Bhagavad Gita – Chapter 11 – Part 3

श्रीमद्भगवद्गीता – एकादशोऽध्याय: – विश्वरूपदर्शनयोगः – भाग: ३

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ २७ ॥

पदच्छेदः

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सह एव अवनिपालसङ्घैः भीष्मः द्रोणः सूतपुत्रः तथा असौ सह अस्मदीयैः अपि योधमुख्यैः ॥ २६ ॥

वक्त्राणि ते त्वरमाणा: विशन्ति दंष्ट्राकरालानि भयानकानि केचित् विलग्ना: दशनान्तरेषु सन्दृश्यन्ते चूर्णितैः उत्तमाङ्गैः ॥ २७ ॥

अन्वयः

अवनिपालसङ्घैः सह एव सर्वे च अमी धृतराष्ट्रस्य पुत्राः, तथा असौ भीष्मः द्रोणः सूतपुत्रः अस्मदीयैः योधमुख्यैः सह त्वां (विशन्ति) । ते दंष्ट्राकरालानि भयानकानि वक्त्राणि त्वरमाणाः विशन्ति । केचित् दशनान्तरेषु विलग्नाः चूर्णितैः उत्तमाङ्गैः (उपलक्षिताः) सन्दृश्यन्ते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (विशन्ति)
    • कर्मपदम् = त्वाम्
    • वाक्यांश:
      • कर्तृपदम् = पुत्राः
      • सम्बन्ध-विशेषण-पदम् = धृतराष्ट्रस्य
    • कर्तृविशेषणम् = अमी
    • कर्तृविशेषणम् = सर्वे
    • वाक्यांश:
      • करणवाचकपदम् = अवनिपालसङ्घैः
      • सम्योजकपदम् = सह
      • करणविशेषण-सूचक-पदम् = एव
    • सम्योजकपदम् = च
    • वाक्यांश:
      • कर्तृपदम् = भीष्मः
      • कर्तृविशेषणम् = असौ
      • सम्योजकपदम् = तथा
    • कर्तृपदम् = द्रोणः
    • कर्तृपदम् = सूतपुत्रः
    • वाक्यांश:
      • करणवाचकपदम् = अस्मदीयैः
      • करणवाचकपदम् = योधमुख्यैः
      • सम्योजकपदम् = सह
    • द्वितीयवाक्यम्
      • क्रियापदम् = विशन्ति [ विश् “विश प्रवेशने”, पर. लट्. प्रपु. बहु. ]
      • वाक्यांश:
        • कर्मपदम् = वक्त्राणि
        • सम्बन्ध-पदम् = ते
      • कर्मविशेषणम् = दंष्ट्राकरालानि
      • कर्मविशेषणम् = भयानकानि
      • कर्तृपदम् = त्वरमाणाः
    • तृतीयवाक्यम्
      • क्रियापदम् = सन्दृश्यन्ते [ सम् + दृश् “दृशिर् प्रेक्षणे” पर. कर्मणि लट्. मपु. एक. ]
      • वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= विलग्नाः [ वि + लग् “लगे सङ्गे” ]
        • अधिकरणपदम् = दशनान्तरेषु
      • कर्तृविशेषणम् = केचित्
      • कर्तृ-विशेषण-वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम् = उपलक्षिताः [ उप + लक्ष् “लक्ष दर्शनाङ्कनयो:” ]
        • करणवाचकपदम् = उत्तमौः
        • करणविशेषणम् = चूर्णितैः

यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।

तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥

पदच्छेदः

यथा नदीनां बहवः अम्बुवेगाः समुद्रम् एव अभिमुखाः द्रवन्ति तथा तव अमी नरलोकवीराः विशन्ति वक्त्राणि अभिविज्वलन्ति ॥ २८ ॥

अन्वयः

यथा नदीनां बहवः अम्बुवेगाः समुद्रम् एव अभिमुखाः द्रवन्ति तथा अमी नरलोकवीराः अभिविज्वलन्ति तव वक्त्राणि विशन्ति ।

