Grammatical aspects in Bhaja Govindam verse 29 – Arthamanartham bhaavaya nityam

29. अर्थमनर्थं भावय नित्यम् – “भज गोविन्दम्” श्लोके स्थिता: केचित् व्याकरणविषयाः

 श्लोक:

अर्थमनर्थं भावय नित्यं

नास्ति ततः सुखलेशः सत्यम् |

पुत्रादपि धनभाजां भीतिः

सर्वत्रैषा विहिता रीतिः ।।२९।।

पदच्छेद:

अर्थं अनर्थं भावय नित्यं न अस्ति ततः सुख+लेशः सत्यं पुत्रात् अपि धन+भाजां भीतिः सर्वत्र एषा विहिता रीतिः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =भावय [ भू “भू सत्तायाम्” + णिजन्त: पर. लोट्. मपु. एक. ]
    • क्रियाविशेषणम् =नित्यम् [ अव्ययम् ]
    • कर्मविशेषण-सूचक-पदम् = अनर्थम् [ अ. पु. द्वि. एक. ]
    • कर्मपदम् =अर्थम् [ अ. पु. द्वि. एक. ]
    • कर्तृपदम् = (तवम्)
  • द्वितीयवाक्यम्
    • कर्तृपदम् = सत्यम् [ अ. नपुं. प्र. एक. ]
    • कर्म-वाक्यम्
      • क्रियापदम् = अस्ति [ अस् “अस भुवि” पर. लट्. प्रपु. एक. ]
      • क्रियाविशेषणम् = न [ अव्ययम् ]
      • कर्तृपदम् = सुख+लेशः [ अ. पुं. प्र. एक. ]
      • अपादानपदम् = ततः [ अव्ययम् ]
    • सम्योजकपदम् = (इति)

तृतीयवाक्यम्

  • वाक्यांश:
    • कर्तृपदम् = भीतिः [ इ. स्त्री. प्र. एक. ]
    • सम्बन्ध-विशेषण-पदम् = धन+भाजां [ अ. पुं. ष. बहु. ]
  • अपादानपदम् = पुत्रात् [ अ. पुं. प. एक. ]
  • अपादानविशेषणम् = अपि [ अव्ययम् ]
  • चतुर्थवाक्यम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् =रीतिः [ इ. स्त्री. प्र. एक. ]
      • कर्तृविशेषणम् =विहिता [ आ. स्त्री. प्र. एक. ]
    • कर्तृपदम् =एषा [ एतद् द. स्त्री. प्र. एक. ]
    • स्थानवाचकपदम् = सर्वत्र [ अव्ययम् ]

अन्वय:

अर्थं अनर्थं नित्यं भावय | ततः सुख+लेशः न  अस्ति (इति) सत्यम् | पुत्रात् अपि धन+भाजां भीतिः (भवति) | सर्वत्र एषा विहिता रीतिः (भवति) ।

सार:

अर्थं अनर्थस्य कारणं भवति | तत: सुखलेशोऽपि न लभ्यत इत्येव सत्यम् | धनभाजां स्वपुत्रादपि भीति: वर्त्तते | सर्वत्र एषा रीति: विहिता | ईदृशी रीति: लोके दृष्टा इत्यर्थ: |

व्याकरणम्

  • सन्धि:
    • नास्ति = न + अस्ति – सवर्णदीर्घसन्धि: |
    • पुत्रादपि = पुत्रात् + अपि – जश्त्वसन्धि: |
    • सर्वत्रैषा = सर्वत्र + एषा – गुणसन्धि: |
  • विग्रह:
    • सुख+लेशः = सुखस्य लेश: सुखलेश: – षष्ठीतत्पुरुष: |
    • धन+भाजाम् = धनं भजन्ति इति धनभाज: | तेषाम् |

Arthamanarthaṁ bhāvaya nityaṁ
nāsti tataḥ sukhalēśaḥ satyam |
putrādapi dhanabhājāṁ bhītiḥ
sarvatraiṣā vihitā rītiḥ || 29 ||

Be assured that wealth is a source of danger. There is not a bit of real happiness. Even the son is suspected by one who possesses wealth. He is ever in a state of terror. There is no exception to this state of affairs.

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s