पुनः प्रपश्य) इति
    • णिजन्त-प्रयोज्यकर्ता = अर्जुनम्
    • णिजन्त-प्रयोजककर्ता = वासुदेवः
    • सम्योजकपदम् = तथा
  • द्वितीयवाक्यम्
    • क्रियापदम् = आश्वासयामास [ आ + श्वस् “श्वस प्राणने” पर. णिजन्त: लिट्. प्रपु. एक. ]
    • कर्मपदम् = भीतम्
    • कर्मविशेषणम् = एनम्
    • क्त्वान्त-वाक्यांशः
      • क्त्वान्तपदम् =भूत्वा
      • क्रियाविशेषणम् =पुनः
      • कर्तृपदम् = सौम्यवपुः
      • कर्तृविशेषणम् = महात्मा
    • सम्योजकपदम् = च

अर्जुन उवाच 
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ५१ ॥

पदच्छेदः

दृष्ट्वा इदं मानुषं रूपं तव सौम्यं जनार्दन इदानीं अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ५१ ॥

अन्वयः

जनार्दन ! सौम्यं मानुषम् इदं तव रूपं दृष्ट्वा इदानीं (अहं) प्रकृतिं गतः सचेताः संवृत्तः अस्मि ।

पदपरिचय:

  • सम्बोधनपदम् = जनार्दन
  • प्रथमवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = संवृत्तः
    • कर्तृ-विशेषण-सूचक-पदम् = सचेताः
    • कर्तृ-विशेषण-सूचक-वाक्यांशः
      • क्रिया-गर्भ-कर्तृपदम् = गतः
      • कर्मपदम् = प्रकृतिम्
    • कर्तृपदम् = (अहम्)
    • कालवाचकपदम् = इदानीम्
    • क्त्वान्त-वाक्यांशः
      • क्त्वान्तपदम् = दृष्ट्वा
      • वाक्यांशः
        • कर्मपदम् = रूपम्
        • सम्योजकपदम् = तव
      • कर्मविशेषणम् = इदम्
      • कर्मविशेषणम् = सौम्यम्
      • कर्मविशेषणम् = मानुषम्

श्रीभगवानुवाच 
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥

पदच्छेदः

सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यत् मम देवाः अपि अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥

अन्वयः

यत् सुदुर्दर्शं इदं मम रूपं दृष्टवान् असि, देवाः अपि अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ।

पदपरिचय:

  • “यत्” वाक्यांशः
    • क्रियापदम् = असि [ अस् “अस भुवि” पर. लट्. मपु. एक. ]
    • वाक्यांशः
      • क्रिया-गर्भ-कर्तृपदम् = दृष्टवान्
      • वाक्यांशः
        • कर्मपदम् = रूपम्
        • सम्बन्ध-पदम् = मम
      • कर्मविशेषणम् = यत्
      • कर्मविशेषणम् = सुदुर्दर्शम्
      • कर्मविशेषणम् = इदम्
    • कर्तृपदम् = (त्वम्)
  • “अस्य” वाक्यांशः
    • वाक्यंशः
      • क्रिया-गर्भ-कर्तृपदम् = दर्शनकाङ्क्षिणः
      • क्रियाविशेषणम् = नित्यम्
      • सम्बन्ध-पदम् = रूपस्य
      • सम्बन्ध-विशेषण-पदम् = अस्य
    • कर्तृपदम् = देवाः
    • कर्तृ-विशेषण-सूचक-पदम् = अपि

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ५३ ॥

पदच्छेदः

न अहं वेदैः न तपसा न दानेन न च इज्यया शक्य: एवंविधः द्रष्टुं दृष्टवान् असि मां यथा ॥ ५३ ॥

