Bhagavad Gita – Chapter 11 – Part 4

श्रीमद्भगवद्गीता – एकादशोऽध्याय: – विश्वरूपदर्शनयोगः – भाग: ५

त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् ।

वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥

पदच्छेदः

त्वम् आदिदेवः पुरुषः पुराणः त्वम् अस्य विश्वस्य परं निधानम् वेत्ता असि वेद्यं च परं च धाम त्वया ततं विश्वम् अनन्तरूप ॥ ३८ ॥

अन्वयः

अनन्तरूप ! त्वम् आदिदेवः पुराणः पुरुषः । त्वम् अस्य विश्वस्य परं निधानं (च) वेत्ता (च) असि । वेद्यं च परं धाम च । विश्वं त्वया ततम् ।

पदपरिचय:

  • सम्बोधनपदम् = अनन्तरूप
  • प्रथमवाक्यम्
    • क्रियापदम् = (असि)
    • कर्तृ-विशेषण-सूचक-पदम् = आदिदेवः
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = पुरुषः
      • कर्तृविशेषणम् = पुराणः
    • कर्तृपदम् = त्वम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = असि [ अस् “अस भुवि” पर. लट्. मपु. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = वेत्ता
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = निधानम्
      • कर्तृविशेषणम् = परम्
      • सम्बन्ध-पदम् = विश्वस्य
      • सम्बन्ध-विशेषण-पदम् = अस्य
    • कर्तृपदम् = त्वम्
  • तृतीयवाक्यम्
    • क्रियापदम् = (असि)
    • कर्तृ-विशेषण-सूचक-पदम् = वेद्यम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = धाम
      • कर्तृविशेषणम् = परम्
    • सम्योजकपदम् = च
    • कर्तृपदम् = (त्वम्)
  • चतुर्थवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = ततम्
    • (कर्मणि) कर्मपदम् = विश्वम्
    • (कर्मणि) कर्तृपदम् = त्वया

वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च ।

नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥

पदच्छेदः

वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः त्वं प्रपितामहः च नमो नमस्ते अस्तु सहस्रकृत्वः पुनः च भूयः अपि नमो नम: ते ॥ ३९ ॥

अन्वयः

त्वं वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः प्रपितामहः च । ते सहस्रकृत्वः नमः नमः अस्तु । पुनः च भूयः अपि ते नमः नमः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (असि)
    • कर्तृ-विशेषण-सूचक-पदम् = वायुः
    • कर्तृ-विशेषण-सूचक-पदम् = यमः
    • कर्तृ-विशेषण-सूचक-पदम् = अग्निः
    • कर्तृ-विशेषण-सूचक-पदम् = वरुणः
    • कर्तृ-विशेषण-सूचक-पदम् = शशाङ्कः
    • कर्तृ-विशेषण-सूचक-पदम् = प्रजापतिः
    • कर्तृ-विशेषण-सूचक-पदम् = प्रपितामहः
    • सम्योजकपदम् = च
    • कर्तृपदम् = त्वम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = अस्तु [ अस् “अस भुवि” पर. लोट्. प्रपु. एक. ]
    • कर्तृपदम् = नमः
    • कर्तृविशेषणम् = सहस्रकृत्वः [ अव्ययम् ]
    • सम्प्रदानपदम् = ते (तुभ्यम्)
  • तृतीयवाक्यम्
    • क्रियापदम् = (अस्तु)
    • क्रियाविशेषणम् =पुनः
    • वाक्यांश:
      • क्रियाविशेषणम् =भूयः
      • क्रियाविशेषणम् =अपि
    • सम्योजकपदम् = च
    • कर्तृपदम् = नमः
    • सम्प्रदानपदम् = ते (तुभ्यम्)

नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व ।

अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ४० ॥

पदच्छेदः

नमः पुरस्तात् अथ पृष्ठतः ते नमः अस्तु ते सर्वतः एव सर्व अनन्तवीर्य अमितविक्रमः त्वं सर्वं समाप्नोषि ततः असि सर्वः ॥ ४० ॥