पदपरिचय:

  • “यथा” वाक्यांश:
    • क्रियापदम् = द्रवन्ति [ द्रु “द्रु गतौ”, पर. लट्. प्रपु. बहु. ]
    • वाक्यांश:
      • कर्तृपदम् = अम्बुवेगाः
      • सम्बन्ध-पदम् = नदीनाम्
    • कर्तृविशेषणम् = बहवः
    • कर्तृ-विशेषण-वाक्यांश:
      • कर्तृविशेषणम् = अभिमुखाः
      • कर्मपदम् = समुद्रम्
      • कर्मविशेषणम् = एव
    • सम्योजकपदम् = यथा
  • “तथा” वाक्यांश:
    • क्रियापदम् = विशन्ति [ विश् “विश प्रवेशने”, पर. लट्. प्रपु. बहु. ]
    • वाक्यांश:
      • कर्मपदम् = वक्त्राणि
      • सम्बन्ध-पदम् = तव
    • कर्मविशेषणम् = अभिविज्वलन्ति [ अभि + वि + ज्वल् “ज्वल दीप्तौ” + शतृ प्रत्यय:)
    • कर्तृपदम् = नरलोकवीराः
    • कर्तृविशेषणम् = अमी
    • सम्योजकपदम् = तथा

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।

तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥ २९ ॥

पदच्छेदः

यथा प्रदीप्तं ज्वलनं पतङ्गा: विशन्ति नाशाय समृद्धवेगाः तथा एव नाशाय विशन्ति लोकाः तव अपि वक्त्राणि समृद्धवेगाः ॥ २९ ॥

अन्वयः

यथा समृद्धवेगाः पतङ्गा: प्रदीप्तं ज्वलनं नाशाय विशन्ति तथा एव समृद्धवेगाः लोकाः तव वक्त्राणि अपि नाशाय विशन्ति ।

पदपरिचय:

  • “यथा” वाक्यांश:
    • क्रियापदम् = विशन्ति [ विश् “विश प्रवेशने”, पर. लट्. प्रपु. बहु. ]
    • सम्प्रदानपदम् = नाशाय
    • कर्मपदम् = ज्वलनम्
    • कर्मविशेषणम् = प्रदीप्तम्
    • कर्तृपदम् = पताः
    • कर्तृविशेषणम् = समृद्धवेगाः
    • सम्योजकपदम् = यथा
  • तथा वाक्यांश:
    • क्रियापदम् = विशन्ति [ विश् “विश प्रवेशने”, पर. लट्. प्रपु. बहु. ]
    • सम्प्रदानपदम् = नाशाय
    • वाक्यांश:
      • कर्मपदम् = वक्त्राणि
      • सम्बन्ध-पदम् = तव
      • कर्मविशेषण-सूचक-पदम् = अपि
    • कर्तृपदम् = लोकाः
    • कर्तृविशेषणम् = समृद्धवेगाः
    • वाक्यांश:
      • सम्योजकपदम् = तथा
      • सम्योजकपदम् = एव

लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।

तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ३० ॥

पदच्छेदः

लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैः ज्वलद्भिः तेजोभिः आपूर्य जगत् समग्रं भासः तव उग्राः प्रतपन्ति विष्णो ॥ ३० ॥

अन्वयः

ज्वलद्भिः वदनैः समग्रान् लोकान् समन्तात् ग्रसमानः लेलिह्यसे । विष्णो ! तव उग्राः भासः तेजोभिः आपूर्य समग्रं जगत् प्रतपन्ति ।

पदपरिचय:

  • सम्बोधनपदम् = विष्णो
  • प्रथमवाक्यम्
    • क्रियापदम् = लेलिह्यसे [ लिह् “लिह आस्वादने” उभ. यडन्त: लट्. मपु. एक. | सामान्य लट् लकार रूपम् – लिहति / लिहते ]
    • कर्मपदम् = लोकान्
    • कर्मविशेषणम् = समग्रान्
    • करणवाचकपदम् = वदनैः
    • करणविशेषणम् = ज्वलद्भिः
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = ग्रसमानः [ ग्रस् “ग्रस ग्रहणे” + शानच् प्रत्यय: ]
      • क्रियाविशेषणम् = समन्तात्
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = प्रतपन्ति [ प्र + तप् “तप सन्तापे” पर. लट्. प्रपु. बहु. ]
    • कर्मपदम् = जगत्
    • कर्मविशेषणम् = समग्रम्
    • वाक्यांश:
      • कर्तृपदम् = भासः
      • सम्बन्ध-पदम् = तव
    • कर्तृविशेषणम् = उग्राः
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = आपूर्य
      • करणवाचकपदम् = तेजोभिः

आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद ।

विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥

पदच्छेदः

आख्याहि मे कः भवान् उग्ररूपः नमः अस्तु ते देववर प्रसीद विज्ञातुम् इच्छामि भवन्तम् आद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥

अन्वयः

देववर ! उग्ररूपः भवान् कः (इति) मे आख्याहि । ते नमः अस्तु । (त्वम्) प्रसीद । आद्यं भवन्तं विज्ञातुम् इच्छामि । तव प्रवृत्तिं न हि प्रजानामि ।

पदपरिचय:

  • सम्बोधनपदम् = देववर
  • प्रथमवाक्यम्
    • क्रियापदम् = आख्याहि [ आ + ख्या “ख्या प्रकथने” पर. लोट्. मपु. एक. ]
    • सम्प्रदानपदम् = मे (मह्यम्)
    • कर्म-वाक्यम्
      • प्रश्नवाचकपदम् = कः
      • कर्तृपदम् = भवान्
      • कर्तृविशेषणम् = उग्ररूपः
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = अस्तु [ अस् “अस भुवि” पर. लोट्. प्रपु. एक. ]
    • सम्प्रदानपदम् = ते (तुभ्यम्)
    • कर्तृपदम् = नमः
  • तृतीयवाक्यम्
    • क्रियापदम् = प्रसीद [ प्र + सद् “षदॢ विशरणगत्यवसादनेषु” पर. लोट्. मपु. एक. ]
    • कर्तृपदम् = (त्वम्)
  • चतुर्थवाक्यम्
    • क्रियापदम् = इच्छामि [ इष “इष इच्छायाम्” पर. लट्. उपु. एक. ]
    • वाक्यांश:
      • तुमुनन्तपदम् =विज्ञातुम्
      • कर्मपदम् =भवन्तम्
      • कर्मविशेषणम् =आद्यम्
    • कर्तृपदम् = (अहम्)
  • पञ्चमवाक्यम्
    • क्रियापदम् = प्रजानामि [ प्र + ज्ञा “ज्ञा अवबोधने” पर. लट्. उपु. एक. ]
    • क्रियाविशेषणम् = न
    • क्रियाविशेषणम् = हि
    • वाक्यांश:
      • कर्मपदम् =प्रवृत्तिम्
      • सम्बन्ध-पदम् = तव
    • कर्तृपदम् = (अहम्)

श्रीभगवानुवाच –

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः ।

ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥

पदच्छेदः

कालः अस्मि लोकक्षयकृत् प्रवृद्धः लोकान् समाहर्तुम् इह प्रवृत्तः ऋते अपि त्वां न भविष्यन्ति सर्वे ये अवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥

अन्वयः

लोकक्षयकृत् प्रवृद्धः कालः अस्मि । लोकान् समाहर्तुम् इह प्रवृत्तः । त्वाम् ऋते प्रत्यनीकेषु ये अवस्थिताः योधाः सर्वे अपि न भविष्यन्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =अस्मि [ अस् “अस भुवि” पर. लट्. उपु. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = कालः
    • कर्तृविशेषणम् = प्रवृद्धः
    • कर्तृविशेषणम् = लोकक्षयकृत्
    • कर्तृपदम् = (अहम्)
  • द्वितीयवाक्यम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = प्रवृत्तः [ प्र + वृत् “वृतु वर्तने” ]
      • वाक्यांश:
        • तुमुनन्तपदम् =समाहर्तुम्
        • कर्मपदम् = लोकान्
      • स्थानवाचकपदम् = इह
    • कर्तृपदम् = (अहम्)
  • तृतीयवाक्यम्
    • क्रियापदम् = भविष्यन्ति [ भू “भू सत्तायाम्”, पर. लृट्. प्रपु. बहु. ]
    • क्रियाविशेषणम् =न
    • कर्तृपदम् = योधाः
    • कर्तृविशेषणम् = सर्वे
    • कर्तृ-विशेषण-सूचक-पदम् = अपि
    • कर्तृ-विशेषण-वाक्यांश:
      • कर्तृपदम् =अवस्थिताः
      • कर्तृविशेषणम् =ये
      • अधिकरणपदम् = प्रत्यनीकेषु
    • वाक्यांश:
      • सम्योजकपदम् = ऋते
      • कर्मपदम् =त्वाम्

तस्मात्त्वमुत्ति यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् ।

मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥

पदच्छेदः

तस्मात् त्वम् उत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् मया एव एते निहताः पूर्वम् एव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥

अन्वयः

सव्यसाचिन् ! तस्मात् त्वम् उत्तिष्ठ | यशः लभस्व । शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व । एते मया एव पूर्वम् एव निहताः । निमित्तमात्रं भव ।

पदपरिचय:

  • सम्बोधनपदम् = सव्यसाचिन्
  • प्रथमवाक्यम्
    • क्रियापदम् = उत्तिष्ठ [ उत् + स्था “ष्ठा गतिनिवृत्तौ” पर. लोट्. मपु. एक. ]
    • कारणवाचकपदम् = तस्मात्
    • कर्तृपदम् = त्वम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = लभस्व [ लभ् “डुलभष् प्राप्तौ” आ. लोट्. मपु. एक. ]
    • कर्मपदम् = यशः
    • कर्तृपदम् = (त्वम्)
  • तृतीयवाक्यम्
    • क्रियापदम् = भुङ्क्ष्व [ भुङ्क् “भुज पालनाभ्यवहारयो:” उभ. लोट्. मपु. एक. ]
    • कर्मपदम् =राज्यम्
    • कर्मविशेषणम् =समृद्धम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् =जित्वा
      • कर्मपदम् =शत्रून्
    • कर्तृपदम् = (त्वम्)
  • चतुर्थवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= निहताः [ नि + हन् “हन हिंसागत्यो:” ]
    • (कर्मणि) कर्मपदम् =एते
    • वाक्यांश:
      • (कर्मणि) कर्तृपदम् =मया
      • कर्तृविशेषणम् =एव
    • वाक्यांश:
      • कालवाचकपदम् = पूर्वम्
      • कालवाचकविशेषणम् =एव
    • पञ्चमवाक्यम् ।
      • क्रियापदम् = भव [ भू “भू सत्तायाम्”, पर. लोट्. मपु. एक. ]
      • कर्तृ-विशेषण-सूचक-पदम् = निमित्तमात्रम्
      • कर्तृपदम् = (त्वम्)

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् ।

मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥

पदच्छेदः

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा अन्यान् अपि योधवीरान् मया हतान् त्वं जहि मा अव्यथिष्ठा: युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥

