Grammatical aspects in Bhaja Govindam verse 31 – Gurucharanaambuja nirbharabhaktah

31. गुरुचरणाम्बुजनिर्भरभक्तः – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः

श्लोक:

गुरुचरणाम्बुजनिर्भरभक्तः

संसारादचिराद्भव मुक्तः ।

सेन्द्रियमानसनियमादेवं

द्रक्ष्यसि निजहृदयस्थं देवम् ।। ३१ ।।

पदच्छेद:

गुरु+चरण+अम्बुज+निर्भर+भक्तः संसारात् अचिरात् भव मुक्तः सेन्द्रिय+मानस+नियमात् एवं द्रक्ष्यसि निज+हृदयस्थं देवम् |

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =भव [भू “भू सत्तायाम्” पर. लोट्. मपु. एक. ]
    • क्रियाविशेषणम् =अचिरात् [ अव्ययम् ]
    • कर्तृ-विशेषण-सूचक-पदम् = मुक्तः [ अ. पुं. प्र. एक. ]
    • कर्तृपदम् = (त्वम्)
    • कर्तृविशेषणम् = गुरु+चरण+अम्बुज+निर्भर+भक्तः [ अ. पुं. प्र. एक. ]
    • अपादानपदम् = संसारात् [ अ. पुं. प. एक. ]
    • कारणवाचकपदम् = सेन्द्रिय+मानस+नियमात् [ अ. पुं. प. एक. ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = द्रक्ष्यसि [ दृश् “दृशिर् प्रेक्षणे” पर. लिट्. मपु. एक. ]
    • क्रियाविशेषणम् = एवम् [ अव्ययम् ]
    • कर्मपदम् = देवम् [ अ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = निज+हृदयस्थम् [ अ. पुं. द्वि. एक. ]
    • कर्तृपदम् = (त्वम्)

अन्वय:

गुरु+चरण+अम्बुज+निर्भर+भक्तः (त्वं) सेन्द्रिय+मानस+नियमात् संसारात् अचिरात् मुक्तः भव | एवं (त्वं) निज+हृदयस्थं देवं द्रक्ष्यसि |

सार:

गुरो: पादाम्बुजे अव्याजदृढभक्तियुक्त: जितेन्द्रिय: नियतचित्तश्च सन् अचिरात् जनिमृतिरूपात् संसारात् मुक्तो भव | एवं जीवन्मुक्त: चेत् हृदयस्थितं परमात्मानं द्रक्ष्यसि |

व्याकरणम्

  • सन्धि:
    • संसारादचिरात् = संसारात् + अचिरात्
    • अचिराद्भव = अचिरात् + भव
    • सेन्द्रियमानसनियमादेवम् = सेन्द्रियमानसनियमात् + एवम्
  • विग्रह:
    • गुरुचरणाम्बुजनिर्भरभक्तः
      • निर्भरभक्तः – निर्भरा भक्ति: यस्य स: – बहुव्रीहि: |
      • गुरुचरणाम्बुजम् – गुरुचरणमेव अम्बुजम् – अवधारणा-पूर्वपद-कर्मधारय: |
      • गुरुचरणाम्बुजनिर्भरभक्तः – गुरुचरणाम्बुजे निर्भरभक्तः – सप्तमितत्पुरुष: |
    • सेन्द्रियमानसनियमात्
      • सेन्द्रियमानसम् – इन्द्रियेण सहितं मानसम् | (स + इन्द्रिय = सेन्द्रिय – वृद्धिसन्धि: )
      • सेन्द्रियमानसनियम: – सेन्द्रियमानसस्य नियम: – षष्ठीतत्पुरुष: |
      • सेन्द्रियमानसनियमात् – तस्मात् |
    • निजहृदयस्थम्
      • निजहृदयम् – निजं हृदयम् |
      • निजहृदयस्थ: – निजहृदये तिष्ठतीति |
      • निजहृदयस्थम् – तम् |

Gurucaraṇāmbujanirbharabhaktaḥ
sansārādacirādbhava muktaḥ |
sēndriyamānasaniyamādēvaṁ
drakṣyasi nijahr̥dayasthaṁ dēvam || 31 ||

With increasing devotion surrender thyself at the feet of thy Guru (the Lord). Thou attain salvation, relieved from the bondages of the world. Thou perceive the Lord in thy heart when thou bring under control thy body and mind. Thus thou cut down the tree of transmigration.

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s