अन्वयः

पुरस्तात् अथ पृष्ठतः ते नमः । सर्व ! ते सर्वतः एव नमः अस्तु । अनन्तवीर्य ! अमितविक्रमः त्वम् सर्वं समाप्नोषि । ततः सर्वः असि ।

पदपरिचय:

  • सम्बोधनपदम् = सर्व
  • सम्बोधनपदम् = अनन्तवीर्य
  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्तु)
    • कर्तृपदम् = नमः
    • सम्प्रदानपदम् = ते (तुभ्यम्)
    • अपादानपदम् = पुरस्तात्
    • अपादानपदम् = पृष्ठतः
    • सम्योजकपदम् = अथ
  • द्वितीयवाक्यम्
    • क्रियापदम् = अस्तु [ अस् “अस भुवि” पर. लोट्. प्रपु. एक. ]
    • कर्तृपदम् = नमः
    • सम्प्रदानपदम् = ते (तुभ्यम्)
    • अपादानपदम् = सर्वतः
    • अपादानविशेषणम् = एव
  • तृतीयवाक्यम्
    • क्रियापदम् = समाप्नोषि [ सम् + आप् “आप्लृ व्याप्तौ” पर. लट्. मपु. एक. ]
    • कर्मपदम् = सर्वम्
    • कर्तृपदम् = त्वम्
    • कर्तृविशेषणम् = अमितविक्रमः
  • चतुर्थवाक्यम्
    • क्रियापदम् = असि [ अस् “अस भुवि” पर. लट्. मपु. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = सर्वः
    • कर्तृपदम् = त्वम्
    • सम्योजकपदम् = ततः

सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ।

अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥

यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ।

एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥

पदच्छेदः

यत् च अवहासार्थम् असत्कृतः असि विहारशय्यासनभोजनेषु एकः अथवा अपि अच्युत तत्समक्षं तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥ ४२ ॥

सखा इति मत्वा प्रसभं यत् उक्तं हे कृष्ण हे यादव हे सख इति अजानता महिमानं तव इदं मया प्रमादात् प्रणयेन वा अपि ॥ ४१ ॥

अन्वयः

अच्युत ! तव महिमानम् इदम् अजानता मया, प्रमादात् वा प्रणयेन वा अपि, सखा इति मत्वा, “हे कृष्ण हे यादव हे सख” इति यत् प्रसभं उक्तम्, विहारशय्यासनभोजनेषु अपहासार्थम् एकः अथवा तत्समक्षं वा, (येन) (त्वं) (मया) असत्कृतः असि, तत् (सर्वम्) अहम् अप्रमेयं त्वां क्षामये ।

  • सम्बोधनपदम् = अच्युत
  • “यत्” वाक्यांशः
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = उक्तम्
    • क्रियाविशेषणम् = प्रसभम्
    • (कर्मणि) कर्म-वाक्यम्
      • सम्बोधनपदम् = हे
      • सम्बोधनपदम् = कृष्ण
      • सम्बोधनपदम् = यादव
      • सम्बोधनपदम् = सख [ सख अ. पुं. सम्बो प्र. एक. ]
      • सम्योजकपदम् = इति
    • (कर्मणि) कर्मविशेषणम् = यत्
    • वाक्यांशः
      • कारणवाचकपदम् = प्रमादात्
      • कारणवाचकपदम् = प्रणयेन
      • सम्योजकपदम् = वा
      • सम्योजकपदम् = अपि
    • (कर्मणि) कर्तृपदम् = मया
    • वाक्यांशः
      • क्रिया-गर्भ-कर्तृपदम् = अजानता
      • कर्मपदम् = महिमानम्
      • कर्मविशेषणम् = इदम्
      • सम्बन्ध-पदम् = तव
    • क्त्वान्त-वाक्यांशः
      • क्त्वान्तपदम् = मत्वा
      • कर्म-वाक्यम्
        • कर्तृपदम् = सखा [ सखि इ. पुं. प्र. एक. ]
        • सम्योजकपदम् = इति
      • “येन” वाक्यांशः
        • क्रियापदम् = असि [ अस् “अस भुवि” पर. लट्. मपु. एक. ]
        • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = असत्कृतः
        • वाक्यांशः
          • (कर्मणि) कर्मपदम् = (त्वम्)
          • (कर्मणि) कर्मविशेषण-वाक्यांशः
            • कर्मविशेषणम् = एकः
            • सम्योजकपदम् = अथवा
            • कर्मविशेषणम् = तत्समक्षम्
            • सम्योजकपदम् = वा
          • (कर्मणि) कर्तृपदम् = (मया)
          • कारणवाचकपदम् = अपहासार्थम्
          • अधिकरणपदम् = विहारशय्यासनभोजनेषु
          • करणवाचकपदम् = (येन)
        • “तत्” वाक्यांशः
          • क्रियापदम् = क्षामये [ क्षम् “क्षमूष् सहने” आ. णिजन्त: लट्. उपु. एक. ]
          • कर्मपदम् = (सर्वम्)
          • कर्मविशेषणम् = तत्
          • वाक्यांशः
            • णिजन्ते प्रयोज्यकर्ता = त्वाम्
            • कर्तृविशेषणम् = अप्रमेयम्
          • णिजन्ते प्रयोजककर्ता = अहम्