अन्वयः

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथा अन्यान् अपि योधवीरान् मया हतान् त्वं जहि । मा व्यथिष्ठा: । युध्यस्व । रणे सपत्नान् जेतासि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = जहि [ हन् “हन हिंसायाम्” पर. लोट्. मपु. एक. | प्र.पु – हन्तु / हतात्, हतां, घ्नन्तु ]
    • कर्तृपदम् = त्वम्
    • कर्म-विशेषण-सूचक-वाक्यांश:
      • कर्मपदम् = हतान्
      • करणवाचकपदम् = मया
    • कर्मपदम् = द्रोणम्
    • कर्मपदम् = भीष्मम्
    • कर्मपदम् = जयद्रथम्
    • कर्मपदम् = कर्णम्
    • वाक्यांश:
      • कर्मपदम् = योधवीरान्
      • कर्मविशेषणम् = अन्यान्
      • कर्म-विशेषण-सूचक-पदम् = अपि
      • सम्योजकपदम् = तथा
      • सम्योजकपदम् = च
    • द्वितीयवाक्यम्
      • क्रियापदम् = अव्यथिष्ठा: [ व्यथ “व्यथ भयसञ्चलनयो:” आ. लुङ्. मपु. एक. | प्रपु. रूपम् – अव्यथिष्ट, अव्यथिषाताम्, अव्यथिषत ] (मा व्यथिष्ठा: – माङ: योगात् अकारस्य लोप:)
      • क्रियाविशेषणम् = मा
      • कर्तृपदम् = (त्वम्)
    • तृतीयवाक्यम्
      • क्रियापदम् = युध्यस्व [ युध् “यध संहारे” आ. लोट्. मपु. एक. ]
      • कर्तृपदम् = (त्वम्)
    • चतुर्थवाक्यम्
      • क्रियापदम् = जेतासि [ जि “जि अभिभवे”, पर. लुट्. मपु. एक. | प्र.पु. रूपम् – जेता, जेतारौ, जेतार: ]
      • कर्मपदम् =सपत्नान्
      • कर्तृपदम् = (त्वम्)
      • अधिकरणपदम् = रणे

सञ्जय उचाच –

एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।

नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥

पदच्छेदः

एतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिः वेपमानः किरीटी नमस्कृत्वा भूय: एव आह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥

अन्वयः

किरीटी केशवस्य एतत् वचनं श्रुत्वा कृताञ्जलिः वेपमानः भीतभीतः कृष्णं नमस्कृत्वा सगद्गदं भूयः एव प्रणम्य आह ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = आह [ ब्रू “ब्रूञ् व्यक्तायां वाचि” पर. लट्. प्रपु. एक. ]
      प्रथम पुरुष रूपाणि – ब्रवीति / आह, ब्रूत: / आहतु:, ब्रुवन्ति / आहु: |
    • क्रियाविशेषणम् = सगद्गदम्
    • कर्तृपदम् = किरीटी
    • कर्तृविशेषणम् = कृताञ्जलिः
    • कर्तृविशेषणम् = वेपमानः
    • कर्तृविशेषणम् = भीतभीतः
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = श्रुत्वा
      • वाक्यांश:
        • कर्मपदम् = वचनम्
        • कर्मविशेषणम् = एतत्
        • सम्बन्ध-पदम् = केशवस्य
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = नमस्कृत्वा
        • कर्मपदम् = कृष्णम्
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = प्रणम्य
        • क्रियाविशेषणम् =भूयः
        • क्रियाविशेषणम् =एव

The word नमस् optionally gets to be treated as a gati (i.e., गतिसंज्ञा). Such गतिसंज्ञक words are attached to  धातुs, just like उपसर्गा: | And in presence of the words which are termed as gatis (गति: ) as well as the words which are upasargas (उपसर्गा: ), instead of क्त्वा pratyaya, the  ल्यप् pratyaya is applied. So we have नमस् + कृ + ल्यप् = नमस्कृत्य ।  In the other case, when it is not treated as a Gati, then by directly joining with krutvaa, we get नमस्कृत्वा |

अर्जुन उवाच –

स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च ।

रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ३६ ॥

पदच्छेदः

स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च रक्षांसि भीतानि दिशः द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥

अन्वयः

हृषीकेश ! तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च । रक्षांसि भीतानि दिशः द्रवन्ति । सर्वे सिद्धसङ्घाः च नमस्यन्ति ।  (एतद् सर्वं) स्थाने ।

पदपरिचय:

  • सम्बोधनपदम् = हृषीकेश
  • प्रथमवाक्यम्
    • क्रियापदम् = प्रहृष्यति [ प्र + हृष् “हृष तुष्टौ” पर. लट्. प्रपु. एक. ]
    • क्रियापदम् = अनुरज्यते [ अनु + रञ्ज “रञ्ज रागे” उभ. लट्. प्रपु. एक. ]
    • सम्योजकपदम् = च
    • वाक्यांश:
      • कारणवाचकपदम् = प्रकीर्त्या
      • सम्बन्ध-पदम् = तव
    • कर्तृपदम् = जगत्
  • द्वितीयवाक्यम्
    • क्रियापदम् = द्रवन्ति [ द्रु “द्रु गतौ”, पर. लट्. प्रपु. बहु. ]
    • कर्तृपदम् = रक्षांसि
    • कर्तृविशेषणम् = भीतानि
    • स्थानवाचकपदम् = दिशः
  • तृतीयवाक्यम्
    • क्रियापदम् = नमस्यन्ति [ नमस्य, नमस् + क्यच् – क्यजन्त: नामधातु: | पर. लट्. प्रपु. बहु. ]
    • कर्तृपदम् = सिद्धसङ्घाः
    • कर्तृविशेषणम् = सर्वे
    • सम्योजकपदम् = च
  • चतुर्थवाक्यम्
    • क्रियापदम् = (अस्ति)
    • क्रियाविशेषणम् = स्थाने [ अव्ययम् ]
    • कर्त्रुपदम् = (एतद् सर्वं)

कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।

अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥

दच्छेदः

कस्मात् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणः अपि आदिकर्त्रे अनन्त देवेश जगन्निवास त्वम् अक्षरं सत् असत् तत्परं यत् ॥ ३७ ॥

अन्वयः

महात्मन् ! ब्रह्मणः अपि गरीयसे, आदिकर्त्रे, ते कस्मात् च (सर्वे) न नमेरन् ? अनन्त देवेश जगन्निवास ! त्वं सत् असत् (च) तत्परं यत् अक्षरम् (तदपि) ।

पदपरिचय:

  • सम्बोधनपदम् = महात्मन्
  • प्रथमवाक्यम्
    • क्रियापदम् = नमेरन्[ नम् “णम प्रह्वत्वे शब्दे च” (अत्र आ. आर्ष:) पर. विधिलिङ्. प्रपु. बहु. | प्रपु. रूपम् – नमेत्, नामेताम्, नमेयु: ]
    • क्रियाविशेषणम् = न
    • वाक्यांश:
      • सम्प्रदानपदम् = गरीयसे
      • वाक्यांश:
        • अपादानपदम् = ब्रह्मणः
        • अपादानविशेषणम् = अपि
      • सम्प्रदानपदम् = आदिकर्त्रे
      • सम्प्रदानपदम् = ते (तुभ्यम्)
      • प्रश्नवाचकपदम् = कस्मात्
      • सम्योजकपदम् = च
      • कर्तृपदम् = (सर्वे) – पूर्वस्मिन् श्लोके उक्तम्
    • सम्बोधनपदम् = अनन्त
    • सम्बोधनपदम् = देवेश
    • सम्बोधनपदम् = जगन्निवास
    • द्वितीयवाक्यम्
      • क्रियापदम् = (असि)
      • कर्तृ-विशेषण-सूचक-पदम् = सत्
      • कर्तृ-विशेषण-सूचक-पदम् = असत्
      • कर्तृ-विशेषण-सूचक-पदम् = अक्षरम्
      • कर्तृ-विशेषण-सूचक-वाक्यांश:
        • कर्तृपदम् = तत्परम्
        • कर्तृविशेषणम् = यत्
      • कर्तृपदम् = त्वम्

References –

  1. 5th Dec 2015 दिनाङ्के नारायण नम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6my विश्वरूपदर्शनयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site

Page status – <Some updates are pending>

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s