अन्वयः

यथा मां दृष्टवान् असि, अहम् एवंविधः वेदैः न, तपसा न, दानेन न, इज्यया च न (केनापि) द्रष्टुं शक्यः।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यथा” वाक्यांशः
      • क्रियापदम् = असि [ अस् “अस भुवि” पर. लट्. मपु. एक. ]
      • क्रिया-गर्भ-कर्तृपदम् = दृष्टवान्
      • कर्मपदम् = मां
      • सम्योजकपदम् = यथा
    • “एवंविधः” वाक्यांशः
      • क्रियापदम् = (अस्मि)
      • (कर्मणि) क्रिया-गर्भ-कर्तृपदम् = शक्यः
      • क्रियाविशेषणम् = न
      • तुमुनन्तपदम् =द्रष्टुम् [ दृश् “दृशिर् प्रेक्षणे” + तुमुन् प्रत्यय: ]
      • (कर्मणि) कर्मपदम् = अहम्
      • (कर्मणि) कर्मविशेषणम् = एवंविधः
      • करणवाचकपदम् = वेदैः
      • करणवाचकपदम् = तपसा
      • करणवाचकपदम् = दानेन
      • करणवाचकपदम् = इज्यया
      • सम्योजकपदम् = च
      • कर्तृपदम् = (केनापि)

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ५४ ॥

पदच्छेदः

भक्त्या तु अनन्यया शक्य: अहम् एवंविधः अर्जुन ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ५४ ॥

अन्वयः

परन्तप ! अर्जुन ! एवंविधः अहम् अनन्यया भक्त्या तु तत्त्वेन ज्ञातुं द्रष्टुं च प्रवेष्टुं च शक्यः ।

पदपरिचय:

  • सम्बोधनपदम् = परन्तप
  • सम्बोधनपदम् = अर्जुन
  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्मि)
    • (कर्मणि) क्रिया-गर्भ-कर्तृपदम् = शक्यः
    • (कर्मणि) कर्मपदम् = अहम्
    • (कर्मणि) कर्मविशेषणम् = एवंविधः
    • करणवाचकपदम् = अनन्यया
    • करणवाचकपदम् = भक्त्या
    • करणविशेषण-सूचक-पदम् = तु
    • तुमुनन्तपदम् =ज्ञातुम् [ ज्ञा “ज्ञा अवबोधने” + तुमुन् प्रत्यय: ]
    • तुमुनन्तपदम् =द्रष्टुम् [ दृश् “दृशिर् प्रेक्षणे” + तुमुन् प्रत्यय: ]
    • तुमुनन्तपदम् =प्रवेष्टुम् [ प्र + विश् “विश प्रवेशने” + तुमुन् प्रत्यय: ]
    • सम्योजकपदम् = च
    • (कर्मणि) कर्तृपदम् = (केनापि)

मत्कर्मकृन्मत्परमो मद्भक्तः सवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ५५ ॥

पदच्छेदः

मत्कर्मकृत् मत्परमः मद्भक्तः सवर्जितः निर्वैरः सर्वभूतेषु यः स: माम् एति पाण्डव ॥ ५५ ॥

अन्वयः

पाण्डव ! यः मत्कर्मकृत् मत्परमः मद्भक्तः सवर्जितः सर्वभूतेषु निर्वैरः (अस्ति) सः माम् एति ।

पदपरिचय:

  • सम्बोधनपदम् = पाण्डव
  • “यः” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = मत्कर्मकृत्
    • कर्तृ-विशेषण-सूचक-पदम् = मत्परमः
    • कर्तृ-विशेषण-सूचक-पदम् = मद्भक्तः
    • कर्तृ-विशेषण-सूचक-पदम् = सवर्जितः
    • कर्तृ-विशेषण-सूचक-वाक्यांशः
      • कर्तृपदम् = निर्वैरः
      • अधिकरणपदम् = सर्वभूतेषु
    • “सः” वाक्यांशः
      • क्रियापदम् = एति [ इ “इण् गतौ” पर. लट्. प्रपु. एक. ]
      • कर्मपदम् = माम्
      • कर्तृपदम् = सः

References –

  1. 12 Dec 2015 दिनाङ्के नारायण नम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6my विश्वरूपदर्शनयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s