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।

न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥

पदच्छेदः

पिता असि लोकस्य चराचरस्य त्वम् अस्य पूज्यः च गुरुः गरीयान् न त्वत्समः अस्ति अभ्यधिकः कुतः अन्यः लोकत्रये अपि अप्रतिमप्रभाव ॥ ४३ ॥

अन्वयः

त्वं चराचरस्य अस्य लोकस्य पिता असि | पूज्यः गरीयान् गुरुः च । अप्रतिमप्रभाव ! लोकत्रये अपि त्वत्समः न अस्ति | अभ्यधिकः अन्यः कुतः ?

पदपरिचय:

  • सम्बोधनपदम् = अप्रतिमप्रभाव
  • प्रथमवाक्यम्
    • क्रियापदम् = असि [ अस् “अस भुवि” पर. लट्. मपु. एक. ]
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = पिता
      • सम्बन्ध-पदम् = लोकस्य
      • सम्बन्ध-विशेषण-पदम् = चराचरस्य
      • सम्बन्ध-विशेषण-पदम् = अस्य
    • कर्तृपदम् = त्वम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = असि [ अस् “अस भुवि” पर. लट्. मपु. एक. ]
    • सम्योजकपदम् = च
    • कर्तृ-विशेषण-वाक्यांश:
      • कर्तृपदम् = गुरुः
      • कर्तृविशेषणम् = गरीयान्
      • कर्तृविशेषणम् = पूज्यः
    • कर्तृपदम् = त्वम्
  • तृतीयवाक्यम्
    • क्रियापदम् = अस्ति [ अस् “अस भुवि” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = त्वत्समः
    • अधिकरणपदम् = लोकत्रये
    • अधिकरण-विशेषण-सूचक-पदम् = अपि
  • चतुर्थवाक्यम्
    • प्रश्नवाचकपदम् = कुतः
    • कर्तृपदम् = अभ्यधिकः
    • कर्तृविशेषणम् = अन्यः

तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।

पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ ४४ ॥

पदच्छेदः

तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वाम् अहम् ईशम् ईड्यम् पितेव पुत्रस्य सखा इव सख्युः प्रियः प्रियायाः अर्हसि देव सोढुम् ॥ ४४ ॥

अन्वयः

देव ! तस्मात् प्रणम्य कायं प्रणिधाय ईड्यम् ईशं त्वाम् अहं प्रसादये । पुत्रस्य पिता इव, सख्युः सखा इव, प्रियायाः प्रियः इव सोढुम् अर्हसि ।

पदपरिचय:

  • सम्बोधनपदम् = देव
  • प्रथमवाक्यम्
    • क्रियापदम् = प्रसादये [ प्र + सद् “षदॢ विशरणगत्यवसादनेषु” पर. णिजन्त: लट्. उपु. एक. ]
    • णिजन्त-प्रयोजककर्ता = अहम्
    • वाक्यांश:
      • णिजन्त-प्रयोज्यकर्ता = त्वाम्
      • कर्तृविशेषणम् = ईड्यम्
      • कर्तृविशेषणम् = ईशम्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = प्रणम्य
      • कारणवाचकपदम् = तस्मात्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = प्रणिधाय
      • कर्मपदम् = कायम्
    • द्वितीयवाक्यम्
      • क्रियापदम् =अर्हसि [ अर्ह “अर्ह पूजायाम्” पर. लट्. मपु. एक. ]
      • कर्मपदम् = सोढुम्
      • वाक्यांश:
        • कर्तृविशेषणम् =पिता
        • सम्बन्ध-पदम् = पुत्रस्य
        • सम्योजकपदम् = इव
      • वाक्यांश:
        • कर्तृविशेषणम् =सखा
        • सम्बन्ध-पदम् = सख्युः
        • सम्योजकपदम् = इव
      • वाक्यांश:
        • कर्तृविशेषणम् =प्रियः
        • सम्बन्ध-पदम् = प्रियायाः
        • सम्योजकपदम् = इव
      • कर्तृपदम् = (त्वम्)

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे ।

तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ ४५ ॥

पदच्छेदः

अदृष्टपूर्वं हृषितः अस्मि दृष्ट्वा भयेन च प्रव्यथितं मनः मे तत् एव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ ४५ ॥

अन्वयः

देवेश, जगन्निवास ! प्रसीद । अदृष्टपूर्वं दृष्ट्वा हृषितः अस्मि । देव ! मे मनः भयेन प्रव्यथितं च । तत् रूपम् एव मे दर्शय ।

पदपरिचय:

  • सम्बोधनपदम् = देवेश
  • सम्बोधनपदम् = जगन्निवास
  • सम्बोधनपदम् = देव
  • प्रथमवाक्यम्
    • क्रियापदम् = प्रसीद [ प्र + सद् “षदॢ विशरणगत्यवसादनेषु” पर. लोट्. मपु. एक. ]
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = हृषितः
    • कर्तृपदम् = (अहम्)
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = दृष्ट्वा
      • कर्मपदम् = अदृष्टपूर्वं
    • तृतीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • सम्योजकपदम् = च
      • कर्तृ-विशेषण-सूचक-पदम् = प्रव्यथितम्
      • कारणवाचकपदम् = भयेन
      • वाक्यांश:
        • कर्तृपदम् = मनः
        • सम्बन्ध-पदम् = मे (मम)
      • चतुर्थवाक्यम्
        • क्रियापदम् = दर्शय [ दृश् “दृशिर् प्रेक्षणे” पर. णिजन्त: लोट्. मपु. एक. ]
        • कर्मपदम् = रूपम्
        • कर्मविशेषणम् = तत्
        • कर्मविशेषण-सूचक-पदम् = एव
        • सम्प्रदानपदम् = मे (मह्यम्)
        • कर्तृपदम् = (त्वम्)

किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव ।

तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥

पदच्छेदः

किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुम् अहं तथा एव तेन एव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥

अन्वयः

सहस्रबाहो ! विश्वमूर्ते ! अहं किरीटिनं गदिनं चक्रहस्तं त्वां तथा एव द्रष्टुम् इच्छामि । चतुर्भुजेन तेन रूपेण एव (उपलक्षितः) भव ।

पदपरिचय:

  • सम्बोधनपदम् = सहस्रबाहो
  • सम्बोधनपदम् = विश्वमूर्ते
  • प्रथमवाक्यम्
    • क्रियापदम् = इच्छामि [ इच्छ “इष इच्छायाम्” पर. लट्. उपु. एक. ]
    • वाक्यांशः
      • तुमुनन्तपदम् =द्रष्टुम् [ दृश् “दृशिर् प्रेक्षणे” + तुमुन् प्रत्यय: ]
      • क्रियाविशेषणम् = तथा
      • क्रियाविशेषणम् = एव
    • कर्मपदम् = त्वाम्
    • कर्मविशेषणम् = किरीटिनम्
    • कर्मविशेषणम् = गदिनम्
    • कर्मविशेषणम् = चक्रहस्तम्
    • कर्तृपदम् = अहम्

References –

  1. 11th Dec 2015 दिनाङ्के नारायण नम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6my विश्वरूपदर्शनयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s